Digital Sanskrit Buddhist Canon

द्वात्रिंशतिमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvātriṁśatimaḥ
३२

२९७. दानेन प्रेतगति छिन्दति बोधिसत्त्वो

दारिद्रकं च छिनती तथ सर्वक्लेशान्।

भोगांश्चनन्तविपुलां लभते चरन्तो

दानेन सत्त्व परिपाचयि कृच्छ्रप्राप्तान्॥१॥



२९८. शीलेन तीर्यगति वर्जयि नेकरुपा-

मष्टौ च अक्षण क्षणां लभते स नित्यम्।

क्षान्तीय रुप लभते परमं उदारं

सुवर्णच्छवि प्रियु जगस्य उदीक्षणीयो॥२॥



२९९. वीर्येण शुक्लगुण हानि न अभ्युपैति

ज्ञानं अनन्त लभते जिनकोशगञ्जम्।

ध्यानेन कामगुण उत्सृजते जुगुप्स्यान्

विद्या अभिज्ञ अभिनिर्हरते समाधिम्॥३॥



३००. प्रज्ञाय धर्मप्रकृती परिजानयित्वा

त्रैधातुकान्त समतिक्रमते अपायान्।

वर्तित्व चक्ररतनं पुरुषर्षभाणां

देशेति धर्म जगती दुखसंक्षयाये॥४॥



३०१. परिपूरयित्व इमि धर्म स बोधिसत्त्वो

अपि क्षेत्रशुद्धि परिगृह्णति सत्त्वशुद्धिम्।

अपि बुद्धवंश परिगृह्णति धर्मवंशं

तथ संघवंश परिगृह्णति सर्वधर्मान्॥५॥



३०२. वैद्योत्तमो जगति रोगचिकित्सकारी

प्रज्ञोपदेश कथितो अयु बोधिमार्गो।

नामेन रत्नगुणसंचय बोधिमार्गः

तं सर्वसत्त्व इतु मार्गतु प्राप्नुवन्ति॥६॥



भगवत्यां रत्नगुणसंचयगाथायां परीन्दनापरिवर्तो नाम द्वात्रिंशतिमः॥



[आचार्यहरिभद्रकृता प्रशस्तिः।]

लोकं प्रापयितुं सुखेन पदवीं संपद्दूयावाहिनीं

कारुण्याहितचेतसा भगवता बुद्धेन संदीपितम्।

श्रुत्वा तेऽखिलधर्मतत्त्वनिलयं सूत्रं समादानतो

गत्वा स्थानमहर्निशं निजमलं ध्मायन्तु येऽभ्यागताः॥१॥



कालेऽस्मिन् बहुदृष्टिसंकुलकलौ पाठेऽपि दूरं गते

गाथाभेदमनेकपुस्तकगतं दृष्ट्वाधुना न्यायतः।

कूपं वादिगजेन्द्रकुम्भदरणे भद्रेण या शोधिता

लोकार्थं हरिणा मया सुविहिता सेयं बुधैर्गृह्यताम्॥२॥



आर्याष्टसाहस्रिकाया भगवत्याः प्रज्ञापारमितायाः परिवर्तानुसारेण भगवती रत्नगुणसंचयगाथा समाप्ता॥



ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवं वादी महाश्रमणः॥



[लेखकप्रशस्तिः।]

योऽसौ धर्मं सुगतगदितं पठते भक्तिभावा-

न्मात्राहीनं कथमपि पदं पादगाथाक्षरं वा।

जिह्वादोषैः पवनचरितैः श्लेष्मदोषप्रचारै-

र्यूयं बुद्धाः सुभवनगता बोधिसत्त्वाः क्षमध्वम्॥

समाप्तम्। शुभम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project