Digital Sanskrit Buddhist Canon

एकत्रिंशतिमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekatriṁśatimaḥ
३१



२७९. शीलेन उद्गत भवन्ति समाधिकाङ्क्षी

स्थित गोचरे दशबलान अखण्डशीलाः।

यावन्ति संवरक्रिय अनुवर्तयन्ति

तां सर्वसत्त्वहित बोधयि नामयन्ति॥१॥



२८०. सचि प्रत्ययानरहबोधि स्पृहां जनेति

[दुःशील भोति] विदुषां तथ छिद्रचारी।

अथ बोधि उत्तमशिवां परिणामयन्ति

स्थितु शीलपारमित कामगुणेभि युक्तो॥२॥



२८१. यो धर्म बोधिगुणआगमु सूरतानां

सो शील‍अर्थु गुणधर्मसमन्वितानाम्।

यो धर्म बोधिगुणहानि हितंकराणां

दुःशीलता अयु प्रकाशितु नायकेन॥३॥



२८२. यदि पञ्च कामगुण भुञ्जति बोधिसत्त्वो

बुद्धं च धर्म शरणागतु आर्यसंघम्।

सर्वज्ञता च मनसी भविष्यामि बुद्धो

स्थितु शीलपारमित वेदयितव्य विज्ञो॥४॥



२८३. यदि कल्पकोटि दशभी कुशलैः पथेभि-

श्चरमाणु प्रत्ययरहत्वस्पृहां जनेति।

तद खण्डशीलु भवते अपि छिद्रशीलो

पाराजिको गुरुतरो अयु चित्तुपादो॥५॥



२८४. रक्षन्तु शील परिणामयि अग्रबोधिं

न च तेन मन्यति न आत्मन कर्षयेथा।

अहुसंज्ञता च परिवर्जित सत्त्वसंज्ञा

स्थितु शीलपारमिति वुच्यति बोधिसत्त्वो॥६॥



२८५. यदि बोधिसत्त्व चरमाणु जिनान मार्गे

इमि शीलवानिमि दुशील करोति सत्त्वान्।

नानात्वसंज्ञप्रसृतो परमं दुशीलो

अपि छिद्रशीलु न तु सो परिशुद्धशीलो॥७॥



२८६. यस्यो न अस्ति अहसंज्ञ न सत्त्वसंज्ञा

संज्ञाविरागु कुतु तस्य असंवरोऽस्ति।

यस्यो न संवरि असंवरि मन्यनास्ति

अयु शीलसंवरु प्रकाशितु नायकेन॥८॥



२८७. यो एवशीलसमन्वागतु निष्प्रपञ्चो

अनपेक्षको भवति सर्वप्रियाप्रियेषु।

शिरहस्तपाद त्यजमान अदीनचित्तो

सर्वास्तित्यागि भवते सततं अलीनो॥९॥



२८८. ज्ञात्वा च धर्मप्रकृतीं वशिका निरात्म्यं

आत्मान मांस त्यजमानु अदीनचित्तो।

प्रागेव वस्तु तद बाहिर नात्यजेया

अस्थानमेत यदि मत्सरि सो करेया॥१०॥



२८९. अहसंज्ञतस्तु ममता भवते च रागो

कुतु त्यागबुद्धि भविष्यति सा मुहानाम्।

मात्सर्य प्रेत भवते उपपद्ययाती

अथवा मनुष्य तद भोति दरिद्ररूपो॥११॥



२९०. तद बोधिसत्त्व इमि ज्ञात्व दरिद्रसत्त्वान्

दानाधिमुक्त भवती सद मुक्तत्यागी।

चत्वारि द्वीपि समलंकृतु खेटतुल्यं

दत्त्वा उदग्र भवते न हि द्वीपलब्धो॥१२॥



२९१. दानं ददित्व विदु पण्डितु बोधिसत्त्वो

यावन्ति सत्त्व त्रिभवे समन्वाहरित्वा।

सर्वेषु तेषु भवते अयु दत्तदानं

तं चाग्रबोधि परिणामयते जगार्थम्॥१३॥



२९२. न च वस्तुनिश्रयु करोति ददित्व दानं

विदु पाकु नैव प्रतिकाङ्क्षति सो कदाचित्।

एवं त्यजित्व भवते विदु सर्वत्यागी

अल्पं त्यजित्व लभते बहु अप्रमेयम्॥१४॥



२९३. यावन्त सत्त्व त्रिभवे निखिलेन अस्ति

ते सर्वि दान ददयन्ति अनन्तकल्पान्।

बुद्धानुलोकि विदु नार्हतिप्रत्ययानां

यावन्ति श्रावकगुणान् परिकल्प स्थाने॥१५॥



२९४. यश्चो उपायकुशलो विदु बोधिसत्त्वो

तेषां स पुण्यक्रियवस्त्वनुमोदयित्वा।

सत्त्वार्थ अग्रवरबोधयि नामयेया

अभिभोति सर्वजगती परिणामयुक्तो॥१६॥



२९५. काचस्य वा मणिन राशि सिया महन्तो

वैडूर्यरत्न अभिभोति स सर्व एको।

एमेव सर्वजगती पृथु दानस्कन्धो

अभिभोति सर्वपरिणामकु बोधिसत्त्वो॥१७॥



२९६. यदि बोधिसत्त्व ददमान जगस्य दानं

ममतां न तत्र करयेन्न च वस्तुप्रेम।

ततु वर्धते कुशलमूल महानुभावो

चन्द्रो व तत्र प्रभमण्डलु शुक्लपक्षे॥१८॥



भगवत्यां रत्नगुणसंचयगाथायां धर्मोद्गतपरिवर्तो नामैकत्रिंशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project