Digital Sanskrit Buddhist Canon

प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Prathamaḥ
रत्नगुणसंचयगाथा।



ॐ नमो भगवत्यै आर्यप्रज्ञापारमितारत्नगुणसंचयगाथायै।

नमो आर्यमञ्जुश्रिये।



अथ खलु भगवांस्तासां चतसृणां पर्षदां संप्रहर्षणार्थं पुनरपीमां प्रज्ञापारमितां परिदीपयमानस्तस्यां वेलायामिमा गाथा अभाषत-



१. पर प्रेम गौरव प्रसाद उपस्थपित्वा

प्रजहित्व आवरण क्लेशमलातिक्रान्ताः।

शृणुता जगार्थमभिप्रस्थित सुर(व्र ?)तानां

प्रज्ञाय पारमित यत्र चरन्ति शूराः॥१॥



२. यावन्ति नद्य प्रवहन्तिह जम्बुद्वीपे

फल पुष्प औषधा(धि) वनस्पति रोहयन्ति।

भूज(त) गजेन्द्रनागपतिनिश्रयनोवत(न)स्य(?)

तस्यानुभावश्रिय साभु जगाधिपस्य॥२॥



३. यावन्ति धर्म जिनश्रावक देशयन्ति

भाषन्ति युक्तिसहितांश्च उदीरयन्ति।

परमार्थसौख्यक्रिय तत्फलप्राप्तिता च

सर्वो अयं पुरुषकारु तथागतस्य॥३॥



४. किं कारणं य जिन भाषति धर्मनेत्रीं

तत्राभिशिक्षित नरर्षभशिष्यभूताः।

साक्षात्करित्व यथ शिक्षित देशयन्ति

बुद्धानुभाव पुन आत्मबलानुभावा॥४॥



५. यस्मिन्न प्रज्ञवरपारमितोपलब्धिः

न च बोधिसत्त्व‍उपलब्धि न चित्तबोधेः।

एवं श्रुणित्व न च मुह्यति नास्ति त्रासो

सो बोधि(स)त्त्व चरते सुगतान प्रज्ञाम्॥५॥



६. न च रुप वेदन न संज्ञ न चेतना च

विज्ञान स्थानु अणुमात्र न भोन्ति तस्य।

सो सर्वधर्म‍अस्थितो अनिकेतचारी

अपरी(रि)गृहीत लभते सुगतान बोधिम्॥६॥



७. अथ श्रेणिकस्य अभुती परिव्राजकस्य

ज्ञानोपलम्भु न हि स्कन्धविभावना च।

यो बोधिसत्त्व परिजानति एव धर्मां

न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम्॥७॥



८. व्युपरीक्षते पुनरयं कतरेषु प्रज्ञा

कस्मात्कुतो व इमि शून्यक सर्व धर्माः।

व्युपरीक्षमाणु न च लीयति नास्ति त्रासो

आसन्नु सो भवति बोधयि बोधिसत्त्वो॥८॥



९. सचि रुप संज्ञ अपि वेदन चेतना च

विज्ञान स्कन्ध चरती अप्रजानमानो।

इमि स्कन्ध शून्य परिकल्पयि बोधिसत्त्वो

चरती निमित्त‍अनुपादपदे असक्तो॥९॥



१०. न च रुप वेदन न संज्ञ न चेतनाया

विज्ञानि यो न चरती अनिकेतचारी।

चरतीति सो न उपगच्छति प्रज्ञधारी

अनुपादधी स्पृशति शान्ति समाधि श्रेष्ठाम्॥१०॥



११. एवात्मशान्ति विहरन्निह बोधिसत्त्वो

सो व्याकृतो पुरमकेहि तथागतेहि।

न च मन्यते अहु समाधितु व्युत्थितो वा

कस्मार्थ धर्मप्रकृतिं परिजानयित्वा॥११॥



१२. एवं चरन्तु चरती सुगतान प्रज्ञां

नो चापि सो लभति यत्र चराति धर्मम्।

चरणं च सो अचरणं च प्रजानयित्वा

एषा स प्रज्ञवरपारमिताय चर्या॥१२॥



१३. योऽसौ न विद्यति स एष अविद्यमानो

तां बालु कल्पयि अविद्य करोति विद्याम्।

विद्या अविद्य उभि एति असन्त धर्मा

निर्याति यो इति प्रजानति बोधिसत्त्वो॥१३॥



१४. मायोपमां य इह जानति पञ्च स्कन्धां

न च माय अन्य न च स्कन्ध करोति अन्यान्।

नानात्वसंज्ञविगतो उपशान्तचारी

एषा स प्रज्ञवरपारमिताय चर्या॥१४॥



१५. कल्याणमित्रसहितस्य विपश्यकस्य

त्रासो न भेष्यति श्रुणित्व जिनान मात्राम्।

यो पापमित्रसहितो च परप्रणेयो

सो आमभाजन यथोदकस्पृष्ट भिन्नो॥१५॥



१६. किं कारणं अयु प्रवुच्यति बोधिसत्त्वो

सर्वत्र सङ्गक्रिय इच्छति सङ्गछेदी।

बोधिं स्पृशिष्यति जिनान असङ्गभूतां

तस्माद्धि नाम लभते अयु बोधिसत्त्वो॥१६॥



१७. महसत्त्व सोऽथ केनोच्यति कारणेन

महताय अत्र अयु भेष्यति सत्त्वराशेः।

दृष्टीगतां महति छिन्दति सत्त्वधातोः

महसत्त्व तेन हि प्रवुच्यति कारणेन॥१७॥



१८. महनायको महतबुद्धि महानुभावो

महयान उत्तमजिनान समाधिरूढो।

महता सनद्धु नमुचिं शठ धर्षयिष्ये

महसत्त्व तेन हि प्रवुच्यति कारणेन॥१८॥



१९. मायाकरो यथ चतुष्पथि निर्मिणित्वा

महतो जनस्य बहु छिन्दति शीर्षकोटी।

यथ ते च माय तथ जानति सर्वसत्त्वां

निर्माणु सर्व जगतो न च तस्य त्रासो॥१९॥



२०. रुपं च संज्ञ अपि वेदन चेतना च

विज्ञान बन्धु न च मुक्त असङ्गभूतो।

एवं च बोधि क्रमते न च लीनचित्तो

संना ह एष वरपुद्गल‍उत्तमानाम्॥२०॥



२१. किं कारणं अयु प्रवुच्यति बोधियानो

यत्रारुहित्व स निर्वापयि सर्वसत्त्वान्।

आकाशतुल्य अयु यान महाविमानो

सुखसौख्यक्षेमभिप्रापणु यानश्रेष्ठो॥२१॥



२२. न च लभ्यते य व्रजते दिश आरुहित्वा

निर्वाण‍ओकगमनं गति नोपलब्धिः।

यथ अग्नि निर्वृतु न तस्य गतिप्रचारो

सो तेन निर्वृति प्रवुच्यति कारणेन॥२२॥



२३. पूर्वान्ततो न उपलभ्यति बोधिसत्त्वो

अपरान्ततोऽपि प्रति‍उपन्न त्रियध्वशुद्धो।

यो शुद्ध सो अनभिसंस्कृतु निष्प्रपञ्चो

एषा स प्रज्ञवरपारमिताय चर्या॥२३॥



२४. यस्मिंश्च कालि समये विदु बोधिसत्त्वो

एवं चरन्तु अनुपादु विचिन्तयित्वा।

महतीं जनेति करुणां न च सत्त्वसंज्ञा

एषा स प्रज्ञवरपारमिताय चर्या॥२४॥



२५. सचि सत्त्वसंज्ञ दुखसंज्ञ उपादयाती

हरिष्यामि दुःख जगतीं करिष्यामि अर्थम्।

सो आत्मस(त्त्व) परिकल्पकु बोधिसत्त्वो

न च एष प्रज्ञवरपारमिताय चर्या॥२५॥



२६. यथ आत्मनं तथ प्रजानति सर्वसत्त्वां

यथ सर्वसत्त्व तथ प्रजानति सर्वधर्मान्।

अनुपादुपादु उभये अविकल्पमानो

एषा स प्रज्ञवरपारमिताय चर्या॥२६॥



२७. यावन्ति लोकि परिकीर्तित धर्मनाम

सर्वेषुपादसमतिक्रमु निर्गमित्वा।

अमृतं ति ज्ञानु परमं न तु यो परेण

एकार्थ प्रज्ञ अयु पारमितेति नामा॥२७॥



२८. एवं चरन्तु न च काङ्क्षति बोधिसत्त्वो

ज्ञातव्य यो विहर ते स उपायप्रज्ञो।

प्रकृती‍असन्त परिजानयमान धर्मां

एषा स प्रज्ञवरपारमिताय चर्या॥२८॥

भगवत्यां रत्नगुणसंचयगाथायां सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project