Digital Sanskrit Buddhist Canon

आर्य अद्वयशतिका प्रज्ञापारमिता सूत्र

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ārya advayaśatikā prajñāpāramitā sūtra
आर्य अद्वयशतिका प्रज्ञापारमिता सूत्र



नमो भगवत्यै आर्यप्रज्ञापारमितायै॥



एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरतिस्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैरनेकैर्ब्रह्मशक्रलोकपालैर्देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगैरूपासकोपासिकाभिः सार्धम्।



तत्र खलु भगवान् आयुष्मन्तं सुभूतिंमामन्त्रयते स्म। ये केचित् सुभूते श्रावकमार्गः शिक्षितुकामेन प्रज्ञापारमिता श्रोतव्या उद्‍गृहीतव्या धारयितव्या वाचयितव्या [देशयितव्या] पर्यवाप्तव्या। इहैव प्रज्ञापारमितायामुपायकौशल्य समन्वागतेन बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धधर्मसमुदागमाय योगः करणीयः। तत्कस्य हेतोः ? इह प्रज्ञापारमितायां विस्तरेण सर्वबुद्धधर्मा निर्दिष्टाः। यत्र बोधिसत्त्वेन शिक्षितव्यम्, ये केचित् सुभूते कुशलधर्मा बोधिपक्षाः श्रावकधर्मा वा प्रत्येक बुद्धधर्मा वा बोधिसत्वधर्मा वा बुद्धधर्मा वा। बोधिपक्षाः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्वधर्मास्त्वं ते प्रज्ञापारमितायामन्तर्गतामनुप्रविष्टाः संग्रहसमवसरणं गच्छन्ति। भगवानाह- तद्यथा सुभूते दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता। अध्यात्मशून्यता वहिर्धाशून्यता अध्यात्मवहिर्धाशून्यता शून्यता शून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्त शून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता। चत्वारि स्मृत्युपस्थानानि। चत्वारि सम्यक्‍प्रहाणानि। चत्वारि ऋद्धिपादानि। पञ्चेन्द्रियाणि। पञ्चबलानि। सप्तबोध्यङ्गानि। आर्याष्टाङ्गिकमार्गाः॥ चत्वारि ध्यानानि। चत्वारि प्रमाणानि। चतस्र आरूप्यसमापत्तयः। अष्टौ विमोक्षाः। नवानुपूर्वविहारसमापत्तयः। सर्वधारणीमुखानि। दशतथागतबलानि। चत्वारि वैशारद्यानि। चतस्रः प्रतिसंविदः। महमैत्री महाकरूणा। अष्टादशावेणिकबुद्धधर्माः श्रोतापत्तिफलं सकृदागामिफलं अनागामिफलं सर्वज्ञता च॥



इयमेव सुभूते कुशलधर्मा बोधिपक्षाः श्रावकधर्माः प्रत्येकबुद्धधर्माः। यत्र प्रज्ञापारमितायामन्तर्गता अनुप्रविष्टाः सग्रहसमवसरणं गच्छन्ति।



सुभूतिराह-अहो ! अहो ! दुरवगाहा वतेयं प्रज्ञापारमिता। यत्र हि नाम कुशलधर्मा बोधिपक्षाः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्वधर्मा बुद्धधर्मा इति। यतो प्रज्ञापारमितायामन्तर्गता अनुप्रविष्टाः संग्रहसमवसरणं गच्छन्ति।



भगवानाह - अत्यन्तमुक्तत्वात् सुभूते प्रज्ञापारमिता।

सुभूतिराह - अहो ! अहो ! दुरवगाहा वतेयं प्रज्ञापारमिता।

भगवानाह - अत्यन्तविशुद्धत्वात् सुभूते प्रज्ञापारमिता।

सुभूतिराह - अहो ! अहो ! दुरवगाहा वतेयं भगवन् प्रज्ञापारमिता।

भगवानाह - अत्यन्तशुद्धत्वात् सुभूते प्रज्ञापारमिता, तस्मात्तर्हि सुभूते आकाशोपमा प्रज्ञापारमिता।

सुभूतिराह - अहो ! अहो ! दुरवगाहा वतेय प्रज्ञापारमिता भगवन् अभियुक्तेन।

भगवानाह - एवमेव तद्यथा वदसि। दुरधिमोचा प्रज्ञापारमिता अनभियुक्तेन परीतकुशलमूलेन दुर्मेधस अनाविलेन सुभूतिना। नहि न यद्येन पापमित्रसहितेन पापमित्रसवर्गेण बहुलेन पापमित्रसमादायेन सद्धर्मान्तक समन्वागतेन आदिकर्मिकेण अत्यन्तरूपेण अपरिपृच्छकजातीयेन दुष्प्रज्ञसंवर्त्तनीयेन कुसीदेन हीनसत्वेन नाधिमुक्तेन कुशलेषु धर्मेषु अनभियुक्तेन तस्यैव हि सुभूते दुरधिमोचां प्रज्ञापारमितामुच्यते।



पुनरपरं सुभूते यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां गम्भीरां भाषन्ति धारयि वाचयि देशयि पर्यवाप्स्यन्ति सोऽतीतानागतप्रत्युत्पन्नानां भगवतां बुद्धबोधिं बोधिसत्त्वा धारयिष्यन्ति। तस्मात्तर्हि सुभूते अध्याशयेन भिक्षवोऽनुत्तरायां सम्यक्‍सम्बोधिकामेनाभिज्ञ्‍यप्रज्ञापारमिता उद्‍गृहीतव्या।



इदमवोचद् भगवान्नात्तमना सा च सर्वावती पर्वदीयं भगवतो भाषितमभिनन्दन्निति॥

अद्वयशतिका प्रज्ञापारमिता धारणी सूत्र समाप्ता॥०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project