Digital Sanskrit Buddhist Canon

३२ परीन्दनापरिवर्तो द्वात्रिंशत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 32 parīndanāparivarto dvātriṁśattamaḥ
३२ परीन्दनापरिवर्तो द्वात्रिंशत्तमः।



सहप्रतिलब्धानां च सुभूते षष्ट्याः समाधिमुखशतसहस्राणां सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि, दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि, विदिक्षु अध ऊर्ध्वं च दिशि दशसु दिक्षु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु गङ्गानदीवालुकोपमान् बुद्धान् भगवतः पश्यति स्म भिक्षुसंघपरिवृतान् बोधिसत्त्वगुणपुरस्कृतान् एतैरेव नयैरेभिरेव नामभिरेतैरेवाक्षरैरिमामेव प्रज्ञापारमितां भाषमाणान्। तद्यथापि नाम अहमेतर्हि अस्मिन्नेव त्रिसाहस्रमहासाहस्रे लोकधातौ धर्मं देशयामि भिक्षुसंघपरिवृतो बोधिसत्त्वगणपुरस्कृतः, एभिरेव नयैरेभिरेव नामभिरेभिरेवाक्षरैरिमामेव प्रज्ञापारमितां भाषे। सोऽचिन्त्येन बाहुश्रुत्येन श्रुतसागरतया च समन्वागतोऽभूत्, सर्वासु च जातिषु न जातु बुद्धविरहितोऽभूत्। यत्र यत्र बुद्धा भगवन्तः संमुखीभूता भवन्ति, तत्र तत्रोपपद्यते स्म। अविरहितश्च भवति स्म बुद्धैर्भगवद्भिः, अन्ततः स्वप्नान्तरगतोऽपि। सर्वे च अनेन अक्षणा विवर्जिताः, क्षणसंपच्चारागिता॥



तत्र खलु पुनर्भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-तदनेनापि ते आनन्द पर्यायेण एवं वेदितव्यम्-इत्यपीयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वज्ञज्ञानस्याहारिकेति। तस्मात्तर्हि आनन्द बोधिसत्त्वैर्महासत्त्वैः सर्वज्ञज्ञानं प्रतिलब्धुकामैरस्यां प्रज्ञापारमितायां चरितव्यम्। इयं प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्योपदेष्टव्योद्देष्टव्या स्वाध्यातव्या लिखितव्या। तथागताधिष्ठानेन महापुस्तके प्रव्यक्तप्रव्यक्तैरक्षरैः सुलिखितां कृत्वा सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैश्चीवरैर्वाद्यैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः। इयमस्माकमन्तिकादानन्द अनुशासनी। तत्कस्य हेतोः ? अत्र हि प्रज्ञापारमितायां सर्वज्ञज्ञानपरिनिष्पत्तिर्भविष्यति। तत्किं मन्यसे आनन्द शास्ता ते तथागतः ? आनन्द आह-शास्ता मे भगवन्, शास्ता मे सुगत। एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-शास्ता ते आनन्द तथागतः। परिचरितोऽस्म्यानन्द त्वया मैत्रेण कायकर्मणा मनआपेन, मैत्रेण वाक्कर्मणा मनआपेन, मैत्रेण मनःकर्मणा मनआपेन। तस्मात्तर्हि आनन्द यथैव त्वया ममैतर्हि तिष्ठतो ध्रियमाणस्य यापयतोऽस्मिन् समुच्छ्रये प्रेम च प्रसादश्च गौरवं च कृतम्, तथैव त्वया आनन्द ममात्ययादस्यां प्रज्ञापारमितायां कर्तव्यम्। द्विरपि त्रिरपि ते आनन्द परीन्दामि अनुपरीन्दामि एनां प्रज्ञापारमिताम्, यथेयं नान्तर्धीयेत, यथा नास्यां त्वमन्यः पुरुषः स्याः। यावदानन्द इयं प्रज्ञापारमिता लोके प्रचरिष्यति, तावत्तथागतस्तिष्ठतीति वेदितव्यम्। तावत्तथागतो धर्मं देशयतीति वेदितव्यम्। अविरहितास्ते आनन्द सत्त्वा बुद्धदर्शनेन धर्मश्रवणेन संघोपस्थानेन च वेदितव्यम्। तथागतान्तिकावचरास्ते आनन्द सत्त्वा वेदितव्याः, य एनां प्रज्ञापारमित श्रोष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्त्यर्चयिष्यन्त्यपचायिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिरिति॥



इदमवोचद्भगवान् आत्तमनाः। ते च मैत्रेयप्रमुखा बोधिसत्त्वा महासत्त्वाः आयुष्मांश्च सुभूतिरायुष्मांश्च शारिपुत्रः आयुष्मांश्चानन्दः शक्रश्च देवानामिन्द्रः सदेवमानुषासुरगरुडगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां परीन्दनापरिवर्तो नाम द्वात्रिंशत्तमः॥



समाप्ता चेयं भगवत्या आर्याष्टसाहस्रिकायाः प्रज्ञापारमिता सर्वतथागतजननी बोधिसत्त्वप्रत्येकजिनश्रावकाणां माता, धर्ममुद्रा धर्मोल्का धर्मनाभिर्धर्मभेरी धर्मनेत्री धर्मरत्ननिधानम् अक्षयो धर्मः अचिन्त्याद्भुतदर्शननक्षत्रमाला सदेवमानुषासुरगन्धर्वलोकवन्दिता सर्वसुखहेतुरिति॥ प्रज्ञापारमितां सम्यगुद्गृह्य पर्यवाप्य च धारयित्वा प्रवर्त्य एनां विहरन्तु सदार्थिन इति॥



ये धर्मा हेतुप्रभावा हेतुस्तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवंवादी महाश्रमणः॥



देयधर्मोऽयं प्रवरमहायानयायिन्याः परमोपासिकसौराज्रसुतलक्ष्मीधरस्य। यदत्र पुण्यं तद्भवत्वाचार्योपाध्यायमातापितृपूर्वंगमं कृत्वा सकलसत्त्वराशेरनुत्तरज्ञानावाप्तये इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project