Digital Sanskrit Buddhist Canon

३१ धर्मोद्गतपरिवर्त एकत्रिंशत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३१ धर्मोद्गतपरिवर्त एकत्रिंशत्तमः।



एवमुक्ते धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सदाप्ररुदितं बोधिसत्त्व महासत्त्वमेतदवोचत्-न खलु कुलपुत्र तथागताः कुतश्चिदागच्छन्ति वा गच्छन्ति वा। अचलिता हि तथता। या च तथता, स तथागतः। न हि कुलपुत्र अनुत्पाद आगच्छति वा गच्छति वा। यश्च अनुत्पादः, स तथागतः। न हि कुलपुत्र भूतकोट्या आगमनं वा गमनं वा प्रज्ञायते। या च भूतकोटिः, स तथागतः। न हि कुलपुत्र शून्यताया आगमनं वा गमनं वा प्रज्ञायते। या च शून्यता, स तथागतः। न हि कुलपुत्र यथावत्ताया आगमनं वा गमनं वा प्रज्ञायते। या च यथावत्ता, स तथागतः। न हि कुलपुत्र विरागस्यागमनं वा गमनं वा प्रज्ञायते। या च विरागता, स तथागतः। न हि कुलपुत्र निरोधस्यागमनं वा गमनं वा प्रज्ञायते। यश्च निरोधः, स तथागतः। न हि कुलपुत्र आकाशधातोरागमनं वा गमनं वा प्रज्ञायते। यश्च आकाशधातुः, स तथागतः। न हि कुलपुत्र अन्यत्र एभ्यो धर्मेभ्यस्तथागतः। या च कुलपुत्र एषामेव धर्माणां तथता, या च सर्वधर्मतथता, या च तथागततथता, एकैवैषा तथता। नास्ति कुलपुत्र तथताया द्वैधीकारः। एकैवैषा तथता कुलपुत्र। तथता न द्वे न तिस्रः। गणनाव्यतिवृत्ता कुलपुत्रा तथता यदुत असत्त्वात्। तद्यथापि नाम कुलपुत्र पुरुषो ग्रीष्माभितप्तो ग्रीष्माणां पश्चिमे मासेऽभिगते मध्याह्नकालसमये मरीचिकां पश्येत् स्यन्दमानाम्। स तेन तेन प्रधावेत्-अत्रोदकं पास्यामि, अपानीयं पास्यामीति। तत्किं मन्यसे कुलपुत्र कुत एतदुदकमागतं क्व वा तदुदकं गच्छति, पूर्वं वा महासमुद्रं दक्षिणं वा पश्चिमं वा उत्तरं वा ? सदाप्ररुदित आह-न हि कुलपुत्र मरीचिकायामुदकं संविद्यते। किं पुनरस्यागमनं वा गमनं वा प्रज्ञायते ? स खलु पुनः कुलपुत्र पुरुषो ग्रीष्माभितप्तो बालजातीयो दुष्प्रज्ञजातीयो मरीचिकां दृष्ट्वा अनुदके उदकसंज्ञामुत्पादयति। न पुनस्तत्रोदकं स्वभावतः संविद्यते। धर्मोद्गत आह-एवमेतत्कुलपुत्र, एवमेतत्।



एवमेव कुलपुत्र ये केचित्तथागतरूपेण वा घोषेण वा अभिनिविष्टाः, ते तथागतस्यागमनं च गमनं च कल्पयन्ति। ये च तथागतस्यागमनं च गमनं च कल्पयन्ति, सर्वे ते बालजातीया दुष्प्रज्ञजातीया इति वक्तव्याः, तद्यथापि नाम स एव पुरुषो योऽनुदके उदकसंज्ञामुत्पादयति। तत्कस्य हेतोः ? न हि तथागतो रूपकायतो द्रष्टव्यः। धर्मकायास्तथागताः। न च कुलपुत्र धर्मता आगच्छति वा गच्छति वा। एवमेव कुलपुत्र नास्ति तथागतानामागमनं वा गमनं वा। तद्यथापि नाम कुलपुत्र मायाकारनिर्मितस्य हस्तिकायस्य वा अश्वकायस्य वा रथकायस्य वा पत्तिकायस्य वा नास्त्यागमनं वा गमनं वा, एवमेव कुलपुत्र नास्ति तथागतानामागमनं वा गमनं वा। तद्यथापि नाम कुलपुत्र पुरुषः सुप्तः स्वप्नान्तरगत एकं वा तथागतं पश्येत्, द्वौ वा त्रीन् वा चतुरो वा पञ्च वा षड्वा सप्त वा अष्टौ वा नव वा दश वा विंशतिं वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा सहस्रं वा, ततो वा उत्तरे। स प्रतिविबुद्धः सन् एकमपि तथागतं न पश्येत्। तत्किं मन्यसे कुलपुत्र कुतस्ते तथागता आगताः क्व वा ते तथागता गता इति ? सदाप्ररुदित आह-न खलु पुनः कुलपुत्र स्वप्ने कस्यचिद्धर्मस्य परिनिष्पत्तिः प्रज्ञायते। मृषावादो हि स्वप्नोऽभूत्। धर्मोद्गत आह-एवमेव कुलपुत्र सर्वधर्माः स्वप्नोपमा उक्ता भगवता। ये केचित्कुलपुत्र स्वप्नोपमान् सर्वधर्मांस्तथागतेन निर्देशितान् यथाभूतं न प्रजानन्ति, ते तथागतान् नामकायेन वा रूपकायेन वा अभिनिविश्य तथागतानामागमनं वा गमनं वा कल्पयन्ति। यथापि नाम धर्मतामप्रजानन्तो ये च तथागतानामागमनं वा गमनं वा कल्पयन्ति, सर्वे ते बालजातीयाः पृथग्जनाः।



सर्वे ते षड्गतिकं संसारं गताः, गच्छन्ति गमिष्यन्ति च। सर्वे ते प्रज्ञापारमिताया दूरे। सर्वे ते बुद्धधर्माणां दूरे। ये खलु पुनः कुलपुत्र स्वप्नोपमान् सर्वधर्मान् स्वप्नोपमाः सर्वधर्मा इति तथागतेन देशितान् यथाभूतं प्रजानन्ति, न ते कस्यचिद्धर्मस्यागमनं वा गमनं वा कल्पयन्ति, उत्पादं वा निरोधं वा। ये च न कस्यचिद्धर्मस्यागमनं वा गमनं वा कल्पयन्ति, उत्पादं वा निरोधं वा, ते धर्मतया तथागतं प्रजानन्ति। ये च तथागतं धर्मतया प्रजानन्ति, न ते तथागतानामागमनं वा गमनं वा कल्पयन्ति। ये च तथागतस्येदृशीं धर्मतां प्रजानन्ति, ते आसन्ना अनुत्तरायाः सम्यक्संबोधेश्चरन्ति। ते च प्रज्ञापारमितायां चरन्ति। ते च भगवतः श्रावकाः अमोघं राष्ट्रपिण्डं परिभुञ्जते। ते च लोकस्य दक्षिणीयाः। तद्यथापि नाम कुलपुत्र महासमुद्रे रत्नानि न पूर्वस्या दिश आगच्छन्ति, न दक्षिणस्याः, न पश्चिमायाः, नोत्तरस्याः, न विदिग्भ्यो नाधस्तान्नोपरिष्टान्न कुतश्चिद्देशेभ्यो दिग्भ्य आगच्छन्ति, अपि तु खलु पुनः सत्त्वानां कुशलमूलान्युपादाय महासमुद्रे रत्नान्युत्पद्यन्ते। न व तान्यहेतुकान्युत्पद्यन्ते। हेतुप्रत्ययकारणाधीनानि प्रतीत्यसमुत्पन्नानि। निरुध्यमानानि च तानि रत्नानि च क्वचिद्दशदिशि लोके संक्रामन्ति। अपि तु खलु पुनर्येषां प्रत्ययानां सतां तानि रत्नानि प्रभाव्यन्ते, तेषां प्रत्ययानामसतां न तेषां रत्नानां प्रभावना भवति। एवमेव कुलपुत्र तेषां तथागतानां कायपरिनिष्पत्तिर्न कुतश्चिद्दशदिशि लोकादागता, नापि क्वचिद्दशदिशि लोके गच्छति। न च अहेतुको बुद्धानां भगवतां कायः। पूर्वचर्यापरिनिष्पन्नो हेतुप्रत्ययाधीनः कारणसमुत्पन्नः पूर्वकर्मविपाकादुत्पन्नः।



स न क्वचिद्दशदिशि लोकेऽस्ति। अपि तु खलु पुनर्येषां प्रत्ययानां सतां कायाभिनिष्पत्तिर्भवति, तेषां प्रत्ययानामसतां कायाभिनिष्पत्तिर्न प्रज्ञायते। तद्यथापि नाम कुलपुत्र वीणायाः शब्द उत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानोऽपि न क्वचिद्गच्छति, न क्वचित्संक्रामति, प्रतीत्य च हेतुप्रत्ययसामग्रीमुत्पद्यते हेत्वधीनः प्रत्ययाधीनः। तद्यथापि नाम द्रोणीं च प्रतीत्य चर्म च प्रतीत्य तन्त्रीश्च प्रतीत्य दण्डं च प्रतीत्य उपधानीश्च प्रतीत्य कोणं च प्रतीत्य पुरुषस्य च तज्जव्यायामं प्रतीत्य एवमयं वीणायाः शब्दो निश्चरति हेत्वधीनः प्रत्ययाधीनः। स च शब्दो न द्रोण्या निश्चरति, न चर्मणो न तन्त्रीभ्यो न दण्डान्नोपधानीभ्यो न कोणान्न पुरुषस्य तज्जव्यायामतः शब्दो निश्चरति, अपि तु खलु पुनः सर्वेषां समायोगाच्छब्दः प्रज्ञप्यते। निरुध्यमानोऽपि शब्दो न क्वचिद्गच्छति। एवमेव कुलपुत्र बुद्धानां भगवतां कायनिष्पत्तिर्हेत्वधीना प्रत्ययाधीना अनेककुशलमूलप्रयोगपरिनिष्पन्ना च। न चैकतो हेतुतो न चैकतः प्रत्ययतो न चैकतः कुशलमूलतो बुद्धकायप्रभावना। न च नैर्हेतुकी। बहुहेतुप्रत्ययसामग्र्यां समुत्पन्ना सा न कुतश्चिदागच्छति। हेतुप्रत्ययसामग्र्यामसत्यां न क्वचिद्गच्छति। एवं त्वया कुलपुत्र तेषां तथागतानामागमनं च गमनं च द्रष्टव्यम्। सर्वधर्माणामपि कुलपुत्र त्वया इयमेव धर्मता अनुगन्तव्या। यतः कुलपुत्र त्वमेवं तथागतांश्च सर्वधर्मांश्च अनुत्पन्नाननिरुद्धांश्च संप्रज्ञास्यसि, ततस्त्वं नियतो भविष्यस्यनुत्तरायां सम्यक्संबोधौ। प्रज्ञापारमितायामुपायकौशल्ये च नियतं चरिष्यसि॥



अस्मिन् खलु पुनस्तथागतानामनागत्यगमननिर्देशे भाष्यमाणे महान् भूमिचालोऽभूत्। सर्वश्च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमहादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति स्म। सर्वाणि च मारभवनानि संक्षोभितानि जिह्मीभूतानि चाभूवन्। ये केचन त्रिसाहस्रमहासाहस्रे लोकधातौ तृणगुल्मौषधिवनस्पतयः, ते सर्वे येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तेन प्रणता अभूवन्। अकालपुष्पाणि चोत्सृजन्ति स्म। उपरिष्टाच्च अन्तरीक्षान्महापुष्पवर्षः प्रावर्षत्। शक्रश्च देवानामिन्द्रश्चत्वारश्च महाराजानो धर्मोद्गतं बोधिसत्त्वं महासत्त्वं दिव्यैश्चन्दनचूर्णैर्दिव्यैश्च पुष्पैरवाकिरन् अभ्यवाकिरन् अभिप्राकिरन्। एवं च वाचमभाषन्त-साधु साधु कुलपुत्र। तव कुलपुत्र अनुभावेन अद्यास्माभिः परमार्थनिर्जाता कथा देश्यमाना श्रुता सर्वलोकविप्रत्यनीका, यत्राभूमिः सर्वसत्कायदृष्टिप्रतिष्ठितानां सर्वासद्दृष्ट्यभिविनिविष्टानां सत्त्वानाम्॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गतं बोधिसत्त्वं महासत्त्वमेतदवोचत्-कः पुनः कुलपुत्र अत्र हेतुः, कः प्रत्ययोऽस्य महतः पृथिवीचालस्य लोके प्रादुर्भावाय ? धर्मोद्गतो बोधिसत्त्वो महासत्त्व आह-इमं कुलपुत्र तथागतानामनागत्यगमननिर्देशं तव च पृच्छतो मम च निर्दिशतोऽष्टानां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भोऽभूत्। अशीतेश्च प्राणिनियुतानामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि, चतुःषष्टेश्च प्राणिसहस्राणां विरजांसि विगतमलानि धर्मेषु धर्मचक्षूंषि विशुद्धानि॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः परमोदारेण प्रीतिप्रामोद्येन समन्वागतोऽभूत्-लाभा मे परमसुलब्धाः, यस्य मे प्रज्ञापारमितामिमं च तथागतानामनागत्यगमननिर्देशं परिपृच्छतः इयतां सत्त्वानामर्थः कृतः। एतदेवास्माकं पर्याप्तं कुशलं भवेदनुत्तरायाः सम्यक्संबोधेः परिनिष्पत्तये। न च मे भूयो विचिकित्सा प्रवर्ततेऽनुत्तरायाः सम्यक्संबोधेः। निःसंशयमहं तथागतो भविष्याम्यर्हन् सम्यक्संबुद्धः। स तेनैव प्रीतिप्रामोद्येन समन्वागतः सप्ततालं विहायसमभ्युद्गम्य सप्तताले स्थित्वा एवं चिन्तयति स्म-केनाहमेतर्हि अन्तरीक्षे स्थितः धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामिति ? अथ खलु शक्रो देवानामिन्द्र सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमभ्युद्गतं दृष्ट्वा चेतसैव चास्य चित्तमाज्ञाय दिव्यानि चास्मै मान्दारवाणि पुष्पाण्युपनामयति स्म, एवं चावोचत्-एभिस्त्वं कुलपुत्र दिव्यैः पुष्पैर्धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुरु। सत्कर्तव्यो हि कुलपुत्र अस्माभिस्तव परिग्राहकः। तव हि कुलपुत्र अनुभावेन अद्य बहूनां प्राणिसहस्राणामर्थः कृतः। दुर्लभाः कुलपुत्र एवंरूपाः सत्त्वाः, ये सर्वसत्त्वानां कृतशोऽप्रमेयानसंख्येयान् कल्पानुत्सहन्ते महान्तं भारमुद्वोढुं यथा त्वया उत्सोढम्॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रस्य देवानामिन्द्रस्यान्तिकान्मान्दारवाणि पुष्पाणि गृहीत्वा धर्मोद्गतं बोधिसत्त्वं महासत्त्वमवाकिरत्, अभ्यवाकिरत्, अभिप्राकिरत्। स्वकेन च कायेन धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभिच्छादयति स्म। एवं च वाचमभाषत-एषोऽहं कुलपुत्र अद्याग्रेण तवात्मानं निर्यातयामि उपस्थानपरिचर्यायै। स आत्मानं निर्यात्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतः प्राञ्जलिं कृत्वास्थात्॥



अथ खलु सा श्रेष्ठिदारिका तानि च पञ्च दारिकाशतानि सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-एता वयमपि कुलपुत्र तवात्मानं निर्यातयामः, वयमप्यनेन कुशलमूलेन एतेषामेव धर्माणां लाभिन्यो भवेम, त्वयैव च सार्धं पुनः पुनर्बुद्धांश्च भगवतो बोधिसत्त्वांश्च सत्कुर्याम गुरुकुर्याम। आसन्नीभूताश्च तवैव भवेम। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः श्रेष्ठिदारिकां तानि च पञ्च दारिकाशतान्येतदवोचत्-यदि मे यूयं दारिका अध्याशयमनुवर्तध्वम्, अध्याशयेन च मह्यमात्मानं निर्यातयत, एवमहं युष्मान् प्रतीच्छेयम्। दारिका आहुः-अनुवर्तिष्यामहे तव वयमाशयेनाध्याशयेन च। वयं तवात्मानं निर्यातयामो यथेच्छाकरणीयतायै। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि सर्वालंकारभूषितानि कृत्वा तानि च पञ्च रथशतान्यलंकृत्य सर्वाणि च तानि धर्मोद्गताय बोधिसत्त्वाय महासत्त्वाय निर्यातयति स्म उपस्थानपरिचर्यायैः-इमाः कुलपुत्र अहं तवोपस्थायिका निर्यातयामि, इमानि च पञ्च रथशतानि निर्यातयामि परिभोगायेति॥



अथ खलु शक्रो देवानामिन्द्रस्तस्मै कुलपुत्राय साधुकारमदात्-साधु साधु कुलपुत्र। बोधिसत्त्वैर्महासत्त्वैः सर्वस्वपरित्यागिभिर्भवितव्यम्। एवंरूपेण च त्यागचित्तेन बोधिसत्त्वो महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। एवं च धर्मभाणकाणां पूजां कृत्वा शक्यं प्रज्ञापारमितामुपायकौशल्यं च श्रोतुम्। तैरपि कुलपुत्र पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिरेवंरूप एव त्यागे स्थित्वा अनुत्तरा सम्यक्संबोधिः समुदानीता प्रज्ञापारमितामुपायकौशल्यं च परिप्रश्नयद्भिरिति॥



अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तानि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि पञ्च रथशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य कुशलपरिपूरिमुपादाय प्रतिगृह्णीते स्म। प्रतिगृह्य च सदाप्ररुदितायैव कुलपुत्राय प्रतिनिर्यातयामास। अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्व उत्थायासनात् स्वकं गृहं प्राविक्षत् सूर्यस्य चास्तंगमनकालोऽभूत्॥



अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्-नैतन्मम साधु प्रतिरूपं भवेत्, यदहं धर्मकामतया आगत्य निषीदेयम्, शय्यां च परिकल्पयेयम्। यन्न्वहं द्वाभ्यामेव ईर्यापथाभ्यां स्थित्वा स्थानेन चंक्रमेण च कालमतिनामयेयम्, यावद्धर्मोद्गतो बोधिसत्त्वो महासत्त्वः स्वकाद्गृहान्निर्गतो भविष्यति यदुत धर्मसंप्रकाशनायेति॥



अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सप्त वर्षाण्येकसमाधिसमापन्न एवाभूत्। अप्रमेयैरसंख्येयैर्बोधिसत्त्वसमाधिसहस्रैः प्रज्ञापारमितोपायकौशल्यनिर्जातैर्व्याहार्षीत्। सदाप्ररुदितोऽपि बोधिसत्त्वो महासत्त्व सप्त वर्षाणि द्वाभ्यामेव ईर्यापथाभ्यां कालमतिनामयन् न स्त्यानमिद्धमवक्रामयामास। सप्त वर्षाणि च कामवितर्कमुत्पादयामास, न व्यापादवितर्कं न विहिंसावितर्कमुत्पादयामास, न रसगृद्धिं न चित्तौद्बिल्यमुत्पादयामास। अपि तु कदा नाम धर्मोद्गतो बोधिसत्त्वो महासत्त्वोऽस्मात्समाधेर्व्युत्थास्यति, यन्नु वयं धर्मोद्गतस्य बोधिसत्त्व महासत्त्वस्य धर्मासनं प्रज्ञपयिष्यामः, यत्रासौ कुलपुत्रो निषद्य धर्मं देशयिष्यतीति। तं च पृथिवीप्रदेशं सुसिक्तं सुमृष्टं च करिष्यामो नानापुष्पाभिकीर्णम्, यत्र पृथिवीप्रदेशे धर्मोद्गतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामुपायकौशल्यं च संप्रकाशयिष्यतीति चिन्तयामास। तान्यपि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणानि द्वाभ्यामेव ईर्यापथाभ्यां कालमतिनामयामासुः सर्वाः क्रियास्तस्यानुवर्तमानाः॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो दिव्यं निर्घोषमश्रौषीत्-इतः सप्तमे दिवसे धर्मोद्गतो बोधिसत्त्वो महासत्त्वोऽस्मात्समाधेर्व्युत्थास्यति, व्युत्थाय च मध्येनगरस्य निषद्य धर्मं देशयिष्यतीति। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं दिव्यं निर्घोषं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तं पृथिवीप्रदेशं शोधयामास सार्धं श्रेष्ठिदारिकाप्रमुखैः पञ्चदारिकाशतैः, धर्मासनं च प्रज्ञपयामास सप्तरत्नमयम्, स्वकं चोत्तरासङ्गं कायादवतार्य तस्यासनस्योपरि प्रज्ञपयति स्म। अथ खलु ता दारिकाः स्वकस्वकानुत्तरासङ्गान् कायादवतार्य पञ्चोत्तरासङ्गशतानि तत्रासने प्रज्ञपयामासुः अत्रासने धर्मोद्गतो बोधिसत्त्वो महासत्त्वो निषद्य धर्मं देशयिष्यतीति। एवं ताश्च सर्वा दारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मासनमास्तीर्य तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्य जाता अभूवन्॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं पृथिवीप्रदेशं सेक्तुकामः। न चोदकं समन्तात्पर्येषमाणोऽपि लभते, येन तं पृथिवीप्रदेशं सिञ्चेत्। यथापि नाम मारेण पापीयसा तत्सर्वमुदकमन्तर्धापितमभूत्, अप्येव नाम अस्य सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्योदकमलभमानस्य चित्तं खिद्येत, दुःखदौर्मनस्यं च भवेत्, चित्तस्य वा अन्यथात्वं भवेत्, येनास्य कुशलमूलस्यान्तर्धानं भवेत्, न वा पूजा भ्राजेरन्॥



अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्-यन्न्वहमात्मनः कायं विद्ध्वा इमं पृथिवीप्रदेशं रुधिरेण सिञ्चेयम्। तत्कस्य हेतोः ? अयं हि पृथिवीप्रदेश उद्धतरजस्कः। मा रजोधातुरितो भूप्रेदेशाद्धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य काये निपतेत्। किं वा अनेनात्मभावेनावश्यं भेदनधर्मिणा कुर्याम् ? वरं खलु पुनर्ममायं काय एवंरूपया क्रियया विनश्यतु, न तु निःसामर्थ्यक्रियया। अपि च कामहेतोः कामनिदानं बहूनि मे आत्मभावसहस्राणि पुनः पुनः संसारे संसरतो भिन्नानि, न पुनरेवंरूपेषु स्थानेषु सद्धर्मपरिग्रहस्य कृतशः। यदि पुनर्भिद्यन्ते, काममेवंरूपेषु भिद्यन्तामिति। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व इति प्रतिसंख्याय तीक्ष्णं शस्त्रं गृहीत्वा स्वकायं समन्ततो विद्ध्वा तं पृथिवीप्रदेशं स्वरुधिरेण सर्वमसिञ्चत्। तान्यपि श्रेष्ठिदारिकाप्रमुखानि पञ्चदारिकाशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणानि सर्वाणि तानि तीक्ष्णानि शस्त्राणि गृहीत्वा स्वकस्वकानि शरीराणि विद्ध्वा तं पृथिवीप्रदेशं स्वकस्वकैर्लोहितैः सर्वमसिञ्चन्। न च सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तासां वा सर्वासां दारिकाणां चित्तस्यान्यथात्वमभूत्, यत्र स मारः पापीयानवतारं लभेत् कुशलमूलान्तरायकरणाय॥



अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्-आश्चर्यं यावद्धर्मकामश्चायं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः, यावद्दृढसमादानश्च यावन्महासंनाहसंनद्धश्च अनपेक्षः काये जीवितेषु भोगेषु च, अनुत्तरायाः सम्यक्संबोधेरधिगमाय अध्याशयसंप्रस्थितः। यदुत सर्वसत्त्वान् मोचयिष्याम्यपरिमाणतः संसारदुःखादनुत्तरां सम्यक्संबोधिमभिसंबुध्येति। अथ खलु शक्रो देवानामिद्रस्तत्सर्वं लोहितोदकं दिव्यं चन्दनोदकमध्यतिष्ठत्, समन्ताच्च तस्य पृथिवीप्रदेशस्य अचिन्त्यं परमोदारं गन्धं यस्य दिव्यस्य चन्दनोदकस्य परिपूर्णम्। योजनशतं गन्धो वाति॥



अथ शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-साधु साधु कुलपुत्र। साधु ते कुलपुत्र अचिन्त्यं वीर्यम्, साध्वी च ते अनुत्तरा धर्मकामता धर्मपरीष्टिश्च। एवंरूपेण कुलपुत्र अध्याशयेन एवंरूपेण वीर्येण एवंरूपया च धर्मकामतया तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरा सम्यक्संबोधिः समुदानीता॥



अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्-प्रज्ञप्तं मया धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मासनम्। अयं च पृथिवीप्रदेशः सुसिक्तः सुसंमृष्टश्च कृतः। कुतो नु खल्वहं पुष्पाणि लभेयम्, यैरहमिमं पृथिवीप्रदेशं पुष्पाभिकीर्णं कुर्याम्, धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं धर्मं देशयन्तं धर्मासने निषण्णमभ्यवकिरेयम् ? अथ खलु शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- इमानि ते कुलपुत्र प्रतिगृहाण दिव्यानि मान्दारवाणि पुष्पाणि। एभिस्त्वमिमं पृथिवीप्रदेशं पुष्पाभिकीर्णं कुरु, धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं धर्मं देशयन्तं धर्मासने निषण्णमभ्यवकिर। स तस्मै दिव्यं खारीसहस्रं दिव्यानां मान्दारवपुष्पाणामुपनामयति स्म। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि पुष्पाणि गृहीत्वा अन्यतरैः पुष्पैस्तं पृथिवीप्रदेशं पुष्पाभिकीर्णमकार्षीत्, अन्यतरैश्च पुष्पैर्धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभ्यवाकिरत्॥



अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सप्तानां वर्षाणामत्ययेन ततः समाधेर्व्युत्थाय येन धर्मासनं तेनोपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत्, अनेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतः प्रज्ञापारमितां देशयामास॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सहदर्शनेनैव धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य तादृशं सुखं प्रतिलभते स्म, तद्यथापि नाम प्रथमध्यानसमापन्न एकाग्रमनसिकारो भिक्षुः। तत्रेयं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितादेशनायदुत सर्वधर्मसमतया प्रज्ञापारमितासमता। सर्वधर्मविविक्ततया प्रज्ञापारमिताविविक्तता। सर्वधर्माचलनतया प्रज्ञापारमिताचलनता। सर्वधर्मामननतया प्रज्ञापारमितामननता। सर्वधर्मास्तम्भिततया प्रज्ञापारमितास्तम्भितता। सवधर्मैकरसतया प्रज्ञापारमितैकरसता। सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता। सर्वधर्मानुत्पादतया प्रज्ञापारमितानुत्पादता। सर्वधर्मानिरोधतया प्रज्ञापारमितानिरोधता। गगनापर्यन्ततया प्रज्ञापारमितापर्यन्तता। समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तता। मेरुविचित्रतया प्रज्ञापारमिताविचित्रता। गगनाकल्पनतया प्रज्ञापारमिताकल्पनता। रूपापर्यन्ततया प्रज्ञापारमितापर्यन्तता। एवं वेदना संज्ञा संस्काराः। विज्ञानापर्यन्ततया प्रज्ञापारमितापर्यन्तता। पृथिवीधात्वपर्यन्ततता प्रज्ञापारमितापर्यन्तता। एवमब्धातुतेजोधातुवायुधात्वाकाशधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता। विज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता। वज्रोपमधर्मसमतया प्रज्ञापारमितासमता। सर्वधर्मासंभेदनतया प्रज्ञापारमितासंभेदनता। सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धिता। सर्वधर्माभिभावनासमतया प्रज्ञापारमिताभिभावनासमता। सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टता। सर्वधर्माचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्येति॥



अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तथानिषण्णस्यैव तस्यां बेलायां सर्वधर्मसमता नाम समाधिराजो जातः। यतः सर्वधर्मविविक्तश्च नाम समाधिः, सर्वधर्माचलनश्च नाम समाधिः, सर्वधर्मामननश्च नाम समाधिः, सर्वधर्मास्तम्भितश्च नाम समाधिः, सर्वधर्मैकरसश्च नाम समाधिः, सर्वधर्मापर्यन्तश्च नाम समाधि, सर्वधर्मानुत्पादश्च नाम समाधिः, सर्वधर्मानिरोधश्च नाम समाधिः, गगनापर्यतश्च नाम समाधिः, समुद्रापर्यन्तश्च नाम समाधिः, मेरुविचित्रश्च नाम समाधिः, गगनाकल्पश्च नाम समाधिः, रूपापर्यन्तश्च नाम समाधिः। एवं वेदना संज्ञा संस्काराः। विज्ञानापर्यन्तश्च नाम समाधिः, पृथिवीधात्वपर्यन्तश्व नाम समाधिः, एवमब्धातुतेजोधातुवायुधात्वाकाशधात्वपर्यन्तश्च नाम समाधिः, विज्ञानधात्वपर्यन्तश्च नाम समाधिः, वज्रोपमश्च नाम समाधिः, सर्वधर्मासंभेदश्च नाम समाधिः, सर्वधर्मानुपलब्धिश्च नाम समाधिः, सर्वधर्माविभावनासमता च नाम समाधिः, सर्वधर्मनिश्चेष्टश्च नाम समाधिः, सर्वधर्माचिन्त्यश्च नाम समाधिः। एवंप्रमुखानि षष्टिः समाधिमुखशतसहस्राणि सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन प्रतिलब्धान्यभूवन्निति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां धर्मोद्गतपरिवर्तो नामैकत्रिंशत्तमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project