Digital Sanskrit Buddhist Canon

३० सदाप्ररुदितपरिवर्तस्त्रिंशत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३० सदाप्ररुदितपरिवर्तस्त्रिंशत्तमः।



पुनरपरं सुभूते तथेयं प्रज्ञापारमिता पर्येष्टव्या, यथा सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन पर्येषिता, य एतर्हि भीष्मगर्जितनिर्घोषस्वरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरति। एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-कथं भगवन् सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेनेयं प्रज्ञापारमिता पर्येषिता? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-सदाप्ररुदितेन सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वं प्रज्ञापारमितां पर्येषमाणेन कायेऽनर्थिकेन जीवितनिरपेक्षेण लाभसत्कारश्लोकेष्वनिश्रितेन पर्येषमाणेन पर्येषिता। तेन प्रज्ञापारमितां पर्येषमाणेन अरण्यगतेन अन्तरीक्षान्निर्घोषः श्रुतोऽभूत्-गच्छ त्वं कुलपुत्र पूर्वस्यां दिशि। ततः प्रज्ञापारमितां श्रोष्यसि। तथा च गच्छ, यथा न कायक्लमथमनसिकारमुत्पादयसि, न स्त्यानमिद्धमनसिकारमुत्पादयसि, न भोजनमनसिकारमुत्पादयसि, न पानीयमनसिकारमुत्पादयसि, न रात्रिमनसिकारमुत्पादयसि, न दिवसमनसिकारमुत्पादयसि, न शीतमनसिकारमुत्पादयसि, नोष्णमनसिकारमुत्पादयसि। मा च क्वचिच्चित्तं प्रणिधाः अध्यात्मं वा बहिर्धा वा। मा च कुलपुत्र वामेनालोकयन् गाः, मा दक्षिणेन, मा पूर्वेण, मा पश्चिमेन, मोत्तरेण, मोर्ध्वम्, माधः, मा च अनुविदिशमवलोकयन् गाः। तथा च कुलपुत्र गच्छ, यथा नात्मतो न सत्कायतश्चलसि। यथा न रूपतश्चलसि, यथा न वेदनातो न संज्ञातो न संस्कारतः, यथा न विज्ञानतश्चलसि। यो ह्यतश्चलति, स वितिष्ठते। कुतो वितिष्ठते? बुद्धधर्मेभ्यो वितिष्ठते। यो बुद्धधर्मेभ्यो वितिष्ठते, स संसारे चरति। यः संसारे चरति, स न चरति प्रज्ञापारमितायाम्। स प्रज्ञापारमितां नानुप्राप्नोतीति॥



एवमुक्ते सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं निर्घोषमेतदवोचत्-एवं वै करिष्यामि। तत्कस्य हेतोः? अहं हि सर्वसत्त्वानामालोकं कर्तुकामो बुद्धधर्मान् समुदानेतुकाम इति। एवमुक्ते स निर्घोषः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-साधु साधु कुलपुत्र सदाप्ररुदित॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः पुनरपि शब्दमश्रौषीत्। एवं चाश्रौषीत्-शून्यतानिमित्ताप्रणिहितेषु च त्वया कुलपुत्र सर्वधर्मेष्वधिमुक्तिमुत्पाद्य प्रज्ञापारमिता पर्येष्टव्या। निमित्तपरिवर्जितेन भावपरिवर्जितेन सत्त्वदृष्टिपरिवर्जितेन च त्वया भवितव्यम्। पापमित्राणि च त्वया कुलपुत्र परिवर्जयितव्यानि। कल्याणमित्राणि च त्वया सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि, यानि च शून्यतानिमित्ताप्रणिहितानुत्पादाजातानिरुद्धाभावाः सर्वधर्मा इति धर्मं देशयन्ति। एवं त्वं कुलपुत्र प्रतिपद्यमानो नचिरेण प्रज्ञापारमितां श्रोष्यसि पुस्तकगतां वा धर्मभाणकस्य भिक्षोः कायगताम्। यस्य च त्वं कुलपुत्र अन्तिकात्प्रज्ञापारमितां शृणुयाः शास्तृसंज्ञा त्वया तत्रोत्पादयितव्या। कृतज्ञेन च त्वया भवितव्यं कृतवेदिना च-एष मम कल्याणमित्रं यस्येमां प्रज्ञापारमितामन्तिकाच्छृणोमि। यामहं शृण्वन् क्षिप्रमेव अविनिवर्तनीयो भविष्याम्यनुत्तरायाः सम्यक्संबोधेः, आसन्नश्च भविष्यामि तथागतानामर्हतां सम्यक्संबुद्धानाम्। तथागताविरहितेषु बुद्धक्षेत्रेषूपपत्स्ये। अक्षणांश्च विवर्जयिष्यामि। क्षणसंपदं च आरागयिष्यामीति। इमास्त्वया कुलपुत्र अनुशंसाः परितुलयमानेन धर्मभाणके भिक्षौ शास्तृसंज्ञोत्पादयितव्या। न च त्वया कुलपुत्र लोकामिषप्रतिसंयुक्तया चित्तसंतत्या धर्मभाणको भिक्षुरनुबद्धव्यः। धर्मार्थिकेन च त्वया धर्मगौरवेण धर्मभाणको भिक्षुरनुबद्धव्यः। मारकर्माणि च त्वया अवबोद्धव्यानि। अस्ति हि कुलपुत्र मारः पापीयान् धर्मभाणकस्य बोधिसत्त्वस्य महासत्त्वस्य रूपशब्दगन्धरसस्पर्शानुपसंहरति सेवितुं भक्तुं पर्युपासितुम्। तांश्चासावभिभूय उपायकौशल्येन परिसेवते भजते पर्युपास्ते।



तत्र च त्वया कुलपुत्र धर्मभाणके भिक्षौ नाप्रसादचित्तमुत्पादयितव्यम्। अपि त्वेवं चित्तमुत्पादयितव्यम्-नाहं तदुपायकौशल्यं जाने, यदेष उपायकौशल्यं प्रजानाति। एष सत्त्वविनयेन सत्त्वानां कुशलमूलपरिग्रहमुपादाय एनान् धर्मान् प्रतिसेवते भजते पर्युपास्ते। न हि क्वचिद्बोधिसत्त्वानां महासत्त्वानां सङ्गो वा आरम्बणं वा संविद्यते। तत्क्षणं च त्वया कुलपुत्र धर्माणां भूतनयः प्रत्यवेक्षितव्यः। कतमश्च कुलपुत्र धर्माणां भूतनयः? यदुत सर्वधर्मा असंक्लेशा अव्यवदानाः। तत्कस्य हेतोः? सर्वधर्मा हि स्वभावेन शून्याः। सर्वधर्मा हि निःसत्त्वा निर्जीवा निष्पोषा निष्पुरुषा निष्पुद्गला मायोपमाः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः। एवं त्वं कुलपुत्र सर्वधर्माणां भूतनयं प्रत्यवेक्षमाणो धर्मभाणकमनुबध्नन् नचिरेण प्रज्ञापारमितायां निर्यास्यसि। अपरमपि त्वं कुलपुत्र मारकर्म समन्वाहरेः। सचेत्कुलपुत्र धर्मभाणकः प्रज्ञापारमितार्थिकं कुलपुत्रमवसादयति, न समन्वाहरति, तत्र त्वया कुलपुत्र न प्रतिवाणिः कर्तव्या। अपि तु धर्मार्थिकेनैव धर्मगौरवेणैव अनिर्विण्णमानसेन धर्मभाणको भिक्षुरनुबद्धव्यः॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्य निर्घोषस्यान्तिकादिमामनुशासनीं प्रतिगृह्य येन पूर्वा दिक् तेन प्रतिक्रामति स्म। अचिरप्रक्रान्तस्य चास्यैतदभूत्-न मया स निर्घोषः परिपृष्टः-कियद्दूरं मया गन्तव्यमिति। स तत्रैव पृथिवीप्रदेशे स्थितोऽभूत्। तत्र रुदन् क्रन्दन् शोचन् परिदेवमानः एवं चिन्तयति स्म-अस्मिन्नेव पृथिवीप्रदेशे एकं वा रात्रिंदिवमतिनामयिष्यामि, द्वे वा, त्रीणि वा, चत्वारि वा, पञ्च वा, षड् वा, सप्त वा रात्रिंदिवान्यतिनामयिष्यामि। न कायक्लमथमनसिकारमुत्पादयिष्यामि। न स्त्यानमिद्धमनसिकारमुत्पादयिष्यामि। न भोजनमनसिकारमुत्पादयिष्यामि। न पानीयमनसिकारमुत्पादयिष्यामि। न रात्रिमनसिकारमुत्पादयिष्यामि। न दिवसमनसिकारमुत्पादयिष्यामि। न शीतमनसिकारमुत्पादयिष्यामि। नोष्णमनसिकारमुत्पादयिष्यामि, यावन्न प्रज्ञापारमितां श्रोष्यामीति। तद्यथापि नाम सुभूते कश्चिदेव पुरुषः एकपुत्रके कालगते महता दुःखदौर्मनस्येन समन्वागतोऽभवत्, तस्य पुत्रशोकेन नान्यः कश्चिन्मनसिकारः प्रवर्तते, अपि त्वेकपुत्रकमनसिकार एव प्रवर्तते। एवमेव सुभूते सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तस्मिन् समये नान्यः कश्चिन्मनसिकारः प्रवर्तते स्म, अपि तु कदा नामाहं तां प्रज्ञापारमितां श्रोष्यामीति॥



अथ खलु सुभूते सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तथोत्कण्ठितस्य तथागतविग्रहः पुरतः स्थित्वा साधुकारमदात्-साधु साधु कुलपुत्र, यस्त्वमेनां वाचं भाषसे। एवं हि कुलपुत्र पौर्वकैरपि तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिः प्रज्ञापारमिता पर्येषिता, यथा त्वमेतर्हि पर्येषसे। तेन हि त्वं कुलपुत्र एतेनैव वीर्येण एतेनैवोत्साहेनं एतयैवार्थिकतया एतयैव च्छन्दिकतया अनुबध्य पूर्वामेव दिशं गच्छ। अस्ति कुलपुत्र इतः पञ्चभिर्योजनशतैर्गन्धवती नाम नगरी सप्तरत्नमयी, सप्तभिः प्राकारैरनुपरिक्षिप्ता, सप्तभिः परिखाभिः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्ता, द्वादश योजनानि आयामेन, द्वादश योजनानि विस्तारेण, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च पञ्चभिरन्तरापणवीथिशतैरालेख्यविचित्रसदृशैर्दर्शनीयैर्निर्विद्धा असमसमैरनुत्पीडजनयुग्ययानसंक्रमणस्थानस्थापितैः सुमापिता। समन्ततः प्राकाराश्च तस्या नगर्याः सप्तरत्नमयाः। तेषां च सप्तरत्नमयानां प्राकाराणां जाम्बूनदस्य सुवर्णस्य खोडकशीर्षाणि प्रमाणवन्त्युपोद्गतानि। सर्वस्मिंश्च खोडकशीर्षे सप्तरत्नमयो वृक्षो जातो नानाविचित्रै रत्नमयैः फलैः फलवान्। सर्वतश्च खोडकवृक्षाद्रत्नमयं सूत्रं द्वितीयं खोडकवृक्षान्तरमवसक्तम्।



सर्वावती च सा नगरी सौवर्णेन किङ्किणीजालेन प्रतिच्छन्ना। तस्य च किङ्किणीजालस्य वातेनेरितस्य वल्गुर्मनोज्ञो रञ्जनीयः शब्दो निश्चरति। तद्यथापि नाम पञ्चाङ्गिकस्य तूर्यस्य समेत्य संगीत्यां कुशलैर्गन्धर्वैः संप्रवादितस्य वल्गुर्मनोज्ञो रञ्जनीयो निर्घोषो निश्चरति, एवमेव तस्य किङ्किणीजालस्य वातेरितस्य वल्गुर्मनोज्ञो रञ्जनीयो निर्घोषो निश्चरति। तेन च शब्देन ते सत्त्वाः क्रीडन्ति रमन्ते परिचारयन्ति। समन्ताच्च तस्या नगर्याः परिखा वारिपरिपूर्णा अनुसारिवारिवाहिन्यो वारिणो नातिशीतस्य नात्युष्णस्य पूर्णाः। तस्मिंश्च वारिणि नावः सप्तानां रत्नानां विचित्रा दर्शनीयास्तेषामेव सत्त्वानां पूर्वकर्मविपाकेनाभिनिर्वृत्ताः, यासु ते सत्त्वा अभिरुह्य क्रीडन्ति रमन्ते परिचारयन्ति। सर्वं च तद्वारि उत्पलपद्मकुमुदपुण्डरीकसंछादितम्, अन्यैश्च अभिजाताभिजातैः सुगन्धगन्धिभिः पुष्पैः संछादितम्। नास्ति सा काचित्रिसाहस्रमहासाहस्रे लोकधातौ पुष्पजातिर्या तत्र नास्ति। समन्ताच्च तस्या नगर्याः पञ्चोद्यानशतानि। सर्वाणि तानि सप्तरत्नमयानि विचित्राणि दर्शनीयानि। एकैकस्मिंश्चोद्याने पञ्च पञ्च पुष्करिणीशतानि। क्रोशः क्रोशः प्रमाणं समन्तात्तत्पुष्करिणीनाम्।





सर्वासु तासु पुष्करिणीषु सप्तरत्नमयानि विचित्राणि दर्शनीयानि उत्पलपद्मकुमुदपुण्डरीकाणि जातानि, यैस्तदुदकं संछादितम्। सर्वाणि च तान्युत्पलपद्मकुमुदपुण्डरीकानि शकटचक्रप्रमाणपरिणाहानि सुगन्धानि नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि, पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि, लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, अवदातानि अवदातवर्णान्यवदातनिदर्शनान्यवदातनिर्भासानि। सर्वाश्च ताः पुष्करिण्यो हंससारसकारण्डवक्रौञ्चचक्रवाकोपनिकूजिताः। सर्वानि च तान्युद्यानानि अममान्यपरिग्रहाणि, तेषामेव सत्त्वानां पूर्वकर्मविपाकेनाभिनिर्वृत्तानि, यथापि नाम दीर्घरात्रं प्रज्ञापारमितायां चरितवतां बुद्धनेत्रीचित्रीकारानुगतसुगतश्रुतचित्तानां सत्त्वानां दीर्घरात्रं गम्भीरेषु धर्मेष्वधिमुक्तानाम्। तत्र च कुलपुत्र गन्धवत्यां नगर्यां मध्येशृङ्गाटकस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य गृहं योजनं समन्तात्। सप्तानां रत्नानां चित्रं दर्शनीयम्। सप्तभिः प्राकारैः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्तम्। तस्मिंश्च गृहे चत्वार्युद्यानानि गृहपरिभोगोपभोगपरिभोगाय। नित्यप्रमुदितं च नामोद्यानम्। अशोकं च नाम शोकविगतं च नाम पुष्पचित्रं च नामोद्यानम्। एकैकस्मिंश्चोद्यानेऽष्टावष्टौ पुष्करिण्यो यदुत भद्रा च नाम, भद्रोत्तमा च नाम, नन्दा च नाम, नन्दोत्तमा च नाम, क्षमा च नाम, क्षमोत्तमा च नाम, नियता च नाम, अविवाहा च नाम। तासां च खलु पुष्करिणीनामेकं पार्श्वं सौवर्णमयं द्वितीयं पार्श्वं रूप्यमयं तृतीयं पार्श्वं वैदूर्यमयं चतुर्थं पार्श्वं स्फटिकमयम्।



अधोभूमिः कर्केतनमयी, सुवर्णवालुकास्तीर्णा। एकैकस्यां च पुष्करिण्यामष्टावष्टौ सोपानानि नानाविचित्रै रत्नमयैः सोपानफलकैः प्रतिमण्डितानि। सर्वस्मिंश्च सोपानफलकविवरान्तरे जाम्बूनदस्य सुवर्णस्य कदलीवृक्षो जातः। सर्वाश्च ताः पुष्करिण्यो नानोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिला हंससारसकारण्डवक्रौञ्चचक्रवाकोपकूजिताः। समन्ताच्च तासां पुष्करिणीनां नानाचित्राः पुष्पवृक्षा जाताः। तेषां पुष्पवृक्षाणां वातेनेरितानि पुष्पाणि पुष्करिणीषु पतन्ति। सर्वासु च तासु पुष्करिणीषु चन्दनगन्धिकं वारि, वर्णोपेतं रसोपेतं स्पर्शोपेतम्। तत्र च धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सपरिवारोऽष्टषष्टया स्त्रीसहस्रैः सार्धं पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडति रमते परिचारयति। येऽपि तत्र नगरे अन्ये सत्त्वा वास्तव्याः, स्त्रियश्च पुरुषाश्च, तेऽपि सर्वे नित्यप्रमुदिता उद्यानेषु पुष्करिणीषु च पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति। स खलु पुनर्धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सार्धं परिवारेण तावत्कालं क्रीडति रमते परिचारयति, ततस्त्रिकालं प्रज्ञापारमितां देशयति। येऽपि ते सत्त्वास्तत्र गन्धवत्यां नगर्यां वास्तव्याः तेऽपि मध्येनगरशृङ्गाटकस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य आसनं प्रज्ञपयन्ति, सुवर्णपादकं वा रूप्यपादकं वा वैडूर्यपादकं वा स्फटिकपादकं वा, तूलिकास्तीर्णं वा, गोणिकास्तीर्णं वा, उपरिगर्भोलिकं वा, काशिकवस्त्रप्रत्यास्तरणं वा अर्धक्रोशमुच्चैस्त्वेन। उपरिष्टाच्चान्तरीक्षे चैलवितानं मुक्ताविचित्रितं समं सहिता निरताः किमयं संस्थित इति सुसंस्थितविचित्रविपाकतया धारयन्ति। समन्ताच्च तं पृथिवीप्रदेशं पञ्चवर्णिकैः कुसुमैरभ्यवकिरन्ति संप्रविकिरन्ति।



नानागन्धधूपधूपितं च तं पृथिवीप्रदेशं कुर्वन्ति, यथापीदं धर्माशयविशुद्ध्या तस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मगौरवेण च। तत्र धर्मोद्गतो बोधिसत्त्वो महासत्त्वो निषण्णः प्रज्ञापारमितां देशयति। एवंरूपेण कुलपुत्र धर्मगौरवेण धर्माणां संनिश्रयतया श्रद्धेयश्रद्दधानतया श्रद्धोत्पादनेन ते सत्त्वा धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकात्प्रज्ञापारमितां शृण्वन्ति। तत्र च बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि संनिपतितानि देवमनुष्याणां शृण्वन्ति। ततोऽन्ये केचिदुद्दिशन्ति, केचित्स्वाध्यायन्ति, केचिल्लिखन्ति, केचिद्योनिशोमनसिकारेणानुगच्छन्ति। सर्वं च ते सत्त्वा अविनिपातधर्माणोऽविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेः। तस्य त्वं कुलपुत्र धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकं गच्छ। ततः श्रोष्यसि प्रज्ञापारमिताम्। स हि तव कुलपुत्र दीर्घरात्रं कल्याणमित्रं संदर्शकः समादापकः समुत्तेजकः संप्रहर्षकोऽनुत्तरायाः सम्यक्संबोधेः। तेनापि कुलपुत्र पूर्वमेवं प्रज्ञापारमिता पर्येषिता, यथा त्वमेतर्हि पर्येषसे। गच्छ त्वं कुलपुत्र रात्रिंदिवमधिष्ठितमनसिकारमुत्पादयमानो नचिरेण प्रज्ञापारमितां श्रोष्यसि॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः इदं श्रुत्वा तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातोऽभूत्। तद्यथापि नाम पुरुषः सविषेण शल्येन विद्धो नान्यं मनसिकारमुत्पादयति, अपि तु कदा नामाहं शल्यहर्तारं वैद्यं लप्स्ये यो ममेदं शल्यमुद्धरिष्यति, यो मामितो दुःखान्मोचयिष्यतीति। एवमेव सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्मिन् समये नान्यं कंचिद्धर्मं मनसि करोति, अपि तु कदा नामाहं तं कुलपुत्रं द्रक्ष्यामि यो मां प्रज्ञापारमितां श्रावयिष्यति, यन्मम धर्मं श्रुत्वा उपलम्भमनसिकाराः प्रहास्यन्त इति॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्मिन्नेव पृथिवीप्रदेशे स्थितः तस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितां देशयतः शृणोति स्म। शृण्वंश्च सर्वधर्मेष्वनिश्रितसंज्ञामुत्पादयति स्म। तस्यानेकानि समाधिमुखान्यामुखीभूतान्यभूवन्। तद्यथासर्वधर्मस्वभावव्यवलोकनो नाम समाधिः। सर्वधर्मस्वभावानुपलब्धिर्नाम समाधिः। सर्वधर्मस्वभावज्ञाननिर्गमो नाम समाधिः। सर्वधर्मनिर्नानात्वो नाम समाधिः। सर्वधर्मनिर्विकारदर्शी नाम समाधिः। सर्वधर्मावभासकरो नाम समाधिः। सर्वधर्मतमोपगतो नाम समाधिः। सर्वधर्मज्ञानविध्वंसनो नाम समाधिः। सर्वधर्मविधूननो नाम समाधिः। सर्वधर्मानुपलब्धिर्नाम समाधिः। कुसुमाभिकीर्णो नाम समाधिः। सर्वधर्मात्मभावाभिनिर्हारो नाम समाधिः। मायाविवर्जितो नाम समाधिः। आदर्शमण्डलप्रतिभासनिर्हारो नाम समाधिः। सर्वसत्त्वरुतनिर्हारो नाम समाधिः। रजोपगतो नाम समाधिः। सर्वसत्त्वाभिप्रमोदनो नाम समाधिः। सर्वसत्त्वरुतकौशल्यानुगतो नाम समाधिः। नानारुतपदव्यञ्जनाभिनिर्हारो नाम समाधिः। अस्तम्भितो नाम समाधिः।



प्रकृत्यव्यवहारो नाम समाधिः। अनावरणविमोक्षप्राप्तो नाम समाधिः। राजोपगतो नाम समाधिः। नामनिरुक्तिपदव्यञ्जनो नाम समाधिः। सर्वधर्मविपश्यनो नाम समाधिः। सर्वधर्मविषयापगतो नाम समाधिः। सर्वधर्मानावरणकोटिर्नाम समाधिः। गगनकल्पो नाम समाधिः। वज्रोपमो नाम समाधिः। आसन्नरूपराजो नाम समाधिः। असपत्न‍राजो नाम समाधिः। जयलब्धो नाम समाधिः। अविवर्त्यचक्षुर्नाम समाधिः। धर्मधातुनियतो नाम समाधिः। धर्मधातुनिर्गतो नाम समाधिः। आश्वासदाता नाम समाधिः। सिंहाभिगर्जितो नाम समाधिः। सर्वसत्त्वाभिभवनो नाम समाधिः। विगतरजो नाम समाधिः। असंक्लिष्टो नाम समाधिः। पद्मव्यूहो नाम समाधिः। काङ्क्षोच्छेदनो नाम समाधिः। सर्वसारानुगतो नाम समाधिः। सर्वधर्माभ्युद्गतो नाम समाधिः। अभिज्ञाबलवैशारद्यप्राप्तो नाम समाधिः। सर्वधर्मनिर्वेधको नाम समाधिः। सर्वधर्मविभवमुद्रा नाम समाधिः। सर्वधर्मविभवसमुद्रो नाम समाधिः। सर्वधर्मनिर्विशेषदर्शी नाम समाधिः। सर्वदृष्टिकृतगहनविवर्जितो नाम समाधिः। तमोपगतो नाम समाधिः। सर्वधर्मनिमित्तापगतो नाम समाधिः। सर्वसङ्गविमुक्तो नाम समाधिः। सर्वकौसीद्यापगतो नाम समाधिः। गम्भीरधर्मप्रभाकरो नाम समाधिः। मेरुकल्पो नाम समाधिः। असंहार्यो नाम समाधिः। मारमण्डलविध्वंसनकरो नाम समाधिः। त्रैलोक्यानभिनिविष्टो नाम समाधिः। रश्मिनिर्हारो नाम समाधिः। तथागतदर्शनो नाम समाधिः। सर्वतथागतदर्शी नाम समाधिः। स एषु समाधिषु स्थितः सन् दशदिशि लोके बुद्धान् भगवतः पश्यति स्म अप्रमेयानसंख्येयान् इमामेव प्रज्ञापारमितां प्रकाशयतो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः। ते च तथागताः साधुकारं ददति स्म, स्वासनं चास्य कुर्वन्ति स्म। एवं चावोचन्-अस्माभिरपि कुलपुत्र पूर्वं बोधिसत्त्वचर्यां चरद्भिरेवमेव प्रज्ञापारमिता परिगवेषिता।



परिगवेषमाणैश्च एते एव समाधयः प्रतिलब्धाः, ये त्वयैतर्हि प्रतिलब्धाः। एनांश्च समाधीन् प्रतिलभ्य गतिंगताः संवृत्ताः, प्रज्ञापारमितायामविनिवर्तनीयेषु बुद्धधर्मेषु प्रतिष्ठिताः। ते वयमेतेषामेव समाधीनां प्रकृतिं स्वभावं व्यवलोकयन्तस्तं धर्मं न समनुपश्यामो यः समापद्यते वा व्युत्तिष्ठते वा, यो बोधाय चरेत्, यो वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत। इयं सा कुलपुत्र प्रज्ञापारमिता, या न केनचिद्धर्मेण मन्यमानता। अमन्यमानतास्थितैरस्माभिरियमेवंरूपा कायस्य सुवर्णवर्णता प्रतिलब्धा। द्वात्रिंशच्च महापुरुषलक्षणानि। अशीतिश्चानुव्यञ्जनानि। व्यामप्रभता च। अचिन्त्यं च अनुत्तरं बुद्धज्ञानं बुद्धप्रज्ञा, अनुत्तरश्च बुद्धसमाधिः, सर्वबुद्धधर्मगुणपारमिता च अनुप्राप्ता यस्या गुणपारमिताया न शक्यं तथागतैरेव तावत्प्रमाणं ग्रहीतुं पर्यन्तो वा निदर्शयितुम्, किं पुनः श्रावकप्रत्येकबुद्धैः? तस्मात्तर्हि कुलपुत्र एतेष्वेव त्वया धर्मेषु गौरवमुत्पादयितव्यं भूयस्या मात्रया अर्थिकतया छन्दिकतया च। अर्थिकस्य हि कुलपुत्र छन्दिकस्य च न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः। कल्याणमित्रेषु च त्वया कुलपुत्र तीव्रं गौरवमुत्पादयितव्यम्, प्रेम च करणीयम्, प्रसादश्च करणीयः। कल्याणमित्रपरिगृहीता हि बोधिसत्त्वा महासत्त्वाः क्षिप्रमेव अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तांस्तथागतानेतदवोचत्-कोऽस्माकं कल्याणमित्रमिति? त एनमेतदवोचन्-दीर्घरात्रं त्वं कुलपुत्र धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन अनुत्तरायां सम्यक्संबोधौ परिपाचितः परिगृहीतश्च। प्रज्ञापारमितायामुपायकौशल्ये बुद्धधर्मेषु च शिक्षापितः। स तव कुलपुत्र परिग्राहकः कल्याणमित्रं च। तत्त्वया कृतज्ञतया कृतवेदितया च सत्कृत्य तत्कृतं धारयितव्यम्। सचेत्त्वं कुलपुत्र धर्मोद्गतं बोधिसत्त्वं महासत्त्वमेकं वा कल्पं द्वौ वा कल्पौ त्रीन् वा कल्पान् कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा ततो वा उत्तरे चैलोण्डुकमिव शिरसा परिकर्षेः, सर्वसत्त्वसुखोपस्थानं चास्योपस्थापयेः, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ रूपशब्दगन्धरसस्पर्शाः, तान् सर्वानुपनामयेः। एवमपि त्वया कुलपुत्र तस्य कुलपुत्रस्य नैव कृतस्य प्रतिकृतं भवेत्। तत्कस्य हेतोः? तस्य हि कुलपुत्र कुलपुत्रस्य अनुभावेन तवैषामेवंरूपाणां समाधीनां प्रतिलम्भः संवृत्तः। प्रज्ञापारमितोपायकौशल्यश्रवश्च प्रज्ञापारमिताप्रतिलम्भश्च संवृत्तः॥



अथ खलु ते तथागताः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं समाश्वास्य अन्तर्हिता अभूवन्। स च कुलपुत्रस्तेभ्यः समाधिभ्यो व्युदस्थात्। व्युत्थितस्य चास्य एतदभूत्-कुतस्ते तथागताः, क्व वा ते तथागता इति। स तांस्तथागतानपश्यन् महतीमुत्कण्ठां परितसनं चापन्नः। तस्यैतदभूत्-आर्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वो धारणीप्रतिलब्धः पञ्चाभिज्ञः पूर्वजिनकृताधिकारः मम संपरिग्राहकः कल्याणमित्रं च। दीर्घरात्रं च मम तेनार्थः कृतः। यन्न्वहमेतमर्थं धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभिगम्योपसंक्रम्य परिपृच्छेयम्-कुतस्ते तथागता आगताः, क्व वा ते तथागता गता इति॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गते बोधिसत्त्वे महासत्त्वे प्रेम च प्रसादं च चित्रीकारं च गौरवं च उपस्थापयति। उपस्थाप्य एवं प्राचिन्तयत्-कियद्रूपया नु खल्वहं सत्क्रियया तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम्? दरिद्रश्चास्मि। न च मे किंचित्तथारूपं वस्त्रं वा रत्नं वा सुवर्णं वा मणयो वा मुक्ता वा वैदूर्यं वा शङ्खशिला वा प्रवालं वा रजतं वा पुष्पं वा धूपो वा गन्धो वा माल्यं वा विलेपनं वा चूर्णं वा चीवरं वा छत्रं वा ध्वजं वा घण्टा वा पताका वा संविद्यते। केनाहं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यां गुरुकुर्याम्? न च ममैतत्प्रतिरूपं भवेत्, यदहमेवमेव धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम्। दरिद्रश्चास्मि। न च मे प्रीतिर्वा प्रामोधं वोत्पद्यते॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व एवंरूपैर्गुणैर्गौरवमनसिकारैर्गच्छन् अनुपूर्वेण अन्यतरं नगरमनुप्राप्तोऽभूत्। तत्र तस्यान्तरापणमध्यगतस्य एतदभूत्-यन्न्वहमिममात्मभावं विक्रीय तेन मूल्येन धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्कारं कुर्याम्। दीर्घरात्रं हि ममात्मभावसहस्राणि भग्नानि क्षीणानि निरुद्धानि विक्रीतानि। पुनः पुनरपरिमाणे संसारे अपरिमाणानि च निरयदुःखानि मया कामहेतोः कामनिदानमनुभूतानि। न पुनरेवंरूपाणां धर्माणां कृतश एवंरूपाणां वा सत्त्वानां सत्कारायेति। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वोन्तरापणमध्यगतः शब्दमनुश्रावयामास, घोषमुदीरयति स्म-कः पुरुषेणार्थिकः, कः पुरुषेणार्थिकः, कः पुरुषं क्रेतुमिच्छतीति॥



अथ खलु मारस्य पापीयस एतदभूत्-अयं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मकामतया यद्यात्मानं विक्रीय धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्कारं करिष्यति, प्रज्ञापारमितामुपायकौशल्यं च परिप्रक्ष्यति-कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्षिप्रमनुत्तरायां सम्यक्संबोधौ परिनिष्पत्स्यते इति, तदा श्रुतसागरतां चानुप्राप्स्यति, अधृष्यश्च भविष्यति मारेण वा मारकायिकाभिर्वा देवताभिः, सर्वगुणपारमितां चानुप्राप्स्यति। तत्र च बहूनां सत्त्वानामर्थं करिष्यति। तांश्च मम विषयादतिक्रामयिष्यति अन्यांश्च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य। यन्न्वहमस्यान्तरायं कुर्यामिति॥



अथ खलु मारः पापीयांस्तान् ब्राह्मणगृहपतिकांस्तथा प्रत्युत्थापयामास, यथा ते तं घोषं नाश्रौषुः सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य-कः पुरुषेणार्थिकः, कः पुरुषेणार्थिकः, कः पुरुषं क्रेतुमिच्छतीति। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो यदा आत्मनः क्रायकं न लभते, तदा एकान्तं गत्वा प्रारोदीत्, अश्रूणि प्रावर्तयत्। एवं चावोचत्-अहो बतास्माकं दुर्लब्धा लाभाः, ये वयमात्मभावस्यापि क्रायकं न लभामहे-यद्वयमात्मभावं विक्रीय धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामेति॥



अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्-यन्न्वहं सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं तुलयेयम्-किं न्वयं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वोऽध्याशयप्रतिपन्न आत्मभावपरित्यागं प्रति धर्मकामतया, उत नेति। अथ खलु शक्रो देवानामिन्द्रो माणवकवेषमभिनिर्माय येन सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः, तेनोपसंक्रामति स्म। उपसंक्रम्य सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-किं त्वं कुलपुत्र दीनदीनमना उत्कण्ठितमानसोऽश्रूणि प्रवर्तयमानः स्थितः? सदाप्ररुदितस्तमेवमाह-अहं माणवक आत्मानं विक्रेतुकामः। अस्य चात्मभावस्य क्रायकं न लभे। तं माणवकरूपी शक्र आह-कस्य पुनस्त्वं कुलपुत्र अर्थाय आत्मानं विक्रेतुकामः? सदाप्ररुदितस्तमाह-अहं माणवक धर्मकामतया इममात्मानं विक्रीय धर्मपूजां कर्तुकामः, आर्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कर्तुकामः। सोऽहमस्यात्मभावस्य क्रायकं न लभे। तस्य मे एतदभूत्-अहो बताहमत्यल्पपुण्यः, योऽहमस्यात्मभावस्यापि क्रायकं न लभे, येन तं विक्रीय प्रज्ञापारमितायाः पूजां कुर्याम्, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामिति। अथ खलु माणवकः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-न खलु मम कुलपुत्र पुरुषेण कृत्यम्।



अपि तु खलु पुनः पितुर्भे यज्ञो यष्टव्यः। तत्र मे पुरुषस्य हृदयेन कृत्यम्, लोहितेन च अस्थिमज्जया च। तद्दास्यसि त्वं क्रयेण? अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्-लाभा मे परमसुलब्धाः, परिनिष्पन्नं चात्मभावं जाने प्रज्ञापारमितोपायकौशल्ये बुद्धधर्मेषु च, यन्मयायं माणवकः क्रायको लब्धः हृदयस्य रुधिरस्य च अस्थिमज्जायाश्चेति। स हृष्टचित्तः कल्यचित्तः प्रमुदितचित्तस्तं माणवकमेतदवोचत्-दास्यामि माणवक येन येनैव ते इति आत्मभावादर्थः। स तमेतदवोचत्-किं ते कुलपुत्र मूल्यं ददामि? स तमेतदवोचत्-यत्ते माणवक परित्यक्तम्, तद्देहीति।



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निःस्रावयति स्म। दक्षिणं चोरुं विद्ध्वा निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रामति स्म। अथ खलु अन्यतरा श्रेष्ठिदारका उपरिष्टात्प्रासादतलगताभूत्। सा अद्राक्षीत्सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं बाहुं विद्ध्वा रुधिरं निःस्राव्य ऊरुं निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रान्तम्। तस्या एतदभूत्-किं नु खल्वयं कुलपुत्र आत्मनैवात्मनः ईदृशीं कारणां कारयति? यन्न्वहमेनं कुलपुत्रमुपसंक्रम्य परिपृच्छेयम्। अथ खलु सा श्रेष्ठिदारिका येन सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रान्ता। उपसंक्रम्य सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-किं नु खलु त्वं कुलपुत्र एवंरूपामात्मनः प्राणहारिणीं कारणां कारयसि? किं चानेन रुधिरेण करिष्यसि त्वमस्थिमज्जाभ्यां च? सदाप्ररुदित आह-अस्य दारिके माणवकस्यान्तिके इदं विक्रीय प्रज्ञापारमितां पूजयिष्यामि, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि॥



अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वतदवोचत्-का पुनस्ते कुलपुत्र ततो गुणजातिर्निष्पत्स्यते गुणविशेषो वा, यत्त्वमात्मनो हृदयं रुधिरं चास्थिमज्जानं च विक्रीय तं कुलपुत्रं सत्कर्तुकामः? स तां दारिकामेतदवोचत्-स दारिके कुलपुत्रोऽस्माकं प्रज्ञापारमितामुपायकौशल्यं चोपदेक्ष्यति। तत्र च वयं शिक्षिष्यामहे। तत्र वयं शिक्षमाणाः सर्वसत्त्वानां प्रतिशरणं भविष्यामः। अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सुवर्णवर्णं च कायं प्रतिलप्स्यामहे। द्वात्रिंशच्च महापुरुषलक्षणानि अशीतिं चानुव्यञ्जनानि व्यामप्रभतां च अनन्तरश्मितां च महामैत्री च महाकरुणां च महामुदितां च महोपेक्षां च। चत्वारि वैशारद्यानि प्रतिलप्स्यामहे, चतस्रश्च प्रतिसंविदः प्रतिलप्स्यामहे, अष्टादश च आवेणिकबुद्धधर्मान् प्रतिलप्स्यामहे, पञ्च च अभिज्ञाः, अचिन्त्यां च शीलविशुद्धिम्, अचिन्त्यां च समाधिविशुद्धिम्, अचिन्त्यां च प्रज्ञाविशुद्धिम्, दश च तथागतबलानि प्रतिलप्स्यामहे। अनुत्तरं च बुद्धज्ञानमभिसंभोत्स्यामहे। अनुत्तरं च धर्मरत्नं प्रतिलप्स्यामहे, येन च सर्वसत्त्वानां संविभागं करिष्याम इति॥



अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-आश्चर्यं कुलपुत्र यावदुदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः। एकैकस्यापि तावत्कुलपुत्र एवंरूपस्य धर्मस्यार्थाय गङ्गानदीवालुकोपमानपि कल्पानात्मभावाः परित्यक्तव्या भवेयुः, प्रागेव बहूनामर्थाय एकः। तथोदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः, यथा ममाप्येते रोचन्ते क्षमन्ते च। अपि नु खलु पुनः कुलपुत्र येन येनैवार्थेन ते कृत्यम्, तत्तत्ते दास्यामि सुवर्णं वा मणीन् वा मुक्तां वा रजतं वा वैदूर्यं वा मुसारगल्वं वा लोहितार्कं वा स्फाटिकं वा पुष्पं वा धूपं वा गन्धं वा माल्यं व विलेपनं वा चूर्णं वा वस्त्रं वा छत्रं वा ध्वजं वा घण्टां वा पताकां वा दीपं वा। तेन त्वं तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि। मा च आत्मन इमामेवंरूपां कारणां कार्षीः। वयमपि त्वयैव सार्धं गमिष्यामः, येनार्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वः। वयमपि त्वयैव सार्धं कुशलमूलान्यवरोपयिष्यामः, यदुत एषामेवंरूपाणां धर्माणां प्रतिलम्भायेति॥



अथ खलु शक्रो देवानामिन्द्रो माणवकवेषमन्तर्धापयित्वा स्वकेनात्मभावेन सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतोऽस्थात्, इदं चावोचत्-साधु साधु कुलपुत्र, यस्य ते इयमेवंरूपा दृढसमादानता। एवंरूपया च धर्मार्थिकतया पूर्वकैरपि तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिः प्रज्ञापारमितामुपायकौशल्यं च परिपृच्छद्भिरनुत्तरा च सम्यक्संबोधिरभिसंबुद्धा, धर्मरत्नं च प्रतिलब्धम्। तन्न मम कुलपुत्र हृदयेन कार्यम्, न रुधिरेण, नास्थिमज्जाभ्याम्, अपि तु खलु पुनरहं त्वामेव मीमांसितुकाम इहागतः। वृणीष्व कुलपुत्र वरम्। कियद्रूपं ते वरं दास्यामीति? स तामाह-अनुत्तरान् मे शक्र बुद्धधर्मान् देहीति। देवेन्द्र आह-न ममात्र कुलपुत्र विषये विषयिता। बुद्धानां पुनर्भगवतामत्र विषये विषयिता। अन्यं वरं वृणीष्वेति। सदाप्ररुदित आह-अल्पोत्सुकस्त्वं देवेन्द्र भव अत्र स्थाने ममात्मभावपरिपूरिमुपादाय। स्वयमेवाहमत्र देवेन्द्र सत्याधिष्ठानं करिष्यामि। येनाहं सत्येन अविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्व्याकृतस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः, ज्ञातश्चास्म्यशाठ्येनाध्याशयेन, तेन देवेन्द्र सत्येन सत्यवचनेन मम यथापौराणोऽयमात्मभावो भवतु। अथ खलु तत्क्षणं तल्लवं तन्मुहूर्तं सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धानुभावेन आशयपरिशुद्ध्या च यथापौराणोऽस्य कायः संस्थितोऽभूत्, अरोगो निरुपद्रवश्च। अथ खलु शक्रो देवानामिन्द्रो मारश्च पापीयान् निष्प्रतिभानः सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्योत्तरे प्रतिभानमप्रतिपद्यमानस्तत्रैवान्तर्हितोऽभूत्॥



अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-एहि त्वं कुलपुत्र। येनास्माकं निवेशनम्, तेनोपसंक्राम। अहं ते मातापितॄणामन्तिकात्तद्धनं दापयिष्यामि, येन त्वं तां प्रज्ञापारमितां पूजयिष्यसि, तं चार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि, यदुत धर्मकामतया। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं तया श्रेष्ठदारिकया येनास्याः स्वकं निवेशनं तेनोपसंक्रामति स्म। उपसंक्रम्य द्वारमूलेऽस्थात्॥



अथ खलु सा श्रेष्ठिदारिका स्वकं निवेशनं प्रविश्य स्वां मातरं पितरं चैतदवोचत्-अम्ब तात दद्ध्वं हिरण्यं सुवर्णं रत्नानि मणीन् वस्त्राणि पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाः। नानाविधाश्च दिव्या वाद्यप्रकृतीरुत्सृजत, मामपि सार्धमेभिः पञ्चभिर्दारिकाशतैर्या ममोपस्थायिका युष्मभिरेव दत्ताः। गमिष्याम्यहमपि सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन सार्धं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकं तस्य पूजार्थं च। सोऽस्माकं धर्मं देशयिष्यति। तेन वयं बुद्धधर्मान् प्रतिलप्स्यामहे। अथ खलु तौ तस्या दारिकाया मातापितरौ तां दारिकामेतदवोचताम्-कः पुनरेष दारिके सदाप्ररुदितो नाम बोधिसत्त्वो महासत्त्वः, क्व वा स एतर्हि तिष्ठति? दारिका आह-एष कुलपुत्रोऽस्माकमेव निवेशनद्वारमूलेऽवस्थितः। एष च कुलपुत्रोऽध्याशयेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थितः, यदुत सर्वसत्त्वानपरिमाणतः संसारदुःखान्मोचयितुकामः, सर्वधर्मकामतयात्मानं विक्रीय प्रज्ञापारमितां पूजयितुकामः, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कर्तुकामः। तस्य चात्मभावस्य कंचित्क्रायकं न लभते। अलभमानः सन् दुःखितो दुर्मनाः प्रध्यायन् दीनमना अश्रूणि प्रवर्तयमानः स्थितः। स शक्रेण देवानामिन्द्रेण माणवकरूपमभिनिर्मायोक्तः-किं त्वं कुलपुत्र दुःखी दुर्मनाः प्रध्यायन् दीनमानसोऽश्रूणि प्रवर्तयमानः स्थित इति? स तमाह-आत्मानं विक्रेतुकामोऽहम्। तस्य च क्रायकं न लभे। माणवकरूपी शक्रस्तमाह-कस्य पुनस्त्वं कुलपुत्र अर्थायात्मानं विक्रेतुकामः? सदाप्ररुदितेनोक्तः-प्रज्ञापारमितां पूजयिष्यामि, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि यदुत धर्मकामतया। तत्र प्रतिबद्धाश्च मे बुद्धधर्मा इति। माणवकरूपी शक्रस्तमाह-न मम कुलपुत्र त्वयार्थः। अपि तु खलु पुनः पितुर्मे यज्ञो भविष्यति। तत्र मे पुरुषस्य हृदयेन रूधिरेण अस्थिमज्जाभ्यां च कृत्यमिति।



तत एष कुलपुत्रोऽविषण्णमानस आह-दास्यामीति। स तीक्ष्णं शस्त्रं गृहीत्वा आत्मनो बाहुं विद्ध्वा लोहितं निःस्राव्य ऊरुं च निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रान्तः एकान्ते स्थित्वा अस्थि भित्त्वा मज्जानं च दास्यामीति। अहं चैनं कुलपुत्रमुपरिष्टात्प्रासादतलगता क्षरद्रुधिरमद्राक्षम्। तस्या ममैतदभूत्-किं नु खल्वयं पुरुष आत्मनैवात्मन एवंरूपां कारणां कारयतीति? तमेनमहमुपसंक्रम्यैवमवोचम्-किमर्थं त्वया कुलपुत्र आत्मनैवात्मन एवं क्षरद्रूधिरं शरीरं विकृतं कृतम्? तत एष मामेवमाह-अस्य दारिके माणवकस्य लोहितं हृदयमस्थि मज्जानं च दास्यामीति। तत्कस्य हेतोः? न ममान्यत्किंचिद्धनं संविद्यते। दरिद्रोऽस्मीति। तमेनमहमेवमवोचम्-किं पुनस्त्वं तेन धनेन करिष्यसीति? स एष मामेतदवोचत्-प्रज्ञापारमितां पूजयिष्यामि, तं चार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि यदुत धर्मकामतयेति। तमेनमहमेवमवोचम्-का पुनस्ते कुलपुत्र ततो गुणजातिर्भविष्यति गुणविशेषो वेति? ततः सोऽचिन्त्यान् मे बुद्धगुणान् वर्णयति संप्रकाशयति, अप्रमेयांश्च बुद्धधर्मान्-एषामेवंरूपाणां बुद्धधर्माणां मे तत आगमो भविष्यतीति। तस्य मे महत्तरं प्रीतिप्रामोद्यमुत्पन्नं तानचिन्त्यान् बुद्धगुणान् श्रुत्वा।



एवं च मेऽभूत्-आश्चर्यं यावद्दुष्करकारकश्चायं कुलपुत्रोऽतीव धर्मकामश्च, योऽयमेवंरूपमात्मनः शरीरस्य पीडास्थानमुत्सहते। अयं हि नाम कुलपुत्रो धर्मकामतया आत्मानं परित्यजति। कस्मादस्माभिर्धर्मो न पूजयितव्यः? एवंरूपेषु च स्थानेषु प्रणिधानं न कर्तव्यं स्यात्, येषामस्माकं प्रभूता विपुलाश्च भोगाः संविद्यन्ते इति। साहमेनं कुलपुत्रमेतदवोचम्-मा मा त्वं कुलपुत्र इमामेवंरूपामात्मनः प्राणहारिणीं कारणां कार्षीः। अहं ते प्रभूतप्रभूतं धनमनुप्रदापयिष्यामि येन तवार्थः। तेन त्वं तमार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि गुरुकरिष्यसि। अहमपि त्वयैव सार्धं येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रमिष्यामि। अहमपि तस्य कुलपुत्रस्य पूजां करिष्यामि। वयमप्येवंरूपान् धर्मान्निष्पादयिष्यामो यदुत अनुत्तरान् बुद्धधर्मान् ये त्वया परिकीर्तिता इति। तन्मामम्ब तात अनुजानीत। प्रभूतप्रभूतं च मे धनस्कन्धं दद्ध्वम्, येनाहमेतेनैव कुलपुत्रेण सार्धं गत्वा आर्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं पूजयिष्यामि॥



अथ खलु तौ तस्या दारिकाया मातापितरौ तां दारिकामेतदवोचताम्-आश्चर्यं यावद्दुष्करं च त्वमेतस्य कुलपुत्रस्य स्थानमाचक्षे। एकांशेनैव ते धर्मा अचिन्त्याः, सर्वलोकविशिष्टाः सर्वसत्त्वसुखावहाश्च, येषामेष कृतशः कुलपुत्रो दुष्करं स्थानमेवमुत्सहते। अनुजानीव आवां त्वां दारिके। आवयोरप्यवकाशं कुरु, यदावामपि गच्छावस्त्वयैव सार्धं तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं द्रष्टुं वन्दितुं पर्युपासितुं पूजयितुं च॥



अथ खलु सा श्रेष्ठिदारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पूजार्थं सत्कारार्थं च प्रस्थितां स्वां मातरं पितरं च विदित्वा एतदवोचत्-अम्ब तात एवं कुरुत, यथा वदत। नाहं कस्यचित्कुशलपक्षस्यान्तरायं करोमि। इत्युक्त्वा एवं सा श्रेष्ठिदारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पूजार्थं सत्कारार्थं च प्रस्थिता बभूव॥



अथ खलु सा श्रेष्ठिदारिका पञ्च रथशतान्यलंकारयामास। तानि च पञ्च दारिकाशतान्यलंकारयामास। अलंकृत्य नानावर्णानि विचित्राणि पुष्पाणि गृहीत्वा नानारङ्गाणि वस्त्राणि पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाश्च गृहीत्वा नानारत्नानि च विचित्राणि नानारत्नमयानि च विचित्राणि पुष्पाणि गृहीत्वा प्रभूतप्रभूतं खादनीयं भोजनीयं स्वादनीयं च गृहीत्वा एकं रथं सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन सार्धमभिरुह्य तैः पञ्चभी रथशतैः पञ्चदारिकाशताभिरूढैः परिवृत्ता पुरस्कृता महता च परिवारेण मातापितृपूर्वंगमा येन पूर्वा दिक् तेन प्रक्रान्ता। अनुपूर्वेण च गच्छन् सदाप्ररुदितो बोधिसत्त्वो महासत्त्वोऽद्राक्षीद्दूरादेव तां गन्धवतीं नगरीं सप्तानां रत्नानां चित्रां दर्शनीयां सप्तभिः प्राकारैः सप्तरत्नमयैरनुपरिक्षिप्तां सप्तभिस्तोरणैः सप्तभिः परिखाभिः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्तां द्वादश योजनानि विस्तारेण द्वादश योजनान्यायामेन ऋद्धां स्फीतां च क्षेमां च सुभिक्षां च आकीर्णबहुजनमनुष्यां च पञ्चभिरन्तरापणवीथीशतैरालेख्यविचित्रचित्रसदृशैर्दर्शनीयैर्निर्विद्धां समसमैरनुत्पीडजनयुग्ययानसंक्रमणस्थानस्थापितैः सुमापितां च। मध्ये च नगरशृङ्गाटकस्य अद्राक्षीद्धर्मोद्गतं बोधिसत्त्वं महासत्त्वं धर्मासनगतमनेकशतया पर्षदा अनेकसहस्रया अनेकशतसहस्रया पर्षदा परिवृत्तं पुरस्कृतं धर्मं देशयन्तम्।



सहदर्शनेनैव च तस्य एवंरूपं सुखं संप्रतिलभते स्म तद्यथापि नाम प्रथमध्यानसमापन्नो भिक्षुरेकाग्रेण मनसिकारेण। दृष्ट्वा चास्य एतदभूत्-न मम प्रतिरूपमेतद्भवेत्, यदहं रथगत एव धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम्। यन्न्वहं रथादवतरेयम्। स ततो रथादवातरत्। तान्यपि पञ्च दारिकाशतानि श्रेष्ठिदारिकया सह रथेभ्योऽवतेरुः। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः श्रेष्ठिदारिकापूर्वंगमैः पञ्चभिर्दारिकाशतैः परिवृतः पुरस्कृतोऽपरिमाणपूजाव्यूहेन येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रामति स्म॥



तेन खलु पुनः समयेन धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाः कृतशः सप्तरत्नमयं कूटागारं कारितमभूत् लोहितचन्दनालंकृतं मुक्ताजालपरिक्षिप्तम्। चतुर्षु कूटागारकोणेषु मणिरत्नानि स्थापितानि, यानि प्रदीपकृत्यं कुर्वन्ति स्म। चतस्रश्च धूपघटिका रूपमय्यश्चतुर्दिशमवसक्ताः, यत्र शुद्धं कृष्णागुरु धूप्यते स्म यदुत प्रज्ञापारमितायाः पूजार्थम्। तस्य च कूटागारस्य मध्ये सप्तरत्नमयः पर्यङ्कः प्रज्ञप्तोऽभूत्। चतुर्णां रत्नानां पेडा कृता, यत्र प्रज्ञापारमिता प्रक्षिप्ता सुवर्णपट्टेषु लिखिता विलीनेन वैदूर्येण। तच्च कूटागारं नानाचित्रपट्टदामभिः प्रलम्बमानैरलंकृतमभूत्॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं श्रेष्ठिदारिकापूर्वंगमैः पञ्चदारिकाशतैः तं कूटागारमद्राक्षीदपरिमाणेन पूजाव्यूहेन प्रतिमण्डितम्। अनेकानि च तत्र देवतासहस्राण्यद्राक्षीत्, शक्रं च देवानामिन्द्रं दिव्यैर्मान्दारवपुष्पैर्दिव्यैश्चन्दनचूर्णैर्दिव्यैश्च सुवर्णचूर्णैर्दिव्यैश्च रूप्यचूर्णैस्तं कूटागारमवकिरन्तमभ्यवकिरन्तमभिप्रकिरन्तम्। दिव्यानि च वाद्यान्यश्रौषीत्। दृष्ट्वा श्रुत्वा च सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रं देवानामिन्द्रमेतदवोचत्-किमर्थं त्वं देवेन्द्र अनेकैर्देवतासहस्रैः सार्धमिदं रत्नमयं कूटागारं दिव्यैर्मान्दारवैः पुष्पैर्दिव्यैश्चन्दनचूर्णैर्दिव्यैः सुवर्णचूर्णैर्दिव्यैश्च रूप्यचूर्णैरवकिरसि अभ्यवकिरसि अभिप्रकिरसि? इमानि च दिव्यानि वाद्यानि देवैरुपर्यन्तरीक्षे प्रवादितानि? एवमुक्ते शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-न त्वं कुलपुत्र जानीषे? एषा हि सा प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां माता परिणायिका, यत्र शिक्षमाणा बोधिसत्त्वा महासत्त्वाः सर्वगुणपारमितानुगतान् सर्वबुद्धधर्मान् सर्वाकारज्ञतां च क्षिप्रमनुप्राप्नुवन्तीति।



एवमुक्ते सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रं देवानामिन्द्रमेतदवोचत्-क्वासौ कौशिक प्रज्ञापारमिता, या बोधिसत्त्वानां महासत्त्वानां माता परिणायिका? शक्र आह-एषा कुलपुत्र अस्य कूटागारस्य मध्ये सुवर्णपट्टेषु विलीनेन वैदूर्येण लिखित्वा आर्येण धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन सप्तभिर्मुद्राभिर्मुद्रयित्वा स्थापिता। सा न सुकरा अस्माभिस्तव दर्शयितुम्। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं श्रेष्ठिदारिकाप्रमुखै पञ्चभिर्दारिकाशतैः समग्रीभूतैः, यान्यनेन पुष्पाणि गृहीतानि माल्यदामानि च वस्त्ररत्नानि च धूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाश्च सुवर्णरूप्यमयानि च पुष्पाणि, तैः प्रज्ञापारमितायाः पूजामकार्षुः, अन्यतरान्यतरं च ततः प्रत्यंशं स्थापयामासुः यदुत धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्काराय॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि पुष्पधूपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः सुवर्णरूप्यमयैश्च पुष्पैर्दिव्यैश्च वाद्यैः प्रज्ञापारमितां पूर्वं पूजयित्वा येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रम्य धर्मोद्गतं बोधिसत्त्वं महासत्त्वं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिश्चन्दनचूर्णैः सुवर्णरूप्यमयैश्च पुष्पैरवाकिरन् अभ्यवाकिरन् अभिप्राकिरन्, दिव्यानि च वाद्यानि संप्रवादयति स्म धर्मपूजामेवोपादाय॥



अथ खलु तानि पुष्पाणि धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्योपरिष्टान्मूर्ध्नि पुष्पकूटागारं प्रातिष्ठन्। तानि च नानावर्णानि पुष्पाणि सुवर्णरूप्यमयानि च पुष्पाणि विहायसि वितानमिव स्थितानि। तान्यपि चीवराणि वस्त्ररत्नानि च अन्तरीक्षे नानारत्नमयोऽभ्रमण्डप इव संस्थितोऽभूत्। अद्राक्षीत्खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च पञ्च दारिकाशतानि श्रेष्ठिदारिकाप्रमुखानि धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्येदमेवंरूपमृद्धिप्रातिहार्यम्। दृष्ट्वा च पुनरेषामेतदभूत्-आश्चर्यं यावन्महर्द्धिकश्चायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वो यावन्महानुभावो यावन्महौजस्कः। बोधिसत्त्वचर्यामेव तावच्चरतोऽस्य कुलपुत्रस्यैवंरूपा ऋद्धिविकुर्वणा, किं पुनर्यदायमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यतीति॥



अथ खलु तानि श्रेष्ठिदारिकापूर्वंगमानि पञ्च दारिकाशतानि धर्मोद्गते बोधिसत्त्वे महासत्त्वे स्पृहामुत्पाद्य सर्वास्ताः समग्रीभूता अध्याशयेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयामासुः, एवं चावोचन्-अनेन वयं कुशलमूलेन अनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा भवेम। बोधिसत्त्वचर्यां च वयं चरन्त्य एतेषामेव धर्माणां लाभिन्यो भवेम, येषां धर्माणामयं धर्मोद्गतो बोधिसत्त्वो महासत्त्वो लाभी। एवमेव च प्रज्ञापारमितां सत्कुर्याम गुरुकुर्याम, यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सत्करोति गुरुकरोति। बहुजनस्य च संप्रकाशयेम यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः संप्रकाशयति। एवमेव च प्रज्ञापारमितया उपायकौशल्येन च समन्वागता भवेम। परिनिष्पद्येमहि च यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया उपायकौशल्येन च समन्वागतः परिनिष्पन्नश्च॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि प्रज्ञापारमितां पूजयित्वा धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं सत्कृत्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पादौ शिरसाभिवन्द्य एकान्ते सगौरवाः सप्रतीक्षाः प्राञ्जलीन् कृत्वातिष्ठन्। एकान्ते स्थितश्च सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गतं बोधिसत्त्वं महासत्त्वमेतदवोचत्-इहाहं कुलपुत्र प्रज्ञापारमितां गवेषमाणोऽरण्यगतो निर्घोषमश्रौषम्-गच्छ कुलपुत्र पूर्वां दिशम्। ततः प्रज्ञापारमितां श्रोष्यसीति। सोऽहं सम्यक् तं निर्घोषं श्रुत्वा येन पूर्वा दिक् तेन संप्रस्थितः। तस्य मे एतदभूत्-सम्यक् च मया निर्घोषः श्रुतः। न च मया स निर्घोषः परिपृष्टः -कियद्दूरं मया गन्तव्यम्, कस्य वा अन्तिकात्प्रज्ञापारमितां श्रोष्यामि लप्स्ये वेति। तस्य मे महद्दौर्मनस्यमभूत्।



सोऽहं तेन दौर्मनस्येन महतीमुत्कण्ठां परितपनं चापन्नोऽभूवम्। तस्मिन्नेव पृथिवीप्रदेशे सप्तरात्रिंदिवान्यतिनामयामि उत्कण्ठितः। नाहारसमुदाचारमुत्पादयामि। अपि तु प्रज्ञापारमितामेव मनसि करोमि-कियद्दूरं मया गन्तव्यम्, कुतो वा प्रज्ञापारमितां लप्स्ये श्रवणाय ? न च मया स निर्घोषः परिपृष्टः इति। ततो मे तथागतविग्रहः पुरतः प्रादुर्भूतः। स मामेवमाह-गच्छ कुलपुत्र इतः पञ्चभिर्योजनशतैरनुपूर्वेण गन्धवती नाम नगरी। तत्र द्रक्ष्यसि धर्मोद्गतं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितां देशयन्तं प्रकाशयन्तमिति। ततोऽहं महतोदारेण प्रीतिप्रामोद्येन समन्वागतः। सोऽहं तेनैव महतोदारेण प्रीतिप्रामोद्येन स्फुटस्ततः पृथिवीप्रदेशान्न चलितः, तव च प्रज्ञापारमितां देशयतः शृणोमि। तस्य मे शृण्वतो बहूनि समाधिमुखानि प्रादुर्भूतानि। तत्र स्थितं मां दशदिग्लोकधातुस्थिता बुद्धा भगवन्तः समाश्वासयन्ति, साधुकारं च ददति-साधु साधु कुलपुत्र, एते समाधयः प्रज्ञापारमितानिर्जाताः, यत्र स्थितैरस्माभिः सर्वबुद्धधर्माः परिनिष्पादिता इति। ते मां तथागताः साधु च सुष्ठु च संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य अन्तर्हिताः। अहं च ततः समाधेर्व्युत्थितः।



तस्य मे एतदभूत्-कुतो नु ते तथागता आगताः, क्व वा ते तथागता गता इति ? तस्य च मे एतदभूत्-आर्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वो धारणीप्रतिलब्धः पञ्चाभिज्ञः पूर्वजिनाकृताधिकारोऽवरोपितकुशलमूलः, प्रज्ञापारमितायां उपायकौशल्ये च सुशिक्षितः। स मे एनमर्थं यथावद्विचरिष्यति, यतस्ते तथागता आगता यत्र वा ते तथागता गता इति। सोऽहं तस्य तथागतविग्रहस्य निर्घोषं श्रुत्वा यथानुशिष्टं येन पूर्वां दिक् तेन संप्रस्थितः। आगच्छंश्चाहं दूरत एवार्यमद्राक्षं धर्मं देशयन्तम्। सहदर्शनाच्च ममेदृशं सुखं प्रादुरभूत्, तद्यथापि नाम प्रथमध्यानसमापन्नस्य भिक्षोरेकाग्रमनसिकारस्य। सोऽहं त्वां कुलपुत्र पृच्छामि-कुतस्ते तथागता आगताः, कुत्र ते तथागता गता इति ? देशय मे कुलपुत्र तेषां तथागतानामागमनं गमनं च। यथा वयं तेषां तथागतानामागमनं गमनं च जानीम, अविरहिताश्च भवेम तथागतदर्शनेनेति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project