Digital Sanskrit Buddhist Canon

२९ अनुगमपरिवर्त एकोनत्रिंशत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 29 anugamaparivarta ekonatriṁśattamaḥ
२९ अनुगमपरिवर्त एकोनत्रिंशत्तमः।



पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन एवं प्रज्ञापारमिता अनुगन्तव्या - सर्वधर्मासङ्गतः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मासंभेदनतः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मासंभवतः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मानिर्विकारसमा इति प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्माणामनात्मविज्ञप्तितः प्रज्ञानुबोधनतः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्माश्च नाममात्रेण व्यवहारमात्रेणाभिलप्यन्ते इति प्रज्ञापारमिता अनुगन्तव्या। व्यवहारश्च न क्वचिन्न कुतश्चिन्न कश्चिद्व्यवहारः। सर्वधर्मा अव्यवहारा अव्याहारा अव्यवहृता अव्याहृता इति प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्माप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या। रूपाप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या। एवं वेदनाप्रमाणतः संज्ञाप्रमाणतः संस्काराप्रमाणतः। विज्ञानाप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मानिमित्ततः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मनिर्वेधतः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मप्रकृतिपरिशुद्धितः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मावचनतः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्माणामनिरोधतः प्रहाणसमतया प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्माणां निर्वाणप्राप्तितस्तथतासमतया प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मा नागच्छन्ति, न गच्छन्ति, अजानाना अजाता अत्यन्ताजातित इति प्रज्ञापारमिता अनुगन्तव्या। आत्मपरादर्शनतः प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मा आर्यार्हन्तः प्रकृतिपरिशुद्धा इति प्रज्ञापारमिता अनुगन्तव्या। अपहृतभाराः सर्वधर्माभारानारोपणतयेति प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मादेशाप्रदेशतः प्रज्ञापारमिता अनुगन्तव्या। तत्कस्य हेतोः ? रूपं हि सुभूते अदेशमप्रदेशं प्रकृतिस्वभावतः। एवं वेदना संज्ञा संस्काराः। विज्ञानं हि सुभूते अदेशमप्रदेशं प्रकृतिस्वभावतः सर्वधर्मनिरोधप्रह्लादनत्वादिति प्रज्ञापारमिता अनुगन्तव्या। अरत्यविरतितः प्रज्ञापारमिता अनुगन्तव्या। अरक्ताविरक्ततया प्रज्ञापारमिता अनुगन्तव्या।



तत्कस्य हेतोः ? रूपं हि सुभूते सतत्त्वेन स्वभावेन न रज्यते न विरज्यते। एवं वेदना संज्ञा संस्काराः। विज्ञानं हि सुभूते सतत्त्वेन स्वभावेन न रज्यते न विरज्यते प्रकृतिपरिशुद्धत्वादिति प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मा असक्ताः सङ्गासङ्गविगता इति प्रज्ञापारमिता अनुगन्तव्या। बोधिः सर्वधर्मा बुद्धज्ञानावबोधनतयेति प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मशून्यानिमित्ताप्रणिहिततया प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मा भैषज्यमैत्रीपूर्वंगमतयेति प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मा मैत्रीविहारिणः करुणाविहारिणो मुदिताविहारिण उपेक्षाविहारिण इति प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्मा ब्रह्मभूता दोषानुत्पादनतः सर्वदोषानुत्पादनत इति प्रज्ञापारमिता अनुगन्तव्या। सर्वधर्माणामप्रणिहिततोऽप्रतिहतित इति प्रज्ञापारमिता अनुगन्तव्या। समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। गगनापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। मेरुविचित्रतया प्रज्ञापारमिताविचित्रता अनुगन्तव्या। रूपापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। एवं वेदना संज्ञा संस्काराः। विज्ञानापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। सूर्यरश्मिमण्डलापर्यन्तावभासनतया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। सर्वशब्दापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। सर्वबुद्धधर्मसमुदागमापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। पृथिवीधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। एवमब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। कुशलाकुशलधर्मसंचयाप्रमाणतया प्रज्ञापारमिताप्रमाणता अनुगन्तव्या। सर्वधर्मसंचयाप्रमाणतया प्रज्ञापारमिताप्रमाणता अनुगन्तव्या। सर्वधर्मसमाध्यपर्यन्तताप्रतिलम्भितया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। सर्वबुद्धधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। शून्यतापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। चित्तचैतसिकापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। चित्तचरितापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमितापरिमाणता अनुगन्तव्या। सिंहनादनदनतया प्रज्ञापारमितानदनता अनुगन्तव्या। सर्वधर्माकोप्यतया प्रज्ञापारमिताकोप्यता अनुगन्तव्या। तत्कस्य हेतोः ? रूपं हि सुभूते समुद्रसमम्। एवं वेदनां संज्ञा संस्काराः। विज्ञानं हि सुभूते समुद्रसमम्। रूपं हि गगनसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं गगनसमम्। रूपं विचित्रमेरूसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं विचित्रमेरुसमम्। रूपमपर्यन्तसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानमपर्यन्तसमम्। रूपं सूर्यमण्डलरश्म्युत्पादसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सूर्यमण्डलरश्म्युत्पादसमम्। रूपं सर्वशब्दापर्यन्तसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सर्वशब्दापर्यन्तसमम्। रूपं सर्वसत्त्वधात्वपर्यन्तसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सर्वसत्त्वधात्वपर्यन्तसमम्। रूपं सर्वबुद्धधर्मसमुदागमापर्यन्तसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सर्वबुद्धधर्मसमुदागमापर्यन्तसमम्। रूपं सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्तसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्तसमम्। रूपं पृथिवीसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं पृथिवीसमम्। रूपमप्समम्। एवं वेदना संज्ञा संस्काराः। विज्ञानमप्समम्। रूपं तेजःसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं तेजःसमम्। रूपं वायुसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं वायुसमम्। रूपमाकाशसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानमाकाशसमम्। रूपं विज्ञानसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं विज्ञानसमम्। रूपं कुशलाकुशलधर्मसंचयविगतम्।





एवं वेदना संज्ञा संस्काराः। विज्ञानं कुशलाकुशलधर्मसंचयविगतम्। रूपं सर्वधर्मसंचयविगतम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सर्वधर्मसंचयविगतम्। रूपं सर्वधर्मसमाध्यपर्यन्ततासमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सर्वधर्मसमाध्यपर्यन्ततासमम्। रूपं विगमः, रूपस्वभावो रूपतथता बुद्धधर्माः। एवं वेदना संज्ञा संस्काराः। विज्ञानं विगमः, विज्ञानस्वभावो विज्ञानतथता बुद्धधर्माः। रूपं सर्वधर्मापर्यन्तधर्मता। एवं वेदना संज्ञा संस्काराः। विज्ञानं सर्वधर्मापर्यन्तधर्मता। रूपं शून्यमपर्यन्तधर्मता। एवं वेदना संज्ञा संस्काराः। विज्ञानं शून्यमपर्यन्तधर्मता। रूपं चित्तचैतसिकापर्यन्तता। एवं वेदना संज्ञा संस्काराः। विज्ञानं चित्तचैतसिकापर्यन्तता। रूपं चित्तचरितोत्पत्तिः। एवं वेदना संज्ञा संस्काराः। विज्ञानं चित्तचरितोत्पत्तिः। रूपं कुशलमकुशलम्, यावदनुपलब्धिः। एवं वेदना संज्ञा संस्काराः। विज्ञानं कुशलमकुशलम्, यावदनुपलब्धिः। रूपं सिंहनादसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सिंहनादसमम्। रूपमकोप्यम्। एवं वेदना संज्ञा संस्काराः। विज्ञानमकोप्यम्। एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अनुगन्तव्या॥



यदायं सुभूते बोधिसत्त्वो महासत्त्व एवमेनां प्रज्ञापारमितामनुगमिष्यति, व्यवचारयिष्यति अवतरिष्यति अवभोत्स्यते चिन्तयिष्यति तुलयिष्यति उपपरीक्षिष्यते भावयिष्यति सर्वमायाशाठ्यविवर्जितैर्मनसिकारैः, सर्वमन्यनाविवर्जितैर्मनसिकारैः, आत्मोत्कर्षणविवर्जितैर्मनसिकारैः, सर्वकौसीद्यविवर्जितैर्मनसिकारैः, परपंसनाविवर्जितैर्मनसिकारैः, आत्मसंज्ञाविवर्जितैर्मनसिकारैः, सत्त्वसंज्ञाविवर्जितैर्मनसिकारैः, लाभसत्कारश्लोकविवर्जितैर्मनसिकारैः, पञ्चनीवरणविवर्जितैर्मनसिकारैः, ईर्ष्यामात्सर्यविवर्जितैर्मनसिकारैः, सर्वेञ्जनाविवर्जितैर्मनसिकारैः, तदा नास्य दुर्लभा भविष्यति सर्वगुणानां परिपूरिः, बुद्धक्षेत्रस्यानुत्तराणां च बुद्धधर्माणां परिपूरिरिति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामनुगमपरिवर्तो नामैकोनत्रिंशत्तमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project