Digital Sanskrit Buddhist Canon

२८ अवकीर्णकुसुमपरिवर्तोऽष्टाविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२८ अवकीर्णकुसुमपरिवर्तोऽष्टाविंशतितमः।



अथ खलु तस्मिन् समयेऽन्यतरो देवपुत्रस्त्रायस्त्रिंशैर्देवपुत्रैः सार्धं मान्दारवाणि महामान्दारवाणि च पुष्पाणि गृहीत्वा येन भगवांस्तेनोपसंक्रान्तः। षष्ठं शतं च भिक्षूणां तस्मिन्नेव समये तस्यामेव पर्षदि संनिपतितं संनिषण्णं चाभूत्। ते उत्थायासनेभ्य एकांसान्युत्तरासङ्गानि कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमयामासुः। तेषा भिक्षूणां बुद्धानुभावेन तेऽञ्जलिप्रग्रहा मान्दारवमहामान्दारवाणां पुष्पाणां परिपूर्णा अभूवन्। ते तैर्मान्दारवैर्महामान्दारवैश्च पुष्पैस्तथागतमर्हन्तं सम्यक्संबुद्धमवाकिरन्, अभ्यवाकिरन्, अभिप्राकिरन्, एवं च वाचमभाषन्त-वयं भगवन् अस्यां प्रज्ञापारमितायां चरिष्यामः, वयं भगवन् अनेन अनुत्तरेण प्रज्ञापारमिताविहारेण विहारिष्याम इति॥



अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुरकरोत्। धर्मता खलु पुनरेषां बुद्धानां भगवताम्- यदा स्मितं प्रादुष्कुर्वन्ति, अथ तदा नानावर्णा अनेकवर्णा रश्मयो भगवतो मुखद्वारान्निश्चरन्ति-तद्यथा नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतसुवर्णवर्णाः। ते निश्चर्य अनन्तापर्यन्तान् लोकधातूनाभया अवभास्य यावद्ब्रह्मलोकमभ्युद्गम्य पुनरेव प्रत्युदावृत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो मूर्धन्यन्तर्धीयन्ते॥



अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमेतदवोचत्- नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति। को भगवन् हेतुः, कः प्रत्ययः स्मितस्य प्रादुष्करणाय ? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-इदमानन्द भिक्षूणां षष्ठं शतमनागतेऽध्वनि तारकोपमे कल्पे अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, अभिसंबुध्य च सत्त्वेभ्यो धर्मं देशयिष्यति। सर्वे चैकनामानो भविष्यन्ति यदुत अवकीर्णकुसुमनामानः। तथागता अर्हन्तः सम्यक्संबुद्धाः शास्तारो लोके भविष्यन्ति। तेषां खलु पुनरानन्द अवकीर्णकुसुमनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां सर्वेषां समः श्रावकसंघो भविष्यति। सर्वेषां च तेषामवकीर्णकुसुमनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां सममेवायुःप्रमाणं भविष्यति विंशतिकल्पसहस्राणि। सर्वेषामेव चैकैकस्य वैस्तारिकं प्रवचनं भविष्यति पृथुवैपुल्यप्राप्तं देवमनुष्येषु।



सर्वेषामेव च सद्धर्मः समं स्थास्यति, विंशतिमेव कल्पसहस्राण्येकैकस्य। सर्वे च ते यतो यत एव ग्रामनगरनिगमजनपदराष्ट्रराजधानीतोऽभिनिष्क्रमिष्यन्ति, अभिनिष्क्रम्य यत्र यत्र धर्मचक्रं प्रवर्तयिष्यन्ति, प्रवर्त्य च यत्र यत्र च विहरिष्यन्ति, यतो यतश्च यत्र यत्रैव च प्रवेक्षन्ति, येन येन च यतो यत एव चाभिनिष्क्रमिष्यन्ति, ततस्ततस्तत्र तत्र तेषां प्रविशतामभिनिष्क्रामतां विहरतां च पञ्चवर्णिकानां पुष्पाणां पुष्पवर्षाः प्रवर्तिष्यन्ते। तस्मात्तर्हि आनन्द बोधिसत्त्वैर्महासत्त्वैरुत्तमेन विहारेण विहर्तुकामैः प्रज्ञापारमिताविहारेण विहर्तव्यम्। तथागतविहारेण आनन्द विहर्तुकामैः प्रज्ञापारमिताविहारेण विहर्तव्यम्। ये हि केचिदानन्द बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरिष्यन्ति, निष्ठा तत्र गन्तव्या - मनुष्येभ्य एवैते च्युता भविष्यन्ति। ते इहोपपन्नास्तुषितेभ्य एव वा देवनिकायेभ्यश्च्युता भविष्यन्ति मनुष्येष्वेवोपपन्नाः। तत्कस्य हेतोः ? तथा हि मनुष्येषु तुषितेषु च देवेषु इयं प्रज्ञापारमिता विस्तरेण प्रचरिष्यतीति। तथागतावलोकिताः खलु पुनरानन्द ते बोधिसत्त्वा महासत्त्वा वेदितव्याः, य इह प्रज्ञापारमितायां चरिष्यन्ति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति, धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, अन्तशो लिखिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य अन्तशो लिखित्वा बोधिसत्त्वान् महासत्त्वानववदिष्यन्ति अनुशासिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति। अवरोपितकुशलमूलास्ते आनन्द बोधिसत्त्वा महासत्त्वा वेदितव्यास्तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु।



न केवलं श्रावकप्रत्येकबुद्धानामन्तिके तैः कुशलमूलान्यवरोपितानि इह प्रज्ञापारमितायां शिक्षितुम्, निःसंशयं खलु पुनरानन्द तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु तैः कुशलमूलान्यवरोपितानि बोधिसत्त्वैर्महासत्त्वैः, य इह प्रज्ञापारमितायां शिक्षन्ते, न चोत्रासमापद्यन्ते। ये च आनन्द एनां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, अर्थतश्च धर्मतश्च नयतश्चानुगमिष्यन्ति, निष्ठा आनन्द तत्र गन्तव्या-संमुखीभूतास्ते अभूवन् बोधिसत्त्वा महासत्त्वास्तथागतानामर्हतां सम्यक्संबुद्धानामिति। ये चैनां प्रज्ञापारमितां न प्रतिक्रोशन्ति, न प्रतिवहन्ति, न प्रतिकोपयन्ति, न प्रतिसंहरन्ति, न प्रतिषेधयन्ति, न प्रतिक्षिपन्ति , न प्रतिबाधितव्यां मंस्यन्ते, तेऽप्यानन्द बोधिसत्त्वा महासत्त्वाः पूर्वजिनकृताधिकारा वेदितव्याः॥



किंचाप्यानन्द बोधिसत्त्वेन महासत्त्वेन तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके कुशलमूलमवरोपितम्, एवं हि तन्न श्रावकप्रत्येकबुद्धत्वाय दास्यति विपाकम्। सचेद्बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधौ न विसंवादयिष्यति प्रणिधानम्, अपि तु खलु पुनरानन्द प्रायेण तेन बोधिसत्त्वेन महासत्त्वेन कृतज्ञेन भवितव्यं प्रज्ञापारमितायां चरितवता। तस्मात्तर्हि ते आनन्द परीन्दामि अनुपरीन्दामि इमां प्रज्ञापारमितां भूयस्या मात्रया अक्षरसंनिपातादुद्ग्रहणाय धारणाय वाचनाय पर्यवाप्तये प्रवर्तनाय चिरस्थितये यथेयं नान्तर्धीयेत। सचेत्त्वमानन्द यो मया ते धर्मो देशितः साक्षात् स्थापयित्वा प्रज्ञापारमिताम्, तां सर्वां धर्मदेशनामुद्गृह्य पुनरेव विप्रणाशयेः, पुनरेवोत्सृजेः विस्मारयेः, न मे त्वमानन्द एतावता अपराद्धः स्याः। यत्खलु पुनस्त्वमानन्द प्रज्ञापारमिताप्रतिसंयुक्तं पदं वा पदसामन्तकं वा नाशयेः, उत्सृजेः, विस्मारयेः, तावता त्वमानन्द ममापराद्धः स्याः, न च मे त्वं चित्तमाराधयेः।



सचेत्पुनस्त्वमानन्द प्रज्ञापारमितामुद्गृह्य पुनरेव नाशयेः, पुनरेवोत्सृजेः, विस्मारयेः, न त्वयाहं सत्कृतो गुरुकृतः स्याम्, न मानितो न पूजितो नार्चितो नापचायितः स्याम्। येऽपि ते आनन्द अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः, तेऽपि त्वया आनन्द न सत्कृता न गुरुकृता न मानिता न पूजिता नार्चिता नापचायिता भवन्ति। सचेत्पुनस्त्वमानन्द प्रज्ञापारमितामुद्गृह्य पुनरेव नाशयेः, पुनरेवोत्सृजेः, विस्मारयेः, तावता त्वमानन्द ममापराद्धः स्याः, न च मे त्वं चित्तमाराधयेः। तत्कस्य हेतोः ? उक्तमेतदानन्द तथागतेन-प्रज्ञापारमिता अतीतानागतप्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां माता जननी जनयित्री सर्वज्ञताया आहारिकेति। तस्मात्तर्हि आनन्द परीन्दामि अनुपरीन्दामि ते इमां प्रज्ञापारमिताम्, यथेयं नान्तर्धीयेत। उद्ग्रहीतव्येयमानन्द प्रज्ञापारमिता, धारयितव्येयमानन्द प्रज्ञापारमिता, वाचयितव्येयमानन्द प्रज्ञापारमिता, पर्यवाप्तव्येयमानन्द प्रज्ञापारमिता, प्रवर्तयितव्येयमानन्द प्रज्ञापारमिता, देशयितव्येयमानन्द प्रज्ञापारमिता, उपदेष्टव्येयमानन्द प्रज्ञापारमिता, उद्देष्टव्येयमानन्द प्रज्ञापारमिता, स्वाध्यातव्येयमानन्द प्रज्ञापारमिता, लिखितव्येयमानन्द प्रज्ञापारमिता, भावयितव्येयमानन्द प्रज्ञापारमिता। सुमनसिकृता च सुधृता च सुपर्यवाप्ता च सुप्रवर्तिता च त्वया आनन्द इयं प्रज्ञापारमिता कर्तव्या। सुपरिव्यक्तेनाक्षरपदव्यञ्जनेन सुनिरुक्ता चोद्ग्रहीतव्या।



तत्कस्य हेतोः ? अतीतानागतप्रत्युत्पन्नानां हि आनन्द तथागतानामर्हतां सम्यक्संबुद्धानां धर्मकायतेति तां धर्मतां प्रमाणीकृत्य। यथा तत्त्वमानन्द एतर्हि मे तथागतस्य तिष्ठतो ध्रियमाणस्य यापयतो हितैषितया प्रेमतो वा गौरवतो वा कल्याणतो वा स्पर्शविहारतो वा कर्तव्यं वा दातव्यं वा समन्वाहर्तव्यं वा मन्यसे, तथैव त्वया आनन्द इयं प्रज्ञापारमिता उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या लिखितव्या भावयितव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या, तया हितैषितया तेन प्रेम्णा तेन गौरवेण तया गुणवत्तया। एवं त्वया आनन्द अहं पूजितो भवामि, ते च बोधिसत्त्वा महासत्त्वाः। अतीतानागतप्रत्युत्पन्नानां च बुद्धानां भगवतामन्तिके प्रेम च प्रसादश्च गौरवं चोत्पादितं भवति। यदि ते आनन्द अहं प्रियो मन‍आपोऽपरित्यक्तस्तथागतः, ततस्ते आनन्द इयं प्रज्ञापारमिता प्रिया मन‍आपा अपरित्यजनीया भवतु, यथा ते एकपदमपि न प्रणश्येत्, यथा नान्तर्धीयेत। बह्वपि ते आनन्द अहं भाषेयं प्रज्ञापारमितायाः परीन्दनामारम्य कल्पं वा कल्पावशेषं वा कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा कल्पकोटीं वा कल्पकोटीशतं वा कल्पकोटीसहस्रं वा कल्पकोटीशतसहस्रं वा ततो वा उपरि। संक्षेपेण आनन्द यादृशस्तवाहं शास्ता, तादृशी ते प्रज्ञापारमिता शास्ता। यादृशास्ते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः सदेवमानुषासुरस्य लोकस्य शास्तारः, तादृशी प्रज्ञापारमिता सदेवमानुषासुरस्य लोकस्य शास्ता। तस्मात्तर्हि आनन्द अपरिमाणा प्रज्ञापारमिता। अपरिमाणया परीन्दनया प्रज्ञापारमितां ते परीन्दाम्यनुपरीन्दामि सदेवमानुषासुरस्य लोकस्य हिताय सुखाय। यस्य आनन्द तथागतो न परित्यक्तः, धर्मो न परित्यक्तः, संघो न परित्यक्तः, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर्न परित्यक्ता, तस्य प्रज्ञापारमिता अपरित्यक्ता भवतु। इयमस्माकमनुशासनी।



योऽपि कश्चिदानन्द एनां प्रज्ञापारमितामुद्गृह्णीयाद्धारयेत्पर्यद्वाचयेदाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत् लिखेद्भावयेत्, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिरनुपरिगृहीता भवेत्। यो हि कश्चिदानन्द एनां प्रज्ञापारमितां प्रलुज्यमानामनुपरिगृह्णीते, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिरनुपरिगृहीता भवति। तत्कस्य हेतोः ? प्रज्ञापारमितानिर्जाता हि आनन्द बुद्धानां भगवतां बोधिः। येऽपि ते आनन्द अभूवन्नतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिरभूत्। तेऽपि ते आनन्द अनागतेऽध्वनि भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिर्भविष्यति। येऽपि ते आनन्द अप्रमेयेष्वसंख्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः। तस्मात्तर्हि आनन्द बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्योपदेष्टव्योद्देष्टव्या स्वाध्यातव्या लिखितव्या। इहैव प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यम्। तत्कस्य हेतोः ? एषा हि आनन्द प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां माता जननी जनयित्री।



येऽपि केचिदानन्द बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु शिक्षित्वा निर्याताः, निर्यास्यन्ति निर्यान्ति च अनुत्तरायां सम्यक्संबोधौ, सर्वे ते आनन्द प्रज्ञापारमितामागम्य षट्सु पारमितासु शिक्षिताः। तेऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य षट्सु पारमितासु निर्जाताः। तत्कस्य हेतोः ? प्रज्ञापारमितानिर्जाता हि आनन्द सर्वाः पारमिताः आहारिका भवन्त्यनुत्तरायाः सम्यक्संबोधेः। तस्मात्तर्हि आनन्द भूयस्या मात्रया एनां प्रज्ञापारमितां द्वितीयकमपि तृतीयकमपि परीन्दाम्यनुपरीन्दामि ते, यथेयं नान्तर्धीयेत। एषा हि आनन्द तथागतानामर्हतां सम्यक्संबुद्धानामक्षयो धर्मकोषः, यदुत प्रज्ञापारमिता। तत्कस्य हेतोः ? यो हि आनन्द अतीतेऽध्वनि अनवराग्रे संसारे सत्त्वानां बुद्धैर्भगवद्भिर्धर्मो देशितः, सर्वः स इत एव धर्मकोषात्, यदुत प्रज्ञापारमितातः। येऽपि ते आनन्द अनागतेऽध्वनि बुद्धा भगवन्तोऽपरिमिते संसारेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां धर्मं देशयिष्यन्ति, तेऽपि बुद्धा भगवन्त इत एव धर्मकोषात्, यदुत प्रज्ञापारमितातः।



येऽपि ते आनन्द एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, धर्मं च देशयन्ति, तेषामप्यानन्द बुद्धानां भगवतामित एव धर्मकोषात्प्रभावना भवति, यदुत प्रज्ञापारमितातः। तस्मात्तर्हि आनन्द अक्षय एष धर्मकोषो यदुत प्रज्ञापारमिताकोषः। सचेत्त्वमानन्द श्रावकयानि ---- गतमर्हन्तं सम्यक्संबुद्धं पश्यन्ति स्म भिक्षुसंघपरिवृतं बोधिसत्त्वगण पुरस्कृतं धर्मं देशयन्तं सागरोपमायां गम्भीरायामक्षोभ्यायां पर्षदि बोधिसत्त्वैर्महासत्त्वैरचिन्त्यगुणसमन्वागतैः परिवृतं पुरस्कृतं सर्वैश्चार्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तै सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचितैः सर्वचेतोवशिपरमपारमिप्राप्तैः॥



अथ खलु भगवांस्तमृद्ध्यभिसंस्कारं पुनरेव प्रतिसंहरति स्म। प्रतिसंहृते च भगवता तस्मिन् ऋद्ध्यभिसंस्कारे न भूयः स भगवानक्षोभ्यस्तथागतोऽर्हन् सम्यक्संबुद्धः संदृश्यते स्म। ते च सर्वे बोधिसत्त्वा महासत्त्वाः, ते च महाश्रावकाः, तच्च बुद्धक्षेत्रं तासां चतसृणां गन्धर्वासुरगरुडकिन्नरमहोरगाणां मनुष्यामनुष्याणां च न चक्षुष आभासं भूय आगच्छन्ति स्म। तत्कस्य हेतोः ? प्रतिसंहृतो हि तथागतेनार्हता सम्यक्संबुद्धेन स ऋद्ध्यभिसंस्कारः। तेन ते सर्वे सर्वेषां तेषां न भूयश्चक्षुष आभासमागच्छन्ति स्म॥



अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-एवमानन्द सर्वधर्मा न चक्षुषोऽप्याभासमागच्छन्ति, न धर्माधर्माणामाभासमागच्छन्ति, न धर्माधर्मान् पश्यन्ति, न धर्माधर्मान् जानन्ति। तत्कस्य हेतोः ? सर्वधर्मा हि आनन्द अजानका अपश्यकाः, न कार्यसमर्थाः। तत्कस्य हेतोः ? निरीहका हि आनन्द सर्वधर्मा अग्राह्या आकाशनिरीहकतया। अचिन्त्या ह्यानन्द सर्वधर्मा मायापुरुषोपमाः। अवेदका ह्यानन्द सर्वधर्मा असद्भावतामुपादाय। एवं चरन्त आनन्द बोधिसत्त्वा महासत्त्वाश्चरन्ति प्रज्ञापारमितायम्। न कंचिद्धर्ममभिनिविशन्ते। एवं शिक्षमाणा आनन्द बोधिसत्त्वा महासत्त्वाः शिक्षन्ते प्रज्ञापारमितायाम्। सर्वशिक्षापरमपारमितां महाबोधिं प्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। तत्कस्य हेतोः ? एषा ह्यानन्द शिक्षा सर्वशिक्षाणामग्रा आख्यायते, श्रेष्ठा आख्यायते, ज्येष्ठा आख्यायते, वरा आख्यायते, प्रवरा आख्यायते, प्रणीता आख्यायते, उत्तमा आख्यायते, अनुत्तमा आख्यायते, निरुत्तरा आख्यायते, असमा आख्यायते, असमसमा आख्यायते, सर्वलोकहितावहा सर्वलोकसुखावहा अनाथानां नाथकरी बुद्धानुज्ञाता बुद्धप्रशस्ता। अस्यामानन्द प्रज्ञापारमितायां शिक्षित्वा अत्र शिक्षायां स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमं त्रिसाहस्रमहासाहस्रं लोकधातुमेकेन पदाङ्गुष्ठेनोत्क्षिप्य पुनरेव निक्षिपेयुः।



न च तेषां बुद्धानां भगवतामेवं स्यात्-उत्क्षिप्तो वायं त्रिसाहस्रमहासाहस्रो लोकधातुः निक्षिप्तो वेति। तत्कस्य हेतोः ? अप्रमेयासंख्येयगुणसमन्वागता हि प्रज्ञापारमिता। अस्यामानन्द प्रज्ञापारमिताशिक्षायां शिक्षित्वा बुद्धा भगवन्तोऽतीतानागतप्रत्युत्पन्नेषु धर्मेष्वसङ्गतामनुप्राप्ताः। यावत्य आनन्द काश्चिच्छिक्षाः अतीतानागतप्रत्युत्पन्नेऽध्वनि, सर्वासां तासामानन्द शिक्षाणामियमेव प्रज्ञापारमिताशिक्षा अग्रा आख्यायते, श्रेष्ठा आख्यायते, ज्येष्ठा आख्यायते, वरा आख्यायते, प्रवरा आख्यायते, प्रणीता आख्यायते, उत्तमा आख्यायते, अनुत्तमा आख्यायते, निरुत्तरा आख्यायते, असमा आख्यायते, असमसमा आख्यायते। अप्रमाणा ह्यानन्द प्रज्ञापारमिता। अक्षया ह्यानन्द प्रज्ञापारमिता। अपर्यन्ता ह्यानन्द प्रज्ञापारमिता। तत्कस्य हेतोः ? असत्त्वादेव प्रज्ञापारमितायाः। आकाशस्य हि स आनन्द प्रमाणं वा क्षयं वा पर्यन्तं वा ग्रहीतव्यं मन्येतः, यः प्रज्ञापारमितायाः प्रमाणं वा क्षयं वा पर्यन्तं वा ग्रहीतव्यं मन्येत। तत्कस्य हेतोः ? अप्रमाणा ह्यानन्द प्रज्ञापारमिता। अक्षया ह्यानन्द प्रज्ञापारमिता। अपर्यन्ता ह्यानन्द प्रज्ञापारमिता। न मया आनन्द प्रज्ञापारमितायाः प्रमाणं वा क्षयो वा पर्यन्तो वा आख्यातः। नामकायपदकायव्यञ्जनकायाः खलु पुनरानन्द प्रमाणबद्धाः। नेयमानन्द प्रज्ञापारमिता प्रमाणबद्धा। तत्कस्य हेतोः ? न ह्यानन्द नामकायपदकायव्यञ्जनकायाः प्रज्ञापारमिता। न हि प्रमाणवतीयमानन्द प्रज्ञापारमिता। अपरिमाणा ह्यानन्द प्रज्ञापारमिता॥



आनन्द आह-केन पुनः कारणेन भगवन् भगवता प्रज्ञापारमितायाः प्रमाणं नाख्यातम् ? भगवानाह-अक्षयत्वादानन्द प्रज्ञापारमितायास्तथागतः प्रमाणं न निर्दिशति। विविक्तत्वादानन्द प्रज्ञापारमितायाः प्रमाणं तथागतेन नाख्यातम्। न ह्यानन्द विविक्तस्य धर्मस्य विविक्तताप्युपलभ्यते, कुतः पुनरस्य प्रमाणं भविष्यति ? एवमानन्द प्रज्ञापारमिता अप्रमेयत्वादप्रमाणा अपरिमाणा। येऽपि ते आनन्द अतीतेऽध्वन्यभूवंस्तथागता अर्हन्तः सम्यक्संबुद्धाः, तेऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभाविताः। न चानन्द इयं प्रज्ञापारमिता क्षीणा वा परिक्षीणा वा। येऽपि ते आनन्द अनागतेऽध्वनि भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः, तेऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभावयिष्यन्ते। न चानन्द इयं प्रज्ञापारमिता क्षेष्यते वा परिक्षेष्यते वा। येऽपि ते आनन्द एतर्ह्यप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभाव्यन्ते। न चेयमानन्द प्रज्ञापारमिता क्षीयते वा परिक्षीयते वा। अहमप्यानन्द एतर्हि तथागतोऽर्हन् सम्यक्संबुद्धः। ममाप्यानन्द इत एव प्रज्ञापारमितातः प्रभावना। न चानन्द इयं प्रज्ञापारमिता क्षीयते वा परिक्षीयते वा। तत्कस्य हेतोः ? आकाशं हि स आनन्द क्षययितव्यं मन्येत, यः प्रज्ञापारमितां क्षययितव्यां मन्येत। तस्मात्तर्ह्यानन्द अक्षयेयं प्रज्ञापारमिता॥



अथ खल्वायुष्मतः सुभूतेरेतदभवत्-गम्भीरमिदं स्थानं तथागतेन भाषितम्। यन्न्वहं तथागतं पृच्छेयमेतत्स्थानम्। अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-अक्षया भगवन् प्रज्ञापारमिता ? भगवानाह - अक्षया हि सुभूते प्रज्ञापारमिता यदुत आकाशाक्षयत्वात्सर्वधर्मानुत्पादतः। सुभूतिराह-कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या ? भगवानाह-रूपाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या। एवं वेदनासंज्ञासंस्काराः। विज्ञानाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या। एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या। अविद्याक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या। एवं संस्काराक्षयत्वेन विज्ञानाक्षयत्वेन नामरूपाक्षयत्वेन षडायतनाक्षयत्वेन स्पर्शाक्षयत्वेन वेदनाक्षयत्वेन तृष्णाक्षयत्वेन उपादानाक्षयत्वेन भवाक्षयत्वेन जात्यक्षयत्वेन जरामरणाक्षयत्वेन शोकपरिदेवदुःखदौर्मनस्योपायासाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या। इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अन्तद्वयविवर्जिता प्रतीत्यसमुत्पादव्यवलोकना।



एवं व्यवलोकयन् सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यनुत्पादमनाद्यन्तमध्यं तं व्यवलोकयति। अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यावेणिको धर्मो बोधिमण्डे निषण्णस्य, यदेवं प्रतीत्यसमुत्पादं व्यवलोकयति। एवं व्यवलोकयतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादः सर्वज्ञज्ञानप्रतिलम्भो भवति। यो हि कश्चित्सुभूते बोधिसत्त्वो महासत्त्वः अनेन अक्षयाभिर्निर्हारेण प्रज्ञापारमितायां चरन् प्रतीत्यसमुत्पादं व्यवलोकयति, स न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्थास्यति, अपि तु स्थास्यति सर्वज्ञतायाम्। ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः, सचेत् इमान् मनसिकारानिदं चोपायकौशल्यमनागम्य न जानन्ति-कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन अक्षयाभिनिर्हारेण प्रज्ञापारमिता अभिनिर्हर्तव्या, कथं च अक्षयाभिनिर्हारेण प्रज्ञापारमितायां प्रतीत्यसमुत्पादो व्यवलोकयितव्य इति। ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा विवृत्ता विवर्तन्ते, विवर्त्स्यन्ते च अनुत्तरायाः सम्यक्संबोधेः, सर्वे ते इदमुपायकौशल्यमनागम्य विवृत्ता विवर्तन्ते विवर्त्स्यन्ते च।



ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा न विवृत्ता न विवर्तन्ते न विवर्त्स्यन्ते च, सर्वे ते इमां प्रज्ञापारमितामागम्य न विवृत्ता न विवर्तन्ते न विवर्त्स्यन्ते च अनुत्तरायाः सम्यक्संबोधेः। एवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन अक्षयाभिनिर्हारेण प्रज्ञापारमिता अभिनिर्हर्तव्या। एवं च अक्षयाभिनिर्हारेण प्रज्ञापारमितायां प्रतीत्यसमुत्पादो व्यवलोकयितव्यः। एवं खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद्धर्ममहेतुकमुत्पद्यमानं समनुपश्यति, न कंचिद्धर्मं नित्यं वा ध्रुवं वा शाश्वतं वा अविपरिणामधर्मकं वा समनुपश्यति। न कंचिद्धर्मं कारकं वा वेदकं वा समनुपश्यति। इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य इमां प्रज्ञापारमितामक्षयाभिनिर्हारेण अभिनिर्हरतोऽस्यां प्रज्ञापारमितायां चरतः प्रतीत्यसमुत्पादव्यवलोकना। यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामक्षयाभिनिर्हारेण अभिनिर्हरन् प्रतीत्यसमुत्पादं व्यवलोकयति, तस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वो न रूपं समनुपश्यति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं समनुपश्यति, नाविद्यां समनुपश्यति।



एवं न संस्कारान्न विज्ञानं न नामरूपं न षडायतनं न स्पर्शं न वेदनां न तृष्णां नोपादानं न भवं न जातिं न जरामरणं न शोकपरिदेवदुःखदौर्मनस्योपायासान् समनुपश्यति। इदं बुद्धक्षेत्रमिति न समनुपश्यति, अन्यद्बुद्धक्षेत्रमिति न समनुपश्यति। तमपि धर्मं न समनुपश्यति, येन धर्मेण इदं वा अन्यद्वा बुद्धक्षेत्रं समनुपश्येत्। इयं सा सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता। यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, तस्मिन् समये मारः पापीयान् परमशोकशल्यसमर्पितो भवति। तद्यथापि नाम सुभूते पुरुषो मातापितृषु कालगतेषु परमशोकशल्यसमर्पितो भवति, एवमेव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, तस्मिन् समये मारः पापीयान् परमशोकशल्यसमर्पितो भवति॥



सुभूतिराह-किमेक एव भगवन् मारः पापीयान् परमशोकशल्यसमर्पितो भवति, उताहो बहवो माराः पापीयांसः परमशोकशल्यसमर्पिता भवन्ति, उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसः तेऽपि सर्वे तस्मिन् समये परमशोकशल्यसमर्पिता भवन्ति ? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण विहरति, तस्मिन् समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ मारां पापीयांसः ते सर्वे परमशोकशल्यसमर्पिता भवन्ति, स्वकस्वकेष्वासनेषु न रमन्ते। तत्कस्य हेतोः ? प्रज्ञापारमिताविहारेण हि विहरतोऽस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरो लोकोऽवतारं न लभते ग्रहणाय, गाधं न लभते, यत्रैनं गृहीत्वा विहेठयेद्वा विवर्तयेद्वा अनुत्तरायाः सम्यक्संबोधेः। तस्मात्तर्हिः सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमितायां चरितव्यम्।



तत्कस्य हेतोः ? प्रज्ञापारमितायां हि सुभूते चरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता भावनापरिपूरिं गच्छति। प्रज्ञापारमितायां हि सुभूते चरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वाः षट् पारमिता भावनापरिपूरिं गच्छन्ति, सर्वाणि चोपायकौशल्यानि भावनापरिपूरिं गच्छन्ति। तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो यानि कानिचिन्मारकर्माण्युत्पद्येरन्, सर्वाणि तान्युत्पद्यमानान्येव स प्रज्ञास्यति, प्रजानन् विसर्जयिष्यति। सर्वोपायकौशल्यानि सुभूते परिग्रहीतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्, प्रज्ञापारमिता भावयितव्या। यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितामभिनिर्हरति, तस्मिन् समये सुभूते न बोधिसत्त्वेन महासत्त्वेन येऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते समन्वाहर्तव्याः। तेषामपि इतोनिर्जातैव सर्वज्ञता यदुत प्रज्ञापारमितातः। एवं समन्वाहृत्य तेन बोधिसत्त्वेन महासत्त्वेन पुनरेवं चित्तमुत्पादयितव्यम्-अहमप्येतान् धर्माननुप्राप्स्यामि ये तैर्बुद्धैर्भगवद्भिरनुप्राप्ता इति। एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता इमे चित्तोत्पादा उत्पादयितव्या अभिनिर्हर्तव्या दिवसस्यात्ययेन, अन्तशोऽच्छटासंघातमात्रकमपि।



यश्च सुभूते औपलम्भिको बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पान् दानं दद्यात्, अयमेव तत औपलम्भिकाद्बोधिसत्त्वान्महासत्त्वाद्बहुतरं पुण्यं प्रसवति, योऽयं बोधिसत्त्वो महासत्त्वो दिवसस्यात्ययेन इमां प्रज्ञापारमितामभिनिर्हरेत्, अन्तशोऽच्छटासंघातमात्रकमपि। अयं बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयतायां स्थास्यति। तथागतसमन्वाहृतः स बोधिसत्त्वो महासत्त्वो वेदितव्यः, योऽस्यां प्रज्ञापारमितायां चरन् इमांश्चित्तोत्पादानुत्पादयति दिवसस्यात्ययेन अन्तशोऽच्छटासंघातमात्रकमपि। कः पुनर्वादो यस्येमे चित्तोत्पादा दिवसमनुवर्तेरन्। तथागतसमन्वाहृतस्य हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य का गतिः प्रतिकाङ्क्षितव्या ? तथागतसमन्वाहृतस्य हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य नान्या गतिः प्रतिकाङ्क्षितव्या अन्यत्रानुत्तरायाः सम्यक्संबोधेः। अभव्यश्चासावपायेषूपपत्तुम्। स्वर्गोपपत्तिरेव तस्य प्रतिकाङ्क्षितव्या। तत्रापि तथागतैरविरहितो भविष्यति, तथागताविरहितेषु च बुद्धक्षेत्रेषूपपत्स्यते, सत्त्वांश्च परिपाचयिष्यति। इमेऽपि सुभूते गुणाः, इमेऽप्यनुशंसा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, प्रज्ञापारमितामभिनिर्हरतः, इमांश्चित्तोत्पादानुत्पादयतः अन्तशोऽच्छटासंघातमात्रकमपि। कः पुनर्वादो यस्येमे चित्तोत्पादा दिवसमनुवर्तेरन्, तद्यथापि नाम सुभूते गन्धहस्तिनो बोधिसत्त्वस्य महासत्त्वस्य य एतर्ह्यक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरतीति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project