Digital Sanskrit Buddhist Canon

२२ कल्याणमित्रपरिवर्तो द्वाविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 22 kalyāṇamitraparivarto dvāviṁśatitamaḥ
२२ कल्याणमित्रपरिवर्तो द्वाविंशतितमः।



अथ खलु भगवान् पुनरप्यायुष्मन्तं सुभूतिमामन्त्रयते स्म-इह सुभूते बोधिसत्त्वेन महासत्त्वेन अध्याशयसंप्रस्थितेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन आदित एवं कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि। सुभूतिराह-कतमानि तानि पुनर्भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि, यानि बोधिसत्त्वेन महासत्त्वेन अध्याशयसंप्रस्थितेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन आदित एव कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-बुद्धा एव सुभूते भगवन्तः, ये च तेऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वा बोधिसत्त्वचर्याकुशलाः, य एनं पारमितास्वववदन्ति अनुशासति, येऽस्मै प्रज्ञापारमितां देशयन्त्युपदिशन्ति। इमानि तानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि।



प्रज्ञापारमितैव सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रं वेदितव्यम्। सर्वा एव च सुभूते षट् पारमिता बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि। षडेव पारमिताः शास्ता, षट् पारमिता मार्गः, षट् पारमिता आलोकः, षट् पारमिता उल्का, षट् पारमिताः अवभासः, षट् पारमितास्त्राणम्, षट् पारमिताः शरणम्, षट् पारमिता लयनम्, षट् पारमिताः परायणम्, षट् पारमिताः द्वीपः, षट् पारमिता माता, षट् पारमिताः पिता, षट् पारमिता ज्ञानाय बोधाय अनुत्तरायै सम्यक्संबोधये संवर्तन्ते। तत्कस्य हेतोः? अत्र हि सुभूते प्रज्ञापारमिता परिनिष्ठिता भवति यदुत षट्पारमितासु। येऽपि ते सुभूते अतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य परिनिर्वृताः, तेषामपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः। येऽपि ते सुभूते भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, तेषामपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः। येऽपि ते सुभूते अप्रमेयेष्वसंख्येयेष्वपरिमाणेष्वचिन्त्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धास्तिष्ठन्ति, ध्रियन्ते, यापयन्ति, धर्मं च देशयन्ति, तेषामपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः।



अहमपि सुभूते तथागतोऽर्हन् सम्यक्संबुद्ध एतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। ममापि हि सुभूते इतोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः। तत्कस्य हेतोः? आसु हि सुभूते षट्सु पारमितासु सप्तत्रिंशद्बोधिपक्षा धर्मा अन्तर्गताः, चत्वारो ब्रह्मविहाराः, चत्वापि संग्रहवस्तूनि। यावांश्च कश्चिद्बुद्धधर्मो बुद्धज्ञानं स्वयंभूज्ञानमचिन्त्यज्ञानमतुल्यज्ञानमप्रमेयज्ञानमसंख्येयज्ञानमसमज्ञानमसमसमज्ञानं सर्वज्ञज्ञानम्, सर्वं तत् षट्सु पारमितास्वन्तर्गतम्। तस्मात्तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट् पारमिता एव कल्याणमित्राणि वेदितव्यानि, षडेव पारमिताः शास्ता, षट् पारमिता मार्गः, षट् पारमिता आलोकः, षट् पारमिता उल्का, षट् पारमिता अवभासः, षट् पारमितास्त्राणम्, षट् पारमिताः शरणम्, षट् पारमिता लयनम्, षट् पारमिताः परायणम्, षट् पारमिता द्वीपः, षट् पारमिता माता, षट् पारमिताः पिता, षट् पारमिता ज्ञानाय बोधाय सर्वज्ञतायै अनुत्तरसम्यक्संबोधिप्राप्तये संवर्तन्ते। सर्वसत्त्वानामप्रत्युपकारिणामपि उपकारिभूतो भवति, यदा बोधिसत्त्वो महासत्त्वः षट्पारमितासु शिक्षते।



आसु खलु पुनः सुभूते षट्सु पारमितासु शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या, अर्थतश्च धर्मतश्च नयतश्चोपपरीक्षितव्या उपनिध्यातव्या परिप्रष्टव्या परिप्रश्नयितव्या। तत्कस्य हेतोः? एषा हि प्रज्ञापारमिता षण्णां पारमितानां पूर्वंगमा नायिका परिणायिका संदर्शिका अवदर्शिका जनयित्री धत्री। तत्कस्य हेतोः? प्रज्ञापारमिताविरहिता हि पञ्च पारमिता न प्रज्ञायन्ते, नापि पारमितानामधेयं लभन्ते। तस्मात्तर्हि सुभूते अपरप्रणेयतां गन्तुकामेन बोधिसत्त्वेन महासत्त्वेन अपरप्रणेयतायां स्थातुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम्॥



सुभूतिराह-किंलक्षणा भगवन् प्रज्ञापारमिता? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-असङ्गलक्षणा सुभूते प्रज्ञापारमिता। सुभूतिराह-स्याद्भगवन् पर्यायो येन पर्यायेण येनैवासङ्गलक्षणेन प्रज्ञापारमिता संविद्यते, तेनैव असङ्गलक्षणेन सर्वधर्माः संविद्येरन्? भगवानाह-एवमेतत्सुभूते, एवमेतत्। स्यात्सुभूते पर्यायो येन पर्यायेण येनैव असङ्गलक्षणेन प्रज्ञापारमिता संविद्यते, तेनैव असङ्गलक्षणेन सर्वधर्माः संविद्यन्ते। तत्कस्य हेतोः? सर्वधर्मा हि सुभूते विविक्ताः। सर्वधर्मा हि सुभूते शून्याः। तस्मात्तर्हि सुभूते येनैव असङ्गलक्षणेन प्रज्ञापारमिता विविक्ता शून्या, तेनैव असङ्गलक्षणेन सर्वधर्मा विविक्ताः शून्याः। सुभूतिराह-यदि भगवन् सर्वधर्मा विविक्ताः, सर्वधर्माः शून्याः, कथं भगवन् सत्त्वानां संक्लेशः प्रज्ञायते, कथं भगवन् सत्त्वानां व्यवदानं प्रज्ञायते? न च भगवन् विविक्तं संक्लिश्यते, न भगवन् विविक्तं व्यवदायति। न च भगवन् शून्यं संक्लिश्यते, न च भगवन् शून्यं व्यवदायति। न च भगवन् विविक्तं वा शून्यं वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। अन्यत्रापि भगवन् शून्यतायाः सर्वधर्मो नोपलभ्यते, योऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो वा, अभिसंभोत्स्यते वा, अभिसंबुध्यते वा। कथं वा वयं भगवन् अस्य भाषितस्यार्थमाजानीमः? देशयतु भगवन्, देशयतु सुगत। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-तत्किं मन्यसे दीर्घरात्रं सत्त्वा अहंकारे ममकारे चरन्ति? सुभूतिराह-एवमेतद्भगवन्, एवमेतत्सुगत।



दीर्घरात्रं सत्त्वा अहंकारे ममकारे चरन्ति। भगवानाह-तत्किं मन्यसे सुभूते अपि नु अहंकारममकारौ शून्यौ? सुभूतिराह-शून्यौ भगवन्, शून्यौ सुगत। भगवानाह-तत्किं मन्यसे सुभूते अहंकारेण ममकारेण च सत्त्वाः संसारे संसरन्ति? सुभूतिराह-एवमेतद्भगवन्, एवमेतत्सुगत। अहंकारेण ममकारेण च सत्त्वाः संसारे संसरन्ति। भगवानाह-एवं खलु सुभूते सत्त्वानां संक्लेशः प्रज्ञायते। यथा सत्त्वानामुद्ग्रहोऽभिनिवेशः, तथा संक्लेशः। न चात्र कश्चित्संक्लिश्यते। यथा च सुभूते अनुद्गहोऽनभिनिवेशः, तथा नाहंकारममकारौ प्रज्ञायेते। एवं खलु सुभूते सर्वसत्त्वानां व्यवदानं प्रज्ञायते। यथा सत्त्वानामनुद्ग्रहोऽनभिनिवेशः, तथा व्यवदानम्। न चात्र कश्चिद्व्यवदायति। एवं खलु सुभूते चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्। एवं खलु सुभूते सर्वधर्मेषु विविक्तेषु सर्वधर्मेषु शून्येषु सत्त्वानां संक्लेशो व्यवदानं च प्रज्ञायते। सुभूतिराह-आश्चर्यं भगवन् यावद्यदिदं सर्वधर्मेषु विविक्तेषु सर्वधर्मेषु शून्येषु सत्त्वानां संक्लेशो व्यवदानं च प्रज्ञायते। एवं च भगवंश्चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्। एवं हि चरन् बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति। एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वोऽनवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन। एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः सर्वेषां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां च पुद्गलानां चर्यामभिभवति, अनभिभूतं च स्थानं प्रतिलभते। तत्कस्य हेतोः? अनभिभूतं हि भगवन् बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्। अनेनापि भगवन् मनसिकारेण प्रज्ञापारमिताप्रतिसंयुक्तेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिनान्यतिनामयेत्, आसन्नः स्यादनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्येत।



एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्। एवं हि चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति। एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वोऽनवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन। एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वेषां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां च पुद्गलानां चर्यामभिभवति, अनभिभूतं च स्थानं प्रतिलभते। तत्कस्य हेतोः? अनभिभूतं हि सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्। अनेनापि सुभूते मनसिकारेण प्रज्ञापारमिताप्रतिसंयुक्तेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिनान्यतिनामयेत्, आसन्नः स्यादनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत॥



सचेत्खलु पुनः सुभूते ये जम्बूद्वीपे सत्त्वाः, ते सर्वेऽपूर्वाचरमं मानुष्यकमात्मभावं प्रतिलभेरन्, मानुष्यकमात्मभावं प्रतिलभ्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेरन्, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य यावज्जीवं तिष्ठेयुः, यावज्जीवं तिष्ठन्तो यावज्जीवं सर्वतथागतान् सत्कुर्युर्गुरुकुर्युर्मानयेयुः पूजयेयुरर्चयेयुरपचायेयुः, एवं सर्वसत्त्वेभ्योऽपि दानं दद्युः, तच्च दानमनुत्तरायां सम्यक्संबोधौ परिणामयेयुः। तत्किं मन्यसे सुभूते अपि नु ते बोधिसत्त्वा महासत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? सुभूतिराह-बहु भगवन्, बहु सुगत। भगवानाह-अतः खलु पुनः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, यो बोधिसत्त्वो महासत्त्वोऽन्ततः एकदिवसमपि प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैर्विहरति। तत्कस्य हेतोः? यथा यथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवं विहरति, तथा तथा सर्वसत्त्वानां दक्षिणीयतां गच्छति। तत्कस्य हेतोः? तथा हि सुभूते नास्ति तदन्येषां सत्त्वानां तादृशं मैत्रीसहगतं चित्तम्, यथा तस्य बोधिसत्त्वस्य महासत्त्वस्य, स्थापयित्वा बुद्धान् भगवतः। तत्कस्य हेतोः? अप्रतिपुद्गला हि सुभूते तथागताः। निरुपमा हि सुभूते तथागताः। अचिन्त्यधर्मसमन्वागता हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः॥



कथं च सुभूते स कुलपुत्रो वा कुलदुहिता वा तावत्तत्पुण्यमभिनिर्हरति? तादृश्या सुभूते प्रज्ञया समन्वागतः स बोधिसत्त्वो महासत्त्वो भवति, यादृश्या प्रज्ञया समन्वागतो वध्यगतानिव सर्वसत्त्वान् पश्यति। तेन तस्यां वेलायां महाकरुणापरिगृहीतो भवति। स दिव्येन चक्षुषा व्यवलोकयन् अप्रमेयानसंख्येयानपरिमेयानपरिमाणान् सत्त्वानानन्तर्यकर्मसमन्वागतान् पश्यति, अक्षणप्राप्तांश्च विहन्यमानांश्च दृष्टिजालप्रतिच्छन्नांश्च मार्गमप्रतिलभमानान्। अपरांश्च क्षणप्राप्तान् पश्यति, क्षणांश्च विरागयतः पश्यति। तस्य तस्यां वेलायां महान् संवेग उत्पद्यते। ते चास्य सर्वसत्त्वास्तया महामैत्र्या तया च महाकरुणया स्फारित्वा मनसिकृता भवन्ति-अहमेतेषां सर्वेषां सत्त्वानां नाथो भविष्यामि, अहमेनान् सर्वसत्त्वान् सर्वदुःखेभ्यो मोचयिष्यामीति।



न च तेन वा अन्येन वा निमित्तेन सार्धं संवसति। अयमपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महान् प्रज्ञालोकोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। अनेन हि सुभूते विहारेण विहरन्तो बोधिसत्त्वा महासत्त्वाः सर्वलोकस्य दक्षिणीयतां परिगृह्णन्ति, न च विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः। येषां च दायकानां दानपतीनां च परिभुञ्जते चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, अस्यां प्रज्ञापारमितायां सूपस्थितचित्ताः, तेषां दायकानां दानपतीनां च दानदक्षिणां विशोधयन्ति। सर्वज्ञता चैषामासन्नीभवति। तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अमोघं राष्ट्रं पिण्डं परिभोक्तुकामेन सर्वसत्त्वानां मार्गमुपदेष्टुकामेन विपुलमवभासं कर्तुकामेन संसारगतान् सत्त्वान् संसारात्परिमोचयितुकामेन सर्वसत्त्वानां चक्षुर्विशोधयितुकामेन अनेन प्रज्ञापारमिताप्रतिसंयुक्तेन मनसिकारेण विहर्तव्यम्।



सचेदनेन मनसिकारेण विहर्तुमिच्छति, तेन प्रज्ञापारमिताप्रतिसंयुक्ता मनसिकाराः समन्वाहर्तव्याः। तत्कस्य हेतोः? यो ह्येनान् समन्वाहर्तव्यान् मंस्यते, स एवास्य मनसिकारो भविष्यति। ततोऽन्येषां मनसिकाराणां प्रज्ञापारमिताविरहितानामवकाशो न दातव्यः। तथा च कर्तव्यं यथायं प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवानि क्षपयेत्। तद्यथापि नाम सुभूते केनचिदेव पुरुषेण मणिरत्नज्ञाने वर्तमानेन मणिरत्नजातिज्ञेन अप्रतिलब्धपूर्वं महामणिरत्नं प्रतिलब्धं भवेत्। स तन्महामणिरत्नं प्रतिलभ्य महतोदारेण प्रीतिप्रामोद्येन समन्वागतो भवेत्। तस्य तन्महामणिरत्नं पुनरेव प्रणश्येत्। स ततोनिदानं महता दुःखदौर्मनस्येन संयुज्येत। तस्य सततसमितं तन्महामणिरत्नं प्रति संयुक्ता एव मनसिकाराः प्रवर्तेरन्-अहो बताहं तेन महामणिरत्नेन विप्रयुक्त इति हि स पुरुषस्तस्य महामणिरत्नस्य न विस्मरेत् यावत् तद्वा अन्यद्वा तद्गुणं तज्जातिकं तेन महामणिरत्नं प्रतिलब्धं भवेत्। एवमेव सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितामहामणिरत्नपरिभ्रष्टेन महामणिरत्नपरिभ्रष्टेनेव महामणिरत्नेन रत्नसंज्ञिना प्रज्ञापारमितामनसिकाराविप्रयुक्तेन प्रज्ञापारमितामनसिकाराविरहितसर्वज्ञताचित्तेन तावदन्वेष्टव्या, यावत्सा वा अन्या वा प्रतिलब्धा भवति। तावत्तेन प्रज्ञापारमितामहामणिरत्नप्रतिलम्भप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञतामहामणिरत्नप्रतिलम्भप्रतिसंयुक्तैर्मनसिकारैरविरहितेन भवितव्यम्॥



सुभूतिराह-यत्पुनर्भगवन् सर्वधर्माः सर्वमनसिकाराः स्वभावेन विरहिताः शून्या उक्ता भगवता, तत्कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैरविरहितो भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-सचेत्सुभूते बोधिसत्त्वो महासत्त्व एवं मनसि करोति-सर्वधर्माः स्वभावेन विविक्ताः, सर्वधर्माः स्वभावेन शून्या इति, एवमेतन्मनसि कुर्वन् प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैरविरहितो भवति। तत्कस्य हेतोः? प्रज्ञापारमिता हि सुभूते शून्या। सा नैव विवर्धते, न च परिहीयते। सुभूतिराह-सचेद्भगवन् प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, कथं भगवन् बोधिसत्त्वो महासत्त्वोऽविवर्धमानया प्रज्ञापारमितया बोधये समुदागच्छति, कथं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-न खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते वा परिहीयते वा। यथैव सुभूते प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यः। स नैव विवर्धते, न च परिहीयते। यतः सुभूते यथैव प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यः। स नैव विवर्धते, न च परिहीयते। ततो बोधिसत्त्वो महासत्त्वो बोधये समुदागच्छति, एवं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। सचेत्सुभूते बोधिसत्त्वो महासत्त्वः एवं भाष्यमाणे नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते न संसीदति, वेदितव्यमेतत्सुभूते चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायामिति॥



सुभूतिराह-किं पुनर्भगवन् प्रज्ञापारमिता चरति प्रज्ञापारमितायाम्? भगवानाहनो हीदं सुभूते। आह-किं पुनर्भगवन् या प्रज्ञापारमितायाः शून्यता, सा चरति प्रज्ञापारमितायाम्? भगवानाह-नो हीदं सुभूते। आह-किं पुनर्भगवन् अन्यत्र प्रज्ञापारमिताशून्यतायाः स कश्चिद्धर्म उपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह-नो हीदं सुभूते। आह-किं पुनर्भगवन् शून्यता चरति प्रज्ञापारमितायाम्? भगवानाह-नो हीदं सुभूते। आह-किं पुनर्भगवन् शून्यतायां स कश्चिद्धर्म उपलभ्यते यश्चरति प्रज्ञापारमितायाम्? भगवानाह-नो हीदं सुभूते। आह-किं पुनर्भगवन् शून्यता चरति शून्यतायाम्? भगवानाह-नो हीदं सुभूते। आह-किं पुनर्भगवन् रूपं चरति प्रज्ञापारमितायाम्? भगवानाह-नो हीदं सुभूते। आह-किं पुनर्भगवन् वेदना संज्ञा संस्काराः, किं पुनर्भगवन् विज्ञानं चरति प्रज्ञापारमितायाम्? भगवानाह-नो हीदं सुभूते। आह-किं पुनर्भगवन् अन्यत्र रूपात्स धर्मः कश्चिदुपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह-नो हीदं सुभूते। आह-किं पुनर्भगवन् अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः कश्चिदुपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह-नो हीदं सुभूते। सुभूतिराह-कथं पुनर्भगवन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्? एवमुक्ते-भगवानायुष्मन्तं सुभूतिमेतदवोचत्-किं पुनः सुभूते समनुपश्यसि त्वं तं धर्मं यश्चरति प्रज्ञापारमितायाम्? सुभूतिराह-नो हीदं भगवन्। भगवानाह-समनुपश्यसि त्वं सुभूते तां प्रज्ञापारमितां यत्र प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वश्चरति? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते यो धर्मोऽनुपलम्भः, तं धर्मं समनुपश्यसि? अपि नु स एव धर्म उत्पन्नो वा उत्पत्स्यते वा उत्पद्यते वा, निरुद्धो वा निरोत्स्यते वा निरुध्यते वा? आह-नो हीदं भगवन्। भगवानाह-एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिकेषु धर्मेषु क्षान्तिरेवंरूपा भवति। एवंरूपया च सुभूते क्षान्त्या समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियतेऽनुत्तरायां सम्यक्संबोधौ। इयं सुभूते तथागतस्य वैशारद्यप्रतिपद् यां प्रतिपद्यमानो बोधिसत्त्वो महासत्त्वः एवं चरन् एवं घटमानः एवं व्यायच्छमानोऽनुत्तरं बुद्धज्ञानं सर्वज्ञज्ञानं महासार्थवाहज्ञानं नानुप्राप्स्यतीति नैतत्स्थानं विद्यते॥



सुभूतिराह-या भगवन् सर्वधर्माणामनुत्पत्तिकधर्मता, सा व्याक्रियतेऽनुत्तरायां सम्यक्संबोधौ? भगवानाह-नो हीदं सुभूते। सुभूतिराह-कथमस्येदानीं भगवन् धर्मस्य व्याकरणं भवत्यनुत्तरायां सम्यक्संबोधौ? भगवानाह-किं पुनः सुभूते समनुपश्यसि त्वं तं धर्मं यस्य धर्मस्य व्याकरणं भवत्यनुत्तरायां सम्यक्संबोधौ? सुभूतिराह-नो हीदं भगवन्। नाहं भगवंस्तं धर्मं समनुपश्यामि यो धर्मो व्याकृतो व्याकरिष्यते व्याक्रियते वा अनुत्तरायां सम्यक्संबोधौ। तमप्यहं भगवन् धर्मं न समनुपश्यामि, यो धर्मोऽभिसंबुध्यते, यो धर्मोऽभिसंबोद्धव्यः, येन वा धर्मेणाभिसंबुध्यते। तत्कस्य हेतोः? सर्वधर्मेषु भगवन् अनुपलभ्यमानेषु न मे एवं भवति-अयं धर्मोऽभिसंबुध्यते, अयं धर्मोऽभिसंबोद्धव्यः, अनेन वा धर्मेणाभिसंबुध्यते इति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project