Digital Sanskrit Buddhist Canon

२१ मारकर्मपरिवर्त एकविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२१ मारकर्मपरिवर्त एकविंशतितमः।



तत्र खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं भाषिष्यते-येन सत्येन सत्यवचनेन अहं व्याकृतः तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, तेन सत्येन सत्यवचेन अयममनुष्योऽपक्रामत्विति। तत्र सुभूते मारः पापीयानौत्सुक्यमापत्स्यते तस्य अमनुष्यस्यापक्रमणाय। तत्कस्य हेतोः? मारो ह्यत्र पापीयांस्तस्य बोधिसत्त्वस्य महासत्त्वस्य चिरयानसंप्रस्थितस्यान्तिके बलवत्तरं तेजोवत्तरं चोद्योगमापत्स्यते-कथमयममनुष्योऽपक्रामेदिति। एवं सोऽमनुष्यो माराधिष्ठानेनापक्रमिष्यति। एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति-ममैषोऽनुभावेन अमनुष्योऽपक्रान्त इति। न पुनः स एवं ज्ञास्यति-मारस्यैषोऽनुभावेन अमनुष्योऽपक्रान्त इति। स तेन तावन्मात्रकेणौत्सुक्यमापत्स्यते। स तेनौत्सुक्येन ततोऽन्यान् बोधिसत्त्वान् महासत्त्वानवमंस्यते उच्चग्धयिष्यति उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति-अहं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति। स तेन तावन्मात्रकेण भूयो मानं जनयिष्यति, मानं संजनयिष्यति, मानं वर्धयिष्यति, मानं संवर्धयिष्यति, मानं स्तम्भयिष्यति, मानमुपस्तम्भयिष्यति, मानं बृंहयिष्यति, मानमुपबृंहयिष्यति, मानमुत्पादयिष्यति। स तेन मानेन अतिमानेन मानातिमानेन मिथ्यामानेन अभिमानेन दूरीकरिष्यति सर्वज्ञताम्, दूरीकरिष्यत्यनुत्तरं बुद्धज्ञानम्, स्वयंभूज्ञानम्, सर्वज्ञज्ञानम्। दूरीकरिष्यत्यनुत्तरां सम्यक्संबोधिम्। स तथारूपाणि कल्याणमित्राणि कल्याणधर्मण उदाराधिमुक्तिकानध्याशयसंपन्नानुपायकुशलानविनिवर्तनीयधर्मसमन्वागतांश्च बोधिसत्त्वान् महासत्त्वान् दृष्ट्वा अभिमानमुत्पाद्य अवमन्यमानस्तथारूपाणि कल्याणमित्राणि न सेविष्यते, न भजिष्यते, न पर्युपासिष्यते, न परिप्रक्ष्यति। तदेव मारबन्धनं गाढीकरिष्यति। तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये-श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा। एवं सुभूते सत्याधिष्ठानेन मारः पापीयानचिरयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य अल्पश्रद्धस्य अल्पश्रुतस्य कल्याणमित्रविरहितस्य प्रज्ञापारमितया अपरिगृहीतस्य उपायकौशल्यविरहितस्य अन्तरायं करिष्यत्यनुत्तरायाः सम्यक्संबोधेः। इदमपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारकर्म वेदितव्यम्॥



पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेनापि मारकर्म भविष्यति। कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य नामापेदेशेनापि मारकर्म भविष्यति? इह सुभूते बोधिसत्त्वं महासत्त्वं नामापदेशेनापि नामाधिष्ठानेनापि मारः पापीयानुपसंक्रमिष्यति। अन्यतरान्यतरेण वेषेणोपसंक्रम्य एवं वक्ष्यति-तैर्व्याकृतस्त्वं पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? तव हीदं नामधेयम्। इदं ते मातुर्नामधेयम्। इदं ते पितुर्नामधेयम्। इदं ते भ्रातुर्नामधेयम्। इदं ते भगिन्या नामधेयम्। इदं ते मित्रामात्यज्ञातिसालोहितानां नामधेयम्। यावदासप्तमं मातामहपितामहयुगस्य नामधेयमुदीरयिष्यति-अमुष्यां दिशि त्वं जातः, अमुष्मिन् जनपदे अमुष्मिन् ग्रामे वा नगरे वा निगमे वा जात इति। सचेत्प्रकृत्वा मृदुको भविष्यति, तमेनमेवं वक्ष्यति-पूर्वमपि त्वमेव मृदुकोऽभूः। सचेत्प्रकृत्या तीक्ष्णेन्द्रियो भविष्यति, ततस्तमेवं वक्ष्यति-पूर्वमपि त्वं तीक्ष्णेन्द्रियोऽभूः। सचेदारण्यको भविष्यति, सचेत्पिण्डपातिको भविष्यति, सचेत्पांसुकूलिको भविष्यति, सचेत्खलुपश्चाद्भक्तिको भविष्यति, सचेदेकासनिको भविष्यति, सचेद्याथासंस्तरिको भविष्यति, सचेत्रैचीवरिको भविष्यति, सचेत् श्मशानिको भविष्यति, सचेद्वृक्षमूलिको भविष्यति, सचेन्नैषद्यिको भविष्यति, सचेदभ्यवकाशिको भविष्यति, सचेन्नामन्तिको भविष्यति, सचेदल्पेच्छः संतुष्टः प्रविविक्तो भविष्यति, सचेदपगतपादम्रक्षणो भविष्यति, सचेन्मृदुभाषी अल्पवाग् भविष्यति, तमेनं मारः पापीयांस्तेन तेन दृष्टधार्मिकेण गुणेनादेक्ष्यति-पूर्वमपि त्वमनेन चानेन च गुणेन समन्वागतोऽभूः। नियतस्तं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ अविनिवर्तनीयायां बोधिसत्त्वभूमौ। तत्कस्य हेतोः? तथा हि ते अमी एवंरूपा धुतगुणाः संविद्यन्ते।



निश्चयेन त्वं पूर्वमप्येतैरेव धुतगुणैः समन्वागतोऽभूः। एवं स तेन पौर्वकेण नामापदेशेन नामाधिष्ठानेन प्रत्युत्पन्नधुतगुणसंलेखेन च मन्यनामुत्पादयिष्यति। तस्यैवं भविष्यति-व्याकृतोऽहं तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, यथा मे अमी गुणाः संविद्यन्ते। तं च मारः पापीयानेवं वक्ष्यति-अविनिवर्तनीयस्त्वं व्याकृतस्तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? तथा हि तव एते एवंरूपा धुतगुणा संविद्यन्ते। तस्य खलु पुनः सुभूते मारः पायीयान् कदाचिद्भिक्षुवेषेणोपसंक्रमिष्यति, कदाचिद्भिक्षुणीवेषेण, कदाचिदुपासकवेषेण, कदाचिदुपासिकावेषेण, कदाचिद्ब्राह्मणवेषेण, कदाचिद्गृहपतिवेषेण, कदाचिन्मातृवेषेण, कदाचित्पितृवेषेण, कदाचिद्भ्रातृवेषेण, कदाचिद्भगिनीवेषेण, कदाचिन्मित्रामात्यज्ञातिसालोहितवेषेण उपसंक्रमिष्यति। उपसंक्रम्यैवं वक्ष्यति-व्याकृतस्त्वं पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ अविनिवर्तनीयायां बोधिसत्त्वभूमौ। तत्कस्य हेतोः? तथा हि ते एवंरूपा धुतगुणाः संविद्यन्ते, येऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां गुणाः। ये खलु पुनः सुभूते मया अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां गुणा आख्याताः आकारा लिङ्गानि निमित्तानि चाख्यातानि, तानि तस्य न भविष्यन्ति। वेदितव्यमेतत्सुभूते ततोऽन्यैर्बोधिसत्त्वैर्महासत्त्वैः-माराधिष्ठितो बतायं बोधिसत्त्वो महासत्त्व इति। तत्कस्य हेतोः? ये आकारा यानि लिङ्गानि यानि निमित्तानि अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्, तानि तस्य न भविष्यन्ति। स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वोऽनेन नामाधिष्ठानेन अभिमानमुत्पादयिष्यति। अभिमानमुत्पाद्य मानाभिभूतः स्तम्भाभिभूतो माराधिष्ठानेनाभिभूतस्तदन्यान् बोधिसत्त्वान् महासत्त्वानवमंस्यते उच्चग्घयिष्यति उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन नामाधिष्ठानेन मारकर्म वेदितव्यम्॥



पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नामापदेशेन नामव्याकरणेन मारकर्म वेदितव्यम्। कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन नामापदेशेन नामव्याकरणेन मारकर्म वेदितव्यम्? इह सुभूते मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वमेवं व्याकरिष्यति-तवानुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदं नामधेयं भविष्यतीति यदेव तेन चित्तेनानुवर्तितमनुवितर्कितमनुविचारितं भवति-अहो बत मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदमेवंरूपं नामधेयं भवेदिति, तदेव नामधेयं व्याकरिष्यति। तत्र दुष्प्रज्ञजातीयस्य अनुपायकुशलस्य बोधिसत्त्वस्यैवं भविष्यति-यथा मया नामधेयमनुवर्तितमनुवितर्कितमनुविचारितम्, अहो बत मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदं नामधेयं भवेदिति, तथा तेन भिक्षुणा निर्दिष्टमिति। स एवं यच्च नामधेयं स्वयमनुविचिन्तितम्, यच्च तेन मारेण पापीयसा मारकायिकाभिर्वा देवताभिरभिनिर्मितेन माराधिष्ठितेन वा भिक्षुणा नामधेयमुदीरितम्, तदुभयं तुलयित्वा यथा च मम चित्तोत्पाद उत्पन्नः, यथा च अनेन भिक्षुणा निर्दिष्टं मम नामधेयं समेति नाम्ना, नामव्याकृतोऽहं तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति मंस्यते। यानि च मया सुभूते अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानामाकारा लिङ्गानि निमित्तानि आख्यातानि, तानि तस्य न भविष्यन्ति। स तैर्विरहितोऽनेन नामापदेशेन नामव्याकरणेन मन्यनामुत्पादयिष्यति। स मन्यनामुत्पाद्य ततोऽन्यान् बोधिसत्त्वान् महासत्त्वानवमंस्यते-अहं व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, नैते व्याकृता अनुत्तरायां सम्यक्संबोधाविति। एवं स तेन मानेन अतिमानेन मानातिमानेन अभिमानेन मिथ्यामानेन च तदन्यान् बोधिसत्त्वान् महासत्त्वानवमन्यमानो दूरीकरिष्यति सर्वज्ञताम्, दूरीकरिष्यति बुद्धज्ञानम्। तस्य प्रज्ञापारमितया अपरिगृहीतस्य उपायकौशल्यविरहितस्य कल्याणमित्रविरहितस्य पापमित्रपरिगृहीतस्य द्वयोर्भूम्योरन्यतरा भूमिः प्रतिकाङ्क्षितव्या-श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा। सचेत्पुनश्चिरं सुचिरं संधाव्य संसृत्य एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो भवेत्, यदि चासावुपसर्पेत् कल्याणमित्राणि, अभीक्ष्णं च तान्युपसंक्रमिष्यति, तेनैव चात्मभावप्रतिलम्भेन तावत्पूर्वकांश्चित्तोत्पादान् विगर्हिष्यति, वान्तीकरिष्यति, जुगुप्सिष्यति, प्रतिनिः-स्रक्ष्यति, प्रतिदेशयिष्यति, तथापि बुद्धभूमिस्तस्य दुर्लभा भविष्यति। तत्कस्य हेतोः? तावद्गुरुतरं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य मननापत्तिस्थानम्। तद्यथापि नाम सुभूते भिक्षोः श्रावकयानिकस्य श्रावकभूमौ चतस्रो मूलापत्तयो गुर्व्यो भवन्ति, यतोऽन्यतरान्यतरा मापत्तिमध्यापद्य अभिक्षुर्भवत्यश्रमणोऽशाक्यपुत्रीयः, इयमेव ताभ्यश्चतसृभ्य आपत्तिभ्यो गुरुतरा आपत्तिः, योऽयं मानचित्तोत्पादः, यदुत नामापदेशेन बोधिसत्त्वस्य महासत्त्वस्यावमाननया महानकुशलश्चित्तोत्पाद उत्पन्नः। अयं ताभ्यश्चतसृभ्य आपत्तिभ्यो गुरुतरश्चित्तोत्पादो वेदितव्यः॥



तिष्ठन्तु सुभूते चतस्रो गुर्व्यो मूलापत्तयः। पञ्चभ्योऽपि सुभूते आनन्तर्येभ्यः कर्मभ्यो गुरुतरोऽयं चित्तोत्पादः, योऽयं बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेन मानसहगतश्चित्तोत्पाद उत्पन्नः। अयं तेभ्यः पञ्चभ्य आनन्तर्येभ्यः कर्मभ्यो गुरुतरश्चित्तोत्पादो वेदितव्यः। इति हि सुभूते अनेनापि नामापदेशेन सूक्ष्मसूक्ष्माणि मारकर्माण्युत्पत्स्यन्ते। तानि बोधिसत्त्वेन महासत्त्वेन बोद्धव्यानि। अन्येभ्यश्चावबोधयितव्यानि, बुद्ध्वा च विवर्जयितव्यानि॥



पुनरपरं सुभूते मारः पापीयान् विवेकगुणेन बोधिसत्त्वं महासत्त्वमुपसंक्रम्य चोदयिष्यति स्मारयिष्यति। कथं च सुभूते मारः पापीयान् विवेकगुणेन बोधिसत्त्वं महासत्त्वमुपसंक्रम्य चोदयिष्यति स्मारयिष्यति? इह सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वमुपसंक्रमिष्यति, उपसंक्रम्यैवं वक्ष्यति-विवेकस्य तथागतो वर्णवादी अरण्यवनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादिषु विहर्तव्यमिति। न चाहं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवंविधं विवेकं वदामि, यदुत आरण्यकानि प्रान्तानि शयनासनानि विजनपदानि विविक्तानि, विविधानि वनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादीनि॥



सुभूतिराह-कतमः पुनः स भगवन् बोधिसत्त्वस्य महासत्त्वस्य अन्यो विवेको यदि वा आरण्यकानि प्रान्तानि शयनासनानि विजनपदानि विविक्तानि विविधानि वनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादीनि? यदि तानि नाध्यावसति, कियद्रूपः पुनर्भगवन् बोधिसत्त्वस्य महासत्त्वस्यान्यो विवेकः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-सचेत्सुभूते बोधिसत्त्वो महासत्त्वो विविक्तो भवति श्रावकप्रतिसंयुक्तैर्मनसिकारैः, विविक्तो भवति प्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः, एवं स बोधिसत्त्वो महासत्त्वो विविक्तो विहरति। ग्रामान्तेऽपि हि विहरन् प्रज्ञापारमितोपायकौशल्यपरिगृहीतः सर्वसत्त्वमैत्रीमहाकरुणाविहारेण विहरेत्। अनेन विहारेण विहरन् विविक्त एव स विहरति। अयं खलु पुनः सुभूते मया बोधिसत्त्वस्य महासत्त्वस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तमनसिकारविवेकोऽनुज्ञातः। अनेन विवेकेन विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिवान्यतिनामयति, विविक्तो विहरति। सचेद्बोधिसत्त्वो महासत्त्वोऽरण्यवनप्रस्थगिरिगुहाश्मशानप्रान्तशयनासनेष्वनेन विहारेण विहरति, विविक्तो बोधिसत्त्वो महासत्त्वो विहरति। यं पुनः सुभूते मारः पापीयान् विवेकमुपदेक्ष्यति अरण्यवनप्रस्थगिरिगुहाश्मशानप्रान्तशयनासनविहारान्, स तेन विवेकेन श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः संकीर्ण एव सन् प्रज्ञापारमितायामनभियुज्यमानो न सर्वज्ञज्ञानं परिपूरयति। एवं स संकीर्णविहारेण विहरन् सोऽपरिशुद्धेन मनसिकारेण विहरन् अपरिशुद्धकायवाङ्मनःकर्मान्तः एव भविष्यति। अपरिशुद्धकायवाङ्मनःकर्मान्त एव संस्ततोऽन्यानपि बोधिसत्त्वान् महासत्त्वान् ग्रामान्तविहारिणोऽसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः प्रज्ञोपायमहाकरुणाविहारविहारिणोऽवमंस्यते। अरण्येऽपि विहरन् सोऽपरिशुद्धकायवाङ्मनःकर्मान्तः सन् संकीर्णविहार्येव भवति, न विविक्तविहारी। स प्रज्ञोपायमहाकरुणाविहारविहारिणो ग्रामान्ते विहरतः परिशुद्धकायवाङ्मनःकर्मसमुदाचारान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तमनसिकारविविक्तानसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तांस्तावत्सोऽवमन्यमानो न ध्यानसमाधिसमापत्तिविमोक्षाभिज्ञानां लाभी भविष्यति। न चास्य ताः परिपूरिं गमिष्यन्ति। तत्कस्य हेतोः? तथा हि सोऽनुपायकुशलो भवति॥



किंचापि सुभूते बोधिसत्त्वो महासत्त्वो योजनशतिकेष्वटवीकान्तारेषु विहरेदपगतव्यालमृगपक्षिसंघेषु अपगतक्षुद्रमृगव्यालयक्षराक्षसानुविचरितेषु अपगतचौरकान्तारभयभैरवोपद्रवेषु संतिष्ठेत्, वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं वा वर्षकोटीशतसहस्रं वा वर्षकोटीनियुतशतसहस्रं वा, ततो वा उपरि। इमं च विवेकं मयोपदिष्टं न जानीयात्, येन विवेकेन बोधिसत्त्वो महासत्त्वोऽध्याशयसंप्रस्थितोऽध्याशयसंपन्नो विहरति। तं सोऽनुपायकुशलो बोधिसत्त्वो महासत्त्वोऽजानन्नरण्यपरमो विहरति। तत्र च विवेके निश्रितः आलीनोऽध्यवसितोऽध्यवसायमापन्नः। नैव मे सुभूते एतावता स बोधिसत्त्वश्चित्तमाराधयति। तत्कस्य हेतोः? यः सुभूते विवेको बोधिसत्त्वानां महासत्त्वानां मया आख्यातः, तेन विवेकेन विहरन्नस्मिन् विवेके न संदृश्यते। तमेनं मारः पापीयानुपसंक्रम्य उपर्यन्तरीक्षे विहायसि स्थित्वा एवं वक्ष्यति-साधु साधु कुलपुत्र, एष बोधिसत्त्वानां महासत्त्वानां तथागतेन विवेक आख्यातः। अनेनैव त्वं कुलपुत्र विवेकेन विहर। एवं त्वं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। स ततो विवेकात्पुनरेव अरण्याद्ग्रामान्तमवतीर्य तदन्यान् बोधिसत्त्वान् महासत्त्वान् पेशलान् भिक्षून् सब्रह्मचारिणः कल्याणधर्मणोऽसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः परिशुद्धकायवाङ्मनःकर्मान्तान् जीवानवमंस्यते। स एवं वक्ष्यति-संकीर्णविहारेण बतेमे आयुष्मन्तो विहरन्ति, न विविक्तविहारेण। आकीर्णविहारेण बतेमे आयुष्मन्तो विहरन्ति, न विविक्तविहारेण विहरन्तीति। ये ते बोधिसत्त्वा महासत्त्वा विविक्तविहारेण विहरन्ति, तान् संकीर्णविहारेण चोदयिष्यति, आकीर्णविहारेण चोदयिष्यति। ये च ते संकीर्णविहारेण विहरन्ति, तान् स विविक्तविहारेण समुदाचरिष्यति, तत्र गौरवमुत्पादयिष्यति। यत्र च गौरवमुत्पादयितव्यम्, तत्र मानमुत्पादयिष्यति। तत्कस्य हेतोः? अहममनुष्यैश्चोद्ये, अहममनुष्यैः स्मार्ये। एष सुभूते विहारो येनाहं विहारेण विहरामि। कं ग्रामान्तविहारिणममनुष्याश्चोदयिष्यन्ति, कं ग्रामान्तरे विहरन्तममनुष्याः स्मारयिष्यन्ति, इत्येवं हि बोधिसत्त्वयानिकान् पुद्गलानवमंस्यते। अयं सुभूते बोधिसत्त्वचण्डालो वेदितव्यः, बोधिसत्त्वदूषी वेदितव्यः, बोधिसत्त्वप्रतिरूपको वेदितव्यः, बोधिसत्त्वप्रतिवर्णिको वेदितव्यः, बोधिसत्त्वकारण्डवको वेदितव्यः, चौरः श्रमणवेषेण, चौरो बोधिसत्त्वयानिकानां पुद्गलानाम्, चौरः सदेवकस्य लोकस्य। तज्जातीयः खलुः पुनः सुभूते पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः। तत्कस्य हेतोः? अभिमानपतिता हि ते तथारूपाः पुद्गला वेदितव्याः। अन्येषामपि तथारूपाणामल्प स्थामानाचिरयानसंप्रस्थितानां संदूषणं कुर्युः। अविशुद्धधर्माणो हि ते तथारूपाः पुद्गलाः वेदितव्याः। अनार्या हि ते तथारूपाः पुद्गला वेदितव्याः। अनार्यधर्माणो हि ते तथारूपाः पुद्गला वेदितव्याः। यस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपरित्यक्ताः सर्वसत्त्वाः, अपरित्यक्ता सर्वज्ञता, अपरित्यक्ता अनुत्तरा सम्यक्संबोधिः, तेन बोधिसत्त्वेन महासत्त्वेन अध्याशयेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामर्थं कर्तुकामेन तज्जातीयाः पुद्गला न सेवितव्याः, न भक्तव्याः, न पर्युपासितव्याः। अपि तु खलु पुनः सुभूते सर्वसत्त्वानामर्थाय अभ्युत्थितेन एतेषां च अन्येषां च मारकर्मणामवबोधाय नित्यमेवोद्विग्नचित्तेन भवितव्यं सर्वसत्त्वानां मार्गमप्रतिलभमानानामुपदेष्टुमुत्रस्तमानसेन असंसृष्टेन त्रैधातुकेन। तत्रापि तावन्मैत्रायमाणेन करुणायमानेन महाकरुणामुत्पाद्य अनुकम्पामुपादाय सम्यक्प्रतिपन्नेषु सत्त्वेषु मुदितचित्तेनानुपलब्धिधर्मतया धर्माणामुपेक्षकेण एवं चित्तमुत्पादयितव्यम्-तथा करिष्यामि यथा सर्वे मारकर्मदोषाः सर्वेण सर्वं सर्वथा सर्वं सर्वत्र सर्वदा च न भविष्यन्ति, नोत्पत्स्यन्ते। सचेदुत्पत्स्यन्ते, क्षिप्रमेव प्रतिगमिष्यन्ति, एवं शिक्षिष्ये इति। अयमपि बोधिसत्त्वानां महासत्त्वानां स्वयमभिज्ञाय पराक्रमो वेदितव्यः। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विवेकगुणेन मारकर्म वेदितव्यमिति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मारकर्मपरिवर्तो नाम एकविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project