Digital Sanskrit Buddhist Canon

२० उपायकौशल्यमीमांसापरिवर्तो विंशतितमः

Technical Details
२० उपायकौशल्यमीमांसापरिवर्तो विंशतितमः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-प्रज्ञापारमितायां भगवंश्चरता बोधिसत्त्वेन महासत्त्वेन कथं शून्यतायां परिजयः कर्तव्यः, कथं वा शून्यतासमाधिः समापत्तव्यः? भगवानाह-इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यमिति प्रत्यवेक्षितव्यम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं शून्यमिति प्रत्यवेक्षितव्यम्। तथा च प्रत्यवेक्षितव्यमविक्षिप्तया चित्तसंतत्या यथा प्रत्यवेक्षमाणो रूपमिति तां धर्मतां धर्मतया न समनुपश्येत्। तां च असमनुपश्यन् धर्मतां न साक्षात्कुर्याद्भूतकोटिम्। एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यद्भगवानेवमाह-न बोधिसत्त्वेन महासत्त्वेन शून्यता साक्षात्कर्तव्येति। कथं भगवन् तस्मिन् समाधौ स्थितो बोधिसत्त्वो महासत्त्वः शून्यतां न साक्षात्करोति? भगवानाह-यतः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, परिजयस्यायं कालः, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते, असमाहित एवारम्बणे चित्तमुपनिबध्नाति-प्रज्ञापारमिता च मे परिगृहीता भविष्यति, न च साक्षात्कृतेति।



अत्रान्तरा बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर्धर्मैः, न च आस्रवक्षयं करोति, अत्र च परिजयं करोति। यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखेन विहरति, तस्मिन् समये बोधिसत्त्वेन महासत्त्वेन आनिमित्तेन च समाधिना विहर्तव्यम्, न च आनिमित्तं साक्षात्कर्तव्यम्। तत्कस्य हेतोः? एवमारूढकुशलमूलधर्मसमन्वागतो हि बोधिसत्त्वो महासत्त्वः-परिपाकस्यायं कालः, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते। प्रज्ञापारमितया च परिगृहीतो भूतकोटिं न साक्षात्करोति। तद्यथापि नाम सुभूते कश्चिदेव पुरुषः परमशूरश्च भवेत्, परमवीर्यसमन्वागतश्च भवेत्, दृढप्रतिष्ठानश्च भवेत्, अभिरूपश्च भवेत्, प्रासादिकश्च भवेत्, परमदर्शनीयश्च भवेत्, बहुगुणसमन्वागतश्च भवेत्, परमगुणसमन्वागतश्च भवेत्, परमैश्वर्यशीलश्रुतत्यागादिगुणैश्च समन्वागतो भवेत्, मेधावी च भवेत्, वचनसमर्थश्च भवेत्, प्रतिभानसंपन्नश्च भवेत्, प्रतिपत्तिसंपन्नश्च भवेत्, कालज्ञश्च भवेत्, देशज्ञश्च भवेत्, स्थानज्ञश्च भवेत्, इष्वस्त्रे च परमगतिं गतो भवेत्, बहुप्रहरणावरणश्च भवेत्, सर्वासु च कलासु परमकुशलो भवेत्, सुपरिनिष्पन्नतया सर्वेष्वेव च शिल्पस्थानेषु परमगतिको भवेत्, स्मृतिमांश्च भवेत्, मतिमांश्च भवेत्, गतिमांश्च भवेत्, धृतिमांश्च भवेत्, नीतिमांश्च भवेत्, सर्वशास्त्रविशारदश्च भवेत्, मित्रवांश्च भवेत्, अर्थवांश्च भवेत्, बलवांश्च भवेत्, अहीनाङ्गश्च भवेत्, परिपूर्णेन्द्रियश्च भवेत्, सर्वोपकरणसंपन्नश्च भवेत्, बहुजनस्य च प्रियो मन‍आपश्च भवेत्।



स यद्यदेव किंचित्कार्यमारभेत, तत्र तत्र सर्वत्र निस्तरणसमर्थो भवेत्, नयेन च व्यवहरेत्, सर्वत्र चास्य महालाभो भवेत्। तेन महालाभेन समन्वागतः सन् बहुजनं संविभजेत्, सत्कर्तव्यं च सत्कुर्यात्, गुरुकर्तव्यं च गुरुकुर्यात्, मानयितव्यं च मानयेत्, पूजयितव्यं च पूजयेत्। तत्किं मन्यसे सुभूते अपि नु स पुरुषस्ततोनिदानं भूयस्या मात्रया आत्तमनस्को भवेत्, प्रमुदितश्च भवेत्, प्रीतिसौमनस्यजातश्च भवेत्? सुभूतिराह एवमेतद्भगवन्, एवमेतत्सुगत। भगवानाह-स खलु पुनः सुभूते पुरुषस्तया महासंपत्त्या समन्वागतो मातापितृपुत्रदारान् गृहीत्वा केनचिदेव कारणसामग्रीयोगेन महाटवीकान्तारं प्रतिपन्नो भवेत् महाप्रतिभयं बालानां भीषणं रोमहर्षणम्। स तत्र प्रविष्टः संस्तान् मातापितृपुत्रदारानभयेनाभिनिमन्त्रयेत्-मा भैष्ट, मा भैष्ट, अहमितो युष्मान् महाभयभैरवादटवीकान्तारात्क्षेमेण स्वस्तिना शीघ्रमपक्रामयिष्यामि, शीघ्रं परिमोचयिष्यामीति। तत्र खलु पुनः सुभूते अटवीकान्तारे तस्य पुरुषस्य बहवः प्रत्यर्थिकाः बहवः प्रत्यमित्राः प्रत्युपस्थिता भवेयुः। तत्किं मन्यसे सुभूते अपि नु स शूरः पुरुषस्तैः प्रत्यर्थिकैः प्रत्यमित्रैरभ्युत्थितैरविनिवर्त्यो दृढवीर्यबलसमन्वागतः प्रज्ञावानतिस्निग्धः सानुक्रोशो धीरो महासंभारसमन्वागतस्तान् मातापितृपुत्रदारान् परित्यज्य ततो महाभयभैरवादटवीकान्तारादात्मानमेकमपक्रामयितव्यं मन्येत? सुभूतिराह-नो हीदं भगवन्। तत्कस्य हेतोः? तथा हि भगवंस्तस्य पुरुषस्य तन्मातापितृपुत्रदारमपरित्यक्तम्, आध्यात्मिकश्च बाह्यश्च बलवान् संभारः। तस्य तत्र अटवीकान्तारे बहुतरकाश्च शूरतरकराश्च दृढप्रहरणतरकराश्च तेषां प्रत्यर्थिकानां प्रत्यमित्राणामन्ये उदारतरकाः प्रत्यर्थिकाः प्रत्यमित्रास्तिष्ठन्ति रक्षन्ति। ते तस्य प्रत्यर्थिकाः प्रत्यमित्रा अवतारप्रेक्षिणोऽवतारगवेषिणोऽवतारं न लप्स्यन्ते। तेन स भगवन् प्रतिबलः पुरुषोऽक्षतोऽनुपहतस्तन्मातापितृपुत्रदारमात्मानं च ततो महाभयभैरवादटवीकान्ताराच्छक्तः क्षेमेण स्वस्तिना शीघ्रमपक्रामयितुं यावद्ग्रामं वा नगरं वा निगमं वा अनुप्राप्तः स्यात्॥



एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेव सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वहितानुकम्पी मैत्रीविहारी करुणाविहारी मुदिताविहारी उपेक्षाविहारी उपायकौशल्येन प्रज्ञापारमितया च परिगृहीतः कुशलमूलानि सम्यग्बुद्धानुज्ञातया परिणामनया परिणाम्य किंचापि शून्यतामानिमित्तमप्रणिहितं च समाधिविमोक्षमुखान्यवतरति, न त्वेव भूतकोटिं साक्षात्करोति, यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा। तत्कस्य हेतोः? तथा ह्यस्य बलवत्तमा दृढतमाश्च परिग्राहकाः, यदुत प्रज्ञापारमिता उपायकौशल्यं च। तेन अस्यापरित्यक्ताः सर्वसत्त्वाः, तेनैष प्रतिबलः स्वस्तिना क्षेमेण अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामन्तिके मैत्रीचित्तमारम्बणीकृत्य तान् परमया मैत्र्या परिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वः क्लेशपक्षं मारपक्षं चातिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं चातिक्रम्य तत्र समाधाववतिष्ठते। अप्राप्तश्च स सुभूते आस्रवक्षयं परमपारमितायां शून्यतायां परिजयं करोति। यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखेन विहरति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न चेदानीं नानिमित्तेन समाधिना विहरति।



न चानेन आनिमित्तः समाधिः साक्षात्कृतो भवति। तद्यथापि नाम सुभूते पक्षी शकुनिराकाशेऽन्तरीक्षे चरति, न च भूमौ पतति, न च कंचिन्निश्रयं निश्रित्य तिष्ठति, आकाश एवान्तरीक्षे विहरति, न च तत्रापि निश्रितो न प्रतिष्ठितः। एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यताविहारेण विहरति, शून्यतायां परिजयं करोति, आनिमित्तविहारेण च विहरति, आनिमित्ते च परिजयं करोति, अप्रणिहितविहारेण च विहरति, अप्रणिहिते च परिजयं करोति। न च शून्यतायां वा आनिमित्ते वा अप्रणिहिते वा पतत्यपरिपूर्णैर्बुद्धधर्मैः। तद्यथापि नाम सुभूते बलवानिष्वस्त्राचार्य इष्वस्त्रशिक्षायां सुशिक्षितः सुपरिनिष्ठितः। स ऊर्ध्वं काण्डं क्षिपेत्। ऊर्ध्वं काण्डं क्षिप्त्वा तदन्यैः काण्डैस्तत्काण्डं भूमौ पतत् प्रतिनिवारयेत्, वारयेत्, तस्य पौर्वकस्य काण्डस्य काण्डपरंपरया भूमौ पतनं न दद्यात्, तावत्तत्काण्डं भूमौ न पतत्, यावन्नाकाङ्क्षेत्-अहो बतेदं काण्डं भूमौ पतेदिति। एवमेव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् उपायकौशल्यपरिगृहीतः तावत्तां परमां भूतकोटिं न साक्षात्करोति, यावन्न तानि कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिपक्वानि सुपरिपक्वानि। यदा तानि कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिपक्वानि भवन्ति सुपरिपक्वानि, तदा तां परमां भूतकोटिं साक्षात्करोति। तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता एवमेतेषां धर्माणां गम्भीरधर्मता प्रत्यवेक्षितव्या उपनिध्यातव्या, न च साक्षात्कर्तव्या॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वः। परमदुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वः, यः शून्यतायां चरति, शून्यतया च विहरति, शून्यतां च समाधिं समापद्यते, न च भूतकोटिं साक्षात्करोति। अत्याश्चर्यमिदं भगवन्, परमाश्चर्यमिदं सुगत। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। दुष्करकारको बोधिसत्त्वो महासत्त्वः। परमदुष्करकारको बोधिसत्त्वो महासत्त्वः यः शून्यतायां चरति, शून्यतायां च विहरति, शून्यतां च समाधिं समापद्यते, न च भूतकोटिं साक्षात्करोति। तत्कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वा अपरित्यक्ताः। तस्येमे एवंरूपाः प्रणिधानविशेषा भवन्ति-मयैते सर्वसत्त्वाः परिमोचयितव्या इति। यदा बोधिसत्त्वो महासत्त्व एवं चित्तमभिनिर्हरति-सर्वसत्त्वा ममापरित्यक्ताः, मयैते परिमोचयितव्या इति, शून्यतां च समाधिविमोक्षमुखमभिनिर्हरति, आनिमित्तं च समाधिविमोक्षमुखमभिनिर्हरति, अप्रणिहितं च समाधिविमोक्षमुखमभिनिर्हरति, तदा उपायकौशल्यसमन्वागतो बोधिसत्त्वो महासत्त्वो वेदितव्यः-नायमन्तरा भूतकोटिं साक्षात्करिष्यत्यपरिपूर्णैर्बुद्धधर्मैः। तत्कस्य हेतोः? तथा हि अस्योपायकौशल्यं रक्षां करोति। स चैवास्य चित्तोत्पादो यत्तस्य सर्वसत्त्वा अपरित्यक्ताः। स एवमनेन चित्तोत्पादेनोपायकौशल्येन समन्वागतोऽन्तरा भूतकोटिं न साक्षात्करोति॥



पुनरपरं सुभूते यदा बोधिसत्त्वो महासत्त्व इमानि गम्भीराणि स्थानानि प्रत्यवेक्षते, प्रत्यवेक्षितुकामो वा भवति-तद्यथा शून्यतां समाधिविमोक्षमुखम्, आनिमित्तं समाधिविमोक्षमुखम्, अप्रणिहितं समाधिविमोक्षमुखम्, तेनैवं चित्तमभिनिर्हर्तव्यम्-दीर्घरात्रममी सत्त्वाः सत्त्वसंज्ञया उपलम्भे चरन्ति। तेषां सत्त्वानामुपलम्भदृष्टिकानामुपलम्भदृष्टिप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामि। इति संचिन्त्य शून्यतां समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति। आनिमित्तं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति। अप्रणिहितं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति। एवं बोधिसत्त्वो महासत्त्वोऽनेन चित्तोत्पादेन अनेन चोपायकौशल्येन समन्वागतो नान्तरा भूतकोटिं साक्षात्करोति, न च परिहीयते मैत्रीसमाधितो न करुणामुदितोपेक्षासमाधितः। तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो हि बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शुक्लैर्धर्मैः। तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति, बलबोध्यमार्गं च प्रतिलभते॥



पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति-दीर्घरात्रममी सत्त्वा धर्मसंज्ञया उपलम्भे चरन्ति। तेषामुपलम्भदृष्टिकानामुपलम्भदृष्टिप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामीति। सोऽनेन चित्तोत्पादेन पौर्वकेण चोपायकौशल्येन समन्वागतः शून्यतां समाधिविमोक्षमुखं समापद्यते। न च भूतकोटिं साक्षात्करोति। न च परिहीयते मैत्रीकरुणामुदितोपेक्षासमाधितः। तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः। तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति। बलबोध्यङ्गानि मार्गं च प्रतिलभते॥



पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति-दीर्घरात्रममी सत्त्वा निमित्तसंज्ञया निमित्ते चरन्ति। तेषां निमित्तसंज्ञाप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामीति। स आनिमित्तं समाधिविमोक्षमुखं समापद्यते सत्त्वानां कृतशः। सोऽनेन चित्तोत्पादेन पौर्वकेण चोपायकौशल्येन समन्वागतः आनिमित्तं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति। न च परिहीयते मैत्र्याः करुणाया मुदिताया उपेक्षायाः सर्वसमाधितः। तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो हि बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः। तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति। बलानि बोध्यङ्गानि मार्गं च प्रतिलभते॥



पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति-दीर्घरात्रममी सत्त्वा नित्यसंज्ञया सुखसंज्ञया आत्मसंज्ञया शुभसंज्ञया च विपर्यस्ताः। तथा करिष्यामि यथा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य नित्यसंज्ञायाः सुखसंज्ञायाः आत्मसंज्ञायाः शुभसंज्ञाया विपर्यासस्य प्रहाणाय धर्मं देशयिष्यामि-अनित्यमेतत्सर्वं न नित्यमिति। दुःखमेतत्सर्वं न सुखमिति। अनात्मकमेतत्सर्वं नैतत्सात्मकमिति। अशुभमेतत्सर्वं नैतच्छुभमिति। सोऽनेन चित्तोत्पादेन समन्वागतः पौर्वकेण चोपायकौशल्येन प्रज्ञापारमितया च परिगृहीतो नान्तरा भूतकोटिं साक्षात्करोति अपरिपूर्णेषु बुद्धधर्मेषु। एवमप्रणिहितं समाधिविमोक्षमुखमुपसंपद्य विहरति। न च भूतकोटिं साक्षात्करोति। न च परिहीयते मैत्रीतो वा करुणातो वा मुदितातो वा उपेक्षातो वा। तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः। तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति। बलानि बोध्यङ्गानि मार्गं च प्रतिलभते। यो हि कश्चित्सुभूते बोधिसत्त्वो महासत्त्व इमं चित्तोत्पादमुत्पादयति, इत्यपीमे सत्त्वा दीर्घरात्रमुपलम्भे चरिताविनः एतर्ह्युपलम्भे चरन्ति।



निमित्तसंज्ञायां चरिताविनः एतर्ह्यपि निमित्तसंज्ञायां चरन्ति। विपर्यासे चरिताविनः एतर्ह्यपि विपर्यासे चरन्ति। पिण्डसंज्ञायां चरिताविनः एतर्ह्यपि पिण्डसंज्ञायां चरन्ति। अभूतसंज्ञायां चरिताविनः एतर्ह्यपि अभूतसंज्ञायां चरन्ति। मिथ्यादृष्टौ चरिताविनः एतर्ह्यपि मिथ्यादृष्टौ चरन्ति। तथा करिष्यामि यथैषामेते दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते। इत्येवं सर्वसत्त्वान् समन्वाहरति। एवं च बोधिसत्त्वो महासत्त्वोऽनेन स्मृतिसमन्वाहारेण अनेन चित्तोत्पादेन समन्वागतः उपायकौशल्येन च समन्वागतः प्रज्ञापारमितया च परिगृहीतः एवमेतेषां गम्भीराणां धर्माणां धर्मतां प्रत्यवेक्षमाणः शून्यतातो वा आनिमित्ततो वा अप्रणिहिततो वा अनभिसंस्कारतो वा अनुत्पादतो वा अजातितो वा अभावतो वा। अस्थानमेतत्सुभूतेऽनवकाशः, यत्स बोधिसत्त्वो महासत्त्व एवं ज्ञानसमन्वागतोऽनभिसंस्कारे वा पतेत्, त्रैधातुकेन वा सार्धं संवसेत्, नैतत्स्थानं विद्यते॥



एवं हि सुभूते बोधिसत्त्वो महासत्त्वः परिप्रष्टव्यो बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन-कतमेषां धर्माणां परिजयः कर्तव्यः? कियद्रूपाणि च चित्तान्यभिनिर्हर्तव्यानि? यानि चित्तान्यभिनिर्हरन् बोधिसत्त्वो महासत्त्वो न शून्यतां साक्षात्करोति, न आनिमित्तं साक्षात्करोति, न अप्रणिहितं साक्षात्करोति, न अनभिसंस्कारं साक्षात्करोति, न अनुत्पादं साक्षात्करोति, न अजातिं साक्षात्करोति, न अभावं साक्षात्करोति, प्रज्ञापारमितां च भावयति। सचेत्सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वेन महासत्त्वेनैवं पृष्ट एवं व्याकरोति-शून्यतैव बोधिसत्त्वेन महासत्त्वेन मनसि कर्तव्या। आनिमित्तमेव अप्रणिहितमेव अनभिसंस्कार एव अनुत्पाद एव अजातिरेव अभाव एव बोधिसत्त्वेन महासत्त्वेन मनसि कर्तव्य इति। सचेत्तं सर्वसत्त्वापरित्यागचित्तोत्पादं नोपदर्शयेत्, उपायकौशल्यं वा न व्याकुर्यात्, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः। तत्कस्य हेतोः? यो ह्यसावविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्यावेणिको धर्मः, तं धर्मं न सूचयति, न प्रभावयति, नोपदर्शयति, न प्रजानाति, परिपृष्टो न व्याकरोति, न विसर्जयति, न तां भूमिमवक्रामयति, योऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य भूमिरिति॥



सुभूतिराह-स्यात्पुनर्भगवन् पर्यायो येन पर्यायेण बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयो भवेत्? भगवानाह-स्यात्सुभूते स पर्यायो येन पर्यायेण स बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयो भवेत्। सचेद्बोधिसत्त्वो महासत्त्व इमां प्रज्ञापारमितां श्रुत्वा वा अश्रुत्वा व एवं प्रतिपद्येत, एवं विसर्जयेत्-अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः। सुभूतिराह-तेन हि भगवन् बहवो बोधाय चरन्ति। अल्पकाः पुनर्य एवं विसर्जयन्ति। भगवानाह-तथा हि सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वा ये व्याकृता अविनिवर्तनीयायां ज्ञानभूमौ। ये पुनस्ते व्याकृता भविष्यन्ति, ते एवं विसर्जयिष्यन्ति। ते ते बोधिसत्त्वा महासत्त्वा उत्तप्तावरोपितकुशलमूला वेदितव्याः। ते ते बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेन। सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि स्वप्नोपमाः सर्वधर्मा इति व्यवलोकयति, न च साक्षात्करोति, इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम्॥



पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा त्रैधातुकाय च स्पृहामनुशंसाचित्तं नोत्पादयति, इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम्॥



पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽप्यनेकशतायाः पर्षदोऽनेकसहस्राया यावदनेककोटीनियुतशतसहस्रायाः पर्षदो मध्यगतं मण्डलमाले निषण्णं भिक्षुसंघपरिवृतं बोधिसत्त्वसंघपुरस्कृतं धर्मं देशयन्तं तथागतमर्हन्तं सम्यक्संबुद्धमात्मानं पश्यति। इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्॥



पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि वैहायसमभ्युद्गम्य सत्त्वेभ्यो धर्मं देशयति, तां च व्यामप्रभां संजानीते, तांश्च भिक्षूनभिनिर्मिमीते, येऽन्यासु दिक्षु गत्वा अन्येषु लोकधातुषु बुद्धकृत्यं कुर्वन्ति, धर्मं च देशयन्ति। एवमपि सुभूते स्वप्नान्तरगतोऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः संजानीते। इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम्॥



पुनरपरं सुभूते स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नोत्रस्यति, न संत्रस्यति, न संत्रासमापद्यते। ग्रामघाते वा नगरघाते वा निगमघाते वा जनपदघाते वा राष्ट्रघाते वा अग्निदाहे वा वर्तमाने व्यालमृगान् वा ततोऽन्यानपि वा क्षुद्रमृगजातीन् दृष्ट्वा शिरश्छेदे वा प्रत्युपस्थिते ततोऽन्यान्यपि वा महाभयभैरवाणि दुःखदौर्मनस्यानि वा प्राप्य ततोऽन्येषामपि वा सत्त्वानां महाभयभैरवाणि दुःखानि दृष्ट्वा नास्य भयभैरवमुत्पद्यते, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते। ततश्च स्वप्नान्तरात्प्रतिविबुद्धस्य समनन्तरव्युत्थितस्यैवं भवति-स्वप्नोपममिदं सर्वं त्रैधातुकम्। एवं च मया अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सम्यग्देशयता धर्मो देशयितव्य इति। इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम्॥



पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य स्वप्नान्तरगतस्य नैरयिकान् सत्त्वान् दृष्ट्वा एवं भवति-तथा करिष्यामि यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वेऽप्यपाया न भविष्यन्तीति। इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अपायपरिशुद्धिलक्षणं वेदितव्यम्॥



तत्र सुभूते कथं विज्ञायेत अस्याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वेऽप्यपाया न भविष्यन्तीति? सचेत्सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि निरयगतांस्तिर्यक्प्रेतगतान् वा सत्त्वान् दृष्ट्वा स्मृतिं प्रतिलभते। स तां स्मृतिं प्रतिलभ्य एवं चिन्तयति-तथा करिष्यामि यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वेऽप्यपाया न भविष्यन्तीति। एवं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपायपरिशुद्धिलक्षणं वेदितव्यम्। इदमपि सुभूते अविवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम्॥



पुनरपरं सुभूते स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नगरदाहे वा ग्रामदाहे वा वर्तमाने प्रतिविबुद्धः संस्ततः स्वप्नादेवं समन्वाहरति यथा-मया स्वप्नान्तरगतेन ये आकाराः यानि लिङ्गानि यानि निमित्तानि दृष्टानि, यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरविवर्तनीयो बोधिसत्त्वो महासत्त्वो धारयितव्यः, ते आकारास्तानि लिङ्गानि तानि निमित्तानि मम संविद्यन्ते। एतेन सत्येन सत्यवचनेन अयं नगरदाहो वा ग्रामदाहो वा वर्तमान उपशाम्यतु, शीतिभवतु, अस्तं गच्छतु। सचेत्सुभूते ग्रामदाहो वा नगरदाहो वा उपशाम्यति, शीतीभवति, अस्तं गच्छति, वेदितव्यमेतत्सुभूते व्याकृतोऽयं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेरिति। सचेन्नोपशाम्यति, न शीतीभवति, नास्तः गच्छति, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधाविति। सचेत्पुनः सुभूते सोऽग्निदाहोऽतिक्रम्य गृहाद्गृहं रथ्याया रथ्यामन्यतरान्यतरां रथ्यां वा गृहं वा गच्छति, दहति, नोपशाम्यति, न शीतीभवति, नास्तं गच्छति, वेदितव्यमेतत्सुभूते धर्मप्रत्याख्यानं दुष्प्रज्ञसंवर्तनीयं तेन बोधिसत्त्वेन महासत्त्वेन कर्मोपचितम्। ततोऽस्यैतद्दृष्टधर्मसंवर्तनीयमेव कर्म विपच्यते। तत एव धर्मप्रत्याख्यानात्सावशेषं कर्मैवं विपच्यते। इत्ययं सुभूते हेतुरयं प्रत्ययोऽस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणताया इति। अयमपि सुभूते बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो धारयितव्यः, तानाकारांस्तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि। तत्साधु च सुष्ठु च शृणु, मनसि कुरु, भाषिष्येऽहं ते। साधु भगवन्नित्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत्। भगवानेतदवोचत्-सचेत्सुभूते कश्चिदेव पुरुषो वा स्त्री वा दारको वा दारिका वा अमनुष्येण गृहीतो भवेदाविष्टः। तत्र बोधिसत्त्वेन महासत्त्वेन उपसंक्रम्य एवमधिष्ठानं समन्वाहर्तव्यम्। सचेदहं हैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, परिशुद्धो मेऽध्याशयः अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। यथाहमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः, परिशुद्धो मे मनसिकारोऽनुत्तरायां सम्यक्संबोधौ। अपगतं मे श्रावकचित्तं प्रत्येकबुद्धचित्तं च, तेन मया अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या। नाहं नानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये। अभिसंभोत्स्य एवाहमनुत्तरां सम्यक्संबोधिम्। येऽपि ते अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, न तेषां तथागतानामर्हतां सम्यक्संबुद्धानां किंचिदज्ञातं वा अदृष्टं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा। यथा ते बुद्धा भगवन्तो जानन्तो ममाध्याशयम्-इत्यप्यहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति। अनेन सत्येन सत्यवचनेन इयं स्त्री वा पुरुषो वा दारको वा दारिका वा येन अमनुष्यग्रहेण गृहीतो वा आविष्टो वा, सोऽपक्रामतु। सचेत्सोऽमनुष्यः एवं भाषमाणेन बोधिसत्त्वेन महासत्त्वेन नापक्रामति, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति। सचेत्पुनः सुभूते एवं भाषमाणस्य बोधिसत्त्वस्य महासत्त्वस्य सोऽमनुष्योऽपक्रामति, वेदिंतव्यमेतत्सुभूते व्याकृतोऽयं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामुपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project