Digital Sanskrit Buddhist Canon

१९ गङ्गदेवीभगिनीपरिवर्त एकोनविंशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१९ गङ्गदेवीभगिनीपरिवर्त एकोनविंशः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-किं पुनर्भगवन् प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, उताहो पश्चिमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? पौर्वको भगवंश्चित्तोत्पादः पश्चिमकेन चित्तोत्पादेन असमवहितः, पश्चिमकश्चित्तोत्पादः पौर्वकेण चित्तोत्पादेन असमवहितः। कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलानामुपचयो भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-तत्किं मन्यसे सुभूते तैलप्रद्योतस्य ज्वलतोऽर्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा, उताहो पश्चिमाभिनिपातेनार्चिषा सा वर्तिर्दग्धा? सुभूतिराह-नो हीदं भगवन्। न हि भगवन् अर्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा। न च प्रथमाभिनिपातमनागम्य अर्चिषा सा वर्तिर्दग्धा। न च भगवन् पश्चिमाभिनिपातेनार्चिषा सा वर्तिर्दग्धा, न च पश्चिमाभिनिपातमनागम्य अर्चिषा सा वर्तिर्दग्धा। भगवानाह-तत्किं मन्यसे सुभूते अपि नु सा वर्तिर्दग्धा? सुभूतिराह-दग्धा भगवन्, दग्धा सुगत। भगवानाह-एवमेव सुभूते न च प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च प्रथमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। न च पश्चिमचित्तोत्पादेन अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च पश्चिमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। न च तैश्चित्तोपादैर्न चान्यत्र तेभ्यश्चित्तोत्पादेभ्योऽभिसंबुध्यते। अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिम्॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-गम्भीरोऽयं भगवन् प्रतीत्यसमुत्पादः। न च नाम भगवन् प्रथमचित्तोत्पादेनैव बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम प्रथमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। न च नाम पश्चिमचित्तोत्पादेनैव बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम पश्चिमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम तैश्चित्तोत्पादैर्न चान्यत्र तेभ्यश्चित्तोत्पादेभ्योऽभिसंबुध्यते। अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिम्॥



एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-तत्किं मन्यसे सुभूते यच्चित्तं निरुद्धम्, अपि नु तत्पुनरुत्पत्स्यते? सुभूतिराह-नो हीदं भगवन्। भगवानाह-तक्तिं मन्यसे सुभूते यच्चित्तमनुत्पन्नम्, अपि नु तन्निरोधधर्मि? आह-निरोधधर्मि भगवन्। भगवानाह-तत्किं मन्यसे सुभूते यन्निरोधधर्मि, अपि नु तन्निरोत्स्यते? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते यच्चित्तमनुत्पन्नम्, अपि नु तन्निरोधधर्मि? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते यन्निरोधधर्मि, अपि नु तन्निरोत्स्यते? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते यच्चित्तमनुत्पादानिरोधधर्मि, अपि नु तन्निरोत्स्यते? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते यो धर्मः प्रकृत्या स्वभावनिरुद्ध एव, स धर्मो निरोत्स्यते? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते या धर्माणां धर्मता सा निरोत्स्यते? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते तथैव स्थास्यति यथा तथता? आह-तथैव भगवन् स्थास्यति यथा तथता। भगवानाह-तत्किं मन्यसे सुभूते यदि तथैव स्थास्यति यथा तथता, तदा मा कुटस्था भूत्? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते गम्भीरा तथता? आह-गम्भीरा भगवन्। भगवानाह-तत्किं मन्यसे तथतायां चित्तम्? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते चित्तं तथता? आह-नो हीदं भगवन्।



भगवानाह-तत्किं मन्यसे सुभूते अन्यत्तथतायाश्चित्तम्? आह-नो हीदं भगवन्। भगवानाह-समनुपश्यसि त्वं सुभूते तथताम्? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते य एवं चरति स गम्भीरे चरति? आह-यो भगवन् एवं चरति, स न क्वचिच्चरति। तत्कस्य हेतोः? तथा ह्यस्य ते समुदाचारा न प्रवर्तन्ते, न समुदाचरन्ति। भगवानाह-यः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां चरति, स क्व चरति? आह-चरति भगवन् परमार्थे। भगवानाह-तत्किं मन्यसे सुभूते यो बोधिसत्त्वो महासत्त्वः परमार्थे चरति, स निमित्ते चरति? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते अपि नु तस्य निमित्तमविभावितम्? आह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते अपि नु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो निमित्तं विभावितं भवति? सुभूतिराह-न स भगवन् बोधिसत्त्वो महासत्त्व एवं प्रयुज्यते-कथमहं बोधिसत्त्वचर्यां चरन्निहैव निमित्तप्रहाणमनुप्राप्नुयामिति। सचेत्पुनरनुप्राप्नुयात्, अप्रतिपूर्णैः सर्वबुद्धधर्मैः श्रावको भवेत्। एतत्तद्भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं यत्, तच्च निमित्तं जानाति, यल्लक्षणं यन्निमित्तमानिमित्ते च परिजयं करोति॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतस्त्रीणि विमोक्षमुखानि भावयति-शून्यतामानिमित्तमप्रणिहितं च, अपि नु तस्य प्रज्ञापारमिता विवर्धते? सुभूतिराह-सचेदायुष्मन् शारिपुत्र दिवसभावनया विवर्धते, एवं स्वप्नान्तरगतस्यापि विवर्धते। तत्कस्य हेतोः? अविकल्पो हि आयुष्मन् शारिपुत्र स्वप्नश्च दिवसश्चोक्तो भगवता। सचेदायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितालाभी दिवसे दिवसे प्रज्ञापारमितायां चरति, ततोऽस्य प्रज्ञापारमिताभ्यासतः स्वप्नान्तरगतस्यापि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितावैपुल्येन भवितव्यम्। शारिपुत्र आह-यत्पुनरयुष्मन् सुभूते स्त्री वा पुरुषो वा स्वप्नान्तरगतः कर्म शुभमशुभं वा करोति, किं भवति तस्य कर्मण आचयो वा उपचयो वा? सुभूतिराह-यथा स्वप्नोपमाः सर्वधर्मा उक्ता भगवता, तथा न तस्य कर्मणो भवत्याचयो वा उपचयो वा। अथ पुनरायुष्मन् शारिपुत्र स पुरुषः प्रतिविबुद्धः सन् विकल्पयन् हतसंज्ञामुत्पादयति, भवति तस्य कर्मण आचयो वा उपचयो वा। कथं च आयुष्मन् शारिपुत्र विकल्पयन् हतसंज्ञामुत्पादयति? सचेत्स्वप्नान्तरगतः प्राणातिपातं कृत्वा प्रतिविबुद्धः सन्नेवं विकल्पयति-अहो हतः, साधु हतः, सुष्ठु हतः, मया हतः, इत्येवं विकल्पयन् हतसंज्ञामुत्पादयति। शारिपुत्र आह-सचेदायुष्मन् सुभूते स पुरुषः प्रतिविबुद्धः सन् विकल्पयन् हतसंज्ञामुत्पादयति-अहो हतः, साधु हतः,



सुष्ठु हतः, मया हत इति, भवति तस्य कर्मण आचयो वा उपचयो वा? बुद्धो भगवानपि विकल्पयन् क्षयसंज्ञामुत्पादयति। तस्यापि कर्मण आचयो वा उपचयो वा भवेत्? सुभूतिराह-नो हीदमायुष्मन् शारिपुत्र। तत्कस्य हेतोः? सर्वकल्पविकल्पप्रहीणो हि तथागतः। तद्यथापि नाम आकाशमेव आयुष्मन् शारिपुत्र नानारम्बणं कर्मोत्पद्यते, नानारम्बणं चित्तमुत्पद्यते। तस्मात्तर्ह्यायुष्मन् शारिपुत्र सारम्बणमेव कर्मोत्पद्यते, न अनारम्बणम्। सारम्बणमेव चित्तमुत्पद्यते, न अनारम्बणम्। दृष्टश्रुतमतविज्ञातेष्वायुष्मन् शारिपुत्र धर्मेषु बुद्धिः प्रवर्तते। तत्र काचिद्बुद्धिः संक्लेशं परिगृह्णाति, काचिद्बुद्धिर्व्यवदानं परिगृह्णाति। तस्मात्तर्हि आयुष्मन् शारिपुत्र सारम्बणैव चेतनोत्पद्यते न अनारम्बणा, सारम्बणमेव कर्मोत्पद्यते न अनारम्बणम्। शारिपुत्र आह-यदायुष्मन् सुभूते सर्वारम्बणानि विविक्तानि आख्यातानि भगवता, तदा कस्मादायुष्मन् सुभूते सारम्बणैव चेतनोत्पद्यते न अनारम्बणा? सुभूतिराह-निमित्तीकृत्य आयुष्मन् शारिपुत्र विद्यमानमेवारम्बणमारम्बणीकृत्य सारम्बणैव चेतनोत्पद्यते, न अनारम्बणा। चेतनाप्यायुष्मन् शारिपुत्र विविक्ता, निमित्तमपि विविक्तम्। एवमविद्याप्रत्ययाः संस्कारा अपि विविक्ताः, संस्कारप्रत्ययं विज्ञानमपि, यावज्जातिप्रत्ययं जरामरणमपि विविक्तम्। एवमेव आयुष्मन् शारिपुत्र सर्वारम्बणानि विविक्तानि। निमित्तेन विविक्ता चेतना लोकव्यवहारमुपादायोत्पद्यत इति॥



शारिपुत्र आह-यदायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो दानं दद्यात्, तच्च दानमनुत्तरायां सम्यक्संबोधौ परिणामयति। परिणामितं किं तद्दानं वक्तव्यम्? सुभूतिराह-अयमायुष्मन् शारिपुत्र मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूतः। एष तथागतेन व्याकृतोऽनुत्तरायां सम्यक्संबोधौ। एषोऽत्रार्थे कायसाक्षी। एष प्रष्टव्यः। एष एनमर्थं विसर्जयिष्यति। अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्-अयमायुष्मन् मैत्रेय सुभूतिः स्थविर एवमाह-मयं मैत्रेयो बोधिसत्त्वो महासत्त्वः। एष एनमर्थं विसर्जयिष्यतीति। विसर्जय आयुष्मन्नजित एनमर्थम्। अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिमेतदवोचत्-यदायुष्मान् सुभूतिरेवमाह-अयं मैत्रेयो बोधिसत्त्वो महासत्त्वः। एष एनमर्थं विसर्जयिष्यतीति। किं पुनरायुष्मन् सुभूते यदेतन्नामधेयं मैत्रेय इति? एतदेनमर्थं विसर्जयिष्यति, उत रूपं विसर्जयिष्यति, उत वेदना संज्ञा संस्काराः, अथ विज्ञानं विसर्जयिष्यति, उताहो वर्णो विसर्जयिष्यति, अथ संस्थानं विसर्जयिष्यति, उताहो या रूपस्य शून्यता, सा विसर्जयिष्यति? एवं या वेदनायाः संज्ञायाः संस्काराणाम्, या विज्ञानस्य शून्यता, सा विसर्जयिष्यति? या खलु पुनरायुष्मन् सुभूते रूपस्य शून्यता, न सा प्रतिबला विसर्जयितुम्। एवं वेदनायाः संज्ञायाः संस्काराणाम्। या खलु पुनरायुष्मन् सुभूते विज्ञानस्य शून्यता, न सा प्रतिबला विसर्जयितुम्। तमप्यहमायुष्मन् सुभूते धर्मं न समनुपश्यामि, यो धर्मो विसर्जयेत्। तमप्यहं धर्मं न समनुपश्यामि, यो धर्मो विसर्जयितव्यः। तमप्यहं धर्मं न समनुपश्यामि, येन धर्मेण विसर्जयेत्। तमप्यहं धर्मं न समनुपश्यामि, यो धर्मो व्याकृतोऽनुत्तरायां सम्यक्संबोधौ।



अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्-कच्चित्पुनरायुष्मन् मैत्रेय त्वया एते धर्मा एवं साक्षात्कृताः, यथैनान् वाचा भाषसे? मैत्रेय आह-न मया आयुष्मन् शारिपुत्र एते धर्मा एवं साक्षात्कृताः, यथैनान् वाचा भाषे। एवमप्यहमेनानायुष्मन् शारिपुत्र धर्मान्न वेद्मि, नोपलभे, न समनुपश्यामि, यथा वाचा भाषे, चित्तेन वा चिन्तयामि। अपि तु खलु पुनरायुष्मन् शारिपुत्र न कायेन स्पृश्येत, न वाचा भाष्येत, न मनसा समन्वाह्रियेत। एवंस्वभावाः सर्वे धर्मा अस्वभावत्वात्। अथ खल्वायुष्मतः शारिपुत्रस्यैतदभूत्-गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्वः, यथापि नाम दीर्घरात्रं प्रज्ञापारमितायां चरितावी निर्दिशति॥



अथ खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म-कुतस्ते शारिपुत्र एतदभूत्-गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्व इति? समनुपश्यसि त्वं शारिपुत्र तं धर्मं येन धर्मेण समन्वागतोऽर्हन्निति प्रभाव्यते? शारिपुत्र आह-न ह्येतद्भगवन्। भगवानाह-एवमेव शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति-अयं धर्मो व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मो व्याकरिष्यतेऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मो व्याक्रियतेऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। एवं चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्। स चरन्नोत्रस्यति, न संत्रस्यति, न संत्रासमापद्यते। लब्धबलाधानत्वान्नाहं नाभिसंभोत्स्य इत्येवं योगमापद्यते। सचेदेवं चरति, चरति प्रज्ञापारमितायाम्॥



पुनरपरं शारिपुत्र व्यालकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम्। तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वं परित्यक्तव्यं सर्वसत्त्वानामर्थाय। तेनैवं चित्तमुत्पादयितव्यम्-यदि चेन्मां व्याला भक्षयेयुः, तेभ्य एव तद्दानं दत्तं भवतु। मम च दानपारमितापरिपूरिर्भविष्यति। अनुत्तरा च मे सम्यक्संबोधिरासन्नीभविष्यति। तथा च करिष्यामि, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः तिर्यग्योनिगताः सत्त्वाः सर्वेण सर्वं सर्वथा सर्वं सर्वत्र मे बुद्धक्षेत्रे न भविष्यन्ति, न प्रज्ञास्यन्ते, दिव्योपभोगपरिभोगाश्च भविष्यन्तीति॥



पुनरपरं शारिपुत्र चोरकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम्। तत्कस्य हेतोः? सर्वस्वपरित्यागकुशलाभिरता हि बोधिसत्त्वा महासत्त्वा भवन्ति। उत्सृष्टकायेनापि च बोधिसत्त्वेन महासत्त्वेन भवितव्यं परित्यक्तसर्वपरिष्कारोपकरणेन। तेनैवं चित्तमुत्पादयितव्यम्-सचेन्मम सत्त्वाः सर्वपरिष्कारोपकरणानि हरेयुः, तेभ्य एव तद्दानं दत्तं भवतु। यदि चेन्मां केचिज्जीविताद्व्यपरोपयेयुः, तत्र न मया व्यापादक्रोधरोषा उत्पादयितव्याः। तेषामपि च मया न कायेन न वाचा न मनसा अपराद्धव्यम्। एवं च मे तस्मिन् समये दानपारमिता च शीलपारमिता च क्षान्तिपारमिता च परिपूरिं गमिष्यति। अनुत्तरा च मे सम्यक्संबोधिरभ्यासन्नीभविष्यति। तथा च करिष्यामि, तथा च प्रतिपत्स्ये, यथा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतश्चोरकान्ताराण्यपि तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते। तथा च बुद्धक्षेत्रपरिशुद्धये व्यापत्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे एते चान्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते॥



पुनरपरं शारिपुत्रं पानीयकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। तत्कस्य हेतोः? असंत्रस्तानुत्रस्तधर्माणो हि बोधिसत्त्वा महासत्त्वा भवन्ति। एवं चानेन चित्तमुत्पादयितव्यम्-सर्वसत्त्वानां मया सर्वतृष्णाच्छेदाय शिक्षितव्यम्। न च बोधिसत्त्वेन महासत्त्वेनोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम्। सचेदहं तृष्णया कालं करिष्यामि, प्रेतलोके ममोपपत्तिर्भविष्यतीति। अपि तु खलु पुनः सर्वसत्त्वानामन्तिके महाकरुणाचित्तमुत्पादयितव्यम्-अहो बत अल्पपुण्या अमी सत्त्वाः, यदेतेषां लोके एवंरूपाणि पानीयकान्ताराणि प्रज्ञायन्ते। तथा पुनरहं करिष्यामि, तथा प्रतिपत्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीयकान्ताराणि न भविष्यन्ति, न प्रज्ञास्यन्ते। तथा च सर्वसत्त्वान् पुण्यैः संनियोक्ष्ये, यथा अष्टाङ्गोपेतपानीयलाभिनोऽमी भविष्यन्ति। तथा च दृढं वीर्यमारप्स्ये सर्वसत्त्वानां कृतशः, यथा वीर्यपारमिता च मे तस्मिन् समये परिपूरिं गमिष्यतीति॥



पुनरपरं शारिपुत्र बुभुक्षाकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। एवं चानेन संनाहः संनाह्यः-तथा दृढं वीर्यमारप्स्ये, तथा च स्वं बुद्धक्षेत्रं परिशोधयिष्यामि, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे एवंरूपाणि बुभुक्षाकान्ताराणि सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते। सुखिता एव ते सत्त्वा भविष्यन्ति सुखसमङ्गिनः सर्वसुखसमर्पिताः। तथा च करिष्यामि, यथा तेषां सत्त्वानां यो य एवाभिप्रायो भविष्यति, यद्यदेवाकाङ्क्षिष्यन्ति मनसा, तत्तदेव प्रादुर्भविष्यति तद्यथापि नाम देवानां त्रायस्त्रिंशानां मनसैव सर्वमुत्पद्यते, यथा तेषां सत्त्वानां मनसैव सर्वं प्रादुर्भविष्यति, मनसा सर्वमुत्पत्स्यते, तथा दृढं वीर्यमारप्स्ये। यथा तेषां सत्त्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति, अवैकल्यं च जीवितपरिष्कारैः सर्वसत्त्वानां भविष्यति सर्वथा सर्वतः सर्वदा, तथा च स्वचित्तपरिशुद्धये व्यायंस्ये सर्वसत्त्वानां कृतशः, यथा ध्यानपारमिता च मे तस्मिन् समये परिपूरिं गमिष्यतीति॥



पुनरपरं शारिपुत्र व्याधिकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। एवं चानेनोपपरीक्षितव्यं चिन्तयितव्यं तुलयितव्यम्-नेह स कश्चिद्धर्मो यो व्याध्या बाध्यते, नापि स कश्चिद्धर्मो यो व्याधिर्नाम। एवं तेन शून्यता प्रत्यवेक्षितव्या। न चोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। न च शारिपुत्र बोधिसत्त्वेन महासत्त्वेनैवं चित्तमुत्पादयितव्यम्-चिरेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। तत्कस्य हेतोः? यो हि चित्तक्षणः, इयती सैषा अपूर्वा कोटिर्यदुत अकोटिः। एवं तेन बोधिसत्त्वेन महासत्त्वेन [न] दुष्करसंज्ञोत्पादयितव्या-बह्वी दीर्घा चैषा अपूर्वा कोटिरिति, एकचित्तक्षणसमायुक्ता ह्येषा अपूर्वा कोटिर्यदुत अकोटिः। एवं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन चिरेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। यः खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्व एभ्यश्चान्येभ्यश्च दृष्टश्रुतमतविज्ञातेभ्यो भयभैरवेभ्यो नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, ज्ञातव्यमिदं शारिपुत्र भव्योऽयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुमिति। एवं च शारिपुत्र बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धव्यः-तथा करिष्यामि, तथा दृढं वीर्यमारप्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे सर्वसत्त्वानां सर्वेण सर्वं सर्वथा सर्वं सर्वव्याधयो न भविष्यन्ति, न प्रज्ञास्यन्ते। तथा करिष्यामि, यथा तथागतानामुक्तवादी यथोक्तकारी च भविष्यामि। तथा च प्रज्ञापारमितायां परिजयं करिष्यामि सर्वसत्त्वानां कृतशः, यथा प्रज्ञापारमितापि मे तस्मिन् समये परिपूरिं गमिष्यतीति॥



अथ खलु तत्र पर्षदि अन्यतरा स्त्री संनिपतिता संनिषण्णाभूत्। सा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-अहं भगवन् अत्र स्थाने नोत्रसिष्यामि, न संत्रसिष्यामि, न संत्रासमापत्स्ये। अनुत्रस्ता च असंत्रस्ता च सर्वसत्त्वेभ्यो धर्मं देशयिष्यामीति। अथ खलु भगवांस्तस्यां वेलायां सुवर्णवर्णस्मितं प्रादुरकरोत्। तदनन्तापर्यन्तान् लोकधातूनाभया स्फरित्वा यावद्ब्रह्मलोकमभ्युद्गम्य पुनरेव प्रत्युदावृत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत एव मूर्ध्नि अन्तरधीयत। समनन्तरं प्रादुष्कृते च भगवता तस्मिन् स्मिते अथ खलु सा स्त्री सुवर्णपुष्पाणि गृहीत्वा भगवन्तं सुवर्णपुष्पैरभ्यवाकिरदभिप्राकिरत्। अथ खलु तानि सुवर्णपुष्पाण्यसक्तानि अन्तरीक्षे विहायसि स्थितान्यभूवन्॥



अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-को भगवन् हेतुः, कः प्रत्ययः स्मितस्य प्रादुष्करणाय? नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति। एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-इयमानन्द गङ्गदेवा भगिनी अनागतेऽध्वनि सुवर्णपुष्पो नाम तथागतो भविष्यति अर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च। बुद्धो भगवाँल्लोक उत्पत्स्यते, तारकोपमे कल्पेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। सेयमानन्द गङ्गदेवा भगिनी स्त्रीभावं विवर्त्य पुरुषभावं प्रतिलभ्य इतश्च्युत्वा अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे अभिरत्यां लोकधातावुपपत्स्यते। तत्र चोपपन्ना अक्षोभ्यस्य तथागतास्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरिष्यति। ततश्च्युता सती बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यति अविरहिता तथागतदर्शनेन। ततोऽपि बुद्धक्षेत्राद्बुद्धक्षेत्राणि संक्रमिष्यति। यान्यविरहितानि भविष्यन्ति बुद्धैर्भगवद्भिस्तत्र तत्र संक्रमिष्यति। तद्यथापि नाम आनन्द राजा चक्रवर्तीं प्रासादात्प्रासादं संक्रामेत्, स यावज्जीवं पादतलाभ्यां धरणीतलं नाक्रामेत्, स यावन्मरणावस्थायां भूमितलं पभ्द्यामनाक्रम्य कालं कुर्यात्, एवमेव आनन्द इयं गङ्गदेवा भगिनी बुद्धक्षेत्रं संक्रमिष्यति। तत्र च अविरहिता भविष्यति बुद्धर्भगवद्भिर्यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुध्यते॥



अथ खल्वायुष्मत आनन्दस्यैतदभूत्-ये तत्राक्षोभ्यस्य तथागतास्यार्हतः सम्यक्संबुद्धस्यान्तिके बोधिसत्त्वा महासत्त्वा भविष्यन्ति, तथागतसंनिपात एव स वेदितव्यः। अथ खलु भगवानायुष्मत आनन्दस्य इममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तमानन्दमेतदवोचत्-एवमेतदानन्द, एवमेतत्। उत्तीर्णपङ्कास्ते बोधिसत्त्वा महासत्त्वाः, ये अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे ब्रह्मचर्यं चरन्ति। बोधिपरिनिष्पत्युपगतास्ते आनन्द बोधिसत्त्वा महासत्त्वा वेदितव्याः। तस्य खलु पुनरानन्द सुवर्णपुष्पस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य न प्रमाणबद्धः श्रावकसंघो भविष्यति। तत्कस्य हेतोः? तावन्तो ह्यानन्द तत्र श्रावका भविष्यन्ति येषां नास्ति प्रमाणम्। अपि त्वप्रमेया असंख्येया इत्येवं संख्यां गमिष्यन्ति। तेन खलु पुनरानन्द कालेन तेन समयेन तस्मिन् बुद्धक्षेत्रे न व्यालकान्ताराणि भविष्यन्ति, न चौरकान्ताराणि न पानीयकान्ताराणि न व्याधिकान्ताराणि न दुर्भिक्षकान्ताराणि भविष्यन्ति। एतानि चान्यानि च आनन्द असातकान्ताराणि तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते। सुवर्णपुष्पस्य खलु पुनरानन्द तथागतस्यार्हतः सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य इमान्येवंरूपाणि भयभैरवकान्ताराणि सर्वेण सर्वं सर्वथा सर्वं तदानीं न भविष्यन्ति, न प्रज्ञास्यन्ते॥



एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्-अनया भगवन् गङ्गदेवया भगिन्या कतमस्य तथागतस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितमनुत्तरायां सम्यक्संबोधौ? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-अनया आनन्द गङ्गदेवया भगिन्या दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितम्, अनुत्तरायां सम्यक्संबोधौ परिणामितं च। स च दीपंकरस्तथागतोऽर्हन् सम्यक्संबुद्धः सुवर्णपुष्पैरेवावकीर्णोऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानया। यदा मया पञ्चभिरुत्पलैर्दीपंकरस्तथागतोऽर्हन् सम्यक्संबुद्धोऽवकीर्णः, अनुत्पत्तिकेषु च मया धर्मेषु क्षान्तिः प्रतिलब्धा, ततोऽहं दीपंकरेण तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतोऽनुत्तरायां सम्यक्संबोधौ-भविष्यसि त्वं माणवक अनागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवानिति। तदा एतस्या भगिन्या मम व्याकरणं श्रुत्वा एवं चित्तमुदपादि-अहो बत अहमप्येवं व्याक्रियेय अनुत्तरायां सम्यक्संबोधौ यथायं माणवको व्याकृतोऽनुत्तरायां सम्यक्संबोधौ। एवं च आनन्द एतस्या भगिन्या दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितमभूदनुत्तरायां सम्यक्संबोधौ। एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्-कृतपरिकर्मा बतेयं भगवन् कृतपर्यन्ता गङ्गदेवा भगिनी व्याकृता अनुत्तरायां सम्यक्संबोधौ। एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-एवमेतदानन्द, एवमेतत् यथा वदसि-कृतपरिकर्मा बतेयं कृतपर्यन्ता गङ्गदेवा भगिनी व्याकृता अनुत्तरायां सम्यक्संबोधाविति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां गङ्गदेवीभगिनीपरिवर्तो नाम एकोनविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project