Digital Sanskrit Buddhist Canon

१७ अविनिवर्तनीयाकारलिङ्गनिमित्तपरिवर्तः सप्तदशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१७ अविनिवर्तनीयाकारलिङ्गनिमित्तपरिवर्तः सप्तदशः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-अविनिवर्तनीयस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य के आकाराः, कानि लिङ्गानि, कानि निमित्तानि? कथं वा भगवन् वयं जानीयाम अयमविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इति? भगवानाह-या च सुभूते पृथग्जनभूमिः, या च श्रावकभूमिः, या च प्रत्येकबुद्धभूमिः, या च बुद्धभूमिः, इयं तथताभूमिरित्युच्यते। सर्वाश्चैतास्तथताया अद्वया अद्वैधीकारा अविकल्पा निर्विकल्पा इति तां तथतां तां धर्मतामवतरन्ति। तथतायां स्थितस्तथतां न कल्पयति न विकल्पयति, एवमवतरति। एवमवतीर्णो यथातथतां श्रुत्वापि ततोऽपि चापक्रम्य न काङ्क्षति न विमतिं करोति, न विचिकित्सति, नैवमिति न धन्धायति, अपि तु एवमेतत्तथतैवेत्यधिमुञ्चत्यवगाहते, न च यत्किंचनप्रलापी भवति, अर्थसंहितामेव वाचं भाषते नानर्थसंहिताम्, न च परेषां कृताकृतानि व्यवलोकयति। एभिः सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नान्येषां श्रमणानां ब्राह्मणानां वा मुखमुल्लोकयति-इमे भगवन्तः श्रमणा ब्राह्मणा वा ज्ञेयं जानन्ति, दृश्यं पश्यन्तीति। न चान्यान् देवान्नमस्करोति, न चान्येभ्यो देवेभ्यः पुष्पं वा धूपं वा गन्धं वा माल्यं वा विलेपनं वा चूर्णं वा वस्त्रं वा छत्रं वा ध्वजं वा घण्टां वा पताकां वा दीपं वा दातव्यं मन्यते, न चान्यं देवं व्यपाश्रयते। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः। स खलु पुनः सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नापायेषूपपद्यते, न च स्त्रीभावं परिगृह्णाति॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते। स आत्मना च प्राणातिपातात्प्रतिविरतो भवति, परानपि च प्राणातिपातविरमणाय समादापयति। आत्मना च अदत्तादानात्प्रतिविरतो भवति, परानपि च अदत्तादानविरमणाय समादापयति। आत्मना च काममिथ्याचारात्प्रतिविरतो भवति, परानपि च काममिथ्याचारविरमणाय समादापयति। आत्मना च सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतो भवति, परानपि सुरामैरेयमद्यप्रमादस्थानविरमणाय समादापयति। आत्मना च अनृतवचनात्प्रतिविरतो भवति, परानपि च अनृतवचनविरमणाय समादापयति। आत्मना च पिशुनवचनात्प्रतिविरतो भवति, परानपि च पिशुनवचनविरमणाय समादापयति। आत्मना च परुषवचनात्प्रतिविरतो भवति, परानपि च परुषवचनविरमणाय समादापयति। आत्मना च संभिन्नप्रलापात्प्रतिविरतो भवति, परानपि च संभिन्नप्रलापविरमणाय समादापयति। आत्मना च अभिध्यातः प्रतिविरतो भवति, परानपि च अभिध्यानविरमणाय समादापयति। आत्मना च व्यापादात्प्रतिविरतो भवति, परानपि च व्यापादविरमणाय समादापयति। आत्मना च मिथ्यादर्शनात्प्रतिविरतो भवति, परानपि च मिथ्यादर्शनविरमणाय समादापयति। एवं खलु सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वयं च दशकुशलान् कर्मपथान् समादाय वर्तते, परानपि च दशकुशलेषु कर्मपथेषु संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति प्रतिष्ठापयति दृढीकरोति। स स्वप्नान्तरगतोऽपि दशकुशलान् कर्मपथानेकैकतो वा बाहुल्यतो वा सर्वेण सर्वं सर्वथा सर्वं नाध्यापद्यते, चित्तेनापि न समुदाचरति। तस्य खलु पुनः सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य स्वप्नान्तरगतस्यापि दशकुशलाः कर्मपथा आमुखीभवन्ति। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यं यं धर्मं पर्यवाप्नोति, ददाति च, तं तं एवंचित्तः पर्यवाप्नोति, ददाति च-इममहं धर्मं सर्वसत्त्वानामर्थाय पर्यवाप्नोमि ददामि च, हिताय सुखाय च। इति चैष भवतु, अनया धर्मदेशनया धार्मिका अभिप्रायाः सर्वसत्त्वानां परिपूर्यन्तामिति। तच्च धर्मदानं सर्वसत्त्वसाधारणं करोति। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो गम्भीरेषु धर्मेषु भाष्यमाणेषु न काङ्क्षति, न विमतिं करोति, न विचिकित्सति न धन्धायति, हितवचनश्च भवति, मितवचनश्च भवति, स्निग्धवचनश्च भवति, अल्पस्त्यानमिद्धश्च भवति, निरनुशयश्च भवति। सोऽभिक्रामन् वा प्रतिक्रामन् वा न भ्रान्तचित्तोऽभिक्रामति वा, प्रतिक्रामति वा। उपस्थितस्मृतिरभिक्रामति, उपस्थितस्मृतिः प्रतिक्रामति। न विलम्बितं पादं भूमेरुत्क्षिपति, न विलम्बितं पादं भूमौ निक्षिपति। सुखमेवोत्क्षिपति, सुखं निक्षिपति। न च सहसा पादं भूमेरुत्क्षिपति, न च सहसा पादं भूमौ निक्षिपति, पश्यन्नैव भूमिप्रदेशमाक्रामति। तस्य खलु पुनः सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य शरीरे चीवरपरिभोगो न यूकिलो भवति। स चौक्षसमुदाचारश्च भवति। अल्पाबाधश्च भवति। अल्पादीनवश्च भवति। यानि खलु पुनरन्येषां सत्त्वानामशीतिः कृमिकुलसहस्राणि काये संभवन्ति, तानि तस्य काये सर्वेण सर्वं सर्वथा सर्वं न संभवन्ति। तत्कस्य हेतोः? तथा हि तस्य तानि कुशलमूलानि सर्वलोकाभ्युद्गतानि भवन्ति॥



यथा यथा च तस्य तानि कुशलमूलानि विवर्धन्ते, तथा तथा स बोधिसत्त्वो महासत्त्वः कायपरिशुद्धिं च परिगृह्णीते, वाक्परिशुद्धिं च परिगृह्णीते, चित्तपरिशुद्धिं च परिगृह्णीते। सुभूतिराह-का पुनर्भगवंस्तस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तपरिशुद्धिर्वेदितव्या? भगवानाह-यथा यथा सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि विवर्धन्ते, तथा तथा स बोधिसत्त्वो महासत्त्वश्चित्ताल्पकृत्यतां च परिगृह्णीते, चित्ताशाठ्यतां च चित्तामायावितां च चित्ताकुटिलतां चित्तावङ्कतां च परिगृह्णीते, यया च सुभूते चित्तपरिशुद्ध्या श्रावकप्रत्येकबुद्धभूमिमतिक्रान्तो भवति। इयं सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तपरिशुद्धिर्वेदितव्या। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायां सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारश्लोकगुरुको भवति, न चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारगुरुको भवति, नेर्ष्यामात्सर्यबहुलो भवति। न च गम्भीरेषु धर्मेषु भाष्यमाणेषु संसीदति। स्थिरबुद्धिश्च भवति, गम्भीरबुद्धिश्च भवति, सत्कृत्य च परतो धर्मं शृणोति। यं च सत्कृत्य परतो धर्मं शृणोति, तं सर्वं प्रज्ञापारमितायां संस्यन्दयति। यानि च लौकिकानि शिल्पस्थानकर्मस्थानानि, तानि सर्वाणि प्रज्ञापारमितामागम्य धर्मतया संस्यन्दयति। न च कंचिद्धर्म समनुपश्यति, यं न धर्मधातुना योजयति। सर्वमेव च तं प्रयुज्यमानं समनुपश्यति। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वः अविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते मारः पापीयानष्टौ महानिरयानभिनिर्माय तत्र एकैकस्मिन् महानिरये बहूनि बोधिसत्त्वशतानि बहूनि बोधिसत्त्वसहस्राणि बहूनि बोधिसत्त्वशतसहस्राण्यभिनिर्माय अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमेवं वदेत्-ये तथागतेन अविनिवर्तनीया बोधिसत्त्वा महासत्त्वा व्याकृताः, ते एतेषु महानिरयेषूपपन्नाः। त्वमप्येवं महानिरयेषु प्रपत्स्यसे, यतस्त्वमविनिवर्तनीयो व्याकृतः। पुनरेव त्वमेतद्बोधिचित्तं प्रतिदेशय, प्रतिनिःसृज। किं ते बुद्धत्वेन? एवं त्वं न निरयेषूपपत्स्यसे। एवं त्वं कुर्वन् स्वर्गोपगो भविष्यसीति। सचेदेवमपि बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति, न चलति, एवं जानाति-अस्थानमेतदनवकाशः, यदविनिवर्तनीयो बोधिसत्त्वो महासत्त्वोऽपायेषूपपद्यते इति। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते मारः पापीयान् श्रमणवेषेण अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमुपसंक्रम्यैवं वक्ष्यति-यदेतत्त्वया पूर्वं श्रुतं तत्प्रतिदेशय, यत्त्वया पूर्वं परिगृहीतं तत्प्रतिनिःसृज। सचेत्त्वमेवं प्रतिदेशयिष्यसि, सचेत्त्वमेवं प्रतिनिःस्रक्ष्यसि, एवं वयं त्वां पुनः पुनरुपसंक्रमिष्यामः। यदेतत्त्वयेदानीं श्रुतम्, नैतद्बुद्धवचनम्। कविकृतं काव्यमेतत्। यत्पुनरिदमहं भाषे, एतद्बुद्धभाषितम्, एतद्बुद्धवचनमिति। एतच्छ्रुत्वा सचेद्बोधिसत्त्वः क्षुभ्यति चलति, वेदितव्यमेतत्सुभूते-नायं व्याकृतो बोधिसत्त्वस्तथागतैः। अनियतोऽयं बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ। नायमविनिवर्तनीयधातौ स्थित इति। सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वो न क्षुभ्यति न चलति, श्रुत्वापि चेमां वाचं मारस्य पापीयसः धर्मतामेव प्रतिसरति, अनुत्पादमेवानिरोधमेवानभिसंस्कारमेव प्रतिसरति, न परस्य श्रद्धया गच्छति। तद्यथापि नाम सुभूते अर्हन् भिक्षुः क्षीणास्रवो न परस्य श्रद्धया गच्छति धर्मतायां प्रत्यक्षकारी। असंहार्यो भवति मारेण पापीयसा। एवमेव सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वोऽनवमर्दनीयः श्रावकयानिकैः पुद्गलैः प्रत्येकबुद्धयानिकैश्च। अप्रत्युदावर्तनीयधर्मा भवति, श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा नियतो भवति सर्वज्ञतायां सम्यक्संबोधिपरायणः। स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो यदा अविनिवर्तनीयधातौ स्थितो भवति, तदा अपरप्रणेयो भवति। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमुपसंक्रम्य कश्चिदेवं वक्ष्यतिसंसारचारिकैषा, नैषा बोधिसत्त्वचारिका। इहैव त्वं दुःखस्यान्तं कुरु। न भूयस्तानि संसारावचराणि दुःखदौर्मनस्यानि प्रत्यनुभविष्यसीति। अहो बत तवायमिहैव तावदात्मभावोऽनभिनिर्वृत्तो भविष्यति, कुतः पुनस्त्वमन्यमात्मभावं परिग्रहीतव्यं मन्यसे इति वा। सचेदेवमपि न क्षुभ्यति न चलति, तमेनं मारः पापीयान् स्वयमेवं वक्ष्यति-इच्छसि त्वं द्रष्टुं तान् बोधिसत्त्वान् महासत्त्वान् यैर्गङ्गानदीवालुकोपमान् कल्पान् बुद्धा भगवन्तः प्रत्युपस्थिताश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, गङ्गानदीवालुकोपमानां बुद्धानां भगवतामन्तिकेषु ब्रह्मचर्यं चरितम्, गङ्गानदीवालुकोपमा एव बुद्धा भगवन्तः पर्युपासिताः परिपृष्टाः परिप्रश्नीकृताश्च अस्यैव बोधिसत्त्वयानस्यार्थाय कथं बोधिसत्त्वैर्महासत्त्वैः स्थातव्यमिति? यथा च बोधिसत्त्वैर्महासत्त्वैः स्थातव्यम्, तथा च तैस्तथागतैरेवाख्यातम्। तथापि स्थित्वा तथा चरित्वा तथैव योगमापद्य अद्यापि तैरेव तावन्न अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा। तथा अववादानुशासन्यां स्थितैस्तथा शिक्षमाणैः सर्वज्ञता नानुप्राप्ता। कुतः पुनस्त्वमनुत्तरां सम्यक्संबोधिमनुप्राप्स्यसीति? सचेदेवमपि न क्षुभ्यति न चलति, तं मारः पापीयांस्तस्मिन्नेव पृथिवीप्रदेशे भिक्षूनभिनिर्मायैवं वक्ष्यति-एते भिक्षवोऽर्हन्तः क्षीणास्रवाः संवृत्ताः, ये बोधये संप्रस्थिता अभूवन्, तत्र तर्हि अर्हत्त्वमनुप्राप्ता अर्हत्त्वे स्थिताः। कुतः पुनस्त्वमनुत्तरां सम्यक्संबोधिमनुप्राप्स्यतीति? सचेत्खलु पुनरेवमपि भाष्यमाणे एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न चलति, अयं बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः। सचेद्बोधिसत्त्वस्य महासत्त्वस्य चित्तं परतः श्रुत्वैवं विवेकपदानि धर्मताया न परिहीयते, न प्रत्युदावर्ततेऽस्य मानसम्, न चान्यथाभावश्चित्तस्य भवति, तानि च सर्वाणि मारकर्माणि तथा संजानाति-अस्थानं सुभूते अनवकाशः, यत्स बोधिसत्त्वो महासत्त्वस्तथा चरन् पारमितासु न सर्वज्ञतामनुप्राप्नुयात्-अस्थानमेतदनवकाशो यत्तथा चरतस्तथा शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य यथा तथागतैराख्यातं तया चर्यया अविरहितस्य एभिः पारमिताप्रतिसंयुक्तैर्मनसिकारैर्विहरतो मारः पापीयान्नावतारं लप्स्यते। सचेद्बोधिसत्त्वो महासत्त्वो मारकर्माणि बुध्यते, परतश्च श्रुत्वा विवेकपदानि न परिहीयते, न प्रत्युदावर्ततेऽस्य मानसम्, न चास्य चित्तमन्यथा भवति, तानि च मारकर्माणि तथा संजानाति। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न रूपसंज्ञामभिसंस्कारोति, न रूपसंज्ञामुत्पादयति। एवं न वेदनासंज्ञां न संज्ञासंज्ञां न संस्कारसंज्ञाम्। न विज्ञानसंज्ञामभिसंस्करोति, न विज्ञानसंज्ञामुत्पादयति। तत्कस्य हेतोः? तथा हि अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्यैर्धर्मैर्बोधिसत्त्वन्यामावक्रान्तः। तमपि धर्मं नोपलभते नाभिसंस्कारोति नोत्पादयति। तत उच्यते अनुत्पादज्ञानक्षान्तिको बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीय इति। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वमेवं विच्छन्दयिष्यति-आकाशसमैषा यदुत सर्वज्ञता। असन्नेष धर्मो यदुत सर्वज्ञता। असंविद्यमान एष धर्मो यदुत सर्वज्ञता। कोऽत्राज्ञास्यति, कोऽत्राभिसंभोत्स्यते? नैतेन कश्चिन्निर्यास्यति-यश्चाभिसंबुध्येत, यच्चाभिसंबोद्धव्यम्, यश्च आजानीयात्, यच्च आज्ञातव्यम्। सर्वत्र ते धर्मा आकाशसमाः। निरर्थकं त्वं विहन्यसे। मारकर्मैर्वैतत्परिदीपितं यदुत अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्येति, नैतद्बुद्धभाषितमिति। तेन कुलपुत्रेण वा कुलदुहित्रा वा एवं ज्ञातव्यमेवं समन्वाहर्तव्यमेवं वेदितव्यम्-मारकर्मैवैतत्, येयं विवेचनता। एवं चिन्तयित्वा तत्र दृढचित्तेन भवितव्यम्, अप्रकम्प्यचित्तेनासंहार्यचित्तेन भवितव्यम्। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिनिर्वृत्तः सर्वज्ञतायां प्रवृत्तो भवति। स आकाङ्क्षन् प्रथमं ध्यानं समापद्यते। तथा द्वितीयं तथा तृतीयं तथा चतुर्थं ध्यानं समापद्यते। स एभिश्चतुर्भिर्ध्यानैर्विहरति, ध्यानपरिजयं च करोति, ध्यानानि च समापद्यते, न च ध्यानवशेनोपपद्यते। स पुनरेव कामावचरान् धर्मानध्यालम्बते। इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम्॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न नामगुरुको भवति, न कीर्तिशब्दश्लोकगुरुको भवति, न नाम्नि सज्जते। सोऽसंक्षुभितचित्तो भवति, सर्वसत्त्वेषु हितचित्तश्च भवति। सोऽभिक्रामन् वा प्रतिक्रामन् वा अभ्रान्तचित्तोऽभिक्रामति, अभ्रान्तचित्तः प्रतिक्रामति। स्मृतिमानेवाभिक्रामति, स्मृतिमानेव प्रतिक्रामति। सचेत्सोऽगारमध्यावसति, नास्य भवत्यधिमात्रः कामेषु कामाभिष्वङ्गो वा अभिप्रायो वा। स निर्वित्संज्ञ्येव कामान् परिभुङ्क्ते। स उत्रस्तसंज्ञ्येव कामान् परिभुङ्क्ते। तद्यथापि सुभूते चौरकान्तारमध्यगतः पुरुषः आहारकृत्यं कुर्वन्नुत्रस्तसंज्ञ्येवाहारं कुर्यात्, गमनसंज्ञ्येवाहारं कुर्यात्, कदा नु खलु नाम अहमितश्चौरकान्तारादतिक्रान्तो भविष्यामीत्येवंसंज्ञी अविश्रब्धमाहारमाहरति। एवमेव सुभूते अविनिवर्तनीया बोधिसत्त्वा महासत्त्वा अगारमध्यावसन्तो यान् यानेव कामान् परिभुञ्जते, तांस्ताननर्थिका एव अगृद्धा एव असक्ता एव कामान् परिभुञ्जते। अनर्थिका एव च ते भवन्ति प्रियरूपसातरूपैः पञ्चभिः कामगुणैः। तेऽगारमध्यावसन्तो न समविषमेण जीविकां कल्पयन्ति। धर्मेणैव जीविकां कल्पयन्ति नाधर्मेणापि। मरणमुपगच्छन्ति न त्वेव परेषामपमर्दनं कुर्वन्ति। तत्कस्य हेतोः? तथा हि तैः सत्पुरुषैर्महापुरुषैरतिपुरुषैः पुरुषप्रवरैः पुरुषशोभनैः पुरुषर्षभैः पुरुषोदारैः पुरुषशौटीरैः पुरुषपुंगवैः पुरुषधुर्यैः पुरुषपद्मैः पुरुषपुण्डरीकैः पुरुषाजानेयैः पुरुषनागैः पुरुषसिंहैः पुरुषदम्यसारथिभिः सर्वसत्त्वाः परमसुखे नियोजयितव्याः। एवं हि सुभूते अगारमध्यावसन्ति बोधिसत्त्वा महासत्त्वा यथापि नाम प्रज्ञापारमिताबलाधानप्राप्तत्वात्। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागता बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर्धारयितव्याः॥



पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य वज्रपाणिर्महायक्षो नित्यानुबद्धो भवति। स दुर्धर्षो भवति, अनतिक्रमणीयश्च भवति मनुष्यैर्वा अमनुष्यैर्वा, दुरासदः सर्वसत्त्वानाम्। स न विक्षिप्तचित्तो भवति, न विकलेन्द्रियो भवति, परिपूर्णैन्द्रियश्च भवति नापरिपूर्णेन्द्रियः। पुरुषवृषभेन्द्रियसमन्वागतश्च भवति नासत्पुरुषः। स यानीमानि स्त्रीणां वशीकरणानि मन्त्रजाप्यौषधिविद्याभैषज्यादीनि, तानि सर्वाणि सर्वेण सर्वं न प्रयोजयति। शुद्धाजीवश्च भवति न मिथ्याजीवः। न विग्रहविवादशीलः। ऋजुदृष्टिकश्च भवति। नात्मोत्कर्षी न परपंसकः। स एभिश्चान्यैश्च गुणैः समन्वागतो भवति। स न स्त्रियं न च पुरुषं व्याकरोति-पुत्रो वा ते भविष्यति, दुहिता वा ते भविष्यतीति। तस्यैवमादिका एवंरूपा आदेयतादोषा न भवन्ति। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ये आकारा यानि लिङ्गानि यानि निमित्तानि यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयो वेदितव्योऽनुत्तरायाः सम्यक्संबोधेः, तानाकारांस्तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि। ते पुनः कतमे? तद्यथा-न ते स्कन्धायतनधातुप्रतीत्यसमुत्पादयोगानुयोगमनुयुक्ता विहरन्ति, न संगणिकारामकथायोगानुयोगमनुयुक्ता विहरन्ति, न राजकथायोगानुयोगमनुयुक्ता विहरन्ति, न चौरकथायोगानुयोगमनुयुक्ता विहरन्ति, न सेनाकथायोगानुयोगमनुयुक्ता विहरन्ति, न युद्धकथायोगानुयोगमनुयुक्ता विहरन्ति, न ग्रामनगरनिगमजनपदराष्ट्रराजधानीकथायोगानुयोगमनुयुक्ता विहरन्ति, नात्मकथायोगानुयोगमनुयुक्ता विहरन्ति, नामात्यमहामात्रकथायोगानुयोगमनुयुक्ता विहरन्ति, न स्त्रीपुरुषनपुंसककथायोगानुयोगमनुयुक्ता विहरन्ति, न यानोद्यानविहारप्रासादह्रदसरस्तडागपुष्करिणीवनारामशैलकथायोगानुयोगमनुयुक्ता विहरन्ति, न यक्षराक्षसप्रेतपिशाचकटपूतनकुम्भाण्डकथायोगानुयोगमनुयुक्ता विहरन्ति, नान्नपानवस्त्राभरणगन्धमाल्यविलेपनकथायोगानुयोगमनुयुक्ता विहरन्ति, न वीथीचत्वरशृङ्गाटकविशिखापणशिबिकाकुटुम्बकथायोगानुयोगमनुयुक्ता विहरन्ति, न गीतनृत्याख्यायिकानटनर्तकचारणकथायोगानुयोगमनुयुक्ता विहरन्ति, न सागरनदीद्वीपकथायोगानुयोगमनुयुक्ता विहरन्ति, न धर्मविरुद्धकथायोगानुयोगमनुयुक्ता विहरन्ति, न पृथग्जनरतिकथायोगानुयोगमनुयुक्ता विहरन्ति, अपि तु प्रज्ञापारमिताकथायोगानुयोगमनुयुक्ता विहरन्ति। अविरहिताश्च भवन्ति सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैः। न च ते कलहभण्डनविग्रहविवादकथायोगानुयोगमनुयुक्ता विहरन्ति। धर्मकामा एव च ते भवन्ति, नाधर्मकामाः। अभेदवर्णवादिनश्च ते भवन्ति, न भेदवर्णवादिनः। मित्रकामाश्च ते भवन्ति, नामित्रकामाः। धर्मवादिनश्च ते भवन्ति, नाधर्मवादिनः। ते तथागतदर्शनमेवाकाङ्क्षन्त आकाङ्क्षन्ति अन्येषु लोकधातुषु ये तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामन्तिके उपपत्तये चित्तमुत्पादयन्ति। ते आकाङ्क्षन्तस्तत्रोपपद्यन्ते। एवं ते अविरहिता भवन्ति तथागतदर्शनेन तथागतपर्युपासनेन तथागतपर्युपस्थानेन च॥



पुनरपरं सुभूते अविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः कामावचरेभ्यो देवेभ्यश्च्युता रूपावचरेभ्य आरूप्यावचरेभ्यो वा देवेभ्यश्च्युताः सन्तः इहैव मध्यदेशे जम्बूद्वीपे प्रत्याजायन्ते। यत्र सत्त्वाः कलासु कोविदाः, काव्येषु कोविदाः, मन्त्रेषु कोविदाः, विद्यासु कोविदाः, शास्त्रेषु कोविदाः, निमित्तेषु कोविदाः, धर्मार्थकोविदाः। अल्पकाः प्रत्यन्तजनपदेषु प्रत्याजायन्ते, यद्भूयस्त्वेन मध्यदेशे प्रत्याजायन्ते। येऽपि प्रत्यन्तेषु जनपदेषु प्रत्याजायन्ते, तेऽपि महानगरेषु प्रत्याजायन्ते। एतेऽपि तेषां गुणाः संविद्यन्ते। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति-अविनिवर्तनीयो वाहम्, न वाहमविनिवर्तनीय इति। नास्यैवं विचिकित्सोत्पद्यते, न चास्य संशयो भवति, स्वस्यां भूमौ नाप्यस्य संसीदना भवति। तद्यथापि नाम सुभूते स्रोतआपन्नः स्रोतआपत्तिफले स्वकायां भूमौ न काङ्क्षति न विचिकित्सति। न चास्य संशयो भवति। स्वस्यां भूमौ नाप्यस्य संसीदना भवति। उत्पन्नोत्पन्नानि च मारकर्माणि क्षिप्रमेवाबुध्यते। न चोत्पन्नोत्पन्नानां मारकर्मणां वशेन गच्छति। तद्यथापि नाम सुभूते पुरुष आनन्तर्यकारी आनन्तर्यचित्तेन अविरहितो भवति, यावन्मरणावस्थायाम्, न तच्चित्तं शक्नोति प्रतिविनोदयितुं वा विष्कम्भयितुं वा। अनुवर्तत एवास्य तच्चित्तं यावन्मरणकालसमयेऽपि। एवमेव सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयचित्तं स्थितं भवति, स्वकायामविनिवर्तनीयायां भूमावविकम्प्यं भवति। सदेवमानुषासुरेणापि लोकेन न शक्यं चालयितुं वा कम्पयितुं वा। उत्पन्नोत्पन्नानि च मारकर्माण्येव बुध्यते। न चोत्पन्नोत्पन्नानां मारकर्मणां वशेन गच्छति। तस्य स्वस्यां भूमौ निष्काङ्क्षस्य निर्विचिकित्सस्य जातिव्यतिवृत्तस्यापि न श्रावकचित्तं न प्रत्येकबुद्धचित्तं वोत्पद्यते। जातिव्यतिवृत्तस्याप्येवं भवतिनाहं नाभिसंभोत्स्ये। अभिसंभोत्स्ये एवाहमनुत्तरां सम्यक्संबोधिं स्वस्यां भूमौ स्थितः। अपरप्रणेयो भवति, अनवमर्दनीयश्च भवति स्वस्यां भूमौ। तत्कस्य हेतोः? तथा हि स स्थितोऽसंहार्येण चित्तेन असंहार्येण ज्ञानेन समन्वागतो भवति। सचेत्खलु पुनर्मारः पापीयान् बुद्धवेषेणोपसंक्रामेत्, तमुपसंक्रम्यैवं वदेत्-इहैव त्वमर्हत्त्वं साक्षात्कुरु। न त्वं व्याकृतोऽनुत्तरायां सम्यक्संबोधौ। न तव ते आकारास्तानि लिङ्गानि तानि निमित्तानि वा संविद्यन्ते, यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। किं वात्र त्वं चरसीति? सचेत्पुनर्बोधिसत्त्वस्य महासत्त्वस्य अन्यथा चित्तं भवति, वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो व्याकृतः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति। सचेत्पुनरेवं समन्वाहरति-मारो बतायं पापीयान् बुद्धवेषमभिनिर्मायोपसंक्रान्तः, माराधिष्ठितो वा मारनिर्मितो वेति, नायं तथागतः। यथोक्तं तथागतेनार्हता सम्यक्संबुद्धेन तथा तन्नान्यथा। सचेदेवं प्रत्यवेक्षते, एवं समन्वाहरति-मारो बतायं पापीयान् बुद्धाधिष्ठानं कृत्वा मां विवेचयितुकामोऽनुत्तरायाः सम्यक्संबोधित इति। सचेन्मारः प्रत्युदावर्तते, वेदितव्यमेतत्सुभूते व्याकृतोऽयं बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधौ पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः। स्थितोऽयं बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयायां बोधिसत्त्वभूमौ। सचेत्सुभूते बोधिसत्त्वस्य महासत्त्वस्य इमे आकारा इमानि लिङ्गानि इमानि निमित्तानि संविद्यन्ते, वेदितव्यमेतत्सुभूते यथा अस्येमे गुणाः। अद्धा बतायं बोधिसत्त्वो महासत्त्वो व्याकृतः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः। स्थितोऽयं बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयायां बोधिसत्त्वभूमौ। तत्कस्य हेतोः? तथा ह्यस्य ते आकारास्तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, यानि अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतशः आत्मपरित्यागमपि करोति, जीवितपरित्यागमपि करोति। तस्माद्बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयः सद्धर्मपरिग्रहाय परमुद्योगमापद्यते अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रेम्णा च गौरवेण च। धर्मकाया बुद्धा भगवन्त इति धर्मे प्रेम च गौरवं चोपादाय सद्धर्मपरिग्रहं करोति। नायं केवलमतीतानामेव बुद्धानां भगवतां सद्धर्मपरिग्रहः, प्रत्युत्पन्नानामपि बुद्धानां भगवतामेष एव सद्धर्मपरिग्रहः, अनागतानामपि बुद्धानां भगवतामेष एव सद्धर्मपरिग्रहः-अहमपि तत्र तेषामनागतानां बुद्धानां भगवतां संख्यां गणनां प्रविष्ट इति, अहमपि तत्र व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, ममाप्येष एव सद्धर्मपरिग्रह इति। स इममप्यर्थवशं संपश्यन् सद्धर्मपरिग्रहस्य कृतश आत्मपरित्यागमपि करोति, जीवितपरित्यागमपि करोति। न च तत्र संसीदति, न च कौसीद्यमापद्यते। एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः॥



पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस्तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न काङ्क्षति, न विचिकित्सति। सुभूतिराह-किं तथागतस्यैव भगवन् धर्मं देशयतो न काङ्क्षति न विचिकित्सति, न श्रावकस्य? भगवानाह-श्रावकस्यापि सुभूते धर्मं देशयतो न काङ्क्षति न विचिकित्सति। तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा। तेन सर्वधर्माणां धर्मतामविरुद्धां शृणोति। शृण्वंश्च न काङ्क्षति, न विचिकित्सति। एभिः सुभूते गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयो भवति। इमान्यपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य आकारलिङ्गनिमित्तानि वेदितव्यान्यनुत्तरायाः सम्यक्संबोधेरिति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामविनिवर्तनीयाकार-

लिङ्गनिमित्तपरिवर्तो नाम सप्तदशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project