Digital Sanskrit Buddhist Canon

१५ देवपरिवर्तः पञ्चदशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

15 devaparivartaḥ pañcadaśaḥ

१५ देवपरिवर्तः पञ्चदशः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-आदिकर्मिकेण भगवन् बोधिसत्त्वेन महासत्त्वेन कथं प्रज्ञापारमितायां स्थातव्यं कथं शिक्षितव्यम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि। यान्येनं प्रज्ञापारमितायामववदिष्यन्ति अनुशासिष्यन्ति, यानि चास्मै प्रज्ञापारमिताया अर्थमुपदेक्ष्यन्ति, तान्येव चास्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि। एवं चास्मै प्रज्ञापारमिताया अर्थमुपदेक्ष्यन्ति-एहि त्वं कुलपुत्र दानपारमितायां योजमापद्यस्व, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां योगमापद्यस्व। यद्यदेव त्वं कुलपुत्र दानं ददासि, तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामय। मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं रूपतः परामृक्षः, एवं मा वेदनातो मा संज्ञातो मा संस्कारेभ्यः। मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं विज्ञानतः परामृक्षः। तत्कस्य हेतोः? अपरामृष्टा हि कुलपुत्र सर्वज्ञता। एवं यद्यदेव त्वं कुलपुत्र शीलं रक्षसि..........पेयालं..............यद्यदेव त्वं कुलपुत्र क्षान्त्या संपादयसि, यद्यदेव त्वं कुलपुत्र वीर्यमारभसे, यद्यदेव त्वं कुलपुत्र ध्यानं समापद्यसे, यद्यदेव त्वं कुलपुत्र प्रज्ञायां परिजयं करोषि, तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामय। मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं रूपतः परामृक्षः। एवं मा वेदनातो मा संज्ञातो मा संस्कारेभ्यः। मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं विज्ञानतः परामृक्षः। तत्कस्य हेतोः? अपरामृष्टा हि कुलपुत्र सर्वज्ञता। मा च त्वं कुलपुत्र श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्पृहां कार्षीरिति। एवं हि सुभूते आदिकर्मिको बोधिसत्त्वो महासत्त्वोऽनुपूर्वेण कल्याणमित्रैः प्रज्ञापारमितायामवतारयितव्यः॥



सुभूतिराह-दुष्करकारका भगवन् बोधिसत्त्वाः महासत्त्वाः, येऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः। एवंरूपं दानमागम्य, एवंरूपं शीलम्, एवंरूपां क्षान्तिम्, एवंरूपं वीर्यम्, एवंरूपं ध्यानम्, एवंरूपां प्रज्ञामागम्य स्वाधीनेऽपि परिनिर्वाणे नेच्छन्ति परिनिर्वातुम्। अपि तु परमदुःखितं सत्त्वधातुमभिसमीक्ष्य अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः संसारान्नोत्रस्यन्ति। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। दुष्करकारकाः सुभूते बोधिसत्त्वा महासत्त्वाः ये लोकहिताय संप्रस्थिताः, लोकसुखाय लोकानुकम्पायै संप्रस्थिताः, लोकस्य त्राणं भविष्यामः, लोकस्य शरणं भविष्यामः, लोकस्य लयनं भविष्यामः, लोकस्य परायणं भविष्यामः, लोकस्य द्वीपां भविष्यामः, लोकस्यालोका भविष्यामः, लोकस्य परिणायका भविष्याम, अनुत्तरां सम्यक्संबोधिमभिसंबुध्य लोकस्य गतिर्भविष्यामः, इत्येवंरूपमनुत्तरायां सम्यक्संबोधौ वीर्यमारभन्ते। कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य त्राणं भवन्ति? यानि तानि सुभूते संसारावचराणि दुःखानि लोकस्य, तत एनं त्रायन्ते, तेषां दुःखानां प्रहाणाय व्यायच्छन्ते, वीर्यमारभन्ते। एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य त्राणं भवन्ति। कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्तो लोकस्य शरणं भवन्ति? ये सुभूते सत्त्वा जातिधर्मिणो जराधर्मिणो व्याधिधर्मिणो मरणधर्मिणः शोकपरिदेवदुःखदौर्मनस्योपायासधर्मिणः सत्त्वाः तान् सर्वान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोचयन्ति। एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य शरणं भवन्ति।



कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवन्ति? यत्सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः सत्त्वेभ्योऽश्लेषाय धर्मं देशयन्ति। एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवनति। सुभूतिराह-कथं भगवन् अश्लेषो भवति? भगवानाह-यः सुभूते रूपस्यासंबन्धः, स रूपस्याश्लेषः। यो रूपस्याश्लेषः, स रूपस्यासंबन्धः। यो रूपस्यासंबन्धः, स रूपस्यानुत्पादोऽनिरोधः। यो रूपस्यानुत्पादोऽनिरोधः, स रूपस्याश्लेषः। यो रूपस्याश्लेषः, अयं रूपस्यासंबन्धः, अयं रूपस्याश्लेषः। एवं वेदनायाः संज्ञायाः संस्काराणाम्। यः सुभूते विज्ञानस्यासंबन्धः, स विज्ञानस्याश्लेषः। यो विज्ञानस्याश्लेषः, स विज्ञानस्यासंबन्धः। यो विज्ञानस्यासंबन्धः, स विज्ञानस्यानुत्पादोऽनिरोधः। यो विज्ञानस्यानुत्पादोऽनिरोधः, स विज्ञानस्याश्लेषः। यो विज्ञानस्याश्लेषः अयं विज्ञानस्यासंबन्धः, अयं विज्ञानस्याश्लेषः। एवं हि सुभूते सर्वधर्मा असंश्लिष्टा असंबद्धा इति ज्ञानदर्शनादश्लेषो भवति। एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवन्ति। कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परायणं भवन्ति? यत्सुभूते रूपस्य पारं न तद्रूपम्। यथा च सुभूते पारं तथा रूपम्। एवं वेदना संज्ञा संस्काराः। यत्सुभूते विज्ञानस्य पारं न तद्विज्ञानम्। यथा च सुभूते पारं तथा विज्ञानम्। यथा च सुभूते रूपम्, एवं वेदना संज्ञा संस्काराः। विज्ञानं पारं तथा सर्वधर्माः। सुभूतिराह-यदि भगवन् यथा रूपम्, एवं वेदना संज्ञा संस्काराः विज्ञानं पारं तथा सर्वधर्माः, ननु भगवन् बोधिसत्त्वैर्महासत्त्वैरभिसंबुद्धा एवं भवन्ति सर्वधर्माः। तत्कस्य हेतोः? न ह्यत्र भगवन् कश्चिद्विकल्पः। भगवानाह-एवमेतत्सुभूते, एवमेतत्। यत्तत्पारं न तत्र कश्चिद्विकल्पः। अविकल्पत्वात्सुभूते बोधिसत्त्वैर्महासत्वैरभिसंबुद्धा एव भवन्ति सर्वधर्माः। इदमपि सुभूते परमदुष्करं बोधिसत्त्वानां महासत्त्वानाम्, य एवं च सर्वधर्मानुपनिध्यायन्ति, न च साक्षात्कुर्वन्ति, न चावलीयन्ते-एवमस्माभिरेते धर्मा अभिसंबोद्धव्याः, एवं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य एनान् धर्मान् देशयिष्यामः प्रकाशयिष्याम इत्युपनिध्यायन्ति। एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परायणं भवन्ति। कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य द्वीपा भवन्ति? तद्यथापि नाम सुभूते ये प्रदेशा उदकपरिच्छिन्ना भवन्ति नदीषु वा महोदधिषु वा, ते उच्यन्ते द्वीपा इति।



एवमेव सुभूते पूर्वान्तापरान्तपरिच्छिन्नं रूपम्। एवं वेदना संज्ञा संस्काराः। एवमेव सुभूते पूर्वान्तापरान्तपरिच्छिन्नं विज्ञानम्। एतेन सुभूते परिच्छेदेन सर्वधर्माः पूर्वान्तापरान्तपरिच्छिन्नाः। यश्च सुभूते सर्वधर्माणां परिच्छेदः, एतच्छान्तम्, एतत्प्रणीतम्, एतत्परिनिर्वाणम्, एतद्यथावत्, एतदविपरीतम्। एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य द्वीपा भवन्ति। कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्तो लोकस्य आलोका भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो दीर्घरात्रमविद्याण्डकोशपटलपर्यवनद्धानां सत्त्वानां तमोभिभूतानां प्रज्ञया अवभासयन्तः सर्वाज्ञानतमोन्धकारं विधुन्वन्ति। एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य आलोका भवन्ति। कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परिणायका भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो रूपस्य प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति। एवं वेदनायाः संज्ञायाः संस्काराणाम्। विज्ञानस्य प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति। पृथग्जनधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति। श्रावकधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति। प्रत्येकबुद्धधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति। बोधिसत्त्वधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति। बुद्धधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति। सर्वधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति। एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परिणायका भवन्ति। कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य गतिर्भगवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य आकाशगतिकं रुपमिति धर्मं देशयन्ति। एवं वेदना संज्ञा संस्काराः। आकाशगतिकं विज्ञानमिति धर्मं देशयन्ति। एवमेव सुभूते सर्वधर्मा आकाशगतिका अनागतिका अगतिका आकाशसमाः। यथा आकाशमनागतमगतमकृतमविकृतमनभिसंस्कृतमस्थितमसंस्थितमव्यवस्थितमनुत्पन्नमनिरुद्धम्, एवमेव सुभूते सर्वधर्मा अनागता आगता आकृता अविकृता अनभिसंस्कृता अस्थिता असंस्थिता अव्यवस्थिता अनुत्पन्ना अनिरुद्धा आकाशकल्पत्वादविकल्पाः। तत्कस्य हेतोः? या सुभूते रूपस्य शून्यता, न सा आगच्छति वा गच्छति वा। एवं वेदनायाः संज्ञायाः संस्काराणाम्। या सुभूते विज्ञानस्य शून्यता, न सा आगच्छति वा गच्छति वा। एवमेव सुभूते या सर्वधर्माणां शून्यता, न सा आगच्छति वा गच्छति वा। तत्कस्य हेतोः? शून्यतागतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। आनिमित्तगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अप्रणिहितगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अनभिसंस्कारगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अनुत्पादगतिका हि सुभूते सर्वधर्माः।



ते तां गतिं न व्यतिवर्तन्ते। अजातिगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अभावगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। स्वप्नगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। आत्मगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अपर्यन्तगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। शान्तगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। निर्वाणगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अप्रत्युद्धारगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अनागतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अचलगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। रूपगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। एवं वेदना संज्ञा संस्काराः। विज्ञानगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अर्हत्प्रत्येकबुद्धत्वानुत्तरसम्यक्संबोधिगतिका हि सुभूते सर्वधर्माः। ते तां गतिं न व्यतिवर्तन्ते। अतश्च बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्त आकाशगतिकाः सर्वधर्मा इति धर्मं देशयन्ति। एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य गतिर्भवन्ति॥



सुभूतिराह-के भगवन् इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति? भगवानाह-ये सुभूते चरिताविनो बोधिसत्त्वा महासत्त्वा भविष्यन्ति पौर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके परिपक्वकुशलमूलाः, ते सुभूते बोधिसत्त्वा वेदितव्याः ये इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति। सुभूतिराह-किंस्वभावा भगवंस्ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, ये इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति? भगवानाह-वैनयिकविविक्तस्वभावस्ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति॥



सुभूतिराह-किं भगवन् एवंगतिका एव ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति? एनामेव गतिमभिसंबुध्य सत्त्वानामेनामेव गतिं देशयिष्यन्ति? एवं ते सत्त्वानां गतिर्भविष्यन्ति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। एवंगतिका एव ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति। एनामेव गतिमभिसंबुध्य सत्त्वानाम् एनामेव गतिं देशयिष्यन्ति। एवं ते सत्त्वानां गतिर्भविष्यन्ति। एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तोऽप्रमेयाणामसंख्येयानां सत्त्वानां गतिर्भविष्यन्ति॥



सुभूतिराह- दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो येनायं संनाहः संनद्धः अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यामीति। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। दुष्करकारकः स सुभूते बोधिसत्त्वो महासत्त्वो येनायं संनाहः संनद्धः-अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यामीति। स खलु पुनरयं सुभूते संनाहो बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य न रूपसंबद्धो न रूपस्यार्थाय संबद्धः। एवं वेदना संज्ञा संस्काराः। न विज्ञानसंबद्धो न विज्ञानस्यार्थाय संबद्धः। न श्रावकभूमिसंबद्धो न श्रावकभूमेरर्थाय संबद्धः। न प्रत्येकबुद्धभूमिसंबद्धो न प्रत्येक[बुद्ध] भूमेरर्थाय संबद्धः। नापि बुद्धभूमिसंबद्धो नापि बुद्धभूमेरर्थाय संबद्धः। तत्कस्य हेतोः? सर्वधर्मासंनद्धो बतायं सुभूते संनाहो बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य॥



सुभूतिराह-अस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य एवं महासंनाहसंनद्धस्य एवं गम्भीरारायां प्रज्ञापारमितायां चरतस्त्रीणि स्थानानि न प्रतिकाङ्क्षितव्यानि। कतमानि त्रीणि? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा बुद्धभूमिर्वा। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-कतमं त्वं सुभूते अर्थवशं संपश्यन्नेवं वदसि-अस्य बोधिसत्त्वस्य महासत्त्वस्य एवंमहासंनाहसंनद्धस्य एवं गम्भीरायां प्रज्ञापारमितायां चरतस्त्रीणि स्थानानि न प्रतिकाङ्क्षितव्यानि। कतमानि त्रीणि? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा बुद्धभूमिर्वेति? अस्थानं सुभूते ह्येतदनवकाशोऽस्य बोधिसत्त्वस्य महासत्त्वस्य एवंमहासंनाहसंनद्धस्य एवं गम्भीरायां प्रज्ञापारमितायां चरतः श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा। अपि तु बुद्धभूमिरेवास्य प्रतिकाङ्क्षितव्या येनायं सर्वसत्त्वानां कृतशः संनाहः संनद्धः॥



सुभूतिराह-गम्भीरा भगवन् प्रज्ञापारमिता। सा न केनचिद्भावयितव्या। तां हि न कश्चिद्भावितवान्, नापि कश्चिद्भावयति, नापि कश्चिद्भावयिष्यति, नापिं किंचिद्भावयितव्यम्, न क्वचिद्भावयितव्यम्। तत्कस्य हेतोः? न हि भगवन् प्रज्ञापारमितायां न कश्चिद्धर्मः परिनिष्पन्नः। आकाशभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना। सर्वधर्मभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना। असङ्गभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना। अनन्तभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना। असद्भावनैषा भगवन् यदुत प्रज्ञापारमिताभावना। अपरिग्रहभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना॥



एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। अतो हि सुभूते गम्भीरायाः प्रज्ञापारमिताया विहारेण विहरन् बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीय उपपरीक्षितव्योऽनुत्तरायाः सम्यक्संबोधेः-कच्चित्सुभूते बोधिसत्त्वो महासत्त्वोऽस्यां गम्भीरायां प्रज्ञापारमितायां नाभिनिवेशं करोति। कच्चित्परभणितानि परमन्त्रितानि नाभिनिविशते। कच्चिद्बोधिसत्त्वो महासत्त्वो न परस्य श्रद्धया गच्छति। कच्चित्सुभूते बोधिसत्त्वो महासत्त्वोऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नावलीयते न संलीयते न विपृष्ठीभवति नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, न काङ्क्षति न विचिकित्सति न धन्धायते अवगाहतेऽधिमुच्यतेऽभिनन्दति प्रज्ञापारमिताया दर्शनं श्रवणं च। वेदितव्यमिदं सुभूते पूर्वान्तेऽप्यनेन प्रज्ञापारमिता परिपृष्टा। तत्कस्य हेतोः? तथा हि सुभूते गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते॥



सुभूतिराह-यो भगवन् बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, कतमेन भगवन् आकारेण तेन प्रज्ञापारमिता व्यवचारिता भवति? भगवानाह-सर्वज्ञतानिम्नया सुभूते संतत्या तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता व्यवचारिता भवति। सुभूतिराह-कथं भगवन् सर्वज्ञतानिम्ना संततिर्व्यवचारिता भवति? भगवानाह-आकाशनिम्नया सुभूते संतत्या आकाशप्रवणया आकाशप्राग्भारया सुभूते संतत्या सर्वज्ञतानिम्ना संततिर्व्यवचारिता भवति। या खलु पुनः सुभूते सर्वज्ञतानिम्नया संतत्या व्यवचारणा, इयं सा सुभूते व्यवचारणा। तत्कस्य हेतोः? अप्रमेया हि सुभूते सर्वज्ञता, अप्रमाणा हि सुभूते सर्वज्ञता। यत्सुभूते अप्रमेयमप्रमाणम्, न तद्रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न प्राप्तिर्नाभिसमयो नाधिगमो न मार्गो न मार्गफलं न ज्ञानं न विज्ञानं नोत्पत्तिर्न विनाशो नोत्पादो न व्ययो न निरोधो न भावना न विभावना, नापि केनचित्कृतं नापि कुतश्चिदागतं नापि क्वचिद् गच्छति नापि क्वचिद्देशे नापि क्वचित्प्रदेशे स्थितम्, अपि तु अप्रमेयप्रमाणमित्येवं संख्यां गच्छति। आकाशाप्रमेयतया सर्वज्ञताप्रमेयता। या च अप्रमेयता, न सा शक्या केनचिदभिसंबोद्धुम्। न रूपेण न वेदनया न संज्ञया न संस्कारैर्न विज्ञानेन न दानपारमितया न शीलपारमितया न क्षान्तिपारमितया न वीर्यपारमितया न ध्यानपारमितया न प्रज्ञापारमितया शक्या अभिसंबोद्धुम्। तत्कस्य हेतोः? रूपमेव हि सुभूते सर्वज्ञता। एवं वेदनैव संज्ञैव संस्कारा एव। विज्ञानमेव हि सुभूते सर्वज्ञता। दानपारमितैव हि सुभूते सर्वज्ञता। शीलपारमितैव क्षान्तिपारमितैव वीर्यपारमितैव ध्यानपारमितैव प्रज्ञापारमितैव हि सुभूते सर्वज्ञता॥



अथ खलु शक्रो देवानामिन्द्रः सार्धं कामावचरैर्देवपुत्रैर्ब्रह्मापि सहापतिः सार्धं रूपावचरैर्देवपुत्रैर्येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते तस्थौ। एकान्ते स्थितश्च शक्रो देवेन्द्रः कामावचरैर्देवपुत्रैः सार्धं ब्रह्मापि सहापतिः रूपावचरैर्देवपुत्रैः सार्धं भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता। दुरवगाहा भगवन् प्रज्ञापारमिता। दुर्दृशा भगवन् प्रज्ञापारमिता। दुरनुबोधा भगवन् प्रज्ञापारमिता। इदमप्यर्थवशं संपश्यतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धमात्रस्य बोधिमण्डे निषण्णस्य अल्पोत्सुकतायां चित्तमवनतं न धर्मदेशनायाम्॥



एवमुक्ते भगवान् शक्रं देवानामिन्द्रं कामावचरांश्च देवपुत्रान् ब्रह्माणं च सहापतिं रूपावचरांश्च देवपुत्रानामन्त्रयते स्म-एवमेतद्देवपुत्राः, एवमेतत्। गम्भीरा बतेयं देवपुत्राः प्रज्ञापारमिता। दुरवगोहयं देवपुत्राः प्रज्ञापारमिता। दुर्दृशेयं देवपुत्राः प्रज्ञापारमिता। दुरनुबोधेयं देवपुत्राः प्रज्ञापारमिता। इदमप्यर्थवशं संपश्यतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धमात्रस्य बोधिमण्डे निषण्णस्य अल्पोत्सुकतायां चित्तमवनतं न धर्मदेशनायाम्-गम्भीरो बतायं मया धर्मोऽभिसंबुद्ध इति, यत्र न कश्चिदभिसंबुद्धो न कश्चिदभिसंभोत्स्यते न कश्चिदभिसंबुध्यते। इयं सा धर्मस्य गम्भीरता। आकाशगम्भीरतया गम्भीरोऽयं धर्मः। आत्मगम्भीरतया गम्भीरोऽयं धर्मः। सर्वधर्मानागमनतया गम्भीरोऽयं धर्मः। सर्वधर्मागमनतया गम्भीरोऽयं धर्मो मयाभिसंबुद्ध इति॥



एवमुक्ते शक्रो देवानामिन्द्रः कामावचराश्च देवपुत्राः ब्रह्मापि सहापतिः रूपावचराश्च देवपुत्रा भगवन्तमेतदवोचन्-आश्चर्यं भगवन्, अद्भुतं सुगत। सर्वलोकविप्रत्यनीकोऽयं धर्मो देश्यते। अनुग्रहाय च भगवन् धर्माणामयं धर्मो देश्यते। उद्ग्रहे च लोकश्चरतीति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां देवपरिवर्तो नाम पञ्चदशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project