Digital Sanskrit Buddhist Canon

१३ अचिन्त्यपरिवर्तस्त्रयोदशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

13 acintyaparivartastrayodaśaḥ

१३ अचिन्त्यपरिवर्तस्त्रयोदशः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता। महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता। अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता। भगवानाह-एवमेतत्सुभूते, एवमेतत्। महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता। अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता। कथं च सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अचिन्त्यं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम्। एवं हि सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता। न हीदं शक्यं चित्तेन चिन्तयितुम्। तत्कस्य हेतोः ? न हि चित्तं वा चेतना वा चैतसिको वा अत्र धर्मः प्रवर्तते। कथं च सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? न शक्यं सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वं चिन्तयितुं वा तुलयितुं वा। एवं हि सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता। कथं च सुभूते अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अप्रमेयं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम्। एवं हि सुभूते अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता। कथं च सुभूते असंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? असंख्येयं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम्। एवं हि सुभूते असंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता। कथं च सुभूते असमसमकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? नास्ति सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्वयंभुवः सर्वज्ञस्य समः, कुतः पुनरुत्तरः? एवं हि सुभूते असमसमकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता॥



स्थविरः सुभूतिराह-किं पुनर्भगवंस्तथागतत्वमेवाचिन्त्यमतुल्यमप्रमेयसंख्येयमसमसमम्? एवं बुद्धत्वमेव स्वयंभूत्वमेव सर्वज्ञत्वमेव अतुल्यमप्रमेयमसंख्येयमसमसमम्, उताहो रूपमप्यचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्? एवं वेदनापि संज्ञापि संस्कारा अपिः? विज्ञानमप्यचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्, उताहो सर्वधर्मा अप्यचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। रूपमपि सुभूते अचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्। एवं वेदनापि संज्ञापि संस्कारा अपि। विज्ञानमपि सुभूते अचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्। एवं सर्वधर्मा अपि सुभूते अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः। तत्कस्य हेतोः? रूपस्य हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना। एवं वेदनायाः संज्ञायाः संस्काराणाम्। विज्ञानस्य हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना। सर्वधर्माणां हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना। एवं हि सुभूते रूपमप्यचिन्त्यमतुल्यम्। एवं वेदनापि संज्ञापि संस्कारा अपि। विज्ञानमप्यचिन्त्यमतुल्यम्। एवं सर्वधर्मा अप्यचिन्त्या अतुल्याः। रूपमपि सुभूते अप्रमेयम्। एवं वेदनापि संज्ञापि संस्कारा अपि। विज्ञानमपि सुभूते अप्रमेयम्, सर्वधर्मा अपि सुभूते अप्रमेयाः। तत्कस्य हेतोः? रूपस्य हि सुभूते प्रमाणं न प्रज्ञायते। एवं वेदनायाः संज्ञायाः संस्काराणाम्। विज्ञानस्य हि सुभूते प्रमाणं न प्रज्ञायते। सर्वधर्माणामपि हि सुभूते प्रमाणं न प्रज्ञायते। केन कारणेन सुभूते रूपस्य प्रमाणं न प्रज्ञायते? केन कारणेन वेदनायाः संज्ञायाः संस्काराणाम्? केन कारणेन सुभूते विज्ञानस्य प्रमाणं न प्रज्ञायते? केन कारणेन सुभूते सर्वधर्माणामपि प्रमाणं न प्रज्ञायते? रूपस्य हि सुभूते प्रमाणं न विद्यते। एवं वेदनायाः संज्ञायाः संस्काराणाम्।



विज्ञानस्य हि सुभूते प्रमाणं न विद्यते। सर्वधर्माणामपि हि सुभूते प्रमाणं न विद्यते। केन कारणेन सुभूते रूपस्य प्रमाणं न विद्यते? एवं वेदनायाः संज्ञायाः संस्काराणाम्? केन कारणेन सुभूते विज्ञानस्य प्रमाणं न विद्यते? केन कारेणेन सुभूते सर्वधर्माणामपि प्रमाणं न विद्यते? अप्रमाणत्वात्सुभूते सर्वधर्माणाम्। रूपमपि सुभूते असंख्येयम्। एवं वेदना संज्ञा संस्काराः। विज्ञानमपि सुभूते असंख्येयम्। सर्वधर्मा अपि सुभूते असंख्येयाः, गणनासमतिक्रान्तत्वात्। रूपमति सुभूते असमसमम्। एवं वेदना संज्ञा संस्काराः। विज्ञानमपि सुभूते असमसमम्। एवं सर्वधर्मा अपि सुभूते असमसमाः, आकाशसमत्वात्सुभूते सर्वधर्माणाम्। तत्किं मन्यसे सुभूते अपि तु अस्त्याकाशस्य समो वा गणना वा प्रमाणं वा तुल्यं वा चित्तं वा चैतसिका वा धर्माः? सुभूतिराह-नो हीदं भगवन्। भगवानाह-एवमेव सुभूते अनेन पर्यायेण सर्वधर्मा अपि अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः। एते च सुभूते तथागतधर्मा अचिन्त्याश्चित्तोपरमत्वात्, अतुल्यास्तुलनासमतिक्रान्तत्वात्। अचिन्त्या अतुल्या इति सुभूते विज्ञानगतस्यैतद्धर्मस्याधिवचनम्। एवमप्रमेया असंख्येया असमसमा इति सुभूते समसंख्याप्रमाणोपरमत्वादप्रमेया असंख्येया असमसमास्तथागतधर्माः। आकाशसमासंख्येयाप्रमेयतया असमसमा असंख्येया अप्रमेया एते धर्माः। आकाशतुल्यतया अतुल्या असमवहिता बतेमे धर्माः। तस्मात्सुभूते अतुल्या एते धर्मा उच्यन्ते। आकाशाचिन्त्यतया अचिन्त्या एते धर्माः। आकाशातुल्यतया अतुल्या एते धर्माः। आकाशाप्रमेयतया अप्रमेया एते धर्माः। आकाशासंख्येयतया असंख्येया एते धर्माः। आकाशासमसमतया असमसमा एते धर्माः। अस्यां खलु पुनरचिन्त्यतायामतुल्यतायामप्रमेयतायामसंख्येयतायामसमसमतायां भाष्यमाणायां पञ्चानां भिक्षुशतानामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि, षष्टेश्चोपासकशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, त्रिंशतेश्चोपासिकानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, विंशत्या च बोधिसत्त्वैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धाभूत्। ते च भगवता इहैव भद्रकल्पे व्याकृता अनुत्तरायां सम्यक्संबोधौ। येऽपि ते उपासका उपासिकाश्च येषां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, तेऽपि भगवता व्याकृताः। तेषामप्यनुपादायास्रवेभ्यश्चित्तं विमोक्ष्यते॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता। महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। गम्भीरा सुभूते प्रज्ञापारमिता। महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता। तत्कस्य हेतोः? अत्र हि सुभूते सर्वज्ञता समायुक्ता, अत्र प्रत्येकबुद्धभूमिः समायुक्ता, अत्र सर्वश्रावकभूमिः समायुक्ता। तद्यथापि नाम सुभूते राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य जनपदस्थामवीर्यप्राप्तस्य यानि तानि राजकृत्यानि, यानि च नगरकृत्यानि, यानि च जनपदकृत्यानि, सर्वाणि तानि अमात्यसमायुक्तानि भवन्ति। अल्पोत्सुकस्ततो राजा भवत्यपहृतभारः। एवमेव सुभूते ये केचिद्बुद्धधर्मा वा प्रत्येकबुद्धधर्मा वा श्रावकधर्मा वा, सर्वे ते प्रज्ञापारमितासमायुक्ताः। प्रज्ञापारमिता तत्र कृत्यं करोति। अनेन सुभूते पर्यायेण महाकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता रूपस्यापरिग्रहाय अनभिनिवेशाय। एवं वेदनायाः संज्ञायाः संस्काराणाम्। विज्ञानस्यापरिग्रहाय अनभिनिवेशाय, स्रोतआपत्तिफलस्यापरिग्रहायानभिनिवेशाय, एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वफलस्यापरिग्रहायानभिनिवेशाय, प्रत्येकबोधेरपरिग्रहायानभिनिवेशाय, सर्वज्ञताया अपरिग्रहायानभिनिवेशाय प्रज्ञापारमिता प्रत्युपस्थिता॥



सुभूतिराह-कथं भगवन् सर्वज्ञताया अपरिग्रहायानभिनिवेशाय प्रज्ञापारमिता प्रत्युपस्थिता? भगवानाह-तत्किं मन्यसे सुभूते समनुपश्यसि त्वमर्हत्त्वं यत्र परिग्रहं वा अभिनिवेशं वा कुर्याः? सुभूतिराह-नो हीदं भगवन्। नाहं भगवंस्तं धर्मं समनुपश्यामि यं परिगृह्णीयामभिनिवेशेयं वा अर्हत्त्वमिति। भगवानाह-एवमेतत्सुभूते, एवमेतत्। अहमपि सुभूते तथागतत्वं न समनुपश्यामि। सोऽहं सुभूते तथागतत्वमसमनुपश्यन् न परिगृह्णामि नाभिनिवेशे। तस्मात्तर्हि सुभूते सर्वज्ञताप्यपरिग्रहा अनभिनिवेशा। सुभूतिराह-सर्वज्ञतापि भगवन् अपरिग्रहा अनभिनिवेशेति? मा भगवन् नवयानसंप्रस्थिताः परीत्तकुशलमूला बोधिसत्त्वा महासत्त्वा इमं निर्देशं श्रुत्वा उत्रसिषुः संत्रसिषुः संत्रासमापत्स्यन्ते। अपि तु खलु पुनर्भगवन् ये बोधिसत्त्वा महासत्त्वा हेतुसंपन्नाः पूर्वजिनकृताधिकारा दीर्घरात्रावरोपितकुशलमूला भविष्यन्ति, त इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा अधिमोक्ष्यन्ति। भगवानाह-एवमेतत्सुभूते, एवमेतत्॥



अथ खलु ते कामावचरा रूपावराश्च देवपुत्रा भगवन्तमेतदवोचन्-गम्भीरा भगवन् प्रज्ञापारमिता, दुर्दृशा दुरनुबोधा। पूर्वजिनकृताधिकारा दीर्घरात्रावरोपितकुशलमूलास्ते भगवन् सत्त्वा भविष्यन्ति, य एनां गम्भीरां प्रज्ञापारमितामधिमोक्ष्यन्ति। सचेद्भगवंस्त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वाः, ते सर्वे श्रद्धानुसारिभूमौ कल्पं वा कल्पावशेषं वा चरेयुः यश्चेह गम्भीरायां प्रज्ञापारमितायामेकदिवसमपि क्षान्तिं रोचयेद्गवेषेत चिन्तयेत्तुलयेदुपपरीक्षेत उपनिध्यायेत्, अयमेव भगवंस्तेभ्यः श्रेयान्। एवमुक्ते भगवांस्तान् कामावचरान् रूपावचरांश्च देवपुत्रानामन्त्रयामास-यदि देवपुत्राः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां शृणुयात्, यावदस्य देवपुत्राः क्षिप्रतरं निर्वाणं प्रतिकाङ्क्षितव्यम्, न त्वेव तेषां श्रद्धानुसारिभूमौ कल्पं वा कल्पावशेषं वा चरताम्। अथ खलु ते कामावचरा रूपावचराश्च देवपुत्रा भगवन्तमेतदवोचन्-महापारमितेयं भगवन् यदुत प्रज्ञापारमिता। इत्युक्त्वा भगवतः पादौ शिरसा अभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकाद् गमिष्याम इत्यारोच्य प्रक्रान्ताः। तेऽविदूरं गत्वा अन्तर्हिताः। कामावचराश्च देवपुत्राः कामधातौ प्रातिष्ठन्तः, रूपावचराश्च देवपुत्रा ब्रह्मलोके प्रातिष्ठन्तेति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामचिन्त्यपरिवर्तो नाम त्रयोदशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project