Digital Sanskrit Buddhist Canon

१२ लोकसंदर्शनपरिवर्तो द्वादशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 12 lokasaṁdarśanaparivarto dvādaśaḥ
१२ लोकसंदर्शनपरिवर्तो द्वादशः।



अथ खलु भगवान् पुनरप्यायुष्मन्तं सुभूतिमामन्त्रयते स्म-तद्यथापि नाम सुभूते स्त्रिया बहवः पुत्रा भवेयुः, पञ्च वा दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा सहस्रं वा। सर्वे ते मातुर्ग्लानाया उद्योगमापद्येरन्-कथमस्माकं मातुर्जीवितान्तरायो न भवेदिति, कथमस्माकं माता चिरं जीवेत्, कथमस्माकं मातुः कायो न विनश्येत्, कथमस्माकं माता चिरस्थितिका भवेत्, कथमस्माकं मातुर्नाम अविनष्टं भवेत्, कथमस्माकं मातुर्न दुःखा वेदनोत्पद्येत, न चास्या अस्पर्शविहारः अमनआपः काये उत्पद्येत। तत्कस्य हेतोः? एतया हि वयं जनिताः। दुष्करकारिकैषा अस्माकं जीवितस्य दात्री लोकस्य च संदर्शयित्री। इति ते पुत्रास्तां मातरं सर्वसुखोपधानैः सुधृतां धारयेयुः, सुगोपायितां गोपायेयुः, सुकेलायितां केलायेयुः-मा खल्वस्याः काचिद्दुःखा वेदना दुःखो वा स्पर्श उत्पद्येत, चक्षुषो वा श्रोत्रतो वा घ्राणतो वा जिह्वातो वा कायतो वा मनस्तो वा वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा दंशतो वा मशकतो वा सरीसृपतो वा मनुष्यतो वा अमनुष्यतो वा आपाततो वा उत्पाततो वा अनिष्टनिपातः शरीरे निपतेत्।



एवं ते पुत्रास्तां मातरं सर्वसुखोपधानैः समन्वाहृत्य केलायेयुर्ममायेयुर्गोपायेयुः-एषास्माकं माता जनयित्री, दुष्करकारिकैषा अस्माकं जीवितस्य दात्री, लोकस्य च संदर्शयित्रीति। एवमेव सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा इमां प्रज्ञापारमितां समन्वाहरन्ति। येऽपि ते लिखन्ति उद्गृह्णन्ति धारयन्ति वाचयन्ति पर्यवाप्नुवन्ति प्रवर्तयन्ति देशयन्त्युपदिशन्त्युद्दिशन्ति स्वाध्यायन्ति, सर्वे ते तथागतस्यार्हतः सम्यक्संबुद्धस्यानुभावेन अधिष्ठानेन समन्वाहारेण। येऽपि तेऽन्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्याणां च, सर्वसत्त्वानां चानुकम्पका अनुकम्पामुपादाय, तेऽपि सर्वे इमां प्रज्ञापारमितां समन्वाहरन्ति, औत्सुक्यमापद्यन्ते-किमितीयं प्रज्ञापारमिता चिरस्थितिका भवेत्, किमित्यस्याः प्रज्ञापारमिताया नाम अविनष्टं भवेत्, किमित्यस्याः प्रज्ञापारमिताया भाष्यमाणाया लिख्यमानायाः शिक्ष्यमाणाया मारः पायीयान् मारकायिका वा देवता अन्तरायं न कुर्युरिति। एवं हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा एनां प्रज्ञापारमितां केलायन्ति ममायन्ति गोपायन्ति। तत्कस्य हेतोः? एषा हि माता जनयित्री तथागतानामर्हतां सम्यक्संबुद्धानाम्। अस्याः सर्वज्ञताया दर्शयित्री लोकस्य च संदर्शयित्री। अतोनिर्जाता हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः। प्रज्ञापारमिता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानामस्य सर्वज्ञज्ञानस्य जनयित्री दर्शयित्री, एवमस्य लोकस्य संदर्शयित्री। अतोनिर्जाता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञता। येऽपि केचित्सुभूते अतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, तेऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। येऽपि ते सुभूते भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, तेऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। येऽपि ते सुभूते एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्याणां च, अनुकम्पका अनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, तेऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। अहमपि सुभूते एतर्हि तथागतोऽर्हन् सम्यक्संबुद्ध एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानां जनयित्री, एवमस्य लोकस्य संदर्शयित्री॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यद्भगवानेवमाह-प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्रीति, कथं भगवन् प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री ? कतमश्च भगवन् लोकस्तथागतैरर्हद्भिः सम्यक्संबुद्धैराख्यातः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-पञ्च सुभूते स्कन्धाः तथागतेन लोक इत्याख्याताः। कतमे पञ्च? यदुत रूपं वेदना संज्ञा संस्कारा विज्ञानम्। इमे सुभूते पञ्च स्कन्धास्तथागतेन लोक इत्याख्याताः॥



सुभूतिराह-कथं भगवंस्तथागतानां प्रज्ञापारमितया पञ्च स्कन्धा दर्शिताः? किं वा भगवन् प्रज्ञापारमितया दर्शितम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-न लुज्यन्ते न प्रलुज्यन्ते इति सुभूते पञ्च स्कन्धा लोक इति तथागतानां प्रज्ञापारमितया दर्शिताः। तत्कस्य हेतोः न लुज्यन्ते न प्रलुज्यन्ते इति दर्शिताः? शून्यतास्वभावा हि सुभूते पञ्च स्कन्धाः, अस्वभावत्वात्। न च सुभूते शून्यता लुज्यते वा प्रलुज्यते वा। एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री। न च सुभूते आनिमित्तं वा अप्रणिहितं वा अनभिसंस्कारो वा अनुत्पादो वा अभावो वा धर्मधातुर्वा लुज्यते वा प्रलुज्यते वा। एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हत सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वाः, असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वाः, असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति? सत्त्वास्वभावतया सुभूते अप्रमेयाः सत्त्वा असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वा असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति। यान्यपि तानि सुभूते अप्रमेयाणामसंख्येयानां सत्त्वानां चित्तचरितानि, तान्यपि सुभूते तथागतः सत्त्वासद्भावतयैव प्रजानाति। एवं खलु सुभूते प्रज्ञापारमितामागम्य तथागतोऽप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाण्यसंख्येयानि चित्तचरितानि च यथाभूतं प्रजानाति। एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? स संक्षेपं क्षयतः क्षयं च अक्षयतो यथाभूतं प्रजानाति। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागता इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? धर्मतातः सुभूते तानि चित्तानि विक्षिप्तानि। अलक्षणानि हि तानि चित्तानि अक्षीणान्यविक्षीणान्यविक्षिप्तानि तानि चित्तानीति यथाभूतं प्रजानाति। एवं हि सुभूते तथागता इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तान्यप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तानि अप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति? तस्य सुभूते तथागतस्याधिष्ठितं भवति तच्चित्तम्, अनिरोधमनुत्पादमस्थितमनाश्रयमसममप्रमेयमसंख्येयम्, येनैव यथाभूतं प्रजानाति आकाशाप्रमेयाक्षयतया चित्ताप्रमेयाक्षयतेति। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तान्यप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति? असंक्लेशसंक्लिष्टानि सुभूते तानि चित्तानि असंकेतानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति? प्रकृतिप्रभास्वराणि सुभूते तानि चित्तानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति? अनालयलीनानि सुभूते तानि चित्तानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति? अग्राह्याणि सुभूते तानि चित्तानि प्रग्रहीतव्यानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति? अस्वभावानि सुभूते तानि चित्तानि असत्संकल्पानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति? अभावगतिकानि सुभूते तानि चित्तानि अनाभोगानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य सरागता, न सा चित्तस्य यथाभूतता। या चित्तस्य यथाभूतता, न सा चित्तस्य सरागता। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य सरागता। या वीतरागस्य चित्तस्य यथाभूतता, न सा चित्तस्या सरागता। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य सदोषता, न सा चित्तस्य यथाभूतता। या चित्तस्य यथाभूतता, न सा चित्तस्य सदोषता। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वीतदोषाणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वीतदोषाणि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य सदोषता। या वीतदोषस्य चित्तस्य यथाभूतता, न सा चित्तस्य सदोषता। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वितदोषाणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य समोहता, न सा चित्तस्य यथाभूतता। या चित्तस्य यथाभूतता, न सा चित्तस्य समोहता। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य समोहता। या वीतमोहस्य चित्तस्य यथाभूतता, न सा चित्तस्य समोहता। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तान्यविपुलानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तानि अविपुलानि चित्तानीति यथाभूतं प्रजानाति? असमुत्थानयोगानि सुभूते तानि चित्तानि असमुत्थानपर्यापन्नानि। एवं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तान्यविपुलानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति? न हीयन्ते सुभूते तानि चित्तानि, न विवर्धन्ते तानि चित्तानि, न विगच्छन्ति तानि चित्तानि, अविगमत्वादेव चित्तानाम्। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानाममहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति? अनागतिकानि सुभूते तानि चित्तानि अगतिकानि अपर्यापन्नानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानाममहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति? समतासमानि सुभूते तानि चित्तानि स्वभावसमानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तान्यप्रमाणानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तान्यप्रमाणानि चित्तानीति यथाभूतं प्रजानाति? अनिश्रयत्वात्सुभूते तानि चित्तान्यप्रमाणानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तानि अप्रमाणानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति? समदर्शनानि सुभूते तानि चित्तानि चित्तस्वभावानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति? अलक्षणत्वादर्थविविक्तत्वात्सुभूते अदृश्यं तच्चित्तं त्रयाणां चक्षुषां सर्वेषां वा अनवभासगतम्। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति? असत्संकल्पितानि सुभूते तानि चित्तानि, शून्यान्यारम्बणवशिकानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति? अद्वयभूतानि सुभूते तानि चित्तानि अभूतसंभूतानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तराणि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तरानि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते सोत्तरस्य चित्तस्य यथाभूतता, न तत्रास्ति मन्यमानता। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तराणि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति? अण्वपि हि सुभूते चित्तमनुपलब्धम्। ततो निष्प्रपञ्चानि तानि चित्तानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति? असमसमानि हि सुभूते तानि चित्तानि असमवहितानि, एवमसमाहितानि तानि चित्तानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति? समसमानि हि सुभूते तानि चित्तानि समवहितानि। एवं समाहितानि चित्तान्याकाशसमानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति? स्वभावविमुक्तानि सुभूते तानि चित्तानि अभावस्वभावानि। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति? चित्तः हि सुभूते तथागतेन न अतीतमुपलब्धं न अनागतम्, न प्रत्युत्पन्नमुपलब्धम्, असत्त्वाच्चित्तस्य। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति? असत्त्वात्सुभूते अदृश्यं तच्चित्तम्। अभूतत्वादविज्ञेयम्, अपरिनिष्पत्तितोऽग्राह्यं प्रज्ञाचक्षुषा दिव्येन चक्षुषा। कुतः पुनर्मांसचक्षुषा? सर्वेषामनवभासगतत्वात्। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति। एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणासंख्येयानां परसत्त्वानां परपुद्गलानामुन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति। कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयाणां परसत्त्वानां परपुद्गलानामुन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति? सर्वाणि तानि सुभूते रूपनिश्रितानि उत्पद्यमानान्युत्पद्यन्ते इति यथाभूतं प्रजानाति। एवं वेदना संज्ञा संस्काराः। सर्वाणि तानि विज्ञाननिश्रितानि उत्पद्यमानान्युत्पद्यन्ते इति यथाभूतं प्रजानाति। तत्र सुभूते कथं तथागतेन तान्युन्मिञ्जितनिमिञ्जितानि रूपनिश्रितानि विज्ञातानि भवन्ति? एवं वेदना संज्ञा संस्काराः? कथं तथागतेन तान्युन्मिञ्जितनिमिञ्जितानि विज्ञाननिश्रितानि विज्ञातानि भवन्ति? भवति तथागतः परं मरणादिति रूपगतमेतत्। न भवति तथागतः परं मरणादिति रूपगतमेतत्। भवति च न भवति च तथागतः परं मरणादिति रूपगतमेतत्। नैव भवति न न भवति तथागतः परं मरणादिति रूपगतमेतत्। एवं वेदना संज्ञा संस्काराः। भवति तथागतः परं मरणादिति विज्ञानगतमेतत्। न भवति तथागतः परं मरणादिति विज्ञानगतमेतत्। भवति च न भवति च तथागतः परं मरणादिति विज्ञानगतमेतत्। नैव भवति न न भवति तथागतः परं मरणादिति विज्ञानगतमेतत्। शाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। अशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। शाश्वतश्च अशाश्वत आत्मावलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। नैव शाश्वतो नाशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। एवं वेदना संज्ञा संस्काराः। शाश्वत आत्मावलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। अशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। शाश्वतश्चाशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। नैव शाश्वतो नाशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। अन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। अनन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत्।



अन्तवांश्च अनन्तवांश्चात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। नैवान्तवान् नानन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। एवं वेदना संज्ञा संस्काराः। अन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। अनन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। अन्तवांश्च अनन्तवांश्चात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। नैवान्तवान् नानन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। स जीवस्तच्छरीरमिदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। अन्यो जीवोऽन्यच्छरीरमिदमेव सत्यं मोहमन्यदिति रूपगतमेतत्। एवं वेदना संज्ञा संस्काराः। स जीवस्तच्छरीरमिदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। अन्यो जीवोऽन्यच्छरीरमिदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत्। एवं हि सुभूते तथागतेनार्हता सम्यक्संबुद्धेन इमां प्रज्ञापारमितामागम्य अप्रमेयाणासंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि रूपनिश्रितानि विज्ञातानि भवन्ति। एवं वेदना संज्ञा संस्काराः। तान्युन्मिञ्जितनिमिञ्जितानि विज्ञाननिश्रितानि विज्ञातानि भवन्ति॥



पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणाममसंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति। इह सुभूते तथागतो रूपं जानाति। कथं च सुभूते तथागतो रूपं जानाति? तथा सुभूते तथागतो रूपं जानाति, यथा तथता। एवं हि सुभूते तथागतो रूपं जानाति। एवं वेदना संज्ञा संस्काराः। इह सुभूते तथागतो विज्ञानं जानाति। कथं च सुभूते तथागतो विज्ञानं जानाति? तथा सुभूते तथागतो विज्ञानं जानाति, यथा तथता। एवं हि सुभूते तथागतो विज्ञानं जानाति। एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति। एवं हि सुभूते तथागतस्तथागततथतया च स्कन्धतथतया च उन्मिञ्जितनिमिञ्जिततथतया च तथतां प्रज्ञपयति। यैव च सुभूते स्कन्धतथता, सैव लोकस्यापि तथता। तत्कस्य हेतोः? उक्तं ह्येतत्सुभूते तथागतेन-पञ्च स्कन्धा लोक इति संज्ञाताः इति। तस्मात्तर्हि सुभूते या स्कन्धतथता, सा लोकतथता। या लोकतथता, सा सर्वधर्मतथता।



या सर्वधर्मतथता, सा स्रोतआपत्तिफलतथता। या स्रोतआपत्तिफलतथता, सा सकृदागामिफलतथता। या सकृदागामिफलतथता, सा अनागामिफलतथता। या अनागमिफलतथता, सा अर्हत्त्वफलतथता। या अर्हत्त्वफलतथता, सा प्रत्येकबुद्धत्वतथता। या प्रत्येकबुद्धत्वतथता, सा तथागततथता। इति हि तथागततथता च स्कन्धतथता च सर्वधर्मतथता च सर्वार्यश्रावकप्रत्येकबुद्धतथता च एकैवैषा तथता अनेकभावाभावापगता अनेकत्वादनानात्वादक्षयत्वादविकारत्वादद्वयत्वादद्वैधीकारत्वात्। एवमेषा सुभूते तथता तथागतेन प्रज्ञापारमितामागम्य अभिसंबुद्धा। एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री। एवं हि सुभूते तथागतोऽस्य लोकस्य लोकं संदर्शयति। एवं चास्य लोकस्य दर्शनं भवति-एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानां माता जननी जनयित्री। एवं हि सुभूते तथागतस्तथतामभिसंबुध्य लोकस्य तथतां जानाति, अवितथतां जानाति, अनन्यतथतां जानाति। एवं च सुभूते तथागतस्तथतामभिसंबुद्धः संस्तथागत इत्युच्यते॥



स्थविरः सुभूतिराह-गम्भीरा भगवंस्तथता। अतो भगवंस्तथतातो बुद्धानां भगवतां बोधिः प्रभाव्यते प्रकाश्यते। कोऽत्र भगवन् अन्योऽधिमोक्ष्यतेऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वोऽर्हन् वा परिपूर्णसंकल्पो दृष्टिसंपन्नो वा पुद्गलः? तथा हि भगवन् इमानि स्थानानि परमगम्भीराणि तथागतेनाभिसंबुध्य आख्यातानि। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। परमगम्भीराणीमानि स्थानानि तथागतेनाभिसंबुध्य आख्यातानि। तथा हि सुभूते अक्षयैषा तथता, या तथागतेनाभिसंबुद्धा, अभिसंबुध्य अक्षयाक्षयैवाख्याता॥



अथ खलु शक्रदेवेन्द्रप्रमुखाः कामावचरा रूपावराश्च देवपुत्रा ब्रह्मकायिकानां च विंशतिदेवपुत्रसहस्राणि येन भगवांस्तेनोपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तस्थुः। एकान्तस्थिताश्च ते कामावचरा रूपावचराश्च देवपुत्रा भगवन्तमेतदवोचन्-गम्भीरा भगवन् धर्माः प्रकाश्यन्ते। कथं भगवन् अत्र लक्षणानि स्थाप्यन्ते? भगवानाह-शून्यमिति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते। आनिमित्तमिति अप्रणिहितमिति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते। अनभिसंस्कार इति अनुत्पाद इति अनिरोध इति असंक्लेश इति अव्यवदानमिति अभाव इति निर्वाणमिति धर्मधातुरिति तथतेति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते। तत्कस्य हेतोः? अनिश्रितानि हि देवपुत्रा एतानि लक्षणानि। आकाशसदृशानि हि देवपुत्रा एतानि लक्षणानि। नैतानि लक्षणानि तथागतेनार्हता सम्यक्संबुद्धेन स्थापितानि। नैतानि लक्षणानि रूपसंख्यातानि। एवं न वेदनासंज्ञासंस्कारविज्ञानसंख्यातानि। नैतानि लक्षणानि रूपनिश्रितानि, न वेदनासंज्ञासंस्कारविज्ञाननिश्रितानि। नैतानि लक्षणानि देवैर्वा नागैर्वा मनुष्यैर्वा अमनुष्यैर्वा स्थापितानि। नैतानि लक्षणानि सदेवमानुषासुरेण लोकेन शक्यानि चालयितुम्। तत्कस्य हेतोः? सदेवमानुषासुरोऽपि हि लोक एतल्लक्षण एव। नाप्येतानि लक्षणानि केनापि हस्तेन स्थापितानि। यो देवपुत्रा एवं वदेत्-इदमाकाशं केनापि स्थापितमिति, अपि नु स देवपुत्राः सम्यग्वदन् वदेत्? एवमुक्ते कामावचरा रूपावराश्च देवपुत्रा भगवन्तमेतदवोचन्-न भगवन् आकाशं केनचित्स्थापितम्। तत्कस्य हेतोः? असंस्कृतत्वाद्भगवन् आकाशस्य नाकाशं केनचित्स्थापितम्॥



अथ खलु भगवांस्तान् कामावचरान् रूपावरांश्च देवपुत्रानामन्त्रयते स्म-एवमेतद्देवपुत्राः। उत्पादाद्वा तथागतानामनुत्पादाद्वा तथैवैतानि लक्षणानि स्थितानि। तत्कस्य हेतोः? यथैतानि हि स्थितानि, तथाभूतानि तथागतेनाभिसंबुध्य आख्यातानि। तस्माद्देवपुत्रास्तथागतस्तथागत इत्युच्यते॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-गम्भीराणि भगवन् इमानि लक्षणानि तथागतेनाभिसंबुद्धानि। तथागतानां चासङ्गज्ञानं यदुत प्रज्ञापारमिता। असङ्गज्ञानाय प्रज्ञापारमिता तथागतानां गोचरः। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री। यथा सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा इमां धर्मं प्रज्ञापारमितामुपनिश्रित्य विहरन्ति, तथैवैते धर्माः सदा स्थिताः, अस्थानतस्तथागतैरभिसंबुद्धाः। अतस्ते धर्ममेवोपनिश्रित्य विहरन्ति, धर्मं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्त्यर्चयन्त्यपचायन्ति। प्रज्ञापारमितैवैषा सुभूते धर्माणां धर्मतेति तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञापारमितां सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्त्यर्चयन्त्यपचायन्ति। तत्कस्य हेतोः? अतो हि सुभूते प्रज्ञापारमितातस्तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञतायाः प्रभावना भवति। कृतज्ञाः कृतवेदिनश्च तथागता अर्हन्तः सम्यक्संबुद्धाः।



यत्खलु सुभूते सम्यग्वदन्तो वदेयुः-कृतज्ञः कृतवेदीति, तत्तथागतं हि ते सम्यग्वदन्तो वदन्ति-कृतज्ञः कृतवेदीति। यत्खलु सुभूते तथागतोऽर्हन् सम्यक्संबुद्धो येन येन यानेनागतः, यया यया प्रतिपदा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, तथागतस्तदेव यानं तामेव प्रतिपदमनुगृह्णीते अनुपरिपालयति, तयैव कृतज्ञतया कृतवेदितया। इयं सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या। पुनरपरं सुभूते तथागतेन सर्वधर्मा अकृता अकृता इत्यभिसंबुद्धाः, अविकृता अविकृता इत्यमिसंबुद्धाः, अनभिसंस्कृता अनभिसंस्कृता इत्यभिसंबुद्धाः। इयमपि सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या। प्रज्ञापारमितां ह्यागम्य सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य एवं सर्वधर्मेषु ज्ञानं प्रवृत्तम्। अनेनापि सुभूते पर्यायेण प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यदा भगवन् सर्वधर्मा अजानका अपश्यकाः, तदा कथं भगवन् प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-साधु साधु सुभूते, यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिप्रश्नीकर्तव्यं मन्यसे। सुभूतिरेवमाह-सर्वधर्मा अजानका अपश्यका इति। एवमेतत्सुभूते, एवमेतत्। सर्वधर्मा अजानका अपश्यकाः। कथं सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्मा हि सुभूते शून्याः। सर्वधर्मा हि सुभूते अनिश्रिताः। एवं हि सुभूते सर्वधर्मा अजानका अपश्यकाः। एवमेते सुभूते सर्वधर्माः प्रज्ञापारमितामागम्य तथागतैरभिसंबुद्धाः। एवमपि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री रूपस्यादृष्टत्वात्। एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यादृष्टत्वात्संदर्शयित्री। एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री भवति॥



सुभूतिराह-कथं भगवन् रूपस्यादृष्टता भवति? कथं वेदनायाः संज्ञायाः संस्काराणाम्? कथं भगवन् विज्ञानस्यादृष्टता भवति? भगवानाह-यदि सुभूते न रूपारम्बणं विज्ञानमुत्पद्यते, एवं रूपस्यदृष्टता भवति। एवं वेदना संज्ञा संस्काराः। यदि सुभूते न विज्ञानारम्बणं विज्ञानमुत्पद्यते, एवं विज्ञानस्यादृष्टता भवति। या च सुभूते रूपस्यादृष्टता, या च वेदनायाः संज्ञायाः संस्काराणाम्, या च सुभूते विज्ञानस्यादृष्टता, सैव लोकस्य दृष्टता भवति। एवं हि सुभूते लोकस्तथागतेन दृष्टो भवति। एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री। कथं च सुभूते प्रज्ञापारमिता लोकं संदर्शयति? इति लोकः शून्य इति लोकं सूचयति, एवं प्रज्ञापयति, एवं लोकं संदर्शयति। इति लोकोऽचिन्त्य इति, लोकः शान्त इति, लोको विविक्त इति लोकविशुद्ध्या लोकं सूचयति। एवं लोकं प्रज्ञापयति, एवं संदर्शयतीति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां लोकसंदर्शनपरिवर्तो नाम द्वादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project