Digital Sanskrit Buddhist Canon

११ मारकर्मपरिवर्त एकादशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

11 mārakarmaparivarta ekādaśaḥ

११ मारकर्मपरिवर्त एकादशः।



अथ खलु आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-गुणा इमे भगवंस्तेषां कुलपुत्राणां कुलदुहितॄणां च भगवता परिकीर्तिताः। केचित्पुनर्भगवंस्तेषामन्तराया उत्पत्स्यन्ते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-बहूनि सुभूते तेषां मारकर्माण्यन्तरायकराण्युत्पस्यन्ते। सुभूतिराह-कियद्रूपाणि भगवंस्तेषां बहूनि मारकर्माण्यन्तरायकराण्युत्पत्स्यन्ते? भगवानाह-तेषां सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां भाषमाणानां चिरेण प्रतिभानमुत्पत्स्यते। इदं सुभूते प्रथमं मारकर्म वेदितव्यम्। तदपि च प्रतिभानं जायमानमेव विक्षेप्स्यते। इदमपि सुभूते मारकर्म वेदितव्यम्। ते विजृम्भमाणा हसन्त उच्चग्घयन्तो लिखिष्यन्ति। इदमपि सुभूते मारकर्म वेदितव्यम्। विक्षिप्तचित्ताः पर्यवाप्स्यन्ति। इदमपि सुभूते मारकर्म वेदितव्यम्। अन्योन्यविज्ञानसमङ्गिनो लिखिष्यन्ति। इदमपि सुभूते मारकर्म वेदितव्यम्। स्मृतिं न प्रतिलप्स्यन्ते। इदमपि सुभूते मारकर्म वेदितव्यम्। परस्परमुपहसन्तो लिखिष्यन्ति। इदमपि सुभूते मारकर्म वेदितव्यम्। परस्परमुच्चग्घयमाना लिखिष्यन्ति। इदमपि सुभूते मारकर्म वेदितव्यम्। विक्षिप्तचक्षुषो लिखिष्यन्ति। इदमपि सुभूते मारकर्म वेदितव्यम्। लिखतामन्योन्यं विसामग्री भविष्यति। इदमपि सुभूते मारकर्म वेदितव्यम्। न वयमत्र गाधं नास्वादं लभामहे इत्युत्थायासनात्प्रक्रमिष्यन्ति। इदमपि सुभूते मारकर्म वेदितव्यम्।



न वयमत्र व्याकृताः प्रज्ञापारमितायामित्यप्रसन्नचित्ता उत्थायासनात्प्रक्रमिष्यन्ति। इदमपि सुभूते मारकर्म वेदितव्यम्। न नोऽत्र ग्रामस्य वा नगरस्य वा निगमस्य वा नामधेयं परिगृहीतं यत्र नो जन्म, न नोऽत्र नाम गोत्रं वा गृहीतम्, न मातापित्रोर्नाम गोत्रं वा गृहीतम्, नापि कुलस्य यत्र नो जन्मेति, ते प्रज्ञापारमितां न श्रोतव्यां मंस्यन्ते, ततोऽपक्रमितव्यं मंस्यन्ते। यथा यथा च अपक्रमिष्यन्ति, तैर्यावद्भिश्चित्तोत्पादैस्तथा तथा तावतः कल्पान् संसारस्य पुनः पुनः परिग्रहीष्यन्ति, यत्र तैः पुनरेव योगमापत्तव्यं भविष्यति। तत्कस्मात्? इमां हि सुभूते प्रज्ञापारमितामशृण्वन्तो बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरेषु धर्मेषु न निर्जायन्ते। इदमपि सुभूते तेषां मारकर्म वेदितव्यम्। पुनरपरं सुभूते बोधिसत्त्वयानिकाः पुद्गला इमां प्रज्ञापारमितां सर्वज्ञज्ञानस्याहारिकां विवर्ज्य उत्सृज्य ये ते सूत्रान्ता नैव सर्वज्ञज्ञानस्याहारिकास्तान् पर्येषितव्यान् मंस्यन्ते। इदमपि सुभूते तेषां मारकर्म वेदितव्यम्।



यथा खलु पुनः सुभूते न लौकिकलोकोत्तरेषु शिक्षितुकामा न लौकिकलोकोत्तरेषु धर्मेषु निर्यातुकामा इह प्रज्ञापारमितायां न शिक्षन्ते। प्रज्ञापारमितायामशिक्षमाणा न लौकिकलोकोत्तरेषु धर्मेषु निर्यान्ति। एवं ते परीत्तबुद्धयो लौकिकलोकोत्तराणां यथाभूतपरिज्ञाया मूलं प्रज्ञापारमितां विवर्ज्य उत्सृज्य प्रशाखामध्यालम्बितव्यां मंस्यन्ते। तद्यथापि नाम सुभूते कुक्कुरः स्वामिनोऽन्तिकात्पिण्डांश्छोरयित्वा कर्मकरस्यान्तिकात्कवलं पर्येषितव्यं मन्येत, एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वयानिकाः, पुद्गलाः, ये इमां प्रज्ञापारमितां सर्वज्ञज्ञानस्य मूलं छोरयित्वा शाखापत्रपलालभूते श्रावकप्रत्येकबुद्धयाने सारं वृद्धत्वं पर्येषितव्यं मंस्यन्ते। इदमपि सुभूते तेषां मारकर्म वेदितव्यम्। तत्कस्य हेतोः? न हि तेऽल्पबुद्धयो ज्ञास्यन्ति-प्रज्ञापारमिता आहारिका सर्वज्ञज्ञानस्येति। ते प्रज्ञापारमितां विवर्ज्य उत्सृज्य छोरयित्वा ततोऽन्ये सूत्रान्ता ये श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति, तानधिकतरं पर्यवाप्तव्यान् मंस्यन्ते। शाखापत्रपलालोपमाः प्रतिपन्नास्ते तथारूपा बोधिसत्त्वा वेदितव्याः। तत्कस्य हेतोः? न हि सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यं यथा श्रावकयानिकाः प्रत्येकबुद्धयानिका वा पुद्गलाः शिक्षन्ते। कथं च सुभूते श्रावकयानिकाः प्रत्येकबुद्धयानिका वा पुद्गलाः शिक्षन्ते? तेषां सुभूते एवं भवति-एकमात्मानं दमयिष्यामः, एकमात्मानं शमयिष्यामः, एकमात्मानं परिनिर्वापयिष्यामः, इत्यात्मदमशमथपरिनिर्वाणाय सर्वकुशलमूलाभिसंस्कारप्रयोगानारभन्ते। न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यम्। अपि तु खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यम्-आत्मानं च तथतायां स्थापयिष्यामि सर्वलोकानुग्रहाय, सर्वसत्त्वानपि तथतायां स्थापयिष्यामि, अप्रमेयं सत्त्वधातुं परिनिर्वापयिष्यामीति। सर्वकुशलमूलाभिसंस्कारप्रयोगा बोधिसत्त्वेन महासत्त्वेनैवमारब्धव्याः, न च तैर्मन्तव्यम्। तद्यथापि नाम सुभूते कश्चिदेव पुरुषो हस्तिनमपश्यन् हस्तिनो वर्णसंस्थाने पर्येषेत। सोऽन्धकारे हस्तिनं लब्ध्वा येन प्रकाशं तेनोपनिध्यायेत। तेनोपनिध्यायन् हस्तिपदं पर्येषितव्यं मन्येत।



हस्तिपदाच्च हस्तिनो वर्णसंस्थाने ग्रहीतव्ये मन्येत। तत्किं मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरूषो भवेत्? सुभूतिराह-नो हीदं भगवन्। भगवानाह-एवमेव सुभूते तथारूपास्ते बोधिसत्त्वयानिकाः पुद्गला वेदितव्याः, य इमां प्रज्ञापारमितामजानाना अपरिपृच्छन्तस्तां छोरयित्वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामा ये ते सूत्रान्ताः श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति, तान् पर्येषितव्यान् मंस्यन्ते। इदमपि सुभूते तेषां मारकर्म वेदितव्यम्। तद्यथापि नाम सुभूते रत्नार्थिकः पुरुषो महासमुद्रं दृष्ट्वा नावगाहेत, रत्नानि न निध्यायेत् नाध्यालम्बेत। स रत्नहेतोर्गोष्पदं पर्येषितव्यं मन्येत। स गोष्पदोदकेन महासमुद्रं समीकर्तव्यं मन्येत। तत्किं मन्यसे सुभूते-अपि नु स पण्डितजातीयः पुरुषो वेदितव्यः? सुभूतिराह-नो हीदं भगवन्। भगवानाह-एवमेव सुभूते तथारूपास्ते बोधिसत्त्वयानिकाः पुद्गला वेदितव्याः, य इमां गम्भीरां प्रज्ञापारमितां लब्ध्वाप्यनवगाहमाना अविजानन्तस्तक्ष्यन्ति। ये च सूत्रान्ताः श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति अल्पोत्सुकविहारितया तान् पर्येषितव्यान् मंस्यन्ते। यत्र बोधिसत्त्वयानं न संवर्ण्यते, केवलमात्मदमशमथपरिनिर्वाणमेव इत्यपि प्रतिसंलयनमिति। स्रोतआपत्तिफलं प्राप्नुयामिति, सकृदागामिफलमित्यनागामिफलमित्यर्हत्त्वं प्राप्नुयामिति, प्रत्येकबोधिं प्राप्नुयामिति, दृष्ट एव धर्मे अनुपादाय आस्रवेभ्यश्चित्तं विमोच्य परिनिर्वापयामिति। इदमुच्यते श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तमिति। नात्र बोधिसत्त्वैर्महासत्त्वैरेवं चित्तमुत्पादयितव्यम्। तत्कस्य हेतोः? महायानसंप्रस्थिता हि सुभूते बोधिसत्त्वा महासत्त्वा महासंनाहसंनद्धा भवन्ति। न तैः कदाचिदल्पोत्सुकतायां चित्तमुत्पादयितव्यम्।



तत्कस्य हेतोः? लोकपरिणायका हि भवन्ति ते सत्पुरुषा लोकार्थकराः। तस्मात्तैर्नित्यकालं सततसमितं षट्पारमितासु शिक्षितव्यम्। ये च खलु पुनः सुभूते अपरिपक्वकुशलमूलाः परीत्तकुबुद्धिका मृदुकाध्याशया बोधिसत्त्वयानिकाः पुद्गलाः, ते षट्पारमिताप्रतिसंयुक्तान् सूत्रान्तानजानाना अनवबुद्ध्यमाना इमां प्रज्ञापारमितां छोरयित्वा ये ते सूत्रान्ताः श्रावकप्रत्येकबुद्धभूमिमभिवन्दन्ति, तान् पर्येषितव्यान् मंस्यन्ते। इदमपि सुभूते मारकर्म वेदितव्यं तेषां तथारूपाणां बोधिसत्त्वयानिकानां पुद्गलानाम् तद्यथापि नाम सुभूते पलगण्डो वा पलगण्डान्तेवासी वा वैजयन्तस्य प्रासादस्य प्रमाणेन प्रासादं कर्तुकामो निर्मातुकामः स्यात्। स सूर्याचन्द्रमसोर्विमानप्रमाणं मण्डलं पर्येषेत। पर्येषमाणः स सूर्याचन्द्रमसोर्विमानं पश्येत्। स ततः प्रमाणं ग्रहीतव्यं मन्यते। तत्किं मन्यसे सुभूते वैजयन्तप्रासादप्रमाणं प्रासादं कर्तुकामेन निर्मातुकामेन सूर्याचन्द्रमसोर्विमानात्प्रमाणं ग्रहीतव्यं भवति? सुभूतिराह-नो हीदं भगवन्। भगवानाह-एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, ये प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते, ये ते सूत्रान्ता एवमभिवदन्ति-एकमात्मानं दमयिष्यामः, एकमात्मानं शमयिष्यामः, एकमात्मानं परिनिर्वापयिष्याम इति। केवलमात्मदमशमथपरिनिर्वाणमेवोपनयन्ति, तथारूपान् सूत्रान्तान् पर्येष्यन्ते, तथा च शिक्षितव्यं मंस्यन्ते। तत्किं मन्यसे सुभूते अपि नु ते पण्डितजातीयाः बोधिसत्त्वा वेदितव्याः? सुभूतिराह-नो हीदं भगवन्। भगवानाह-इदमपि सुभूते तेषां मारकर्म वेदितव्यम्। तद्यथापि नाम सुभूते कश्चिदेव पुरुषो राजानं च चक्रवर्तिनं भ्रष्टुकामो भवेत्, स राजानं चक्रवर्तिनं पश्येत्। दृष्ट्वा च ईदृशो राजा चक्रवर्ती वर्णेन संस्थानेन तेजसा ऋद्ध्या चेति निमित्तं गृहीत्वा कोट्टराजं पश्येत्। स तस्य कोट्टराजस्य वर्णं संस्थानं तेज ऋद्धिं च निमित्तं च गृहीत्वा अप्रतिबलो विशेषग्रहणं प्रति एवं वदेत्-ईदृश एव स राजा चक्रवर्ती वर्णेन संस्थानेन तेजसा ऋद्ध्या च निमित्तेन चेति। तत्किं मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरुषो वेदितव्यो यश्चक्रवर्तिनं कोट्टराजेन समीकर्तव्यं मन्येत? सुभूतिराह-नो हीदं भगवन्।



भगवानाह-एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, य इमां प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते। इदमपि सुभूते तेषां मारकर्म वेदितव्यम्। न खलु पुनरहं सुभूते एभिरेवंरूपैः श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैर्बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञतां पर्येषितव्यां वदामि। अपि तु खलु पुनः सुभूते यत्तथागतेन प्रज्ञापारमितायां बोधिसत्त्वानां महासत्त्वानामुपायकौशल्यमाख्यातम्, तत्राशिक्षित्वा बोधिसत्त्वो महासत्त्वो न निर्यास्यत्यनुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? धन्धको ह्यन्येषु सूत्रान्तेषु बोधिसत्त्वसमुदागमः। तस्मात्तर्हि सुभूते तथागत एनामनुशंसां प्रज्ञापारमितायां पश्यन् अनेकपर्यायेण बोधिसत्त्वान् महासत्त्वानस्यां प्रज्ञापारमितायां संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति संनिवेशयति प्रतिष्ठापयति-एवं बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेरिति। तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वाः प्रतिभान्ति, ये अविनिवर्तनीययानं महायानमवाप्य समासाद्य पुनरेव तद्विवर्ज्य विवर्त्य हीनयानं पर्येषितव्यं मंस्यन्ते? सुभूतिराह-नो हीदं भगवन्। भगवानाह-तद्यथापि नाम सुभूते बुभुक्षितः पुरुषः शतरसं भोजनं लब्ध्वा हितविपाकं सुखविपाकं यावदायुःपर्यन्तं क्षुत्पिपासानिवर्तकम्, तदपास्य षष्टिकोदनं पर्येषितव्यं मन्येत। षष्टिकोदनं लब्ध्वा शतरसं भोजनमुत्सृज्य विवर्ज्य तं षष्टिकोदनं परिभोक्तव्यं मन्येत।



तत्किं मन्यसे सुभूते अपि नु स पुरुषः पण्डितजातीयो भवेत्? सुभूतिराह-नो हीदं भगवन्। भगवानाह-एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वाः, य इमां प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चिष्यन्ति, प्रज्ञापारमितामुत्स्रक्ष्यन्ति प्रज्ञापारमितां छोरयिष्यन्ति, प्रज्ञापारमितां दूरीकरिष्यन्ति, प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य प्रज्ञापारमितां छोरयित्वा प्रज्ञापारमितां दूरीकृत्य ततः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तान् सूत्रान्तान् पर्येषितव्यान् मंस्यन्ते। ये ते सूत्रान्ताः श्रावकप्रत्येकबुद्धभूमिमभिवदन्ति, तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते। तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वा वेदितव्याः? सुभूतिराह-नो हीदं भगवन्। भगवानाह-इदमपि सुभूते तेषां मारकर्म वेदितव्यम्। तद्यथापि नाम सुभूते कश्चिदेव पुरुषोऽनर्ध्यं मणिरत्नं लब्ध्वा अल्पार्ध्येण अल्पसारेण मणिरत्नेन सार्धं समीकर्तव्यं मन्येत। तत्किं मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरुषो वेदितव्यः? सुभूतिराह-नो हीदं भगवन्। भगवानाह-एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, य इदं गम्भीरं प्रभास्वरं प्रज्ञापारमितारत्नं लब्ध्वा श्रुत्वा श्रावकप्रत्येकबुद्धयानेन समीकर्तव्यं मंस्यन्ते, श्रावकप्रत्येकबुद्धभूमौ च सर्वज्ञतामुपायकौशल्यं च पर्येषितव्यं मंस्यन्ते। तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वा वेदितव्याः? सुभूतिराह-नो हीदं भगवन्। भगवानाह-इदमपि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्। पुनरपरं सुभूते अस्यां गम्भीरायां प्रज्ञापारमितायां भास्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायामुद्गृह्यमाणायां वाच्यमानायां स्वाध्याय्यमानायामन्तशो लिख्यमानायामपि बहूनि प्रतिभानान्युत्पत्स्यन्ते, यानि चित्तविक्षेपं करिष्यन्ति। इदमपि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-शक्या पुनर्भगवन् प्रज्ञापारमिता लिखितुम्? भगवानाह-नो हीदं सूभूते। ये केचित्सुभूते प्रज्ञापारमितां लिप्यक्षरैर्लिखित्वा प्रज्ञापारमिता लिखितेति मंस्यन्ते, असतीति वा अक्षरेषु प्रज्ञापारमितामभिनिवेक्ष्यन्ते, अनक्षरेति वा, इदमपि सुभूते तेषां मारकर्म वेदितव्यम्॥



पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां देशमनसिकारा उत्पत्स्यन्ते, ग्रामनगरनिगमजनपदराष्ट्रराजधानीमनसिकारा उत्पत्स्यन्ते, उद्यानमनसिकारा उत्पत्स्यन्ते, गुरुमनसिकारा उत्पत्स्यन्ते, आख्यानमनसिकारा उत्पत्स्यन्ते, चौरमनसिकारा उत्पत्स्यन्ते, गुल्मस्थानमनसिकारा उत्पत्स्यन्ते, विशिखामनसिकारा उत्पत्स्यन्ते, शिबिकामनसिकारा उत्पत्स्यन्ते, सुखमनसिकारा उत्पत्स्यन्ते, दुःखमनसिकारा उत्पत्स्यन्ते, भयमनसिकारा उत्पत्स्यन्ते, स्त्रीमनसिकारा उत्पत्स्यन्ते, पुरुषमनसिकारा उत्पत्स्यन्ते, नपुंसकमनसिकारा उत्पत्स्यन्ते, प्रियाप्रियव्यत्यस्तमनसिकारा उत्पत्स्यन्ते, मातापितृप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, भ्रातृभगिनीप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, मित्रबान्धवसालोहितामात्यप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, प्रजापतिपुत्रदुहितृप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, गृहभोजनपानप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, चैलमनसिकारा उत्पत्स्यन्ते, शयनासनमनसिकारा जीवितमनसिकारा इतिकर्तव्यतामनसिकारा रागमनसिकारा द्वेषमनसिकारा मोहमनसिकारा ऋतुमनसिकारा सुकालमनसिकारा दुष्कालमनसिकारा गीतमनसिकारा वाद्यमनसिकारा नृत्यमनसिकारा काव्यनाटकेतिहासमनसिकाराः शास्त्रमनसिकारा व्यवहारमनसिकारा हास्यमनसिकारा लास्यमनसिकाराः शोकमनसिकारा आयासमनसिकारा आत्ममनसिकाराः, इत्येतांश्चान्यांश्च सुभूते मनसिकारान् मारः पापीयानुपसंहरिष्यति अस्यां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्गृह्यमाणायां वाच्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायामन्तशो लिख्यमानायामन्तरायं करिष्यति, चित्तविक्षेपं करिष्यति बोधिसत्त्वानां महासत्त्वानाम्। तत्र बोधिसत्त्वेन महासत्त्वेन मारकर्माणि बोद्धव्यानि। बुद्ध्वा च विवर्जयितव्यानि। पुनरपरं सुभूते उत्पत्स्यन्ते राजमनसिकाराः कुमारमनसिकाराहस्तिमनसिकारा अश्वमनसिकारा रथमनसिकारा गुल्मदर्शनमनसिकाराः। इदमपि सुभूते तेषां मारकर्म वेदितव्यम्। पुनरपरं सुभूते उत्पत्स्यन्ते अग्निमनसिकारा इच्छामनसिकारा धनधान्यसमृद्धिमनसिकाराः। इदमपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्॥



पुनरपरं सुभूते बोधिसत्त्वानां महासत्त्वानामुत्पत्स्यन्ते लाभसत्कारचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामन्तराया इमां प्रज्ञापारमितां भाषमाणानां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतामन्तशो लिखतां लाभसत्कारश्लोकस्वादाश्चित्तोत्पीडा वा। इदमपि सुभूते बोधिसत्त्वैर्महासत्त्वैर्मारकर्म वेदितव्यम्। एतानि तैः सर्वाणि मारकर्माणि बोद्धव्यानि, बुद्ध्वा च विवर्जयितव्यानि॥



पुनरपरं सुभूते बोधिसत्त्वानां महासत्त्वानामिमां प्रज्ञापारमितां भाषमाणानां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतामन्तशो लिखतां ये ते गम्भीरा गम्भीराः सूत्रान्ता भविष्यन्ति श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्ताः, तान् मारः पापीयान् भिक्षुवेषणोपसंक्रम्य उपसंहरिष्यति-इह शिक्षस्व, इदं लिख, इदमुद्दिश, इदं स्वाध्याय, इतः सर्वज्ञता निष्पत्स्यते इति। न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन उपायकुशलेन तेभ्यः स्पृहोत्पादयितव्या। तत्कस्य हेतोः? किं चापि सुभूते तेषु सूत्रान्तेषु शून्यतानिमित्ताप्रणिहितानि भाषितानि, न खलु पुनरुपायकौशल्यं तत्र बोधिसत्त्वानां महासत्त्वानामाख्यातम्। तत्र येऽनभिज्ञा भविष्यन्ति बोधिसत्त्वा उपायकौशल्यज्ञानविशेषस्य, ते इमां गम्भीरां प्रज्ञापारमितां रिञ्चितव्यां मंस्यन्ते। ते इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तेषु सूत्रान्तेषु उपायकौशल्यं पर्येषितव्यं मंस्यन्ते। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्॥



पुनरपरं सुभूते धार्मश्रवणिकश्छन्दिको भविष्यति प्रज्ञापारमितामुद्ग्रहीतुकामः, धर्मभाणकश्च किलासी भविष्यति न धर्मं देशयितुकामः। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम्। पुनरपरं सुभूते धर्मभाणकश्च अकिलासी भविष्यति प्रज्ञापारमितां दातुकामः, धार्मश्रवणिकश्च किलासी वा बहुकृत्यो वा भविष्यति। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम्। पुनरपरं सुभूते धार्मश्रवणिकश्छन्दिको भविष्यति प्रज्ञापारमितामुद्ग्रहीतुकामो धारयितुकामो वाचयितुकामः पर्यवाप्तुकामः प्रवर्तयितुकामोऽन्तशो लिखितुकामोऽपि भविष्यति, गतिमांश्च मतिमांश्च स्मृतिमांश्च भविष्यति। धर्मभाणकश्चान्यद्देशान्तरं क्षेप्स्यते नोद्धट्टितज्ञो वा न वा विपञ्चितज्ञः, अनभिज्ञो वा भविष्यति। इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां शिक्ष्यमाणायामन्तशः लिख्यमानायाम्। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम्। पुनरपरं सुभूते धर्मभाणकश्च अकिलासी भविष्यत्यभिज्ञो दातुकामो वाचयितुकाम इमां प्रज्ञापारमिताम्, धार्मश्रवणिकश्च देशान्तरं प्रस्थितो भविष्यति नोद्धट्टितज्ञो वा न वा विपञ्चितज्ञोऽनभिज्ञो वा भविष्यति। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम्। पुनरपरं सुभूते धर्मभाणकश्च आमिषगुरुको लाभसत्कारचीवरगुरुको भविष्यति। धार्मश्रवणिकाश्च अल्पेच्छः संतुष्टः प्रविविक्तोऽर्थं वा न दातुकामो भविष्यति।



इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां शिक्ष्यमाणायां लिख्यमानायाम्। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्। पुनरपरं सुभूते धार्मश्रवणिकश्च श्राद्धो भविष्यति इमां प्रज्ञापारमितां श्रोतुकामोऽर्थमवबोद्धुकामोऽर्थं दातुकामोऽर्थं परित्यक्तुकामः। धर्मभाणकश्च अश्राद्धो भविष्यति अल्पेच्छो वा न वा भाषितुकामः। अतोऽपि सुभूते विसामग्रीमारकर्म वेदितव्यम्। पुनरपरं सुभूते धार्मश्रवणिकश्च श्राद्धो भविष्यति श्रोतुकामोऽर्थमवबोद्धुकामः। धर्मभाणकस्य च तानि सूत्राणि धर्मान्तरायिकतया न संभविष्यन्ति नावतरिष्यन्ति। अतोऽपि सुभूते धार्मश्रवणिकस्याप्राप्तधर्मभाणिनः प्रतिवाणी भविष्यति। इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतामन्तशो लिखताम्। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्। पुनरपरं सुभूते धर्मभाणकश्च भाषितुकामो भविष्यति। धार्मश्रवणिकश्च अच्छन्दिको भविष्यति श्रवणाय। इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितामुद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुमन्तशो लिखितुम्। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्। पुनरपरं सुभूते धार्मश्रवणिको मिद्धगुरुको भविष्यति, कायगुरुको भविष्यति। स तेन मिद्धगुरुकत्वेन समन्वागतः कायक्लमथेन समन्वागतो न श्रोतुकामो भविष्यति। धर्मभाणकश्च भाषितुकामो भविष्यति। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम्। पुनरपरं सुभूते धर्मभाणको मिद्धगुरुको भविष्यति, कायगुरुको भविष्यति। स तेन मिद्धगुरुकत्वेन समन्वागतः कायक्लमथेन समन्वागतो न भाषितुकामो भविष्यति। धार्मश्रवणिकश्च श्रोतुकामो भविष्यति। इयमपि सुभूते तत्र विसामग्री भविष्यति लिखनाय वाचनाय पर्यवाप्तये वा। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्॥



पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां शिक्ष्यमाणायां कश्चिदेव तत्रागत्य निरयाणामवर्णं भाषिष्यते, तिर्यग्योनेरवर्णं भाषिष्यते, प्रेतविषयस्यावर्णं भाषिष्यते, असुरकायानामवर्णं भाषिष्यते-एवंदुःखा निरयाः, एवंदुःखा तिर्यग्योनिः, एवंदुःखः प्रेतविषयः, एवंदुःखा आसुराः कायाः, एवंदुःखाः संस्काराः। इहैव दुःखस्यान्तः करणीय इति। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम्॥



पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां शिक्ष्यमाणायां वा कश्चिदेव तत्रागत्य देवानां वर्णं भाषिष्यते-एवंसुखिता देवाः, एवंसुखाः स्वर्गाः, एवं कामधातौ कामाः सेवितव्याः, एवं रूपधातौ ध्यानानि समापत्तव्यानि, एवमारूप्यधातौ तत्समापत्तयः समापत्तव्याः। तदपि च सर्वं प्रज्ञता विमृश्य सर्वैव दुःखोपपत्तिरिति। उक्तं हीदं भगवता-अच्छटासंघातमात्रकमप्यहं भिक्षवो भवाभिनिर्वृत्तिं न वर्णयामि। सर्वं हि संस्कृतमनित्यं सर्वं भयावगतं दुःखं सर्वं त्रैधातुकं शून्यं सर्वधर्मा अनात्मानः। तदेवं सर्वमशाश्वतमनित्यं दुःखं विपरिणामधर्मकं विदित्वा पण्डितैरिहैव स्रोतआपत्तिफलं प्राप्तव्यम्, सकृदागामिफलमनागामिफलम्, इहैवार्हत्त्वं प्राप्तव्यम्। मा नो भूयस्ताभिः संपत्तिविपत्तिभिर्दुःखभूयिष्ठाभिः समवधानं भूदिति। तत्रैके बोधिसत्त्वाः संवेगमापत्स्यन्ते। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम्॥



पुनरपरं सुभूते येऽपि ते भिक्षवो धर्मभाणकाः, ते एकाकिताभिरता भविष्यन्ति। येऽपि धार्मश्रवणिकास्तेऽपि पर्षुद्गुरुका भविष्यन्ति। तेऽपि धर्मभाणका एवं वक्ष्यन्ति-ये मामनुवर्त्स्यन्ति, तेभ्योऽहमिमां प्रज्ञापारमितां दास्यामि। ये मां नानुवर्त्स्यन्ति, तेभ्यो न दास्यामीति। एवं ते कुलपुत्राः कुलदुहितरश्च अर्थिकतया छन्दिकतया धर्मगौरवेण तं धर्मभाणकमनुवर्त्स्यन्ति, न चावकाशं दास्यन्ति, स च धर्मभाणक आमिषकिंचित्काभिलाषी, ते च न दातुकामाः। स च तेन तेन गमिष्यति, येन येन दुर्भिक्षश्च अयोगक्षेमश्च जीवितान्तरायश्च भविष्यति। ते च धार्मश्रवणिकाः परेभ्यः श्रोष्यन्ति-असौ प्रदेशो दुर्भिक्षश्च अयोगक्षेमश्च। तस्मिंश्च प्रदेशे जीवितान्तरायो भवेदिति। स च धर्मभाणकस्तान् कुलपुत्रानेवमभिव्याहरिष्यति-अमुष्मिन् कुलपुत्राः प्रदेशे दुर्भिक्षभयम्। कच्चित्कुलपुत्रा यूयमागमिष्यथ मा पश्चाद्विप्रतिसारिणो भविष्यथ दुर्भिक्षभयं प्रविष्टाः? एवं ते तेन धर्मभाणकेन सूक्ष्मेणोपायेन प्रतिक्षेप्स्यते। ते च निर्विण्णरूपा एवं ज्ञास्यन्ति-प्रत्याख्याननिमित्तान्येतानि, नैतानि दातुकामतानिमित्तानीति। नायं दातुकाम इति विदित्वा नानुवर्त्स्यन्ति। इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां लिख्यमानायां शिक्ष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायाम्। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्॥



पुनरपरं सुभूते धर्मभाणको येन जन्तुभयं येन व्यालभयं येनामनुष्यभयं तेन संप्रस्थितो भविष्यति। स तेन चरन् विहरन् येन व्यालकान्तारं सरीसृपकान्तारं चोरकान्तारं पानीयकान्तारं दुर्भिक्षकान्तारं तेन प्रक्रमिष्यति। स तान् धार्मश्रवणिकानेवं वक्ष्यति-यत्खलु कुलपुत्रा जानीध्वं यस्मिन् प्रदेशे जन्तुभयं व्यालभयं क्रव्यादभयं सरीसृपकान्तारं चोरकान्तारं पानीयकान्तारं दुर्भिक्षकान्तारं तेन वयं संप्रस्थिताः। जानीध्वं कुलपुत्राः-शक्यथ यूयमेतानि दुःखानि प्रत्यनुभवितुम्? एवं तान् सूक्ष्मेणोपायेन प्रत्याख्यास्यति। ततस्ते निर्वेत्स्यन्ते। निर्विण्णाः सन्तो नानुवर्त्स्यन्ति। ते पुनरेव प्रत्युदावर्त्स्यन्ते। अयमपि सुभूते प्रज्ञापारमितायामन्तराय उत्पत्स्यते उद्दिश्यमानायाः स्वाध्याय्यमानायाः यावल्लिख्यमानायाः। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम्॥



पुनरपरं सुभूते धर्मभाणको भिक्षुर्मित्रकुलभिक्षादकुलगुरुको भविष्यति। स तया मित्रकुलभिक्षादकुलगुरुकतया अभीक्ष्णं मित्रकुलभिक्षादकुलान्यवलोकयितव्यान्युपसंक्रमितव्यानि मंस्यते। स तया अभीक्ष्णावलोकनतया बहुकृत्यतया तान् धार्मश्रवणिकान् प्रत्याख्यास्यति-अस्ति तावन्मे किंचिदवलोकयितव्यम्, अस्ति तावन्ममोपसंक्रमितव्यमिति। इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायाम्। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्॥



इति हि सुभूते मारः पापीयांस्तैस्तैः प्रकारैस्तथा तथा चेष्टिष्यते, यथेमां प्रज्ञापारमितां न कश्चिदुद्ग्रहीष्यति, न धारयिष्यति, न वाचयिष्यति, न पर्यवाप्स्यति, न प्रवर्तयिष्यति, न देशयिष्यति, नोपदेक्ष्यति, नोद्देक्ष्यति, न स्वाध्यास्यति, न लेखयिष्यति, न लिखिष्यति। तस्मात्तर्हि सुभूते यावन्तोऽन्तराया विसामग्र्यां संवर्तन्ते, तानि सर्वाणि बोधिसत्त्वेन महासत्त्वेन मारकर्माणीति बोद्धव्यानि, बुद्ध्वा च विवर्जयितव्यानीति॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-किमत्र भगवन् कारणं यदिह मारः पापीयानेवं महान्तमुद्योगमापत्स्यते? तथा तथा चोपायेन चेष्टिष्यते, यथेमां प्रज्ञापारमितां न कश्चिदुद्ग्रहीष्यति न धारयिष्यति न वाचयिष्यति न पर्यवाप्स्यति न प्रवर्तयिष्यति न देशयिष्यति नोपदेक्ष्यति नोद्देक्ष्यति न स्वाध्यास्यति न लेखयिष्यति न लिखिष्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-प्रज्ञापारमितानिर्जाता हि सुभूते बुद्धानां भगवतां सर्वज्ञता। सर्वज्ञतानिर्जातं च तथागतशासनम्। तथागतशासननिर्जातं च अप्रमेयाणामसंख्येयानां सत्त्वानां क्लेशप्रहाणम्। प्रहीणक्लेशानां च मारः पापीयानवतारं न लभते। अलभमानो दुःखार्तो दुर्मनाः शोकशल्यपरिगतो भवति। अतः स प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायां महता संवेगेन महान्तमुद्योगमापद्यते। स महतोद्योगेन तथा तथोपायेन चेष्टते, यथा न कश्चिदिमां प्रज्ञापारमितां लिखेद्वा पर्यवाप्नुयाद्वेति॥



पुनरपरं सुभूते मारः पापीयान् श्रमणवेषेणागत्य भेदं प्रक्षेप्स्यति। एवं च नवयानसंप्रस्थिताः कुलपुत्रा विवेचयिष्यन्ति नैषा प्रज्ञापारमिता यामायुष्मन्तः शृण्वन्ति। यथा पुनर्मम सूत्रागतं सूत्रपर्यापन्नम्, इयं सा प्रज्ञापारमिता। इत्येवं सुभूते मारः पापीयान् संशयं प्रक्षेप्स्यति। एवं च पुनः सुभूते मारः पापीयान् श्रमणवेषेणागत्य भेदं प्रक्षिप्य नवयानसंप्रस्थितान् बोधिसत्त्वानल्पबुद्धिकान् मन्दबुद्धिकान् परीत्तबुद्धिकानन्धीकृतानव्याकृताननुत्तरायां सम्यक्संबोधौ संशयं पातयिष्यति। ते संशयप्राप्ता इमां प्रज्ञापारमितां नोद्ग्रहीष्यन्ति न धारयिष्यन्ति न वाचयिष्यन्ति न पर्यवाप्स्यन्ति न प्रवर्तयिष्यन्ति न देशयिष्यन्ति नोपदेक्ष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न लेखयिष्यन्ति न लिखिष्यन्ति। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्॥



पुनरपरं सुभूते मारः पापीयान् भिक्षून्निर्माय बुद्धवेषेणागत्य एवं मारकर्मोपसंहरिष्यति-यो बोधिसत्त्वो गम्भीरेषु धर्मेषु चरति, स भूतकोटिं साक्षात्करोति। स श्रावको भवति, न बोधिसत्त्वो यथायं बोधिसत्त्व इति। इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्॥



एवं सुभूते मारः पापीयानेवमादिकानि सुबहूनि अन्यान्यपि मारकर्माण्युत्पादयिष्यति अस्यां प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायाम्। तानि बोधिसत्त्वेन महासत्त्वेन बोद्धव्यानि। बुद्ध्वा च विवर्जयितव्यानि। न भक्तव्यानि। आरब्धवीर्येण स्मृतिमता संप्रजानता च भवितव्यम्॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-एवमेतद्भगवन्, एवमेतत्सुगत। यानि तानि भगवन् महारत्नानि, तानि बहुप्रत्यर्थिकानि भवन्ति। तत्कस्य हेतोः? यदुत दुर्लभत्वान्महार्घत्वाच्च। अग्राणि हि तानि भगवन् भवन्ति। तस्मात्तानि च बहुप्रत्यर्थिकानि भवन्ति। एवमेव भगवन् अस्याः प्रज्ञापारमितायाः प्रायेण बहवोऽन्तराया उत्पत्स्यन्ते। तत्र येऽन्तरायवशेन कुसीदा भविष्यन्ति, वेदितव्यमिदं भगवन् माराधिष्ठितास्ते बोधिसत्त्वा भविष्यन्ति, नवयानसंप्रस्थिताश्च ते भगवन् भविष्यन्ति, अल्पबुद्धयश्च ते भगवन् भविष्यन्ति, मन्दबुद्धयश्च ते भगवन् भविष्यन्ति, परीत्तबुद्धयश्च ते भगवन् भविष्यन्ति, विपर्यस्तबुद्धयश्च ते भगवन् भविष्यन्ति। नापि तेषामुदारोदारेषु धर्मेषु चित्तं प्रक्रमिष्यति, ये इमां प्रज्ञापारमितां नोद्ग्रहीतव्यां मंस्यन्ते, न धारयितव्यां न वाचयितव्यां न पर्यवाप्तव्यां न प्रवर्तयितव्यां न देशयितव्यां नोपदेष्टव्यां नोद्देष्टव्यां न स्वाध्यातव्यां न लेखयितव्यामन्तशो न लिखितव्यामपि मंस्यन्ते॥



एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। माराधिष्ठितास्ते सुभूते बोधिसत्त्वा वेदितव्याः। नवयानसंप्रस्थिताश्च ते सुभूते बोधिसत्त्वा भविष्यन्ति, अल्पबुद्धयश्च ते भविष्यन्ति, मन्दबुद्धयश्च ते भविष्यन्ति, परीत्तबुद्धयश्च ते भविष्यन्ति, विपर्यस्तबुद्धयश्च ते भविष्यन्ति। न च तेषामुदारोदारेषु धर्मेषु चित्तं प्रक्रमिष्यति, य इमां प्रज्ञापारमितां नोद्ग्रहीतव्यां मंस्यन्ते, न धारयितव्यां न वाचयितव्यां न पर्यवाप्तव्यां न प्रवर्तयितव्यां नोपदेष्टव्यां नोद्देष्टव्यां न स्वाध्यातव्यां न लेखयितव्यामन्तशो न लिखितव्यामपि मंस्यन्ते॥



किंचापि सुभूते इमानि मारकर्माण्युत्पत्स्यन्ते, सुबहवश्चात्र मारदोषा अन्तरायकरा उत्पत्स्यन्ते। अथ च सुभूते य इमां प्रज्ञापारमितामुद्ग्रहीतव्यां मंस्यन्ते धारयितव्यां वाचयितव्यां पर्यवाप्तव्यां प्रवर्तयितव्यामुपदेष्टव्यामुद्देष्टव्यां स्वाध्यातव्यां लेखयितव्यामन्तशो लिखितव्यामपि मंस्यन्ते, वेदितव्यमेतत्सुभूते बुद्धानुभावेन बुद्धाधिष्ठानेन ते मंस्यन्ते। बुद्धपरिग्रहेणोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लेखयिष्यन्त्यन्तशो लिखिष्यन्तीति। तत्कस्य हेतोः? मारोऽपि ह्यत्र पापीयान् महान्तमुद्योगमापत्स्यते अन्तरायकरणाय। तथागतोऽप्यर्हन् सम्यक्संबुद्ध उद्योगमापत्स्यतेऽनुपरिग्रहायेति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मारकर्मपरिवर्तो नामैकादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project