Digital Sanskrit Buddhist Canon

१० धारणगुणपरिकीर्तनपरिवर्तो दशमः।

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१० धारणगुणपरिकीर्तनपरिवर्तो दशमः।



अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्-पूर्वजिनकृताधिकारास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति बहुबुद्धावरोपितकुशलमूलाः, कल्याणमित्रपरिगृहीताश्च भविष्यन्ति, येषामियं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति। कः पुनर्वादो य एनामेवं गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति। उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते। न ते अवरमात्रकेण कुशलमूलेन समन्वागता भविष्यन्ति। बहुबुद्धपर्युपासितास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति। परिपृष्टाः परिप्रश्नीकृताश्च ते बुद्धा भगवन्तो भविष्यन्ति कुलपुत्रैः कुलदुहितृभिश्चैनामेव प्रज्ञापारमिताम्। श्रुता चेयं पौर्वकाणामपि तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्, य एनां प्रज्ञापारमितामेतर्ह्यपि श्रोष्यन्ति। श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते। बहुबुद्धावरोपितकुशलमूलास्ते कुलपुत्राः कुलदुहितरश्च वेदितव्याः, य एतस्यामेव गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां नावलेष्यन्ते न संलेष्यन्ते, न विषत्स्यन्ति न विषादमापत्स्यन्ते, न विपृष्ठीकरिष्यन्ति मानसम्, न भग्नपृष्ठीकरिष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते॥



अथ खल्वायुष्मान् शारिपुत्रः शक्रस्य देवानामिन्द्रस्य इममेवंरूपं चैतसैव चेतःपरिवितर्कमाज्ञाय भगवन्तमेतदवोचत्-यो भगवन् इहैवं गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायां कुलपुत्रो वा कुलदुहिता वा अभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य एनां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्षत्युद्देक्ष्यति स्वाध्यास्यति, तथत्वाय शिक्षिष्यते, तथत्वाय प्रतिपत्स्यते, तथत्वाय योगमापत्स्यते, यथाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस्तथा स धारयितव्यः। तत्कस्य हेतोः? गम्भीरा भगवन् इयं प्रज्ञापारमिता। न हि भगवन् परीत्तकुशलमूलेनापरिपृच्छकजातीयेन अश्रुत्वा बुद्धानां भगवतां संमुखीभावतः पूर्वमचरितवता इहैवेयमेवं गम्भीरा प्रज्ञापारमिता अधिमोक्तुं शक्या। ये पुनरनधिमुच्य एनामनवबुध्यमानाः प्रतिक्षेप्तव्यां मंस्यन्ते, पूर्वान्ततोऽपि भगवंस्तैः कुलपुत्रैः कुलदुहितृभिश्चेयं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता। तत्कस्य हेतोः? यथापि नाम परीत्तत्वात्कुशलमूलानाम्। न हि भगवन् अचरितवद्भिः पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता शक्या अधिमोक्तुम्। येऽपि च प्रतिक्षेप्स्यन्ति एनां गम्भीरां प्रज्ञापारमितां भाष्यमाणाम्, तेऽप्येवं वेदितव्याः-पूर्वान्ततोऽप्येभिरियं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता। तथा ह्येषामस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नास्ति श्रद्धाः, नास्ति क्षान्तिर्नास्ति रुचिर्नास्ति च्छन्दो नास्ति वीर्यं नास्त्यप्रमादो नास्त्यधिमुक्तिः, न चैभिः पूर्वं बुद्धा भगवन्तो बुद्धश्रावका वा परिपृष्टाः, न च परिप्रश्नीकृता इति॥



अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्-गम्भीरा आर्य शारिपुत्र प्रज्ञापारमिता। किमत्राश्चर्यं स्याद्यदस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां पूर्वमचरितावी बोधिसत्त्वो महासत्त्वो नाधिमुच्येत? अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-नमस्करोमि भगवन् प्रज्ञापारमितायै। सर्वज्ञज्ञानस्य स भगवन्नमस्कारं करोति, यः प्रज्ञापारमितायै नमस्कारं करोति। भगवानाह-एवमेव कौशिक, एवमेतत्। सर्वज्ञज्ञानस्य स कौशिक नमस्कारं करोति यः प्रज्ञापारमितायै नमस्कारं करोति। तत्कस्य हेतोः? अतोनिर्जाता हि कौशिक बुद्धानां भगवतां सर्वज्ञता। सर्वज्ञज्ञाननिर्जाता च पुनः प्रज्ञापारमिता प्रभाव्यते। एवमस्यां प्रज्ञापारमितायां चरितव्यम्। एवमस्यां प्रज्ञापारमितायां स्थातव्यम्। एवमस्यां प्रज्ञापारमितायां प्रतिपत्तव्यम्। एवमस्यां प्रज्ञापारमितायां योगमापत्तव्यम्॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-कथं भगवन् प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति? कथं प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां योगमापद्यते? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-साधु साधु कौशिक। साधु खलु पुनस्त्वं कौशिक यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेनमर्थं परिप्रष्टव्यं परिप्रश्नीकर्तव्यं मन्यसे। इदमपि ते कौशिक बुद्धानुभावेन प्रतिभानमुत्पन्नम्। इह कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपे न तिष्ठति, रूपमिति न तिष्ठति। यतः कौशिक बोधिसत्त्वो महासत्त्वो रूपे न तिष्ठति, रूपमिति न तिष्ठति, एवं रूपे योगमापद्यते। एवं वेदनायां संज्ञायां संस्कारेषु। विज्ञाने न तिष्ठति, विज्ञानमिति न तिष्ठति। यतः कौशिक बोधिसत्त्वो महासत्त्वो विज्ञाने न तिष्ठति, विज्ञानमिति न तिष्ठति, एवं विज्ञाने योगमापद्यते। रूपमिति कौशिक न योजयति, यतः कौशिक रूपमिति न योजयति, एवं रूपमिति न तिष्ठति। एवं वेदनासंज्ञासंस्काराः। विज्ञानमिति कौशिक न योजयति, यतः कौशिक विज्ञानमिति न योजयति, एवं विज्ञानमिति न तिष्ठति। एवं प्रज्ञापारमितायां स्थितो भवति। एवं योगमापद्यते॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता। दुरवगाहा भगवन् प्रज्ञापारमिता। दुरुद्ग्रहा भगवन् प्रज्ञापारमिता। अप्रमाणा भगवन् प्रज्ञापारमिता। भगवानाह-एवमेतच्छारिपुत्र, एवमेतत्। रूपं गम्भीरमिति शारिपुत्र न तिष्ठति। यतः शारिपुत्र रूपं गम्भीरमिति न तिष्ठति, एवं रूपे योगमापद्यते। एवं वेदनासंज्ञासंस्काराः। विज्ञानं शारिपुत्र गम्भीरमिति न तिष्ठति। यतः शारिपुत्र विज्ञानं गम्भीरमिति न तिष्ठति, एवं विज्ञाने योगमापद्यते। रूपं शारिपुत्र गम्भीरमिति न योगमापद्यते। यतः शारिपुत्र रूपं गम्भीरमिति न योगमापद्यते, एवं रूपं गम्भीरमिति न तिष्ठति। एवं वेदनासंज्ञासंस्काराः। विज्ञानं शारिपुत्र गम्भीरमिति न योगमापद्यते। यतः शारिपुत्र विज्ञानं गम्भीरमिति न योगमापद्यते, एवं विज्ञानं गम्भीरमिति न तिष्ठति॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता अविनिवर्तनीयस्य व्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या। तत्कस्य हेतोः? स हि भगवन् न काङ्क्षिष्यति, न विचिकित्सिष्यति न धंधायिष्यति न विवदिष्यति॥



अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्-सचेत्पुनरार्य शारिपुत्र अव्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं प्रज्ञापारमिता भाष्येत, को दोषो भवेत्? एवमुक्ते आयुष्मान् शारिपुत्रः शक्रं देवानामिन्द्रमेतदवोचत्-दूरतः स कौशिक बोधिसत्त्वो महासत्त्व आगतो वेदितव्यः। चिरयानसंप्रस्थितः परिपक्वकुशलमूलः स कौशिक बोधिसत्त्वो महासत्त्वो वेदितव्यः, योऽव्याकृत इमां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय। श्रुत्वा च नोत्रसिष्यति न संत्रसिष्यति न संत्रासमापत्स्यते। न चेदानीमसौ चिरेण व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेः। आसन्नं तस्य व्याकरणं वेदितव्यम्। स बोधिसत्त्वो महासत्त्वो नैकं वा द्वौ वा त्रीन् वा तथागतानर्हतः सम्यक्संबुद्धानतिक्रमिष्यति, ततो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ। अपि तु तानारागयिष्यति, आरागयित्वा तांस्तथागतानर्हतः सम्यक्संबुद्धान्न विरागयिष्यति। तथागतदर्शनं च व्याकरणेनावन्ध्यं करिष्यति, तथागतदर्शनाच्च ततो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ। यावच्च व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ, तावदवन्ध्यं करिष्यति तथागतदर्शनवन्दनपर्युपासनोपस्थानं यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुद्ध इति॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-दूरतः स भगवन् बोधिसत्त्वो महासत्त्व आगतो भविष्यति। चिरयानसंप्रस्थितः। परिपक्वकुशलमूलो हि भगवन् स बोधिसत्त्वो महासत्त्वो वेदितव्यः, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय। कः पुनर्वादोऽत्र यः श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति॥



अथ खलु भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-एवमेतच्छारिपुत्र, एवमेतत्। दूरतः स शारिपुत्र बोधिसत्त्वो महासत्त्व आगतो वेदितव्यः। चिरयानसंप्रस्थितः। परिपक्वकुशलमूलो हि स शारिपुत्र बोधिसत्त्वो महासत्त्वो भविष्यति, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय। कः पुनर्वादोऽत्र यः श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-प्रतिभाति मे भगवन्, प्रतिभाति मे सुगत औपम्योदाहरणम्। तद्यथापि नाम भगवन् योऽयं बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा स्वप्नान्तरगतोऽपि बोधिमण्डे निषीदेत्, वेदितव्यमेतद्भगवन्, अयं बोधिसत्त्वो महासत्त्व आसन्नोऽनुत्तरायां सम्यक्संबोधेरभिसंबोधायेति। एवमेव भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, कः पुनर्वादः श्रुत्वा चोद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुं देशयितुं उपदेष्टुं उद्देष्टुं स्वाध्यापनाय। वेदितव्यमेतद्भगवन् दूरतोऽयं बोधिसत्त्वयानिकः पुद्गल आगतश्चिरयानसंप्रस्थितः। आसन्नोऽयं बोधिसत्त्वयानिकः पुद्गलो व्याकरणस्य। व्याकरिष्यन्त्येनं बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वमनुत्तरायाः सम्यक्संबोधेरभिसंबोधायेति। चिरयानसंप्रस्थितः परिपक्वकुशलमूलो हि स बोधिसत्त्वो महासत्त्वो वेदितव्यः, यस्येयं गम्भीरा प्रज्ञापारमिता उपपत्स्यतेऽन्तशः श्रवणायापि। कः पुनर्वादोऽत्र भगवन् यः कुलपुत्रो वा कुलदुहिता वा एनां गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति। तत्कस्य हेतोः? भूयस्त्वेन हि भगवन् धर्मव्यसनसंवर्तनीयैः सत्त्वाः कर्मोपचयैरविहिताः, तेषां भूयस्त्वेन अस्यां गम्भीरायां प्रज्ञापारमितायां चित्तानि प्रतिकूलानि भविष्यन्ति, चित्तानि परिवेल्लयिष्यन्ति। न ह्यनुपचितकुशलमूलाः सत्त्वा अस्यां भूयस्त्वेन भूतकोट्यां प्रस्कन्दन्ति प्रसीदन्ति।



उपचितकुशलमूलाः खलु पुनस्ते भगवन् सूपचितकुशलमूलाः कुलपुत्राः कुलदुहितरश्च वेदितव्याः, येषामस्यां भूतकोट्यां चित्तं प्रस्कन्दति प्रसीदति। तद्यथापि नाम भगवन् पुरुषो योजनशतिकादटवीकान्ताराद् द्वियोजनशतिकाद्वा त्रियोजनशतिकाद्वा चतुर्योजनशतिकाद्वा पञ्चयोजनशतिकाद्वा दशयोजनशतिकाद्वा अटवीकान्तारान्निष्क्रामेत्। स निष्क्रम्य पश्येत्पूर्वनिमित्तानि गोपालकान् वा पशुपालकान् वा सीमा वा आरामसंपदो वा वनसंपदो वा, ततोऽन्यापि व निमित्तानि, यैर्निमित्तैर्ग्रामो वा नगरं वा निगमो व सूच्येत। तस्य तानि पूर्वनिमित्तानि दृष्टैवं भवति-यथेमानि पूर्वनिमित्तानि दृश्यन्ते, तथा आसन्नो मे ग्रामो वा नगरं वा निगमो वा इति। स आश्वासप्राप्तो भवति। नास्य भूयश्चोरमनसिकारो भवति। एवमेव भगवन् यस्य बोधिसत्त्वस्य महासत्त्वस्येयं गम्भीरा प्रज्ञापारमिता उपवर्तते, वेदितव्यं तेन भगवन् अभ्यासन्नोऽस्म्यनुत्तरायाः सम्यक्संबोधेः, नचिरेण व्याकरणं प्रतिलप्स्येऽनुत्तरायाः सम्यक्संबोधेरिति। नापि तेनोत्रसितव्यं न संत्रसितव्यं न भेतव्यं श्रावकभूमेर्वा प्रत्येकबुद्धभूमेर्वा। तत्कस्य हेतोः? तथा हि अस्येमानि पूर्वनिमित्तानि संदृश्यन्ते यदुतेमां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय। एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-एवमेतच्छारिपुत्र, एवमेतत्। प्रतिभातु ते शारिपुत्र पुनरप्येतत्स्थानम्, यथापि नामैतद्बुद्धानुभावेन व्याहरसि व्याहरिष्यसि च॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-तद्यथापि नाम भगवन् इह कश्चिदेव पुरुषो महासमुद्रं द्रष्टुकामो भवेत्। स गच्छेन्महासमुद्रं दर्शनाय। यथा यथा च स गच्छेन्महासमुद्रं दर्शनाय, तथा तथा सचेत्पश्येत्स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तेनैवं वेदितव्यं दूरे तावदितो महासमुद्र इति। सचेन्न भूयः पश्येत्स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तेनैवं वेदितव्यम्-अभ्यासन्न इतो महासमुद्र इति। तत्कस्य हेतोः? अनुपूर्वनिम्नो हि महासमुद्रः, न महासमुद्रस्याभ्यन्तरे कश्चित्स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वेति। किंचापि स न महासमुद्रं साक्षात्पश्यति चक्षुषा, अथ च पुनः स निष्ठां गच्छति-अभ्यासन्नोऽस्मि महासमुद्रस्य, नेतो भूयो दूरे महासमुद्र इति। एवमेव भगवन् बोधिसत्त्वेन महासत्त्वेनेमां गम्भीरां प्रज्ञापारमितां शृण्वता वेदितव्यम्-किंचाप्यहं तैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्न संमुखं व्याकृतः, अथ च पुनरभ्यासन्नोऽस्म्यनुत्तरायाः सम्यक्संबोधेर्व्याकरणस्य। तत्कस्य हेतोः? तथा ह्येनां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणायेति। तद्यथापि नाम भगवन् वसन्ते प्रत्युपस्थिते शीर्णपर्णपलाशेषु नानावृक्षेषु नानापल्लवाः प्रादुर्भवन्ति। पल्लवेषु प्रादुर्भूतेष्वात्तमनस्का भवन्ति जाम्बूद्वीपका मनुष्याः तानि पूर्वनिमित्तानि वनेषु दृष्ट्वा नचिराद्वनपुष्पाणि च फलानि च प्रादुर्भविष्यन्ति। तत्कस्य हेतो? तथा हि इमानि पूर्वनिमित्तानि स्तम्बेषु दृश्यन्त इति।



एवमेव भगवन् यदा बोधिसत्त्वो महासत्त्वो लभते इमां गम्भीरां प्रज्ञापारमितां दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, उपवर्तते तस्येयं गम्भीरा प्रज्ञापारमिता। तदा परिपक्वकुशलः स बोधिसत्त्वो महासत्त्वो वेदितव्यः-तेनैव पूर्वकेण कुशलमूलेनोपनामितेयं तस्मै गम्भीरा प्रज्ञापारमिता। तत्र या देवताः पूर्वबुद्धदर्शिन्यः, ताः प्रमुदिता भवन्ति प्रीतिसौमनस्यजाताः-पौर्वकाणामपि बोधिसत्त्वानां महासत्त्वानामिमान्येव पूर्वनिमित्तान्यभूवन्ननुत्तरायाः सम्यक्संबोधेर्व्याकरणाय। नचिरेण बतायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेरिति। तद्यथापि नाम भगवन् स्त्री गुर्विणी गुरुगर्भा। तस्या यदा कायो वेष्टते, अधिमात्रं वा कायक्लमथो जायते, न च सा चंक्रमणशीला भवति। अल्पाहारा च भवति। अल्पस्त्यानमिद्धा च भवति। अल्पभाष्या च भवति। अल्पस्थामा च भवति। वेदनाबहुला च भवति। क्रन्दन्ती च बहुलं विहरति। न च संवासशीला भवति। पौर्वकेणायोनिशोमनसिकारेणासेवितेन निषेवितेन भावितेन बहुलीकृतेन इमामेवंरूपां कायेन वेदनां प्रत्यनुभवामीति, तदा वेदितव्यमिदं भगवन्-यथास्याः पूर्वनिमित्तानि संदृश्यन्ते, तथा नचिरेण बतेयं स्त्री प्रसोष्यते इति। एवमेव भगवन् यदा बोधिसत्त्वस्य महासत्त्वस्येयं गम्भीरा प्रज्ञापारमिता उपवर्तते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, शृण्वतश्चैनां रमते चित्तमस्यां प्रज्ञापारमितायाम्, अर्थिकतया चोत्पद्यते, तदा वेदितव्यमिदं भगवन्-नचिरेण बतायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेरिति॥



एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-साधु साधु शारिपुत्र। इदमपि ते शारिपुत्र बुद्धानुभावेन प्रतिभाति। अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावत्सुपरिगृहीताश्च सुपरीत्ताश्च सुपरीन्दिताश्च इमे बोधिसत्त्वा महासत्त्वास्तथागतेनार्हता सम्यक्संबुद्धेन। भगवानाह-तथा हि ते सुभूते बोधिसत्त्वा महासत्त्वा बहुजनहिताय प्रतिपन्ना बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च। अनुकम्पका अनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः। अनुत्तरां सम्यक्संबोधिमभिसंबुध्यानुत्तरं धर्मं देशयितुकामाः॥



सुभूतिराह-इह भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कथं प्रज्ञापारमिताभावना परिपूरिं गच्छति? भगवानाह-यदि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपस्य वृद्धिं समनुपश्यति, चरति प्रज्ञापारमितायाम्। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य वृद्धिं समनुपश्यति, चरति प्रज्ञापारमितायाम्। न रूपस्य परिहाणिं समनुपश्यति, चरति प्रज्ञापारमितायाम्। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य परिहाणिं समनुपश्यति, चरति प्रज्ञापारमितायाम्। धर्मं न समनुपश्यति, चरति प्रज्ञापारमितायाम्। अधर्ममपि न समनुपश्यति, चरति प्रज्ञापारमितायाम्। एवमस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति॥



सुभूतिराह-अचिन्त्यमिदं भगवन् देश्यते। भगवानाह-रूपं हि सुभूते अचिन्त्यम्। एवं वेदनासंज्ञासंस्काराः। विज्ञानं हि सुभूते अचिन्त्यम्। रूपमचिन्त्यमित्यपि सुभूते न संजानीते, चरति प्रज्ञापारमितायाम्। एवं वेदनासंस्काराः। विज्ञानमचिन्त्यमित्यपि सुभूते न संजानीते, चरति प्रज्ञापारमितायाम्॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-कोऽत्र भगवन् अधिमोक्षयिष्यति एवंगम्भीरायां प्रज्ञापारमितायाम्? भगवानाह-यः शारिपुत्र चरितावी बोधिसत्त्वो महासत्त्वो भविष्यति प्रज्ञापारमितायाम्, सोऽत्र प्रज्ञापारमितायामधिमोक्षयिष्यति। आयुष्मान् शारिपुत्र आह-कथं भगवन् चरितावी बोधिसत्त्वो महासत्त्वो भविष्यति, कथं चरितावीति नामधेयं लभते? भगवानाह-इह शारिपुत्र बोधिसत्त्वो महासत्त्वो बलानि न कल्पयति, वैशारद्यानि न कल्पयति, बुद्धधर्मानपि न कल्पयति, सर्वज्ञतामपि न कल्पयति। तत्कस्य हेतोः? बलानि हि शारिपुत्र अचिन्त्यानि, वैशारद्यान्यप्यचिन्त्यानि, बुद्धधर्मा अप्यचिन्त्याः सर्वज्ञताप्यचिन्त्या, सर्वधर्मा अप्यचिन्त्याः। एवं चरितावी शारिपुत्र बोधिसत्त्वो महासत्त्वो न क्वचिच्चरति, चरति प्रज्ञापारमितायाम्। एवं स चरितावीत्युच्यते, चरितावीति नामधेयं लभते॥



अथ खलु आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता। रत्न‍राशिर्भगवन् प्रज्ञापारमिता। शुद्धराशिर्भगवन् प्रज्ञापारमिता आकाशशुद्धतामुपादाय। आश्चर्यं भगवन् स्याद्यदेनां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च बहवोऽन्तराया उत्पद्येरन्। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। बहवः सुभूते अन्तराया इमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च भविष्यति। तत्कस्य हेतोः? तथा हि सुभूते इमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च मारः पापीयानौत्सुक्यमापत्स्यतेऽन्तरायं कर्तुम्। तत्र शीघ्रं लिखता सचेन्मासेन वा मासद्वयेन वा मासत्रयेण वा लिख्येत, लिखितव्यैव भवेत्। सचेत्संवत्सरेण ततो वापरेण लिखिता भवेत्, तथापि लिखितव्यैव खलु पुनः सुभूते भवति तेन कुलपुत्रेण कुलदुहित्रा वा इयं प्रज्ञापारमिता। तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति यन्महारत्नानां बहवोऽन्तराया उत्पद्यन्ते॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-इह भगवन् प्रज्ञापारमितायामुद्गृह्यमाणायां धार्यमाणायां वाच्यमानायां पर्यवाप्यमानायां प्रवर्त्यमानायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां लिख्यमानायां च मारः पापीयान् बहुप्रकारमौत्सुक्यमापत्स्यते, अन्तरायकर्मण उद्योगं च करिष्यति। भगवानाह-किंचापि सुभूते मारः पापीयानुद्योगमापत्स्यते अन्तरायकर्मणः अस्यां प्रज्ञापारमितायामुद्गृह्यमाणायां धार्यमाणायां वाच्यमानायां पर्यवाप्यमानायां प्रवर्त्यमानायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां लिख्यमानायां च, अथ च पुनर्न प्रसहिष्यतेऽच्छिद्रसमादानस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कर्तुम्॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-यदा भगवन् इमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च मारः पापीयानौत्सुक्यमापत्स्यते अन्तरायकरणाय, तदा कथमेतर्हि भगवन् कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च? कस्य चानुभावेन भगवंस्ते कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-बुद्धानां शारिपुत्र भगवतां तथागतानामर्हतां सम्यक्संबुद्धानामनुभावेन ते कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते।



तत्कस्य हेतोः? एषा हि शारिपुत्र धर्माणां धर्मता, ये तेऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते इमां प्रज्ञापारमितां समन्वाहरिष्यन्ति परिग्रहीष्यन्ति भाष्यमाणामुद्गृह्यमाणां धार्यमाणां वाच्यमानां पर्यवाप्यमानां प्रवर्त्यमानां देश्यमानामुपदिश्यमानामुद्दिश्यमानां स्वाध्याय्यमानां लिख्यमानां च। ये चैनां प्रज्ञापारमितां कुलपुत्राः कुलदुहितरश्चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, तांश्च ते बुद्धा भगवन्तः समन्वाहरिष्यन्ति परिग्रहीष्यन्ति च। न हि शारिपुत्र बुद्धसमन्वाहृतानां बुद्धपरिगृहीतानां च कुलपुत्राणां कुलदुहितॄणां च शक्यमन्तरायं कर्तुम्॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-येऽपि ते भगवन् बोधिसत्त्वा महासत्त्वा इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, सर्वे ते भगवन् बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धपरिग्रहेण च इमां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय च शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, एवं च संपादयिष्यन्ति॥



एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-एवमेतच्छारिपुत्र, एवमेतत्। सर्वे ते शारिपुत्र बोधिसत्त्वा महासत्त्वा बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धपरिग्रहेण च इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते। ज्ञातास्ते शारिपुत्र तथागतेन। अधिष्ठितास्ते शारिपुत्र तथागतेन। दृष्टास्ते शारिपुत्र तथागतेन। व्यवलोकितास्ते शारिपुत्र तथागतेन बुद्धचक्षुषा। ये ते बोधिसत्त्वा महासत्त्वा इमां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय च शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, श्रुत्वो उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य लिखित्वा तथत्वाय शिक्षमाणास्तथत्वाय प्रतिपद्यमानास्तथत्वाय योगमापद्यमाना आसन्नीभविष्यन्त्यनुत्तरायाः सम्यक्संबोधेः, तथत्वाय स्थास्यन्त्यनुत्तरायै सम्यक्संबोधये।



येऽपि शारिपुत्र एनां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति, न च तथत्वाय शिक्षिष्यन्ते, न च तथत्वाय प्रतिपत्स्यन्ते, न च तथत्वाय योगमापत्स्यन्ते, ते न तथत्वाय शिक्षमाणा न तथत्वाय प्रतिपद्यमाना न तथत्वाय योगमापद्यमाना न तथतायां स्थास्यन्त्यनुत्तरायां सम्यक्संबोधौ, तेऽपि शारिपुत्र तथागतेन ज्ञाताः। तेऽपि तथागतेनाधिष्ठिताः। तेऽपि तथागतेन दृष्टाः। तेऽपि तथागतेन व्यवलोकिता बुद्धचक्षुषा। तेषामपि शारिपुत्र महार्थिको महानुशंसो महाफलो महाविपाकश्च स परिश्रमः परिस्पन्दश्च भविष्यति। तत्कस्य हेतोः? तथा हि प्रज्ञापारमिता परमार्थोपसंहिता सर्वधर्माणां यथाभूतप्रतिवेधाय प्रत्युपस्थिता सर्वसत्त्वानाम्। इमे खलु पुनः शारिपुत्र षट्पारमिताप्रतिसंयुक्ताः सूत्रान्तास्तथागतस्यात्ययेन दक्षिणापथे प्रचरिष्यन्ति, दक्षिणापथात्पुनरेव वर्तन्यां प्रचरिष्यन्ति, वर्तन्याः पुनरुत्तरपथे प्रचरिष्यन्ति। नवमण्डप्राप्ते धर्मविनये सद्धर्मस्यान्तर्धानकालसमये समन्वाहृतास्ते शारिपुत्र तथागतेन कुलपुत्राः कुलदुहितरश्च। तस्मिन् काले य इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति, वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, अन्तशो लिखित्वा पुस्तकगतामपि कृत्वा धारयिष्यन्ति, ज्ञातास्ते शारिपुत्र तथागतेन। अधिष्ठितास्ते शारिपुत्र तथागतेन। दृष्टास्ते शारिपुत्र तथागतेन। व्यवलोकितास्ते शारिपुत्र तथागतेन बुद्धचक्षुषा॥



शारिपुत्र आह-इयमपि भगवन् प्रज्ञापारमिता एवंगम्भीरा पश्चिमे काले पश्चिमे समये वैस्तारिकी भविष्यत्युत्तरस्यां दिशि उत्तरे दिग्भागे? भगवानाह-ये तत्र शारिपुत्र उत्तरस्यां दिश्युत्तरे दिग्भागे इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा अत्र प्रज्ञापारमितायां योगमापत्स्यन्ते, ते वैस्तारिकीं करिष्यति। चिरयानसंप्रस्थितास्ते शारिपुत्र बोधिसत्त्वा महासत्त्वा वेदितव्याः, य इमां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते॥



शारिपुत्र आह-कियन्तस्ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति उत्तरस्यां दिशि उत्तरे दिग्भागे, बहव उताहो अल्पकाः? य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते? भगवानाह-बहवस्ते शारिपुत्र सुबहवः उत्तरापथे उत्तरस्यां दिश्युत्तरे दिग्भागे बोधिसत्त्वा महासत्त्वा भविष्यन्ति।



किंचापि शारिपुत्र बहवस्ते, तेभ्योऽपि बहुभ्योऽल्पकास्ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, प्रज्ञापारमितायां च भाष्यमाणायां नावलेष्यन्ते न संलेष्यन्ते, न विषत्स्यन्ति न विषादमापत्स्यन्ते, न विपृष्ठीकरिष्यन्ति मानसम्, न भग्नपृष्ठीकरिष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते, चिरयानसंप्रस्थितास्ते बोधिसत्त्वा महासत्त्वा वेदितव्याः। अनुबद्धास्तैः पौर्वकास्तथागता अर्हन्तः सम्यक्संबुद्धाः, परिपृष्टाः परिपृच्छिताः परिप्रश्नीकृताः। पूजिताश्च तैः पौर्वकास्तथागता अर्हन्त सम्यक्संबुद्धाः कुलपुत्रैः कुलदुहितृभिश्च बोधिसत्त्वयानिकैः पुद्गलैः। शीलेषु च ते परिपूर्णकारिणो भविष्यन्ति, बहुजनस्य च तेऽर्थं करिष्यन्ति, यदुत इमामेवानुत्तरां सम्यक्संबोधिमारभ्य। तत्कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितॄणां च मयैव सर्वज्ञताप्रतिसंयुक्तैव कथा कृता। तेषां जातिव्यतिवृत्तानामपि एत एव सर्वज्ञताप्रतिसंयुक्ताः प्रज्ञापारमिताप्रतिसंयुक्ताः समुदाचारा भविष्यन्ति।



एनामेव च ते कथां करिष्यन्ति, एनामेव च कथामभिनन्दिष्यन्ति, यदुत अनुत्तरां सम्यक्संबोधिमारभ्य। तेषु च सुस्थिताः समाहिताश्च भविष्यन्ति अस्यां प्रज्ञापारमितायाम्। मारेणापि ते न शक्या भेदयितुम्, कुतः पुनरन्यैः सत्त्वैः, यदुत च्छन्दतो वा मन्त्रतो वा। तत्कस्य हेतोः? यथापि नाम तद्दृढस्थामत्वादनुत्तरायां सम्यक्संबोधौ। ते च कुलपुत्राः कुलदुहितरश्च श्रुत्वा एनां प्रज्ञापारमितामुदारं प्रीतिप्रामोद्यप्रसादं प्रतिलप्स्यन्ते। बहुजनस्य च ते कुशलमूलान्यवरोपयिष्यन्ति यदुतानुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? एवं हि तैः कुलपुत्रैः कुलदुहितृभिश्च ममान्तिके संमुखं वाग्भाषिता-बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि बोधिसत्त्वचर्यां चरन्तो वयमनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामः संप्रभावयिष्यामः संबोधये प्रतिष्ठापयिष्याम इति, अविनिवर्तनीयान् करिष्याम इति। तत्कस्य हेतोः? अनुमोदितं हि शारिपुत्र मया तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां च चित्तेन चित्तं व्यवलोक्य यैरियं वाग्भाषिता-बोधाय चरन्तो वयं बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामः संप्रभावयिष्यामः, संबोधये प्रतिष्ठापयिष्याम इति, अविनिवर्तनीयान् करिष्याम इति।



एवं च ते कुलपुत्राः कुलदुहितरश्च उदाराधिमुक्तिका भविष्यन्ति, यदन्यान्यपि ते बुद्धक्षेत्राण्यध्यालम्बितव्यानि मंस्यन्ते। यत्र संमुखीभूतास्तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं देशयिष्यन्ति, तत्र संमुखीभूतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्पुनरेवैनां गम्भीरां प्रज्ञापारमितां विस्तरेण श्रोष्यन्ति। तेष्वपि ते बुद्धक्षेत्रेषु बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति संप्रभावयिष्यन्ति, संबोधये प्रतिष्ठापयिष्यन्ति, अविनिवर्तनीयान् करिष्यन्ति॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावदिदं तथागतेनार्हता सम्यक्संबुद्धेन अतीतानागतप्रत्युत्पन्नेषु धर्मेषु नास्ति किंचिददृष्टं वा अश्रुतं वा अविदितं वा अविज्ञातं वा। न स कश्चिद्धर्मो यो न ज्ञातो न स काचिच्चर्या सत्त्वानां या न विज्ञाता, यत्र हि नाम अनागतानामपि बोधिसत्त्वानां महासत्त्वानां चर्यां ज्ञाता बोधिच्छन्दिकानामध्याशयसंपन्नानामारब्धवीर्याणाम्। ये तस्मिन् काले इमां गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, ये च तस्मिन् काले आसां षण्णां पारमितानां कृतशः सर्वसत्त्वानामर्थाय उद्योगमापद्य अन्वेषिष्यन्ते पर्येषिष्यन्ते, गवेषिष्यन्ते, तेषां च कुलपुत्रानां कृलदुहितॄणां च अन्वेषमाणानां पर्येषमाणानां केचिद्गवेषमाणा बोधिसत्त्वा लप्स्यन्ते, केचिन्न लप्स्यन्ते, केचिदगवेषयन्तोऽपि लप्स्यन्ते एनां गम्भीरां प्रज्ञापारमिताम्।



किमत्र भगवन् कारणम्? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-एवमेतच्छारिपुत्र, एवमेतत्। नास्ति किंचित्तथागतस्य अतीतानागतप्रत्युत्पन्नेषु धर्मेष्वदृष्टं वा अश्रुतं वा अविदितं वा अविज्ञातं वा। तस्मिन् खलु पुनः शारिपुत्र काले तस्मिन् समये केचिद्बोधिसत्त्वा मार्गयमाणा पर्येषमाणा गवेषमाणा अपि लप्स्यन्ते इमां प्रज्ञापारमिताम्। केचिद्बोधिसत्त्वा अमार्गयमाणा अपर्येषमाणा अगवेषयन्तोऽपि लप्स्यन्ते। तत्कस्य हेतोः? तथा हि तैर्बोधिसत्त्वैर्महासत्त्वैरियं प्रज्ञापारमिता पूर्वान्ततोऽपि अनिक्षिप्तधुरैर्मार्गिता च पर्यन्विष्टा च। ते तेनैव पूर्वकेण कुशलमूलच्छन्देन एनां प्रज्ञापारमिताममार्गयन्तोऽपि अपर्येषमाणा अपि अगवेषयन्तोऽपि लप्स्यन्ते। यान्यपि च ततोऽन्यान्यपि सूत्राणि एनामेव प्रज्ञापारमितामभिवदन्ति, तानि चैषां स्वयमेवोपगमिष्यन्ति उपपत्स्यन्ते उपनंस्यन्ते च। तत्कस्य हेतोः? एवमेतच्छारिपुत्र भवति-य एनां प्रज्ञापारमितां बोधिसत्त्वो महासत्त्वोऽनिक्षिप्तधुरो मार्गयति च पर्येषते च, स जातिव्यतिवृत्तोऽपि जन्मान्तरव्यतिवृत्तोऽपि एनां प्रज्ञापारमितां लप्स्यते। ततोऽन्यानि च सूत्राणि प्रज्ञापारमिताप्रतिसंयुक्तानि तस्य स्वयमेवोपगमिष्यन्ति, उपपत्स्यन्ते उपनंस्यन्ते चेति॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-इमे एव केवलं भगवंस्तेषां कुलपुत्राणां कुलदुहितॄणां च षट्पारमिताप्रतिसंयुक्ताः सूत्रान्ता उपपत्स्यन्ते उपनंस्यन्ते, नान्ये? भगवानाह-ये चान्येऽपि शारिपुत्र गम्भीरा गम्भीराः सूत्रान्ता भविष्यन्ति, तेऽपि तेषां कुलपुत्राणां कुलदुहितॄणां च स्वयमेवोपपत्स्यन्ते स्वयमेवोपनंस्यन्ते च। तत्कस्य हेतोः? एवं ह्येतच्छारिपुत्र भवति-ये बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति प्रभावयिष्यन्ति, संबोधये प्रतिष्ठापयिष्यन्ति, अविनिवर्तनीयान् करिष्यन्ति, स्वयं च तत्र शिक्षिष्यन्ते, तेषां शारिपुत्र जातिव्यतिवृत्तानामपि इमे गम्भीरा गम्भीरा अनुपलम्भप्रतिसंयुक्ताः शून्यताप्रतिसंयुक्ताः षट्पारमिताप्रतिसंयुक्ताश्च सूत्रान्ताः स्वयमेवोपगमिष्यन्ति, स्वयमेवोपपत्स्यन्ते स्वयमेवोपनंस्यन्ते चेति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां धारणगुणपरिकीर्तनपरिवर्तो नाम दशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project