Digital Sanskrit Buddhist Canon

८ विशुद्धिपरिवर्तोऽष्टमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

8 viśuddhiparivarto'ṣṭamaḥ

८ विशुद्धिपरिवर्तोऽष्टमः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-दुरधिमोचा भगवन् प्रज्ञापारमिता अनभियुक्तेन कुशलमूलविरहितेन पापमित्रहस्तगतेन। भगवानाह-एवमेतत्सुभूते, एवमेतत्। दुरधिमोचा सुभूते प्रज्ञापारमिता अनभियुक्तेन परीत्तकुशलमूलेन दुर्मेधसा अनर्थिकेन अल्पश्रुतेन हीनप्रज्ञेन पापमित्रोपस्तब्धेन अशुश्रूषणापरिपृच्छकजातीयेन कुशलेषु धर्मेष्वनभियुक्तेन॥



सुभूतिराह-कियद्गम्भीरा बतेयं भगवन् प्रज्ञापारमिता दुरधिमोचतया? भगवानाह-रूपं सुभूते अबद्धममुक्तम्। तत्कस्य हेतोः? रूपास्वभावत्वात्सुभूते रूपमबद्धममुक्तम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं सुभूते अबद्धममुक्तम्। तत्कस्य हेतोः? विज्ञानास्वभावत्वात्सुभूते विज्ञानमबद्धममुक्तम्। रूपस्य सुभूते पूर्वान्तोऽबद्धोऽमुक्तः। तत्कस्य हेतोः? पूर्वान्तास्वभावं हि सुभूते रूपम्। रूपस्य सुभूते अपरान्तोऽबद्धोऽमुक्तः। तत्कस्य हेतोः? अपरान्तास्वभावं हि सुभूते रूपम्। प्रत्युत्पन्नं सुभूते रूपमबद्धमुक्तम्। तत्कस्य हेतोः? प्रत्युत्पन्नास्वभावं हि सुभूते प्रत्युत्पन्नं रूपम्। एवं वेदना संज्ञां संस्काराः। विज्ञानस्य सुभूते पूर्वान्तोऽबद्धोऽमुक्तः। तत्कस्य हेतोः? पूर्वान्तास्वभावं हि सुभूते विज्ञानम्। विज्ञानस्य सुभूते अपरान्तोऽबद्धोऽमुक्तः। तत्कस्य हेतोः ? अपरान्तास्वभावं हि सुभूते विज्ञानम्। प्रत्युत्पन्नं सुभूते विज्ञानमबद्धममुक्तम्। तत्कस्य हेतोः? प्रत्युत्पन्नास्वभावं हि सुभूते प्रत्युत्पन्नं विज्ञानम्॥



सुभूतिराह-दुरधिमोचा भगवन् प्रज्ञापारमिता, परमदुरधिमोचा भगवन् प्रज्ञापारमिता अनभियुक्तेन अनवरोपितकुशलमूलेन पापमित्रहस्तगतेन मारवशगतेन कुसीदेन हीनवीर्येण मुषितस्मृतिना दुष्प्रज्ञेन। भगवानाह-एवमेतत्सुभूते, एवमेतत्। दुरधिमोचा सुभूते प्रज्ञापारमिता, परमदुरधिमोचा सुभूते प्रज्ञापारमिता अनभियुक्तेन अनवरोपितकुशलमूलेन पापमित्रहस्तगतेन मारवशगतेन कुसीदेन हीनवीर्येण मुषितस्मृतिना दुष्प्रज्ञेन। तत्कस्य हेतोः? या सुभूते रूपविशुद्धिः, सा फलविशुद्धिः, या फलविशुद्धिः, सा रूपविशुद्धिः। इति हि सुभूते रूपविशुद्धिश्च फलविशुद्धिश्च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम्। इति हि सुभूते फलविशुद्धितो रूपविशुद्धी रुपविशुद्धितः फलविशुद्धिः। एवं वेदनासंज्ञासंस्काराः। या सुभूते विज्ञानविशुद्धिः, सा फलविशुद्धिः, या फलविशुद्धिः सा विज्ञानविशुद्धिः। इति हि सुभूते विज्ञानविशुद्धिश्च फलविशुद्धिश्च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम्। इति हि सुभूते फलविशुद्धितो विज्ञानविशुद्धिर्विज्ञानविशुद्धितः फलविशुद्धिः। पुनरपरं सुभूते या रूपविशुद्धिः सा सर्वज्ञताविशुद्धिः, या सर्वज्ञताविशुद्धिः सा रूपविशुद्धिः। इति हि सुभूते रूपविशुद्धिश्च सर्वज्ञताविशुद्धिश्च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम्। इति हि सुभूते सर्वज्ञताविशुद्धितो रूपविशुद्धिः, रूपविशुद्धितः सर्वज्ञताविशुद्धिः। एवं वेदनासंज्ञासंस्काराः। या सुभूते विज्ञानविशुद्धिः सा सर्वज्ञताविशुद्धिः। या सर्वज्ञताविशुद्धिः सा विज्ञानविशुद्धिः। इति हि सुभूते विज्ञानविशुद्धिश्च सर्वज्ञताविशुद्धिश्च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम्। इति हि सुभूते सर्वज्ञताविशुद्धितो विज्ञानविशुद्धिः, विज्ञानविशुद्धितः सर्वज्ञताविशुद्धिः॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता। भगवानाह-विशुद्धत्वाच्छारिपुत्र। आह-अवभासकरी भगवन् प्रज्ञापारमिता। भगवानाहविशुद्धत्वाच्छारिपुत्र। आह-आलोको भगवन् प्रज्ञापारमिता। भगवानाह-विशुद्धत्वाच्छारिपुत्र। आह-अप्रतिसंधिर्भगवन् प्रज्ञापारमिता। भगवानाह-विशुद्धत्वाच्छारिपुत्र। आह-असंक्लेशो भगवन् प्रज्ञापारमिता। भगवानाह-विशुद्धत्वाच्छारिपुत्र। आह-अप्राप्तिरनभिसमयो भगवन् प्रज्ञापारमिता। भगवानाह-विशुद्धत्वाच्छारिपुत्र। आह-अनभिनिर्वृत्तिर्भगवन् प्रज्ञापारमिता। भगवानाह- विशुद्धत्वाच्छारिपुत्र। आह-अत्यन्तानुपपत्तिर्भगवन् प्रज्ञापारमिता कामधातुरूपधात्वारूप्यधातुषु। भगवानाह-विशुद्धत्वाच्छारिपुत्र। आह-न जानाति न संजानीते भगवन् प्रज्ञापारमिता। भगवानाह-विशुद्धत्वाच्छारिपुत्र। आह-किं भगवन् प्रज्ञापारमिता न जानाति न संजानीते? भगवानाह-रूपं शारिपुत्र प्रज्ञापारमिता न जानाति न संजानीते। तत्कस्य हेतोः? विशुद्धत्वाच्छारिपुत्र। एवं वेदनासंज्ञासंस्काराः। विज्ञानं शारिपुत्र प्रज्ञापारमिता न जानाति न संजानीते। तत्कस्य हेतोः? विशुद्धत्वाच्छारिपुत्र। आह-प्रज्ञापारमिता भगवन् सर्वज्ञताया नापकारं करोति, नोपकारं करोति? भगवानाह-विशुद्धत्वाच्छारिपुत्र। आह-प्रज्ञापारमिता भगवन् न कंचिद्धर्मं परिगृह्णाति, न परित्यजति? भगवानाह-विशुद्धत्वाच्छारिपुत्र। अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-आत्मविशुद्धितो भगवन् रूपविशुद्धिः? भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते। आह-आत्मविशुद्धितो भगवन् वेदनासंज्ञासंस्कारविशुद्धिः। आत्मविशुद्धितो भगवन् विज्ञानविशुद्धिः? भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते। आह-आत्मविशुद्धितो भगवन् फलविशुद्धिः? भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते। आह-आत्मविशुद्धितोभगवन् सर्वज्ञताविशुद्धिः? भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते। आह-आत्मविशुद्धितो भगवन् न प्राप्तिर्नाभिसमय? भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते। आह-आत्मापर्यन्ततया भगवन् रूपापर्यतन्ता? भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते। आह-आत्मापर्यन्ततया भगवन् वेदनासंज्ञासंस्कारविज्ञानापर्यन्तता? भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते। आह-य एवमस्य बोधिसत्त्वस्य महासत्त्वस्य भगवन् अवबोधः, इयमस्य प्रज्ञापारमिता? भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते। आयुष्मान् सुभूतिराह-सा खलु पुनरियं भगवन् प्रज्ञापारमिता नापरे तीरे, न परे तीरे, नाप्युभयमन्तरेण विप्रकृता स्थिता। भगवानाह-अत्यन्तविशुद्धत्वात्सुभूते॥



आयुष्मान् सुभूतिराह-एवमपि भगवन् संज्ञास्यते बोधिसत्त्वो महासत्त्वो रिञ्चिष्यतीमां प्रज्ञापारमितां दूरीकरिष्यतीमां प्रज्ञापारमिताम्। भगवानाह-साधु साधु सुभूते। एवमेतत् सुभूते, एवमेतत्। तत्कस्य हेतोः? नामतोऽपि हि सुभूतो सङ्गो निमित्ततोऽपि सङ्गः। एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावदियं प्रज्ञापारमिता स्वाख्याता सुनिर्दिष्टा सुपरिनिष्ठिता, यत्र हि नाम भगवता इमेऽपि सङ्गा आख्याताः। अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-कतमे ते आयुष्मन् सुभूते सङ्गाः? सुभूतिराह-रूपमायुष्मन् शारिपुत्र शून्यमिति सङ्गः। एवं वेदनासंज्ञासंस्काराः। विज्ञानमायुष्मन् शारिपुत्र शून्यमिति सङ्गः। अतीतेषु धर्मेष्वतीता धर्मा इति संजानीते, सङ्गः। अनागतेषु धर्मेष्वनागता धर्मा इति संजानीते, सङ्गः। प्रत्युत्पन्नेषु धर्मेषु प्रत्युत्पन्ना धर्मा इति संजानीते, सङ्गः। इयन्तं पुण्यस्कन्धं प्रसूयते बोधिसत्त्वयानिकः पुद्गलः प्रथमेन चित्तोत्पादेनेति संजानीते, सङ्गः॥



अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्-कतमेन आर्य सुभूते पर्यायेण सङ्गः? सुभूतिराह-सचेत्कौशिक तद्बोधिचित्तं संजानीते-इदं तत्प्रथमं बोधिचित्तमिति, अनुत्तरायां सम्यक्संबोधौ परिणामयामीति परिणामयति। न च चित्तप्रकृतिः शक्या परिणामयितुं तेन कुलपुत्रेण वा कुलदुहित्रा वा महायानसंप्रस्थितेन। तस्मात्तर्हि कौशिक परं संदर्शयता समादापयता समुत्तेजयता संप्रहर्षयता अनुत्तरायां सम्यक्संबोधौ भूतानुगमेन संदर्शयितव्यं समादापयितव्यं समुत्तेजयितव्यं संप्रहर्षयितव्यम्। एवमात्मानं च न क्षिणोति, बुद्धानुज्ञातया च समादापनया परं समादापयति स कुलपुत्रो वा कुलदुहिता वा। इमाश्चास्य सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति॥



अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात्-साधु साधु सुभूते, यस्त्वं बोधिसत्त्वान् महासत्त्वानिमाः सङ्गकोटीर्बोधयसि। तेन हि सुभूते अन्यानपि सूक्ष्मतरान् सङ्गानाख्यास्यामि, तान् शृणु, साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं ते। साधु भगवन् इत्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत्॥



भगवानेतदवोचत्-इह सुभूते श्राद्धः कुलपुत्रो वा कुलदुहिता वा तथागतमर्हन्तं सम्यक्संबुद्धं निमित्ततो मनसि करोति। यावन्ति खलु पुनः सुभूते निमित्तानि, तावन्तः सङ्गाः। तत्कस्य हेतोः? निमित्ततो हि सुभूते सङ्गः। इति हि सोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ये अनास्रवा धर्मास्ताननुमोदे इत्यनुमोद्य अनुमोदनासहगतं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयामीति परिणामयति। या खलु पुनः सुभूते धर्माणां धर्मता, न सा अतीता वा अनागता वा प्रत्युत्पन्ना वा। या नातीता नानागता न प्रत्युत्पन्ना, सा त्र्यध्वनिर्मुक्ता। या त्र्यध्वनिर्मुक्ता, न सा शक्या परिणामयितुं न निमित्तीकर्तुं नारम्बणीकर्तुम्। नापि सा दृष्टश्रुतमतविज्ञाता॥



सुभूतिराह-गम्भीरा भगवन् प्रकृतिर्धर्माणाम्। भगवानाह- विविक्तत्वात्सुभूते। आह-प्रकृतिगम्भीरा भगवन् प्रज्ञापारमिता। भगवानाह-प्रकृतिविशुद्धत्वात्सुभूते। प्रकृति विविक्तत्वात्प्रकृतिगम्भीरा प्रज्ञापारमिता। सुभूतिराह-प्रकृतिविविक्ता भगवन् प्रज्ञापारमिता। नमस्करोमि भगवन् प्रज्ञापारमितायै॥



भगवानाह-सर्वधर्मा अपि सुभूते प्रकृतिविविक्ताः। या च सुभूते सर्वधर्माणां प्रकृतिविविक्तता, सा प्रज्ञापारमिता। तत्कस्य हेतोः? तथा हि सुभूते अकृताः सर्वधर्मास्तथागतेनार्हता सम्यक्संबुद्धेनाभिसंबुद्धाः। सुभूतिराह-तस्मात्तर्हि भगवन् सर्वधर्मा अनभिसंबुद्धास्तथागतेनार्हता सम्यक्संबुद्धेन? भगवानाह-तथाहि सुभूते प्रकृत्यैव न ते धर्माः किंचित्। या च प्रकृतिः, सा अप्रकृतिः, या च प्रकृतिः, सा प्रकृतिः सर्वधर्माणामेकलक्षणत्वाद्यदुत अलक्षणत्वात्। तस्मात्तर्हि सुभूते सर्वधर्मा अनभिसंबुद्धास्तथागतेनार्हता सम्यक्संबुद्धेन। तत्कस्य हेतोः? न हि सुभूते द्वे धर्मप्रकृती। एकैव हि सुभूते सर्वधर्माणां प्रकृतिः। या च सुभूते सर्वधर्माणां प्रकृतिः, सा अप्रकृतिः, या च अप्रकृतिः, सा प्रकृतिः। एवमेताः सुभूते सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति॥



सुभूतिराह-गम्भीरा भगवन् प्रज्ञापारमिता। भगवानाह-आकाशगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता। सुभूतिराह-दुरनुबोधा भगवन् प्रज्ञापारमिता। भगवानाह-तथा हि सुभूते न कश्चिदभिसंबुध्यते। आह-अचिन्त्या भगवन् प्रज्ञापारमिता। भगवानाह-तथा हि सुभूते प्रज्ञापारमिता न चित्तेन ज्ञातव्या न चित्तगमनीया। आह-अकृता भगवन् प्रज्ञापारमिता। भगवानाह-कारकानुपलब्धितः सुभूते अकृता प्रज्ञापारमिता॥



आह-तेन हि भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां कथं चरितव्यम्? भगवानाह-सचेत्सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न रूपे चरति, चरति प्रज्ञापारमितायाम्। एवं सचेन्न वेदनायां न संज्ञायां न संस्कारेषु। सचेन्न विज्ञाने चरति, चरति प्रज्ञापारमितायाम्। सचेद्रूपमनित्यमिति न चरति, चरति प्रज्ञापारमितायाम्। एवं वेदनासंज्ञासंस्काराः। सचेद्विज्ञानमनित्यमिति न चरति, चरति प्रज्ञापारमितायाम्। सचेद्रूपं शून्यमिति न चरति, चरति प्रज्ञापारमितायाम्। एवं वेदनासंज्ञासंस्काराः। सचेद्विज्ञानं शून्यमिति न चरति, चरति प्रज्ञापारमितायाम्। सचेद्रूपमप्रतिपूर्णं प्रतिपूर्णमिति न चरति, चरति प्रज्ञापारमितायाम्। या च रूपस्याप्रतिपूर्णता प्रतिपूर्णता वा, न तद्रूपम्। एवं वेदनासंज्ञासंस्काराः। सचेद्विज्ञानमप्रतिपूर्णं प्रतिपूर्णमिति न चरति, चरति प्रज्ञापारमितायाम्। या च विज्ञानस्याप्रतिपूर्णता प्रतिपूर्णता वा, न तद्विज्ञानम्। सचेदेवमपि न चरति, चरति प्रज्ञापारमितायाम्॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावद्यदेवं बोधिसत्त्वानां महासत्त्वानां ससङ्गता च असङ्गता च ख्याताः। भगवानाह-रूपं ससङ्गमसङ्गमिति सुभूते न चरति, चरति प्रज्ञापारमितायाम्। एवं वेदनासंज्ञासंस्काराः। विज्ञानं ससङ्गमसङ्गमिति सुभूते न चरति, चरति प्रज्ञापारमितायाम्। चक्षुः ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम्। एवं यावन्मनःसंस्पर्शजा वेदना ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम्। पृथिवीधातुः ससङ्गोऽसङ्ग इति न चरति, चरति प्रज्ञापारमितायाम्। यावद्विज्ञानधातुः ससङ्गोऽसङ्ग इति न चरति, चरति प्रज्ञापारमितायाम्। दानपारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम्। एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता। प्रज्ञापारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम्। एवं सप्तत्रिंशद्बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदो अष्टादशावेणिका बुद्धधर्माः ससङ्गासङ्गा इति न चरति, चरति प्रज्ञापारमितायाम्। स्रोतआपत्तिफलं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम्। एवं सकृदागामिफलमनागामिफलमर्हत्त्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम्। प्रत्येकबुद्धत्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम्। बुद्धत्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम्। सर्वज्ञतापि सुभूते ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम्। एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपे सङ्गं जनयति, न वेदनायां न संज्ञायां न संस्कारेषु। न विज्ञाने सङ्गं जनयति। न चक्षुषि सङ्गं जनयति। यावन्न मनःसंस्पर्शजायां वेदनायां सङ्गं जनयति। न पृथिवीधातौ सङ्गं जनयति, यावन्न विज्ञानधातौ सङ्गं जनयति, न दानपारमितायां सङ्गं जनयति, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां सङ्गं जनयति, न बोधिपक्षेषु धर्मेषु, न बलेषु, न वैशारद्येषु, न प्रतिसंवित्सु, नाष्टादशस्वावेणिकेषु बुद्धधर्मेषु सङ्गं जनयति, न स्रोतआपत्तिफले सङ्गं जनयति, न सकृदागामिफले न अनागामिफले न अर्हत्त्वे सङ्गं जनयति, न प्रत्येकबुद्धत्वे सङ्गं जनयति, न बुद्धत्वे सङ्गं जनयति, नापि सर्वज्ञतायां सङ्ग जनयति। तत्कस्य हेतोः? असक्ता अबद्धा अमुक्ता असमतिक्रान्ता हि सुभूते सर्वज्ञता। एवं हि सुभूते सर्वसङ्गसमतिक्रमाय बोधिसत्त्वैर्महासत्त्वैः प्रज्ञापारमितायां चरितव्यम्॥



सुभूतिराह-आश्चर्यं भगवन्, यावद्गम्भीरोऽयं भगवन् धर्मः प्रज्ञापारमिता नाम। या देश्यमानापि न परिहीयते, अदेश्यमानापि न परिहीयते। देश्यमानापि न वर्धते। अदेश्यमानापि न वर्धते। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-साधु साधु सुभूते। एवमेतत्सुभूते, एवमेतत्। तद्यथापि नाम सुभूते तथागतोऽर्हन् सम्यक्संबुद्धो यावज्जीवं तिष्ठन्नाकाशस्य वर्णं भाषेत, नाकाशस्य वृद्धिर्भवेत्। अभाष्यमाणेऽपि वर्णे नैवाकाशस्य परिहानिर्भवेत्। तद्यथापि नाम सुभूते मायापुरुषो भाष्यमाणेऽपि वर्णे नानुनीयते न संक्लिश्यते, अभाष्यमाणेऽपि वर्णे न प्रतिहन्यते, न संक्लिश्यते। एवमेव सुभूते या धर्माणां धर्मता, सा देश्यमानापि तावत्येव, अदेश्यमानापि तावत्येव॥



स्थविरः सुभूतिराह-दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो यो गम्भीरायां प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयन् न संसीदति नोत्प्लवते। अत्र च नाम योगमापद्यते, न च प्रत्युदावर्तते। आकाशभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना। नमस्कर्तव्यास्ते भगवन् बोधिसत्त्वा महासत्त्वाः, यैरयं संनाहः संनद्धः। तत्कस्य हेतोः? आकाशेन सार्धं स भगवन् संनद्धुकामो यः सत्त्वानां कृतशः संनाहं बध्नाति। महासंनाहसंनद्धो भगवन् बोधिसत्त्वो महासत्त्वः। शूरो भगवन् बोधिसत्त्वो महासत्त्वो य आकाशसमानां सत्त्वानां धर्मधातुसमानां सत्त्वानां कृतशः संनाहं संनद्धुकामोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः। आकाशं स भगवन् परिमोचयितुकामः। आकाशं स भगवन् उत्क्षेप्तुकामः। महावीर्यपारमितासंनाहप्राप्तः स भगवन् बोधिसत्त्वो महासत्त्वो य आकाशसमानां धर्मधातुसमानां सत्त्वानां कृतशः संनाहं संनह्यते॥



अथ खल्वन्यतमो भिक्षुर्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-नमस्करोमि भगवन् प्रज्ञापारमितायै। तथा हि भगवन् प्रज्ञापारमिता न कंचिद्धर्ममुत्पादयति, न कंचिद्धर्मं निरोधयति॥



अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्-य आर्य सुभूते अत्र प्रज्ञापारमितायामेव योगमापत्स्यते, क्व स योगमापत्स्यते? सुभूतिराह-आकाशे स कौशिक योगमापत्स्यते, यः प्रज्ञापारमितायां योगमापत्स्यते। अभ्यवकाशे स कौशिक योगमापत्स्यते, यः प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यं मंस्यते॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-आज्ञापयतु भगवान्। तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं करोमि य इमां प्रज्ञापारमितां धारयति। अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्-समनुपश्यसि त्वं कौशिक तं धर्मं यस्य धर्मस्य रक्षावरणगुप्तिं करिष्यसि? शक्र आह-नो हीदमार्य सुभूते। सुभूतिराह-एवं कौशिक सचेद्बोधिसत्त्वो महासत्त्वो यथानिर्दिष्टायां प्रज्ञापारमितायां स्थास्यति, सैव तस्य रक्षावरणगुप्तिर्भविष्यति। अथ विरहितो भविष्यति प्रज्ञापारमितया, लप्स्यन्तेऽस्य अवतारप्रेक्षिणोऽवतारगवेषिणो मनुष्याश्च अमनुष्याश्च अवतारम्। अपि च कौशिक आकाशस्य स रक्षावरणगुप्तिं संविधातव्यां मन्येत, यो बोधिसत्त्वस्य महासत्त्वस्य रक्षावरणगुप्तिं संविधातव्यां मन्येत प्रज्ञापारमितायां चरतः। तत्किं मन्यसे कौशिक प्रतिबलस्त्वं प्रतिश्रुत्काया रक्षावरणगुप्ति संविधातुम्? शक्र आह-न ह्येतदार्य सुभूते। सुभूतिराह-एवमेव कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विहरन् प्रतिश्रुत्कोपमाः सर्वधर्मा इति परिजानाति। स च तान्न मन्यते, न समनुपश्यति, न जानाति न संजानीते। ते च धर्मा न विद्यन्ते न संदृश्यन्ते न संविद्यन्ते नोपलभ्यन्ते इति विहरति। सचेदेवं विहरति, चरति प्रज्ञापारमितायाम्॥



अथ खलु बुद्धानुभावेन ये त्रिसाहस्रमहासाहस्रे लोकधातौ चत्वारो महाराजानः, सर्वे च शक्रा देवेन्द्राः, सर्वे च महाब्रह्माणः, सहापतिश्च महाब्रह्मा, ते सर्वे येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्तेऽतिष्ठन्। एकान्ते स्थिताश्च ते महाराजानः, सर्वे च शक्रा देवेन्द्राः, सर्वे च ब्रह्मकायिका देवा महाब्रह्माणश्च, सहापतिश्च महाब्रह्मा बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धसहस्रं समान्वाहरन्ति स्म। एभिरेव नामभिरेभिरेव पदैरेभिरेवाक्षरैः सुभूतिनामधेयैरेव भिक्षुभिरियमेव प्रज्ञापारमितोपदिष्टा, अयमेव प्रज्ञापारमितापरिवर्तः। तत्रापि शक्रा एव देवेन्द्राः परिपृच्छन्ति स्म, परिप्रश्नयन्ति स्म-अस्मिन्नेव पृथिवीप्रदेशे इयमेव प्रज्ञापारमिता भाषिता। मैत्रेयोऽपि बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य अस्मिन्नेव पृथिवीप्रदेशे एनामेव प्रज्ञापारमितां भाषिष्यते इति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां विशुद्धिपरिवर्तो नामाष्टमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project