Digital Sanskrit Buddhist Canon

७ निरयपरिवर्तः सप्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7 nirayaparivartaḥ saptamaḥ

७ निरयपरिवर्तः सप्तमः।



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-सर्वज्ञज्ञानपरिनिष्पत्तिर्भगवन् प्रज्ञापारमिता, सर्वज्ञत्वं भगवन् प्रज्ञापारमिता। भगवानाह-एवमेतच्छारिपुत्र, एवमेतद्यथा वदसि। शारिपुत्र आह-अवभासकरी भगवन् प्रज्ञापारमिता। नमस्करोमि भगवन् प्रज्ञापारमितायै। नमस्करणीया भगवन् प्रज्ञापारमिता। अनुपलिप्ता भगवन् प्रज्ञापारमिता। सर्वलोकनिरुपलेपा भगवन् प्रज्ञापारमिता। आलोककरी भगवन् प्रज्ञापारमिता। सर्वत्रैधातुकवितिमिरकरी भगवन् प्रज्ञापारमिता। सर्वक्लेशदृष्ट्यन्धकारापनेत्री भगवन् प्रज्ञापारमिता। आश्रयणीया भगवन् प्रज्ञापारमिता। अग्रकरी भगवन् प्रज्ञापारमिता बोधिपक्षाणां धर्माणाम्। क्षेमकरी भगवन् प्रज्ञापारमिता। अन्धानां सत्त्वानामालोककरी भगवन् प्रज्ञापारमिता। सर्वभयोपद्रवप्रहीणालोककरी भगवन् प्रज्ञापारमिता। पञ्चचक्षुःपरिग्रहं कृत्वा सर्वसत्त्वानां मार्गदर्शयित्री भगवन् प्रज्ञापारमिता। चक्षुर्भगवन् प्रज्ञापारमिता। मोहतमस्तिमिरविकरिणी भगवन् प्रज्ञापारमिता। सर्वधर्माणामकरणी भगवन् प्रज्ञापारमिता। उत्पथप्रयातानां सत्त्वानां मार्गावतारणी भगवन् प्रज्ञापारमिता। सर्वज्ञतैव भगवन् प्रज्ञापारमिता। सर्वक्लेशज्ञेयावरणवासनानुसंधिप्रहीणतामुपादाय अनुत्पादिका भगवन् सर्वधर्माणां प्रज्ञापारमिता। अनिरोधिका भगवन् सर्वधर्माणां प्रज्ञापारमिता। अनुत्पन्नानिरुद्धा भगवन् प्रज्ञापारमिता। स्वलक्षणशून्यतामुपादाय माता भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता। सर्वबुद्धधर्मरत्नदात्रीत्वाद्दशबलकरी भगवन् प्रज्ञापारमिता। अनवमर्दनीया भगवन् प्रज्ञापारमिता। चतुर्वैशारद्यकरीत्वादनाथानां सत्त्वानां नाथकरी भगवन् प्रज्ञापारमिता। संसारप्रतिपक्षा भगवन् प्रज्ञापारमिता। अकूटस्थतामुपादाय सर्वधर्मस्वभावविदर्शनी भगवन् प्रज्ञापारमिता। परिपूर्णत्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनी भगवन् बुद्धानां भगवतां प्रज्ञापारमिता। कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? कथं मनसि कर्तव्या भगवन् प्रज्ञापारमिता? कथं भगवन् नमस्कर्तव्या प्रज्ञापारमिता? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-यथा शारिपुत्र शास्तरि, तथा प्रज्ञापारमितायां स्थातव्यम्। तथैव मनसि कर्तव्या शारिपुत्र प्रज्ञापारमिता यथा शास्ता। तथैव नमस्कर्तव्या शारिपुत्र प्रज्ञापारमिता यथा शास्ता॥



अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्-कुतो नु बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? किंनिदाना बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्-कुत इयमार्यस्य शारिपुत्रस्य पृच्छा जाता? किंनिदाना बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? एवमुक्ते आयुष्मान् शारिपुत्रः शक्रं देवानामिन्द्रमेतदवोचत्-प्रज्ञापारमितोपायकौशल्यपरिगृहीतः कौशिक बोधिसत्त्वो महासत्त्वोऽनुमोदनासहगतं पुण्यक्रियावस्तु सर्वज्ञतायां परिणामयंस्तेषां पौर्वकाणामौपलम्भिकानां बोधिसत्त्वानां यश्च दानमयः पुण्याभिसंस्कारः, यश्च शीलमयो यश्च क्षान्तिमयो यश्च वीर्यमयो यश्च ध्यानमयः पुण्याभिसंस्कारः, तं सर्वमभिभवतीति। ममेयमेतन्निदाना पृच्छा जाता। अपि नु खलु पुनः कौशिक प्रज्ञापारमितैव पूर्वंगमा पञ्चानां पारमितानां सर्वज्ञतामार्गावताराय। तद्यथापि नाम कौशिक जात्यन्धानां शतं वा सहस्रं वा शतसहस्रं वा अपरिणायकमभव्यं मार्गावताराय, अभव्यं ग्रामं वा नगरं वा निगमं वा गन्तुम्, एवमेव कौशिक दानं शीलं क्षान्तिवीर्यं ध्यानं च प्रज्ञापारमितानामधेयं लभते। जात्यन्धभूतं भवति विना प्रज्ञापारमितया अपरिणायकत्वात्। अभव्यं सर्वज्ञतामार्गावताराय। कुतः पुनः सर्वज्ञतामनुप्राप्स्यति? यदा पुनः कौशिक दानं शीलं क्षान्तिर्वीयं ध्यानं च प्रज्ञापारमितापरिगृहीतं भवति, तदा पारमितानामधेयं पारमिताशब्दं लभते। तदा ह्यासां चक्षुःप्रतिलम्भो भवति पञ्चानां पारमितानां सर्वज्ञतामार्गावताराय सर्वज्ञतानुप्राप्तये॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-रूपस्य शारिपुत्र अभिनिर्हारो द्रष्टव्यः। एवं वेदनायाः संज्ञायाः संस्काराणाम्। विज्ञानस्य शारिपुत्र अभिनिर्हारो द्रष्टव्यः। यः शारिपुत्र पञ्चानां स्कन्धानामभिनिर्हारः, अयं शारिपुत्र प्रज्ञापारमिताया अभिनिर्हार इत्युच्यते। एवमभिनिर्हारेण पञ्चानां स्कन्धानामभिनिर्हारः प्रज्ञापारमिताया अभिनिर्हारोऽभिनिर्हार इत्युच्यते॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-एवमभिनिर्हारेण अभिनिर्हृता भगवन् प्रज्ञापारमिता कतमं धर्ममर्पयति? भगवानाह-एवमभिनिर्हृता शारिपुत्र प्रज्ञापारमिता न कंचिद्धर्ममर्पयति। यदा सा शारिपुत्र न कंचिद्धर्ममर्पयति, तदा प्रज्ञापारमितेति संख्यां गच्छति॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-किमियं भगवन् प्रज्ञापारमिता सर्वज्ञतामपि नार्पयति? भगवानाह-यत्कौशिक एवं वदसि-किमियं प्रज्ञापारमिता सर्वज्ञतामपि नार्पयतीति? न यथोपलम्भस्तथा अर्पयति, न यथा नाम तथार्पयति, न यथाभिसंस्कारस्तथार्पयति। शक्र आह-कथं तर्हि भगवन्नर्पयति? भगवानाह-यथा कौशिक नार्पयति तथार्पयति। शक्र आह-आश्चर्यं भगवन् यावदियं प्रज्ञापारमिता न कंचिद्धर्ममुत्पादयति, न कंचिद्धर्मं निरोधयति। सर्वधर्माणामनुत्पादाय अनिरोधाय प्रत्युपस्थिता अनुपस्थिता प्रज्ञापारमिता॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-सचेदेवमपि भगवन् बोधिसत्त्वो महासत्त्वो संज्ञास्यते, दूरीकरिष्यति इमां प्रज्ञापारमिताम्, रिक्तीकरिष्यति इमां प्रज्ञापारमिताम्, तुच्छीकरिष्यति इमां प्रज्ञापारमिताम्, न करिष्यति इमां प्रज्ञापारमिताम्। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। अस्त्येष सुभूते पर्यायो येन पर्यायेण दूरीकरिष्यतीमां प्रज्ञापारमिताम्, रिक्तीकरिष्यतीमां प्रज्ञापारमिताम्, तुच्छीकरिष्यतीमां प्रज्ञापारमिताम्, न करिष्यतीमां प्रज्ञापारमिताम्। तत्कस्य हेतोः? प्रज्ञापारमितायां हि सुभूते परिदीपितायां न रूपं परिदीपितं भवति। न वेदना न संज्ञा न संस्काराः। न विज्ञानं परिदीपितं भवति। न स्रोतआपत्तिफलं परिदीपितं भवति। न सकृदागामिफलं परिदीपितं भवति। न अनागामिफलं परिदीपितं भवति। नार्हत्त्वं परिदीपितं भवति। न प्रत्येकबुद्धत्वं परिदीपितं भवति। न बुद्धत्वं परिदीपितं भवति॥



स्थविरः सुभूतिराह-महापारमितेयं भगवन् यदुत प्रज्ञापारमिता। भगवानाह-तत्किं मन्यसे सुभूते कतमेन पर्यायेण महापारमितेयं यदुत प्रज्ञापारमिता? स्थविरः सुभूतिराह-न भगवन् रूपं महत्करोति नाल्पीकरोति, न रूपं संक्षिपति न विक्षिपति। एवं न वेदनां न संज्ञां न संस्कारान्। न भगवन् विज्ञानं महत्करोति नाल्पीकरोति, न विज्ञानं संक्षिपति न विक्षिपति। यान्यपि तानि तथागतस्य तथागतबलानि, तान्यपि न बलीकरोति न दुर्बलीकरोति, न संक्षिपति न विक्षिपति। यापि सा सर्वज्ञता, तामपि न महत्करोति नाल्पीकरोति, न संक्षिपति न विक्षिपति। तत्कस्य हेतोः? असंक्षिप्ताविक्षिप्ता हि भगवन् सर्वज्ञता। सचेदेवमपि भगवन् बोधिसत्त्वो महासत्त्वः संजानीते, चरति प्रज्ञापारमितायाम्। किं पुनरेवं संजानानः-एवमहं सर्वज्ञज्ञानसमन्वागत सत्त्वेभ्यो धर्मं देशयिष्यामि, एवमिमान् सत्त्वान् परिनिर्वापयिष्यामीति। तत्कस्य हेतोः? न ह्येष प्रज्ञापारमितानिष्यन्दो य इमान् सत्त्वान् परिनिर्वापयिष्यामीति सत्त्वोपलम्भः। एष एवास्य महानुपलम्भः स्यात्। तत्कस्य हेतोः ? सत्त्वास्वभावजातिका हि प्रज्ञापारमितावेदितव्या। सत्त्वास्वभावतया प्रज्ञापारमितास्वभावता वेदितव्या। सत्त्वविविक्ततया प्रज्ञापारमिताविविक्तता वेदितव्या। सत्त्वाचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्या। सत्त्वाविनाशधर्मतया प्रज्ञापारमिताविनाशधर्मता वेदितव्या। सत्त्वानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या। सत्त्वयथाभूतार्थानभिसंबोधनतया प्रज्ञापारमितायथाभूतार्थानभिसंबोधनता वेदितव्या। सत्त्वबलसमुदागमनतया तथागतबलसमुदागमनता वेदितव्या। अनेन भगवन् पर्यायेण महापारमितेयं यदुत प्रज्ञापारमिता॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-यो भगवन् इह गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वोऽधिमोक्षयिष्यति न काङ्क्षिष्यति न विचिकित्सिष्यति न धन्धायिष्यति, कुतः स भगवंश्च्युत इहोपपन्नो वेदितव्यः, कियच्चिरचरितावी च स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, य इमां प्रज्ञापारमितामर्थतश्च धर्मतश्च अर्थनयतश्च धर्मनयतश्च अनुगमिष्यति अनुभोत्स्यतेऽनुबोधयिष्यति च? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-स शारिपुत्र बोधिसत्त्वो महासत्त्वोऽन्येभ्यो लोकधातुभ्यश्च्युतो बुद्धान् भगवतः पर्युपास्य परिपृच्छ्य इहोपपन्नो वेदितव्यः। तत्कस्य हेतोः? यः कश्चिच्छारिपुत्र बोधिसत्त्वो महासत्त्वोऽन्येभ्यो लोकधातुभ्यश्च्युतो बुद्धान् भगवतः पर्युपास्य परिपृच्छय इहोपपन्नो भवति, स इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानामुद्दिश्यमानां शृणुयात्, इमां प्रज्ञापारमितां श्रुत्वा अत्र शास्तृसंज्ञां प्रज्ञापारमितायामुत्पादयेत्-शास्ता मे संमुखीभूत् इति, शास्ता मे दृष्ट इति चित्तमुत्पादयति। प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां श्रोत्रमवदधाति, सत्कृत्य शृणोति, कथां नोपच्छिनत्ति। चिरचरितावी स शारिपुत्र तथारूपो बोधिसत्त्वो महासत्त्वो वेदितव्यः। बहुबुद्धपर्युपासितः स शारिपुत्र तथारूपो बोधिसत्त्वो महासत्त्वो वेदितव्यः॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-शक्या पुनर्भगवन् प्रज्ञापारमिता श्रोतुं वा उपलक्ष्ययितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा? इयं सा प्रज्ञापारमिता, इह वा सा प्रज्ञापारमिता, अमुत्र वा सा प्रज्ञापारमिता, अनेन वा आकारेण लिङ्गेन निमित्तेनेति शक्या निर्देष्टुं वा श्रोतुं वा? भगवानाह-नो हीदं सुभूते। नेयं सुभूते प्रज्ञापारमिता स्कन्धशो वा धातुशो वा आयतनशो वा शक्या निर्देष्टुं वा श्रोतुं वा उपलक्षयितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा। तत्कस्य हेतोः? सर्वधर्मविविक्तत्वात्सुभूते, अत्यन्तविविक्तत्वात्सुभूते सर्वधर्माणां न शक्या प्रज्ञापारमिता निर्देष्टुं वा श्रोतुं वा उपलक्षयितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा। न चान्यत्र स्कन्धधात्वायतनेभ्यः प्रज्ञापारमिता अवबोद्धव्या। तत्कस्य हेतोः? स्कन्धधात्वायतनमेव हि सुभूते शून्यं विविक्तं शान्तम्। इति हि प्रज्ञापारमिता च स्कन्धधात्वायतनं च अद्वयमेतदद्वैधीकारं शून्यत्वाद्विविक्तत्वात्। एवं शान्तत्वान्नोपलभ्यते। योऽनुपलम्भः सर्वधर्माणाम्, सा प्रज्ञापारमितेत्युच्यते। यदा न भवति संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारः, तदा प्रज्ञापारमितेत्युच्यते॥



स्थविरः सुभूतिराह-कियच्चिरचरितावी स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यो य इह गम्भीरायां प्रज्ञापारमितायां योगमापत्स्यते? भगवानाह-विभज्य व्याकरणीयमेतत्सुभूते बोधिसत्त्वानां महासत्त्वानामिन्द्रियाधिमात्रतया। स्यात्खलु पुनः सुभूते पर्यायो येन पर्यायेण बोधिसत्त्वा बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि दृष्ट्वा तेषामन्तिके ब्रह्मचर्यं चरित्वा इमां प्रज्ञापारमितां न श्रद्दध्युर्नाधिमुञ्चेयुः। तत्कस्य हेतोः? पूर्वमपि तेषां बुद्धानां भगवतामन्तिकादस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामगौरवता अभूत्। अगौरवतया अशुश्रूषणता, अशुश्रूषणतया अपर्युपासनता, अपर्युपासनतया अपरिपृच्छनता, अपरिपृच्छनतया अश्रद्दधानता, अश्रद्दधानतया ततः पर्षद्ध्योऽपक्रान्ताः, ते ततोनिदानं धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेन संचितेन आचितेन उपचितेन एतर्ह्यपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामपक्रामन्ति। अगौरवतया अश्रद्दधाना अनधिमुञ्चन्तो न कायेन न चित्तेन सामग्रीं ददति। ते सामग्रीमददाना इमां प्रज्ञापारमितां न जानन्ति न पश्यन्ति न बुध्यन्ते न वेदयन्ते। एवं ते प्रज्ञापारमितां न श्रद्दधति। अश्रद्दधाना न शृण्वन्ति। अशृण्वन्तो न जानन्ति। अजानन्तो न पश्यन्ति। अपश्यन्तो न बुध्यन्ते। अबुध्यमाना धर्मव्यसनसंवर्तनीयं कर्म कुर्वन्ति, संचिन्वन्ति आचिन्वन्ति उपचिन्वन्ति। ते तेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेन संचितेन आचितेन उपचितेन दुष्प्रज्ञसंवर्तनीयं कर्माभिसंस्करिष्यन्ति। तेन ते दुष्प्रज्ञसंवर्तनीयेन कर्मणा अभिसंस्कृतेन संचितेनाचितेनोपचितेन इमां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानां प्रत्याख्यास्यन्ति प्रतिक्षेप्स्यन्ति प्रतिक्रोक्ष्यन्ति, प्रतिक्षिप्य च अपक्रमिष्यन्ति। अस्याः खलु पुनः सुभूते प्रज्ञापारमितायाः प्रत्याख्यानेन प्रतिक्षेपेण प्रतिक्रोशेन अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता प्रत्याख्याता भवति, प्रतिक्षिप्ता भवति, प्रतिक्रुष्टा भवति। ते स्वसंतानानुपहत्य दग्धाः परेषामप्यल्पबुद्धिकानामल्पप्रज्ञानामल्पपुण्यानामल्पकुशलमूलानां पुद्गलानां श्रद्धामात्रकसमन्वागतानां प्रेममात्रकसमन्वागतानां प्रसादमात्रकसमन्वागतानां छन्दमात्रकसमन्वागतानामादिकर्मिकाणामभव्यरूपाणां तदपि श्रद्धामात्रकं प्रेममात्रकं प्रसादमात्रकं छन्दमात्रकं विच्छन्दयिष्यन्ति विवेचयिष्यन्ति विवर्तयिष्यन्ति, नात्र शिक्षितव्यमिति वक्ष्यन्ति, नैतद्बुद्धवचनमिति वाचं भाषिष्यन्ते। एवं ते आत्मसंतानानुपहत्य विवेच्य परसंतानानप्युपहत्य विवेच्य प्रज्ञापारमितामभ्याख्यास्यन्ति। प्रज्ञापारमितायामभ्याख्यातायां सर्वज्ञता अभ्याख्याता भवति। सर्वज्ञतायामभ्याख्यातायामतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तोऽभ्याख्याता भवन्ति। ते बुद्धानां भगवतामन्तिकादपक्रान्ता भविष्यन्ति, धर्मात्परिमुक्ता भविष्यन्ति, संघात्परिबाह्या भविष्यन्ति। एवं तेषां सर्वेण सर्वं सर्वथा सर्वं त्रिरत्नात्परिबाह्यभावो भविष्यति। ते सत्त्वानां हितसुखोपच्छेदक्रियया महानिरयविपाकसंवर्तनीयं कर्म उपचेष्यन्ति। ते अनेनैवंरूपेण कर्माभिसंस्कारेणोपस्थापितेन समुत्थापितेन धर्मव्यसनसंवर्तनीयेन दुष्प्रज्ञसंवर्तनीयेन कर्मणा बहूनि वर्षशतानि बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि बहूनि वर्षकोटीशतानि बहूनि वर्षकोटीसहस्राणि बहूनि वर्षकोटीशतसहस्राणि बहूनि वर्षकोटीनियुतशतसहस्राणि महानिरयेषूपपत्स्यन्ते। ते महानिरयान्महानिरयं संक्रमिष्यन्ति।



तेषां तथा सुचिरं महानिरयान्महानिरयं संक्रामतां तेजःसंवर्तनी प्रादुर्भविष्यति। तेजःसंवर्तन्यां प्रादुर्भूतायां येऽन्येषु लोकधातुषु महानिरयाः, तत्र ते क्षेप्स्यन्ते। ते तेषु महानिरेयषु उपपत्स्यन्ते। ते तत्र विक्षिप्तास्तेषु महानिरयेषूपपन्नाः समानास्तत्रापि महानिरयान्महानिरयं संक्रमिष्यन्ति। तेषां तत्रापि महानिरयान्महानिरयं संक्रामतां तत्रापि पुनरेव तथैव तेजःसंवर्तनी प्रादुर्भविष्यति। ते तस्यां तेजःसंवर्तन्यां प्रादुर्भूतायां ततश्च्युताः समानाः पुनरेव अन्येषु लोकधातुषु ये महानिरयास्तत्र क्षेप्स्यन्ते। ते तेषु महानिरयेषूपपत्स्यन्ते। ते तत्रापि तथैव महानिरयान्महानिरयं संक्रमिष्यन्ति। तेषां तत्रापि सुचिरं महानिरयान्महानिरयं संक्रामतां तत्रापि तथैव तेजःसंवर्तनी प्रादुर्भविष्यति। ते तस्यां तेजःसंवर्तन्यां प्रादुर्भूतायां पुनरेव ततश्च्युतास्तेनैव अक्षीणेन सावशेषेण कर्मणा इहैव लोकधातौ पुनः क्षेप्स्यन्ते। क्षिप्ताः सन्तो महानिरयेषूपपत्स्यन्ते। ते पुनरेव तानि महानिरयेषु महान्ति महानिरयदुःखानि प्रत्यनुभविष्यन्ति। तावत्प्रत्यनुभविष्यन्ति, यावत्पुनरेव तेजःसंवर्तनी प्रादुर्भविष्यति। एवं ते बहुदुःखवेदनीयं कर्म प्रत्यनुभविष्यन्ति। तत्कस्य हेतोः? यथापि नाम दुर्भाषितत्वाद्वाचः॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-पञ्च भगवन् आनन्तर्याणि कर्माणि कृतान्युपचितानि अस्य मनोदुश्चरितस्य वाग्दुश्चरितस्य च न प्रतिवर्णिकान्यपि न अनुरूपाण्यपि न प्रतिरूपाण्यपि भवन्ति। भगवानाह-एवमेतच्छारिपुत्र, एवमेतत्। पञ्चानन्तर्याणि शारिपुत्र कर्माणि कृतान्युपचितान्यस्य मनोदुश्चरितस्य च वाग्दुश्चरितस्य च न प्रतिवर्णिकान्यपि न अनुरूपाण्यपि न प्रतिरूपाण्यपि अस्य कर्मणः कृतस्य संचितस्य आचितस्य उपचितस्य। ये केचिदिमां गम्भीरा प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानामुद्दिश्यमानां प्रतिबाधितव्यां मंस्यन्ते, प्रतिक्षेप्स्यन्ति, प्रतिक्रोक्ष्यन्ति, नात्र शिक्षितव्यमिति वक्ष्यन्ति, नेयं तथागतभाषितेति वाचं भाषिष्यन्ते, ततोऽन्यानपि सत्त्वान् विवेचयिष्यन्ति। ते स्वसंतानानुपहत्य परसंतानानुपहनिष्यन्ति। ते स्वसंतानान् सविषान् कृत्वा परसंतानान् सविषान् करिष्यन्ति। स्वयं नष्टाः परानपि नाशयिष्यन्ति। स्वयं गम्भीरां प्रज्ञापारमितामजानाना अनवबुध्यमानाः परानपि ग्राहयिष्यन्ति, नात्र शिक्षितव्यमिति वाचं भाषिष्यन्ते। नाहं शारिपुत्र एवंरूपाणां पुद्गलानां दर्शनमप्यभ्यनुजानामि, कुतस्तैः सह संवासं कुतो वा लाभसत्कारं कुतः स्थानम्? तत्कस्य हेतोः? धर्मदूषका हि ते शारिपुत्र तथारूपाः पुद्गला वेदितव्या इति। कसम्बकजातास्ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः। कृष्णानिर्जातिकाः कृष्णाहिजातिकास्ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः। तेषां शारिपुत्र तथारूपाणां पुद्गालानां ये श्रोतव्यं मंस्यन्ते, सर्वे ते अनयेन व्यसनमापत्स्यन्ते। ये च शारिपुत्र प्रज्ञापारमितां दूषयन्ति, इमे ते शारिपुत्र धर्मदूषकाः पुद्गला वेदितव्याः। शारिपुत्र आह-न भगवता तस्य पुद्गलस्य तत्रोपपन्नस्य महानिरयगतस्यात्मभावस्य प्रमाणमाख्यातम्। भगवानाह-तिष्ठतु शारिपुत्र तस्य पुद्गलस्य तत्रोपपन्नस्य महानिरयगतस्यात्मभावस्य प्रमाणम्। तत्कस्य हेतोः? मा तथारूपस्य पुद्गलस्य तदात्मभावस्य प्रमाणं श्रुत्वा उष्णं रूधिरं मुखादागच्छेत्, मरणं वा निगच्छेत्, मरणमात्रकं वा दुःखमागाढमाबाधं स्पृशेत्, दह्येत वा, शोकशल्यो वा अस्याविशेत्, महाप्रपातं वा प्रपतेत्, उपशुष्येत वा म्लायेत वा। मैव महाप्रतिभयं तस्यात्मभावस्य प्रमाणमश्रौषीद्यस्येमे दोषाः संविद्यन्ते॥



न भगवानायुष्मतः शारिपुत्रस्यावकाशं करोति-इयत्तस्यात्मभावस्य प्रमाणं भविष्यतीति। द्वितीयकमपि तृतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-आख्यातु मे भगवांस्तस्य पुद्गलस्यात्मभावस्य प्रमाणम्। पश्चिमाया जनताया आलोकः कृतो भविष्यति‍अनेन वाङ्भनःकर्मणा कृतेन संचितेनोपचितेनोपचितेन एवं महान्तं महानिरयेष्वात्मभावं परिगृह्णीतेति। भगवानाह-एष एव शारिपुत्र पश्चिमाया जनताया आलोकः कृतो भविष्यति, यदनेन वाङ्भनोदुश्चरितेन अकुशलेन कर्माभिसंस्कारेण अभिसंस्कृतेन संचितेनाचितेनोपचितेन इयच्चिरदुःखं प्रत्यनुभविष्यतीति। या एतस्यैव शारिपुत्र दुःखस्याप्रमेयता बहुदुःखता व्याख्याता, एष एव शुक्लांशिकस्य कुलपुत्रस्य कुलदुहितुर्वा संवेगो भविष्यति। ततः स तेभ्यो धर्मव्यसनसंवर्तनीयेभ्यः कर्मभ्यो विनिवृत्य पुण्याभिसंस्कारमेव कुर्यात्, जीवितहेतोरपि सद्धर्मं न प्रतिक्षेप्स्यति-मा भूदस्माकमपि तादृशैर्दुःखै समवधानमिति॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-सुसंवृतकायकर्मवाक्कर्ममनस्कर्मणा भगवन् कुलपुत्रेण वा कुलदुहित्रा वा भवितव्यम्। तत्कस्य हेतोः? यत्र हि नाम भगवन् एवंरूपेण वाग्दुर्भाषितेन इयान् महापुण्यस्कन्धः प्रसूयते। कतमेन पुनर्भगवन् कर्मणा इयान् महापुण्यस्कन्धः प्रसूयते। भगवानाह-एवंरूपेण सुभूते वाग्दुर्भाषितेन इयान् महापुण्यस्कन्धः प्रसूयते। इहैव ते सुभूते मोहपुरुषाः स्वाख्याते धर्मविनये प्रव्रजिता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां दूषयितव्यां मंस्यन्ते, प्रतिक्षेप्तव्यां मंस्यन्ते, प्रतिबाधितव्यां मंस्यन्ते। प्रज्ञापारमितायां च प्रतिबाधितायां बुद्धानां भगवतां [बुद्धबोधिः] प्रतिबाधिता भवति। बुद्धबोधौ प्रतिबाधितायामतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता प्रतिबाधिता भवति। सर्वज्ञतायां प्रतिबाधितायां सद्धर्मः प्रतिबाधितो भवति। सद्धर्मे प्रतिबाधिते तथागतश्रावकसंघः प्रतिबाधितो भवति। तथागतश्रावकसंघेऽपि प्रतिबाधिते एवं तस्य सर्वेण सर्वं सर्वथा सर्वं त्रिरत्नात्परिबाह्यभावो भवति, अप्रमेयासंख्येयतरश्च महानकुशलकर्माभिसंस्कारः परिगृहीतो भवति॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-कोऽत्र भगवन् हेतुः कः प्रत्ययो यत्स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां प्रतिबाधितव्यां मंस्यते? भगवानाह-माराधिष्ठितो वा सुभूते स कुलपुत्रो वा कुलदुहिता वा भविष्यति। दुष्प्रज्ञसंवर्तनीयेन वा कर्मणा गम्भीरेषु धर्मेषु नास्य श्रद्धा, नास्य प्रसादः। आभ्यां सुभूते द्वाभ्यां पापाभ्यां धर्माभ्यां समन्वागतः स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां प्रतिबाधिष्यते। पुनरपरं सुभूते स कुलपुत्रो वा कुलदुहिता वा पापमित्रहस्तगतो वा भविष्यति, अनभियुक्तो वा भविष्यति, स्कन्धाभिनिविष्टो वा भविष्यति, आत्मोत्कर्षी परेषां पंसको दोषान्तरप्रेक्षी वा भविष्यति। एभिरपि सुभूते चतुर्भिराकारैः स कुलपुत्रो वा कुलदुहिता वा समन्वागतो भविष्यति, य इमां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानां प्रतिबाधितव्यां मंस्यते इति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां निरयपरिवर्तो नाम सप्तमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project