Digital Sanskrit Buddhist Canon

५ पुण्यपर्यायपरिवर्तः पञ्चमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 puṇyaparyāyaparivartaḥ pañcamaḥ

५ पुण्यपर्यायपरिवर्तः पञ्चमः।



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-यो भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः-मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम्। बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति। एवमिमं निर्देशं श्रुत्वा एवंमहार्थिका बतेयं प्रज्ञापारमिता, एवंमहानुशंसा, एवंमहाफला, एवंमहाविपाका बतेयं प्रज्ञापारमिता, एवं बहुगुणसमन्वागतेयं प्रज्ञापारमिता, अपरित्यजनीया मया प्रज्ञापारमिता, रक्षितव्या मम प्रज्ञापारमिता, गोपायितव्या मम प्रज्ञापारमिता, परमदुर्लभा हीयं प्रज्ञापारमितेत्यधिमुञ्चेत्।



स्वयमेव चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः यो वा अन्यः संपूज्य परस्मै चार्थिकाय छन्दिकाय कुलपुत्राय कुलदुहित्रे वा याचमानाय दद्यादुपनामयेन्निर्यातयेत्परित्यजेत्, अन्तशः पुस्तकगतामपि कृत्वा। कतरस्तयोर्भगवन् कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्-यो वा परित्यागबुद्धिर्यो वा न परित्यागबुद्धिः? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-तेन हि कौशिक त्वामेवात्र प्रतिप्रक्ष्यामि। यथा ते क्षमते व्याकुर्याः। तत्किं मन्यसे कौशिक यः कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य शरीरं सत्कृत्य परिचरेद्धारयेत् सत्कुर्याद्गुरुकुर्यान्मानयेत् पूजयेदर्चयेदपचायेत् स्वयमेव।



यो वा अन्यः कुलपुत्रो वा कुलदुहिता वा तथागतशरीरं स्वयं च सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, दद्यात् संविभजेत् वैस्तारिकी पूजा भविष्यतीति सत्त्वानां चानुकम्पामुपादाय। कतरस्तयोर्द्वयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्? किं यः स्वयं च पूजयेत् परेभ्यश्च विस्तरेण संप्रकाशयेद्दद्यात् संविभजेत्, किं वा यः स्वयमेव प्रत्यात्मं पूजयेत् ? शक्र आह-यो भगवन् कुलपुत्रो वा कुलदुहिता वा स्वयं च तथागतशरीरं सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेद्दद्यात्संविभजेत् वैस्तारिकी पूजा भविष्यतीति सत्त्वानां चानुकम्पामुपादाय, अयमेवानयोर्द्वयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवति। भगवानाह-एवमेतत्कौशिक, एवमेतत्। एवमेतत्कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परस्मै चार्थिकाय छन्दिकाय कुलपुत्राय कुलदुहित्रे वा याचमानाय दद्यादुपनामयेन्निर्यातयेत्परित्यजेदन्तशः पुस्तकगतामपि कृत्वा। अयमेव कौशिक तयोर्द्वयोः कुलपुत्रयोः कुलदुहित्रोर्वा परानुग्रहकरः कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्धिस्तन्निदानं बहुतरं पुण्यं प्रसवति॥



पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा यत्र यत्र भाजनीभूताः कुलपुत्रा वा कुलदुहितरो वा स्युः अस्याः प्रज्ञापारमितायाः, तत्र तत्र गत्वा तेभ्यः इमां प्रज्ञापारमितां दद्यात् संविभागं कुर्यात्, अयमेव कौशिक ततः कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत्॥



पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा ये जम्बूद्वीपे सत्त्वास्तान् सर्वान् दशसु कुशलेषु कर्मपथेषु समादापयेत् प्रतिष्ठापयेत्, तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यः इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्न्वकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायाप्यकिलासितया संपादयेत्-उद्युक्तोऽमुं ग्राहयेत् संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्, वाचा नेष्यति विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व।



अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। अयं कौशिक कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्ध्या ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत्। तिष्ठन्तु खलु पुनः कौशिक जम्बूद्वीपे सर्वसत्त्वाः, एतेन कौशिक पर्यायेण येऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत्। तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत्।



तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत् प्रतिष्ठापयेत्। तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत्। तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, एतेन कौशिक पर्यायेण यावन्तो गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशः लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तोऽमुं ग्राहयेत् संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति। अयं कौशिक कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्ध्या ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत्॥



पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन् बहु, सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात् अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तोऽमुं ग्राहयेत् संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे।



अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति। तिष्ठन्तु खलु पुनः कौशिक जम्बुद्वीपे सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्। तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्। तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्। तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्। तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, एतेन कौशिक पर्यायेण यावन्तो गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन् बहु सुगत॥





भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तोऽमुं ग्राहयेत् संदर्शयेत् समादापयेत् समुत्तेजयेत संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। पुनरपरं कौशिक यावन्तो जम्बुद्वीपे सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु अप्रमाणेषु प्रतिष्ठापयेत्, एवं पेयालेन कर्तव्यम्। यथा चतुर्ष्वप्रमाणेषु, एवं चतसृष्वारूप्यसमापत्तिषु, पञ्चस्वभिज्ञासु, यावत्समस्तासु ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन् बहु सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुंग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व।



अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, अनेन पर्यायेण येऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, येऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत्।



तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमात्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, येऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, येऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, अनेन पर्यायेण येऽपि केचित्कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन् बहु सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति॥



पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा स्वयं च वाचयेत्, परेभ्यश्च लिखित्वा पूर्ववद्दद्यात्, अयत्नतः कौशिक पूर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत्। पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामर्थकुशलो वाचयेत्, परेभ्यश्च लिखित्वा पूर्ववद्दद्यात्, सार्थां सव्यञ्जनामुपदिशेत् परिदीपयेत्, अयत्नतः कौशिक स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-इयमपि भगवन् प्रज्ञापारमिता उपदेष्टव्याः? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-इयमपि कौशिक प्रज्ञापारमिता उपदेष्टव्या अबुध्यमानस्य कुलपुत्रस्य वा कुलदुहितुर्वा। तत्कस्य हेतोः? उत्पत्स्यते हि कौशिक अनागतेऽध्वनि प्रज्ञापारमिताप्रतिवर्णिका। तत्र अबुध्यमानः कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो मा प्रणंक्षीत्तां प्रज्ञापारमिता प्रतिवर्णिकां श्रुत्वा॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-कथं भगवन् अनागतेऽध्वनि प्रज्ञापारमिताप्रतिवर्णिका वेदितव्या-इयं सा प्रज्ञापारमिताप्रतिवर्णिकोपदिश्यत इति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-भविष्यन्ति कौशिक अनागतेऽध्वनि एके भिक्षवः अभावितकाया अभावितशीला अभावितचित्ता अभावितप्रज्ञा एडमूकजातीया प्रज्ञापरिहीणाः। ते प्रज्ञापारमितामुपदेक्ष्याम इति तस्याः प्रतिवर्णिकामुपदेक्ष्यन्ति। कथं च कौशिक प्रज्ञापारमिताप्रतिवर्णिकामुपदेक्ष्यन्ति? रूपविनाशो रूपानित्यतेत्युपदेक्ष्यन्ति। एवं वेदनासंज्ञासंस्काराः। विज्ञानविनाशो विज्ञानानित्यतेत्युपदेक्ष्यन्ति। एवं चोपदेक्ष्यन्ति-य एवं गवेषयिष्यति, स प्रज्ञापारमितायां चरिष्यतीति। इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका वेदितव्या। न खलु पुनः कौशिक रूपविनाशो रूपानित्यता द्रष्टव्या। एवं वेदनासंज्ञासंस्काराः। न खलु पुनः कौशिक विज्ञानविनाशो विज्ञानानित्यता द्रष्टव्या। सचेदेवं पश्यति, प्रज्ञापारमिताप्रतिवर्णिकायां चरति। तस्मात्तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिताया अर्थ उपदेष्टव्यः। प्रज्ञापारमिताया अर्थमुपदिशन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्॥



पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोत‍आपत्तिफले प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। एवं च वाचं भाषेत-एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक स्रोतआपत्तिफलं प्रभाव्यते॥



तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्॥



तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्॥



तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्॥



तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्॥



तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो व कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। एवं च वाचं भाषेत-एतेषामपि त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक स्रोतआपत्तिफलं प्रभाव्यते॥



पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वान् सकृदागामिफले प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वायाध्यशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समदापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व।



अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। एवं च वाचं भाषेत-एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक सकृदागामिफलं प्रभाव्यते। तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्यभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्।



तिष्ठातु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। एवं च वाचं भाषेत-एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक सकृदागामिफलं प्रभाव्यते॥



पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वाननागामिफले प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन् बहु सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। एवं च वाचं भाषेत-एतेषामेवं त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव ततो बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक अनागामिफलं प्रभाव्यते।



तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकान् सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चतुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। एवं च वाचं भाषेत-एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव ततो बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक अनागामिफलं प्रभाव्यते॥



पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता व यावन्तो जम्बूद्वीपे सत्त्वाः, तानपि सर्वानर्हत्त्वे प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति।



एवं च वाचं भाषेत-एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव ततो बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक अर्हत्त्वं प्रभाव्यते। एवं चास्य उत्साहं वर्धयिष्यति-यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश्च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः। अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति। तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वानर्हत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्।



तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिके अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। संख्या अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम्। गणनापि उपमापि औपम्यमपि उपनिसापि उपनिषदपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम्॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व। अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति।



एवं च वाचं भाषेत-एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव ततो बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक अर्हत्त्वं प्रभाव्यते। एवं च अस्योत्साहं वर्धयिष्यति-यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश्च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः। अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसि। इति॥



पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगतः। भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व।



अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। एवं च वाचं भाषेत-एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव ततो बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक प्रत्येकबुद्धत्वं प्रभाव्यते। एवं चास्योत्साहं वर्धयिष्यति-यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश्च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः। अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेव स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यति, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति। तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकान् सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्।



तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, येऽपि केचित्कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्। तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वायाध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, अद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति-एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व-अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे।



अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति। एवं च वाचं भाषेत-एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति। अयमेव ततो बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? अतो हि कौशिक प्रत्येकबुद्धत्वं प्रभाव्यते। एवं चास्य उत्साहं वर्धयिष्यसि-यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश्च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः। अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति॥



पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तेषां सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तं समुत्पादयेत्, यश्चान्यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा तेषां सर्वेषामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तेभ्य इमां प्रज्ञापारमितां लिखित्वा दद्यात्। यो वा कौशिक कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयाय बोधिसत्त्वाय महासत्त्वाय एनां प्रज्ञापारमितां लिखित्वा उपनामयेत्, अत्रैव प्रज्ञापारमितायां शिक्षिष्यते, योगमापत्स्यते। अत्रैव प्रज्ञापारमितां भावयन् वृद्धिं विरूढिं विपुलतां गतः परिपूरयिष्यति बुद्धधर्मानिति। अयं तस्मात्पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? नियतमेषोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां दुःखस्यान्तं करिष्यतीति। तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकानां सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत्।



तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत्। तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत्। तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत्। तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत्।



यश्चान्यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा तेषां सर्वेषामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तेभ्य इमां प्रज्ञापारमितां लिखित्वा दद्यात्। यो वा कौशिक कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयाय बोधिसत्त्वाय महासत्त्वाय एनां प्रज्ञापारमितां लिखित्वा दद्यात्, उपनामयेत्, अत्रैव प्रज्ञापारमितायां शिक्षिष्यते, योगमापत्स्यते। एवमस्येयं प्रज्ञापारमिता भूयस्या मात्रया भावनां वृद्धिं विरूढिं विपुलतां परिपूरिं गमिष्यतीति। अयं कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? नियतमेषोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां दुःखस्यान्तं करिष्यतीति॥



पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, ते सर्वे अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः। तेभ्यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्। यश्च तेभ्यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम्। गणनापि उपमापि औपम्यमपि उपनिसापि उपनिषदपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम्॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यस्तेषामविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यात्, उपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्, इह च तान् प्रज्ञापारमितायामववदेदनुशिष्यात् तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकेभ्यः सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः।



तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुदिशेत्। तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः। तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्। तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः। तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्।



तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः। तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्। तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः। तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्। तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम्। गणनापि उपमापि औपम्यमपि उपनिसापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम्॥



भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो व कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यस्तेषामविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्, इह च तान् प्रज्ञापारमितायामववदेदनुशिष्यात्। अथापरः कौशिक बोधिसत्त्वो महासत्त्व उत्पद्येत, स एवं वदेत्-अहमेतेषां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्य इति। यस्तं कौशिक कुलपुत्रो वा कुलदुहिता वा क्षिप्राभिज्ञतरं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायामववदेदनुशिष्यात्, अयं ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत्॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-यथा यथा भगवन् बोधिसत्त्वो महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः, तथा तथा प्रज्ञापारमितायामववदितव्योऽनुशासितव्यः, तथा तथा प्रज्ञापारमितायामवोद्यमानोऽनुशिष्यमाणस्तथताया आसन्नीभवति। तथताया आसन्नीभवन् येषां परिभुङ्के चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, तेषां तान् कारान् कृतान् महाफलान् करोति महानुशंसान्। अतः स बहुतरं पुण्यं प्रसवति। तत्कस्य हेतोः? एवं ह्येतद्भगवन् भवति-यद्बोधिसत्त्वो महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः॥



अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्- साधु साधु कौशिक यस्त्वं बोधिसत्त्वयानिकानां पुद्गलानामुत्साहं ददासि अनुगृह्णीषे अनुपरिवारयसि। एवं च कौशिक त्वया करणीयम्-य आर्यश्रावकः सर्वसत्त्वानामनुग्रहं कर्तुकामः, स बोधिसत्त्वानां महासत्त्वानामनुत्तरायां सम्यक्संबोधावुत्साहं वर्धयति अनुगृह्णीतेऽनुपरिवारयति, एवमेतत्करणीयम्। तत्कस्य हेतोः? अतःप्रसूता हि बोधिसत्त्वानां महासत्त्वानामनुत्तरा सम्यक्संबोधिः। यदि हि बोधिसत्त्वा महासत्त्वा एतद्बोधिचित्तं नोत्पादयेरन्, न चैते बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ शिक्षेरन्, न षट्पारमितासु शिक्षेरन्, अशिक्षमाणा अनुत्तरां सम्यक्संबोधिं नाभिसंबुध्येरन्। यस्मात्तर्हि बोधिसत्त्वा महासत्त्वा बोधिसत्त्वशिक्षायामासु षट्पारमितासु शिक्षन्ते, तस्मादेतद्बोधिचित्तमुत्पादयन्ते, तस्मादनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त इति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां पुण्यपर्यायपरिवर्तो नाम पञ्चमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project