Digital Sanskrit Buddhist Canon

३ अप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तस्तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३ अप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तस्तृतीयः।



अथ खलु भगवान् ये तत्र देवपुत्राः पर्षदि संनिपतिताः संनिषण्णाश्चाभूवन्, याश्च भिक्षुभिक्षुण्युपासकोपासिकाः संनिपतिताः संनिषण्णाश्चाभूवन्, तान् देवपुत्रान् संनिपतितान् संनिषण्णांश्च विदित्वा, ताश्च सर्वाश्चतस्रः पर्षदः संनिपतिताः संनिषण्णाश्च विदित्वा, कामावचरान् रूपावचरांश्च देवपुत्रान् ब्रह्मकायिकांश्च देवपुत्रान् आभास्वरांश्च परीत्तशुभांश्च अकनिष्ठांश्च देवपुत्रान् साक्षिणः स्थापयित्वा, शक्रदेवेन्द्रप्रमुखान् कामावचरान् देवपुत्रान् महाब्रह्मप्रमुखांश्च ब्रह्मकायिकान् देवपुत्रानाभास्वरांश्च देवपुत्रानामन्त्रयते स्म-यो हि कश्चिद्देवपुत्राः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति, न तस्य मारो वा मारकायिका वा देवता अवतारप्रेक्षिण्योऽवतारगवेषिण्योऽवतारं लप्स्यन्ते। नापि तस्य कुलपुत्रस्य वा कुलदुहितुर्वा मनुष्या वा अमनुष्या वा अवतारप्रेक्षिणोऽवतारगवेषिणोऽवतारं लप्स्यन्ते। नापि स कुलपुत्रो वा कुलदुहिता वा विषमापरिहारेण कालं करिष्यति॥



पुनरपरं देवपुत्राः ये देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, यैश्च देवपुत्रैरियं प्रज्ञापारमिता नोद्गृहीता न धारिता न वाचिता न पर्यवाप्ता न प्रवर्तिता, ते देवपुत्रास्तं कुलपुत्र वा कुलदुहितरं वा उपसंक्रमितव्यं मंस्यन्ते, तस्य च कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितामुद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयमानस्यान्तिकाच्छ्रोष्यन्ति, श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति। न च खलु पुनर्देवपुत्रास्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितामुद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयमानस्य अरण्यगतस्य वा वृक्षमूलगतस्य वा शून्यागारगतस्य वा अभ्यवकाशगतस्य वा पथि गतस्य वा उत्पथगतस्य वा अटवीगतस्य वा महासमुद्रगतस्य वा तत्र तत्रोपसंक्रामतो वा चंक्रम्यमाणस्य वा स्थितस्य वा निषण्णस्य वा विपन्नस्य वा भयं वा भविष्यति, स्तम्भितत्वं वा भविष्यति, उत्पत्स्यते वा॥



अथ खलु चत्वारो महाराजानो भगवन्तमेतदवोचन्-आश्चर्यं भगवन् यदिमां प्रज्ञापारमितामुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् स कुलपुत्रो वा कुलदुहिता वा यानत्रये सत्त्वान् विनयति, न च सत्त्वसंज्ञामुत्पादयति। वयं भगवंस्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं संविधास्यामः, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-अहमपि भगवंस्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति॥



ब्रह्मापि सहापतिः सार्धं ब्रह्मकायिकैर्देवपुत्रैर्भगवन्तमेतदवोचत्-अहमपि भगवंस्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यदिमां प्रज्ञापारमितामुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् स कुलपुत्रो वा कुलदुहिता वा इमान् यतो दृष्टधार्मिकान् गुणान् प्रतिलभते परिगृह्णाति, किं पुनर्भगवन् प्रज्ञापारमितायामुद्गृहीतायां सर्वाः षट् पारमिता उद्गृहीता भवन्ति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-एवमेतत्कौशिक, एवमेतत्। प्रज्ञापारमितायां कौशिक उद्गृहीतायां सर्वाः षट् पारमिता उद्गृहीता भवन्ति। पुनरपरं कौशिक प्रज्ञापारमितायामुद्गृहीतायां धारितायां वाचितायां पर्यवाप्तायां प्रवर्तितायां स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति। तान् कौशिक् सर्वान् शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्येऽहं ते। साधु भगवन्निति शक्रो देवानामिन्द्रो भगवतः प्रत्यश्रौषीत्। भगवानेतदवोचत्-तत्र कौशिक ये मम धर्मं विग्रहीतव्यं मंस्यन्ते, विवदितव्यं मंस्यन्ते, विरोधयितव्यं मंस्यन्ते, तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानामुत्पन्नोत्पन्ना विग्रहा विवादा विरोधाः, पुनरेवान्तर्धास्यन्ति, न स्थास्यन्ति। तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न तेऽभिप्रायाः परिपूरिं गमिष्यन्ति। तत्कस्य हेतोः? एवं ह्येतत्कौशिक भवति-य इमां प्रज्ञापारमितां कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तस्यैवं तान्युत्पन्नोत्पन्नान्यधिकरणानि पुनरेवान्तर्धास्यन्ति, न स्थास्यन्ति। तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न तेऽभिप्रायाः परिपूरिं गमिष्यन्ति। इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति, य इमां प्रज्ञापारमितामुद्गृह्णाति धारयति वाचयति पर्यवाप्नोति प्रवर्तयति देशयति उपदिशति उद्दिशति स्वाध्यायति। तद्यथापि नाम कौशिक मघी नामौषधी सर्वविषप्रशमनी। तत्र आशीविषेण जन्तुना बुभुक्षितेन आहारार्थिना आहारगवेषिणा कश्चिदेव प्राणकजातो जन्तुर्दृष्टो भवेत्। स आशीविषस्तं प्राणकजातं गन्धेनानुबध्नीयादनुगच्छेदाहारहेतोर्भक्षयितुकामः। अथ स प्राणकजातो येन सा मधी नामौषधी तेनोपसंक्रमेत्, तेनोपसंक्रम्य तिष्ठेत्। अथ स आशीविषस्तस्या ओषध्या गन्धेनैव प्रत्युदावर्तेत। तत्कस्य हेतोः? तथा हि तस्या ओषस्या भैषज्यगुणः स तादृशो यस्तस्याशीविषस्य तद्विषमभिभवति। एवं बलवती हि सा ओषधी। एवमेव कौशिक यः कुलपुत्रो वा कुलदुहिता व इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तस्य कौशिक यानि तान्युत्पन्नोत्पन्नान्यधिकरणानि विग्रहा विवादा विरोधा भविष्यन्ति, ते प्रज्ञापारमितायास्तेजसा बलेन स्थामतः प्रज्ञापारमिताबलाधानेन क्षिप्रं तत एवोपरंस्यन्ति उपशमिष्यन्ति अन्तर्धास्यन्ति न विवर्धिष्यन्ते। यतो यत एवोत्पत्स्यन्ते, तत्र तत्रैव निरोत्स्यन्ते अन्तर्धास्यन्ति, न विवर्धिष्यन्ते न स्थास्यन्ति। तत्कस्य हेतोः ? प्रज्ञापारमिता हि रागादीनां यावन्निर्वाणग्राहस्योपशमयित्री, न विवर्धिकेति। चत्वारश्च तस्य महाराजानः शक्रश्च देवानामिन्द्रो ब्रह्मा च सहापतिः सर्वे च बुद्धा भगवन्तो बोधिसत्त्वाश्च रक्षावरणगुप्तिं संविधास्यन्ति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यतिः उद्देक्ष्यति स्वाध्यास्यति। अयं तेन कुलपुत्रेण वा कुलदुहिता वा दृष्टधार्मिको गुणः परिगृहीतो भविष्यति॥



पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, स आदेयवचनश्च भविष्यति, मृदुवचनश्च भविष्यति, मितवचनश्च भविष्यति, अप्रकीर्णवचनश्च भविष्यति, न च क्रोधाभिभूतो भविष्यति, न च मानाभिभूतो भविष्यति। तत्कस्य हेतोः? तथा हि तं प्रज्ञापारमिता परिदमयति, प्रज्ञापारमिता परिणमयति, न क्रोधं वर्धयति, न मानं वर्धयति। स नोपनाहं परिगृह्णाति, न व्यापादं परिगृह्णाति, नानुशयं धारयति। एवं चरतोऽस्य कुलपुत्रस्य वा कुलदुहितुर्वा स्मृतिर्मैत्री चोत्पद्यते। तस्यैवं भवति-सचेदहं व्यापादमुत्पादयिष्यामि, तेनेन्द्रियाणि मे परिभेत्स्यन्ते, मुखवर्णश्च मे धक्ष्यते। अयुक्तं चैतन्मम यदहमनुत्तरायां सम्यक्संबोधौ संप्रस्थितः, तत्र शिक्षितुकामः, क्रोधस्य वशं गच्छेयम्। इत्येवं स क्षिप्रमेव स्मृतिं प्रतिलभते। इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति। एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यथेयं प्रज्ञापारमिता परिदमनाय प्रत्युपस्थिता अनुनामाय बोधिसत्त्वानां महासत्त्वानाम्॥



भगवानाह-पुनरपरं कौशिक य इमां प्रज्ञापारमितां कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, सचेत्कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामेवमुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् देशयन् उपदिशयन् उद्दिशन् स्वाध्यायन् संग्रामे वर्तमाने संग्रामशिरसि समारूढः स्यात्। तस्य संग्राममवतरतो वा अवतीर्णस्य वा अतिक्रामतो वा संग्राममध्यगतस्य वा तिष्ठतो वा निषण्णस्य वा अस्थानमेतत्कौशिक अनवकाशो यत्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितां मनसि कुर्वतो वा उद्गृह्णतो वा धारयतो वा वाचयतो वा पर्यवाप्नुवतो वा प्रवर्तयतो वा देशयतो वा उपदिशतो वा उद्दिशतो वा स्वाध्यायतो वा जीवितान्तरायो वा भवेत्। परोपक्रमेण जीवितान्तरायं सोऽनुप्राप्नुयात्, नैतत्स्थानं विद्यते। सचेत्पुनस्तस्य कश्चित्कौशिक तत्र शस्त्रं वा दण्डं वा लोष्टं वा अन्यद्वा क्षिपेत्, नैतत्तस्य शरीरे निपतेत्। तत्कस्य हेतोः? महाविद्येयं कौशिक यदुत प्रज्ञापारमिता। अप्रमाणेयं कौशिक विद्या यदुत प्रज्ञापारमिता। अपरिमाणेयं कौशिक विद्या यदुत प्रज्ञापारमिता। अनुत्तरेयं कौशिक विद्या यदुत प्रज्ञापारमिता। असमेयं कौशिक विद्या यदुत प्रज्ञापारमिता। असमसमेयं कौशिक [विद्या] यदुत प्रज्ञापारमिता। तत्कस्य हेतोः? अत्र हि कौशिक विद्यायां शिक्षमाणः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते। अत्र हि कौशिक विद्यायां शिक्षमाणो बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, सर्वज्ञज्ञानं च प्रतिलप्स्यते। तेन सोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वसत्त्वानां चित्तानि व्यवलोकयिष्यति। तत्कस्य हेतोः? अत्र हि कौशिक विद्यायां शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य न तत्किंचिदस्ति, यन्न प्राप्तं वा न ज्ञातं वा न साक्षात्कृतं वा स्यात्। तस्मात्सर्वज्ञज्ञानमित्युच्यते। अयमपि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा दृष्टधार्मिको गुणः परिगृहीतो भविष्यति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति॥



पुनरपरं कौशिक यत्रेयं प्रज्ञापारमिता अन्तशो लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वंगमं स्थापयित्वा न सत्करिष्यते, नोद्ग्रहीष्यते, न धारयिष्यते, न वाचयिष्यते, न पर्यवाप्स्यते, न प्रवर्तयिष्यते, न देशयिष्यते, नोपदेक्ष्यते, नोद्देक्ष्यते, न स्वाध्यास्यते, न तत्र कौशिक सत्त्वानां मनुष्यो वा अमनुष्यो वा अवतारार्थिकोऽवतारगवेषी अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकम्। इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति॥



पुनरपरं कौशिक तद्यथापि नाम ये बोधिमण्डगता वा बोधिमण्डपरिसामन्तगता वा बोधिमण्डाभ्यन्तरगता वा बोधिवृक्षमूलगता वा मनुष्या वा अमनुष्या वा, तिर्यग्योनिगतानप्युपादाय, यावन्न ते शक्या मनुष्यैर्वा अमनुष्यैर्वा विहेठयितुं वा व्यापादयितुं वा आवेशयितुं वा स्थापयित्वा पूर्वकर्मविपाकम्। तत्कस्य हेतोः? तत्र हि अतीतानागतप्रत्युत्पन्नास्तथागता अर्हन्तः सम्यक्संबुद्धा अभिसंबुद्धा अभिसंभोत्स्यन्ते अभिसंबुध्यन्ते च, ये सर्वसत्त्वानामभयमवैरमनुत्रासं प्रभावयन्ति प्रकाशयन्ति। एवमेव कौशिक यत्र कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तत्र हि कौशिक सत्त्वा न शक्या मनुष्यैर्वा अमनुष्यैर्वा विहेठयितुं वा व्यापादयितुं वा आवेशयितुं वा, स्थापयित्वा पूर्वकर्मविपाकम्। तत्कस्य हेतोः? अनयैव हि कौशिक प्रज्ञापारमितया पृथिवीप्रदेशः सत्त्वानां चैत्यभूतः कृतो वन्दनीयो माननीयः पूजनीयोऽर्चनीयोऽपचायनीयः सत्करणीयो गुरुकरणीयः, त्राणं शरणं लयनं परायणं कृतो भविष्यति तत्रोपगतानां सत्त्वानाम्। इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति॥



एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-यो भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा स्थापयेत्, एनां च दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, यश्च तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य शरीराणि स्तूपेषु प्रतिष्ठापयेत् परिगृह्णीयात् धारयेद्धा, तांश्च तथैव दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, कतरस्तयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-तेन हि कौशिक त्वामेवात्र प्रतिप्रक्ष्यामि। यथा ते क्षमते, तथा व्याकुर्याः। तत्किं मन्यसे कौशिक योऽयं तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञतात्मभावोऽभिनिर्वर्तितः, स कतमस्यां प्रतिपदि शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः सर्वज्ञता प्रतिलब्धा अभिसंबुद्धा? एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-इहैव भगवन् भगवता प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः सर्वज्ञता प्रतिलब्धा अभिसंबुद्धा। भगवानाह-तस्मात्तर्हि कौशिक नानेनात्मभावशरीरप्रतिलम्भेन तथागतस्तथागत इति संख्यां गच्छति। सर्वज्ञतायां तु प्रतिलब्धायां तथागतस्तथागत इति संख्यां गच्छति। येयं कौशिक सर्वज्ञता तथागतस्यार्हतः सम्यक्संबुद्धस्य, प्रज्ञापारमितानिर्जातैषा। एष च कौशिक तथागतस्यात्मभावशरीरप्रतिलम्भः प्रज्ञापारमितोपायकौशल्यनिर्जातः सन् सर्वज्ञज्ञानाश्रयभूतो भवति। एनं ह्याश्रयं निश्रित्य सर्वज्ञज्ञानस्य प्रभावना भवति, बुद्धशरीरप्रभावना भवति, धर्मशरीरप्रभावना भवति, संघशरीरप्रभावना भवति। इत्येवं सर्वज्ञज्ञानहेतुकोऽयमात्मभावशरीरप्रतिलम्भः सर्वज्ञज्ञानाश्रयभूतत्वात्सर्वसत्त्वानां चैत्यभूतो वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयोऽर्चनीयोऽपचायनीयः संवृत्तो भवति। एवं च मम परिनिर्वृतस्यापि सतः एषां शरीराणां पूजा भविष्यति। तस्मात्तर्हि कौशिक यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां वा कृत्वा स्थापयेत्, एनां च दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, अयमेव कौशिक तयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा पूजा कृता भविष्यति, यः कुलपुत्रो वा कुलदुहिता वा इह प्रज्ञापारमितायां लिख्यमानायां पुस्तकगतायां वा सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां पूजां च विविधां कुर्यात्, अयमेव ततो बहुतरं पुण्यं प्रसवेत्। तत्कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन पूजा कृता भविष्यति, यः प्रज्ञापारमितायै पूजां करिष्यति॥



एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-य इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न लिखिष्यन्ति, नोद्ग्रहीष्यन्ति न धारयिष्यन्ति, न वाचयिष्यन्ति न पर्यवाप्स्यन्ति न प्रवर्तयिष्यन्ति न देशयिष्यन्ति नोपदेक्ष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति, तां चैनां प्रज्ञापारमितां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिर्न सत्करिष्यन्ति, न गुरुकरिष्यन्ति, न मानयिष्यन्ति, न पूजयिष्यन्ति, नार्चयिष्यन्ति, नापचायिष्यन्ति, किं नु ते भगवन् न ज्ञास्यन्ति एवं महार्थिका भगवतोक्ता प्रज्ञापारमितायाः पूजा कृता भविष्यतीति? किं नु ते भगवन् न वेत्स्यन्ति-एवं महानुशंसा एवं महाफला एवं महाविपाका भगवतोक्ता प्रज्ञापारमितायाः पूजा कृता भविष्यतीति? न च ते वेदयिष्यन्ति, उत ज्ञास्यन्ति वेत्स्यन्ति, वेदयिष्यन्ति, न च पुनः श्रद्धास्यन्ति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-तत्किं मन्यसे कौशिक कियन्तस्ते जाम्बूद्वीपका मनुष्या ते बुद्धेऽवेत्य प्रसादेन समन्वागताः, ये धर्मेऽवेत्य प्रसादेन समन्वागताः, ये संघेऽवेत्य प्रसादेन समन्वागताः? एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-अल्पकास्ते भगवन् जाम्बूद्वीपका मनुष्या ये बुद्धेऽवेत्य प्रसादेन समन्वागताः, ये धर्मेऽवेत्य प्रसादेन समन्वागताः, ये संघेऽवेत्य प्रसादेन समन्वागताः। एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-एवमेतत्कौशिक, एवमेतत्। अल्पकास्ते जाम्बूद्वीपका मनुष्या ये बुद्धेऽवेत्य प्रसादेन समन्वागताः, ये धर्मेऽवेत्य प्रसादेन समन्वागताः, ये संघेऽवेत्य प्रसादेन समन्वागताः। तेभ्यः कौशिक अल्पेभ्योऽल्पतरकास्ते, ये स्रोत‍आपत्तिफलं प्राप्नुवन्ति, ततः सकृदागामिफलमनागामिफलम्। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्तेयेऽर्हत्त्व प्राप्नुवन्ति। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रत्येकबोधिं साक्षात्कुर्वन्ति। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते येऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते येऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य तं चित्तोत्पादं बृंहयन्ति। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते येऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य उपबृंहयित्वा च आरब्धवीर्या विहरन्ति। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां योगमापद्यन्ते। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्ति। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अविनिवर्तनीयायां बोधिसत्त्वभूमाववतिष्ठन्ते। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते। ते ते कौशिक बोधिसत्त्वा महासत्त्वा ये अविनिवर्तनीयायां बोधिसत्त्वभूमौ स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य अन्येषामध्याशयसंपन्नानां कुलपुत्राणां कुलदुहितॄणां च प्रज्ञापारमितायां शिक्षमाणानां घटमानानां प्रज्ञापारमितामुपदिशन्ति च उद्दिशन्ति। ते चोद्गृह्णन्ति धारयन्ति वाचयन्ति पर्यवाप्नुवन्ति प्रवर्तयन्ति उपदेशयन्ति उपदिशन्ति उद्दिशन्ति स्वाध्यायन्ति। तां चैनां प्रज्ञापारमितां पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः, सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति अर्चयन्ति अपचायन्ति। सन्ति खलु पुनः कौशिक अप्रमेया असंख्येयाः सत्त्वाः, ये बोधिचित्तमुत्पादयन्ति, बोधिचित्तमुत्पाद्य बोधिचित्तमुपबृंहयन्ति, बोधिचित्तमुपबृंहयित्वा बोधाय चरन्ति। तेषां खलु पुनः कौशिक अप्रमेयाणामसंख्येयानां सत्त्वानां बोधाय चरतामपि यद्येको वा द्वौ वा अविनिवर्तनीयायां बोधिसत्त्वभूमाववतिष्ठेयाताम्। तत्कस्य हेतोः? दुरभिसंभवा हि कौशिक अनुत्तरा सम्यक्संबोधिर्हीनवीर्यैः कुसीदैर्हीनसत्त्वैर्हीनचित्तैर्हीनसंज्ञैर्हीनाधिमुक्तिकैर्हीनप्रज्ञैः। तस्मात्तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन इयमेव प्रज्ञापारमिता सुखं अभीक्ष्णं श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या परिप्रष्टव्या। तत्कस्य हेतोः? तथा हि स एवं ज्ञास्यति-अत्र प्रज्ञापारमितायां तथागतोऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिसत्त्वचर्यां चरन् शिक्षितः। अस्माभिरप्यत्र शिक्षितव्यम्।



एषोऽस्माकं शास्तेति। तिष्ठतो वा कौशिक परिनिर्वृतस्य वा तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वैर्महासत्त्वैः प्रज्ञापारमितैव प्रतिसर्तव्या। तस्मात्तर्हि कौशिक यः कश्चित्कुलपुत्रो वा कुलदुहिता वा तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य पूजायै कोटिशः सप्तरत्नमयांस्तथागतधातुगर्भान् स्तूपान् कारयेत्। कारयित्वा च तान् यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिः दिव्याभिः पताकाभिः, समन्ताच्च दिव्याभिर्दीपमालाभिः बहुविधाभिश्च दिव्याभिः पूजाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, तत्किं मन्यसे कौशिक, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृहीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात् प्रवर्तयेत् देशयेत् उपदिशेत् उद्दिशेत् स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्। अर्थमस्या विवृणुयात् मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत् स्थापयेत् सद्धर्मचिरस्थितिहेतोः-मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम्। बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति। तां चैनां प्रज्ञापारमितां सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्। अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति। तिष्ठन्तु खलु पुनः कौशिक कोटिशः सप्तरत्नमयास्तथागतधातुगर्भाः स्तूपाः, यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा इमं जम्बूद्वीपं समन्तात् सप्तरत्नमयानां तथागतधातुगर्भाणां स्तूपानां परिपूर्णं कारयेत्, कारयित्वा च तान् यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिः, दिव्याभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च दिव्याभिः पूजाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत् स्थापयेत् सद्धर्मचिरस्थितिहेतोः-मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम्। बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति। तां चैनां प्रज्ञापारमितां सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति। तिष्ठतु खलु पुनः कौशिक अयं जम्बूद्वीपः सप्तरत्नमयानां तथागतधातुगर्भाणां स्तूपानां परिपूर्णः। सचेत्कौशिक यावन्तश्चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैश्चूर्णैदिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश्च दिव्याभि, पूजाभिः, सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? शक्र आह-बहु भगवन, बहु सुगत।



भगवानाह-अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेत् वाचयेत् पर्यवाप्नुयात् प्रवर्तयेत् देशयेत् उपदिशेत् उद्दिशेत् स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत् स्थापयेत् सद्धर्मचिरस्थितिहेतोः-मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम्। बोधिसत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति। तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैर्श्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति। तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः। यावन्तः कौशिक साहस्रे चूलिकायां लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः-मा बुद्धनेत्रीसमुच्छेदोऽभूत्, मा सद्धर्मान्तर्धानम्। बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति। तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत् पूजयेदर्चयेदपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति। तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिकायां लोकधातौ सर्वसत्त्वाः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिर्व्यैश्चूर्णैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश्च दिव्याभिः, पूजाभिः, सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्धधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत् सद्धर्मचिरस्थितिहेतोः-मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम्।



बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति। तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति। तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पूष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश्च दिव्याभिः पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत् परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत्, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत् सद्धर्मचिरस्थितिहेतोः-मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम्। बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति। तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति। तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, येषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत् पूजयेदर्चयेदपचायेत्, येऽपि केचित्कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, सचेत्पुनस्ते सर्वे अपूर्वाचरमं मानुष्यकमात्मभावं प्रतिलभेरन् परिकल्पमुपादाय, तत एकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, एकैकश्च सत्त्वस्तान् सर्वान् स्तूपान् कारयेत्, कारयित्वा च तान् प्रतिष्ठाप्य कल्पं वा कल्पावशेषं वा सर्ववाद्यैः सर्वगीतैः सर्वनृत्यैः सर्वतूर्यतालावचरैर्दिव्यैः सर्वपुष्पैः सर्वधूपैः सर्वगन्धै सर्वमाल्यैः सर्वविलेपनैः सर्वचूर्णैः सर्ववस्त्रैर्दिव्याभिः सर्वच्छत्रध्वजघण्टापताकाभिः समन्ताच्च सर्वदीपमालाभिः, बहुविधाभिश्च दिव्यमानुषिकीभिः सर्वपूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, एते एवंरूपया पुण्यक्रियया ते सर्वे सत्त्वास्तानप्रमेयानसंख्येयान् स्तूपान् प्रतिष्ठाप्य एवंरूपां पूजां कारयेयुः, तत्किं मन्यसे कौशिक अपि नु ते सर्वे सत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह-बहु भगवन्, बहु सुगत। भगवानाह-अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत् स्थापयेत् सद्धर्मचिरस्थितिहेतोः-मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम्। बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति। तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पूष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project