Digital Sanskrit Buddhist Canon

२ शक्रपरिवर्तो द्वितीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

2 śakraparivarto dvitīyaḥ

२ शक्रपरिवर्तो द्वितीयः।



तेन खलु पुनः समयेन शक्रो देवानामिन्द्रस्तस्यामेव पर्षदि संनिपतितः संनिषण्णोऽभूत् चत्वारिंशता त्रायस्त्रिंशत्कायिकैर्देवपुत्रसहस्रैः सार्धम्। चत्वारश्च लोकपाला विंशत्या चातुर्महाराजकायिकैर्देवपुत्रसहस्रैः सार्धम्। ब्रह्मापि सहापतिर्दशभिर्ब्रह्मकायिकैर्देवपुत्रसहस्रैः सार्धम्। पञ्च च शुद्धावासानां देवपुत्राणां सहस्राणि तस्यामेव पर्षदि संनिपतितानि संनिषण्णान्यभूवन्। योऽपि च देवानां स्वकर्मविपाकजोऽवभासः, सोऽपि सर्वो बुद्धानुभावेन बुद्धतेजसा बुद्धाधिष्ठानेनाभिभूतोऽभूत्॥



अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत्-इमान्यार्य सुभूते संबहुलानि देवपुत्रसहस्राणि अस्यां पर्षदि संनिपतितानि संनिषण्णानि आर्यस्य सुभूतेरन्तिकात्प्रज्ञापारमितां श्रोतुकामानि बोधिसत्त्वानां महासत्त्वानामुपदेशमववादानुशासनीं च। तत्कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्, कथं शिक्षितव्यम्, कथं योगमापत्तव्यम्? स्थविरः सुभूतिराह-तेन हि कौशिक उपदेक्ष्यामि ते बुद्धानुभावेन बुद्धतेजसा बुद्धाधिष्ठानेन। यैर्देवपुत्रैरनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादितम्, तैरुत्पादयितव्यम्। ये त्ववक्रान्ताः सम्यक्त्वनियामम्, न ते भव्या अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितुम्। तत्कस्य हेतोः? बद्धसीमानो हि ते संसारस्रोतसः। अभव्या हि ते पुनः पुनः संसरणाय अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितुम्। अपि नु खलु पुनस्तेषामप्यनुमोदे। सचेत्तेऽप्यनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेरन्, नाहं कुशलमूलस्यान्तरायं करोमि। विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्याः॥



अथ खलु भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म-साधु साधु सुभूते, साधु खलु पुनस्त्वं सुभूते, यस्त्वं बोधिसत्त्वानां महासत्त्वानामुत्साहं ददासि। एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-कृतज्ञैरस्माभिर्भगवन् भगवतो भवितव्यं नाकृतज्ञैः। तत्कस्य हेतोः? पौर्वकाणां हि भगवंस्तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकेऽस्मदर्थे भगवान् यथा ब्रह्मचर्यं बोधाय चरन् पूर्वं बोधिसत्त्वभूत एव सन्, यैः श्रावकैरववदितोऽनुशिष्टश्च पारमितासु, तत्र भगवता चरता अनुत्तरं ज्ञानमुत्पादितम्। एवं भगवन् अस्माभिरपि बोधिसत्त्वा महासत्त्वा अनुपरिग्रहीतव्या अनुपरिवारयितव्याश्च, संपरिग्रहीतव्याः संपरिवारयितव्याश्च। तत्कस्य हेतोः? अस्माभिरपि हि भगवन् बोधिसत्त्वा महासत्त्वा अनुपरिगृहीता अनुपरिवारिताश्च, संपरिगृहीताः संपरिवारिताश्च क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते॥



अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमामन्त्रयते स्म-तेन हि कौशिक शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्येऽहं ते यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्। शून्यतायां कौशिक तिष्ठता बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्। तेन हि कौशिक बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन भवितव्यम्। न रूपे स्थातव्यम्। न वेदनायां न संज्ञायां न संस्कारेषु। न विज्ञाने स्थातव्यम्। न चक्षुषि स्थातव्यम्। न रूपे स्थातव्यम्। न चक्षुर्विज्ञाने स्थातव्यम्। न चक्षुःसंस्पर्शे स्थातव्यम्। न चक्षुःसंस्पर्शजायां वेदनायां स्थातव्यम्। एवं न श्रोत्रघ्राणजिह्वाकायमनःसु स्थातव्यम्। न शब्दगन्धरसस्प्रष्टव्यधर्मेषु, न श्रोत्रविज्ञाने, यावन्न मनोविज्ञाने। न मनःसंस्पर्शे, न मनःसंस्पर्शजायां वेदनायां स्थातव्यम्। न पृथिवीधातौ स्थातव्यम्। नाब्धातौ, न तेजोधातौ, न वायुधातौ, नाकाशधातौ, न विज्ञानधातौ स्थातव्यम्। न स्मृत्युपस्थानेषु स्थातव्यम्। न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु, न मार्गाङ्गेषु स्थातव्यम्। न स्रोत‍आपत्तिफले स्थातव्यम्। न सकृदागामिफले, न अनागामिफले, नार्हत्त्वे स्थातव्यम्। न प्रत्येकबुद्धत्वे स्थातव्यम्। न बुद्धत्वे स्थातव्यम्। इति हि रूपमिति न स्थातव्यम्। इति हि वेदनेति, संज्ञेति, संस्कारा इति। इति हि विज्ञानमिति न स्थातव्यम्। इति हि चक्षुरिति, यावन्मनःसंस्पर्शजा वेदनेति न स्थातव्यम्। इति हि पृथिवीधातुरिति, यावद्विज्ञानधातुरिति न स्थातव्यम्। इति हि स्मृत्युपस्थानानीति न स्थातव्यम्। इति हि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानीति, इति हि मार्गाङ्गानीति न स्थातव्यम्। इति हि स्रोत‍आपत्तिफलमिति न स्थातव्यम्, इति हि सकृदागामिफलमिति, अनागामिफलमिति, अर्हत्त्वमिति न स्थातव्यम्। इति हि प्रत्येकबुद्धत्वमिति न स्थातव्यम्। इति हि बुद्धत्वमिति न स्थातव्यम्। रूपं नित्यमनित्यमिति न स्थातव्यम्। एवं वेदनासंज्ञासंस्काराः। विज्ञानं नित्यमनित्यमिति न स्थातव्यम्। रूपं सुखं दुःखमिति न स्थातव्यम्। एवं वेदनासंज्ञासंस्काराः। विज्ञानं सुखं दुःखमिति न स्थातव्यम्। रूपं शून्यमशून्यमिति न स्थातव्यम्। एवं वेदनासंज्ञासंस्काराः। विज्ञानं शून्यमशून्यमिति न स्थातव्यम्। रूपमात्मानात्मेति न स्थातव्यम्। एवं वेदनासंज्ञासंस्काराः। विज्ञानमात्मानात्मेति न स्थातव्यम्। रूपं शुभमशुभमिति न स्थातव्यम्। एवं वेदनासंज्ञासंस्काराः। विज्ञानं शुभमशुभमिति न स्थातव्यम्। रूपं शून्यमुपलभ्यते वेति न स्थातव्यम्। एवं वेदनासंज्ञासंस्काराः। विज्ञानं शून्यमुपलभ्यते वेति न स्थातव्यम्। स्रोतआपत्तिफलमसंस्कृतप्रभावितमिति न स्थातव्यम्। एवं सकृदागामिफलमनागामिफलमर्हत्त्वमसंस्कृतप्रभावितमिति न स्थातव्यम्। प्रत्येकबुद्धत्वमसंस्कृतप्रभावितमिति न स्थातव्यम्। स्रोतआपन्नो दक्षिणीय इति न स्थातव्यम्। स्रोतआपन्नाः सप्तकृतो भवपरमा इति न स्थातव्यम्। सकृदागामी दक्षिणीय इति न स्थातव्यम्। सकृदागाम्यपरिनिष्ठितत्त्वात्सकृदिमं लोकमागम्य दुःखस्यान्तं करिष्यतीति न स्थातव्यम्। अनागामी दक्षिणीय इति न स्थातव्यम् अनागामी अनागम्य इमं लोकं तत्रैव परिनिर्वास्यतीति न स्थातव्यम्। अर्हन् दक्षिणीय इति न स्थातव्यम्। अर्हन्निहैव अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति न स्थातव्यम्। प्रत्येकबुद्धो दक्षिणीय इति न स्थातव्यम्। प्रत्येकबुद्धोऽतिक्रम्य श्रावकभूमिमप्राप्य बुद्धभूमिं परिनिर्वास्यतीति न स्थातव्यम्। बुद्धो दक्षिणीय इति न स्थातव्यम्। बुद्धोऽतिक्रम्य पृथग्जनभूमिमतिक्रम्य श्रावकभूमिमतिक्रम्य प्रत्येकबुद्धभूमिमप्रभेयाणामसंख्येयानां सत्त्वानामर्थं कृत्वा अप्रमेयाण्यसंख्येयानि सत्त्वकोटीनियुतशतसहस्राणि परिनिर्वाप्य अप्रमेयानसंख्येयान् सत्त्वान् श्रावकप्रत्येकबुद्धसम्यक्संबुद्धत्वनियतान् कृत्वा बुद्धभूमौ स्थित्वा बुद्धकृत्यं कृत्वा अनुपधिशेषे निर्वाणधातौ बुद्धपरिनिर्वाणेन परिनिर्वास्यति इत्येवमप्यनेन न स्थातव्यम्॥



अथ खल्वायुष्मतः शारिपुत्रस्यैतदभवत्-यदि बुद्धोऽतिक्रम्य पृथग्जनभूमिमतिक्रम्य श्रावकभूमिमतिक्रम्य प्रत्येकबुद्धभूमिमप्रमेयाणामसंख्येयानां सत्त्वानामर्थं कृत्वा अप्रमेयाण्यसंख्येयानि सत्त्वकोटीनियुतशतसहस्राणि परिनिर्वाप्य अप्रमेयानसंख्येयान् सत्त्वान् श्रावकप्रत्येकबुद्धसम्यक्संबुद्धत्वनियतान् कृत्वा बुद्धभूमौ स्थित्वा बुद्धकृत्यं कृत्वा अनुपधिशेषे निर्वाणधातौ बुद्धपरिनिर्वाणेन परिनिर्वास्यति इत्येवमप्यनेन न स्थातव्यम्, तत्कथं पुनरनेन स्थातव्यं, कथं शिक्षितव्यमिति? अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं शारिपुत्रमेतदवोचत्-तत्किं मन्यसे आयुष्मन् शारिपुत्र क्व तथागतोऽर्हन् सम्यक्संबुद्धः स्थितः? आयुष्मान् शारिपुत्र आह-न क्वचिदायुष्मन् सुभूते तथागतोऽर्हन् सम्यक्संबुद्धः स्थितः। तत्कस्य हेतो? अप्रतिष्ठितमानसो हि तथागतोऽर्हन् सम्यक्संबुद्धः। स नैव संस्कृते धातौ स्थितो नाप्यसंस्कृते धातौ स्थितो न च ततो व्युत्थितः॥



अथ खल्वायुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-एवमेव आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन स्थातव्यम्, एवं शिक्षितव्यम्-यथा तथागतोऽर्हन् सम्यक्संबुद्धो न क्वचित्स्थितो नास्थितो न विष्ठितो नाविष्ठितः, तथा स्थास्यामीत्येवमनेन शिक्षितव्यम्। यथा तथागतस्थानं तथा स्थास्यामीति, तथा शिक्षिष्ये इति, यथा तथागतस्थानं तथा स्थास्यामीति, तथा शिक्षिष्ये इति, यथा तथागतस्थानं तथा स्थास्यामीति सुस्थितोऽस्थानयोगेनेति एवमत्र बोधिसत्त्वेन महासत्त्वेन स्थातव्यमेवं शिक्षितव्यम्। एवं हि शिक्षमाणो बोधिसत्त्वो महासत्त्वो विहरत्यनेन प्रज्ञापारमिताविहारेण अविरहितश्चानेन मनसिकारेणेति॥



अथ खलु तत्र पर्षदि केषांचिद्देवपुत्राणामेतदभूत्-यानि तानि यक्षाणां यक्षभाषितानि यक्षरुतानि यक्षपदानि यक्षमन्त्रितानि यक्षप्रव्याहृतानि, तानि विज्ञायन्ते जल्प्यमानानि। न पुनरिदं विज्ञायते यत्सुभूतिः स्थविरो भाषते प्रव्याहरति देशयत्युपदिशति। अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन तेषां देवपुत्राणामिममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानामन्त्रयते स्म-न विज्ञायते न विज्ञायते इदं देवपुत्राः। तथा हि नात्र किंचित्सूच्यते, नात्र किंचित् श्रूयते॥



अथ खलु तेषां देवपुत्राणां पुनरेवैतदभूत्-उत्तानीकरिष्यति बत अयमार्यसुभूतिः। उत्तानीकरिष्यति बतायमार्यसुभूतिरिति। दूराद्दूरतरमार्यसुभूतिः प्रविशति, सूक्ष्मात्सूक्ष्मतरम्। गम्भीराद्गम्भीरतरमार्यसुभूतिः प्रविशति देशयति भाषत इति। अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन पुनरपि तेषामेव देवपुत्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानामन्त्रयते स्म-तेन हि देवपुत्राः यः स्रोतआपत्तिफलं प्राप्तुकामः स्रोतआपत्तिफले स्थातुकामः, स नेमां क्षान्तिमनागम्य....पेयालम्। यः सकृदागाभिफलं प्राप्तुकामः, सकृदागामिफले स्थातुकामः, योऽनागामिफलं प्राप्तुकामोऽनागामिफले स्थातुकामः, योऽर्हत्त्वं प्राप्तुकामोऽर्हत्त्वे स्थातुकामः, यः प्रत्येकबोधिं प्राप्तुकामः प्रत्येकबोधौ स्थातुकामः, स नेमां क्षान्तिमनागम्य.....। योऽनुत्तरां सम्यक्संबोधिं प्राप्तुकामोऽनुत्तरायां सम्यक्संबोधौ स्थातुकामः, स नेमां क्षान्तिमनागम्य.............॥



अथ खलु पुनरपि तेषां देवपुत्राणामेतदभवत्-किंरूपा अस्य आर्यसुभूतेर्धार्मश्रवणिका एष्टव्याः? अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानामन्त्रयते स्म-मायानिर्मितसदृशा हि देवपुत्रा मम धार्मश्रवणिका एष्टव्याः। तत्कस्य हेतोः? तथा हि ते नैव श्रोष्यन्ति न च साक्षात्करिष्यन्ति॥



अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन्-किं पुनरार्य सुभूते मायोपमास्ते सत्त्वा न ते माया? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत्-मायोपमास्ते देवपुत्राः सत्त्वाः। स्वप्नोपमास्ते देवपुत्राः सत्त्वाः। इति हि माया च सत्त्वाश्च अद्वयमेतदद्वैधीकारम्, इति हि स्वप्नश्च सत्त्वाश्च अद्वयमेतदद्वैधीकारम्। सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः। स्रोतआपन्नोऽपि मायोपमः स्वप्नोपमः। स्रोतआपत्तिफलमपि मायोपमं स्वप्नोपमम्। एवं सकृदागाम्यपि सकृदागामिफलमपि, अनागाम्यपि अनागामिफलमपि, अर्हन्नपि अर्हत्त्वमपि मायोपमं स्वप्नोपमम्। प्रत्येकबुद्धोऽपि मायोपमः स्वप्नोपमः। प्रत्येकबुद्धत्वमपि मायोपमं स्वप्नोपमम्। सम्यक्संबुद्धोऽपि मायोपमः स्वप्नोपमः। सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपमम्। अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन्-सम्यक्संबुद्धोऽप्यार्य सुभूते मायोपमः स्वप्नोपम इति वदसि? सम्यक्संबुद्धत्वपि मायोपमं स्वप्नोपममिति वदसि? सुभूतिराह-निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम्। ते देवपुत्रा आहुः-निर्वाणमप्यार्य सुभूते मायोपमं स्वप्नोपममिति वदसि? आयुष्मान् सुभूतिराह-तद्यदि देवपुत्रा निर्वाणादप्यन्यः कश्चिद्धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम्। इति हि देवपुत्रा माया च निर्वाणं च अद्वयमेतदद्वैधीकारम्। इति हि स्वप्नश्च निर्वाणं च अद्वयमेतदद्वैधीकारम्॥



अथ खल्वायुष्मान् शारिपुत्रः, आयुष्मांश्च पूर्णो मैत्रायणीपुत्रः, आयुष्मांश्च महाकोष्ठिलः, आयुष्मांश्च महाकात्यायनः, आयुष्मांश्च महाकाशपः, अन्ये च महाश्रावका अनेकैर्बोधिसत्त्वसहस्रैः सार्धमायुष्मन्तं सुभूतिं स्थविरमामन्त्रयन्ते स्म-केऽस्या आयुष्मन् सुभूते प्रज्ञापारमिताया एवं निर्दिश्यमानायाः प्रत्येषका भविष्यन्ति? अथ खल्वायुष्मानानन्दस्तान् स्थविरानेतदवोचत्-ते खल्वायुष्मन्तो वेदितव्या अविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः, दृष्टिसंपन्ना वा पुद्गलाः, अर्हन्तो वा क्षीणास्रवाः, येऽस्याः प्रज्ञापारमिताया एवं निर्दिश्यमानायाः प्रत्येषका भविष्यन्ति॥



अथ खल्वायुष्मान् सुभूतिः स्थविरस्तान् स्थविरानेतदवोचत्-नास्या आयुष्मन्तः प्रज्ञापारमिताया एवं निर्दिश्यमानायाः केचित्प्रत्येषका भविष्यन्ति। तत्कस्य हेतोः? तथा हि-अत्र न कश्चिद्धर्मः सूच्यते, न कश्चिद्धर्मः परिदीप्यते, न कश्चिद्धर्मः प्रज्ञप्यते। तद्यथैवात्र न कश्चिद्धर्मः सूच्यते, न कश्चिद्धर्मः परिदीप्यते, न कश्चिद्धर्मः प्रज्ञप्यते, तथैवास्याः प्रज्ञापारमिताया एवं निर्दिश्यमानाया न कश्चित्प्रत्येषको भविष्यति॥



अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- अस्य धर्मपर्यायस्य आर्येण सुभूनिता भाष्यमाणस्य पूजार्थं यन्न्वहं पुष्पाण्यभिनिर्माय आर्यं सुभूतिमभ्यवकिरेयमिति। अथ खलु शक्रो देवानामिन्द्रस्तस्यां वेलायां पुष्पाण्यभिनिर्माय आयुष्मन्तं सुभूतिमभ्यवाकिरत्। अथ खल्वायुष्मतः सुभूतेः स्थविरस्य शक्रं देवानामिन्द्रमनुव्याहरणायैतदभूत्-न खलु पुनरिमानि पुष्पाणि मया त्रायस्त्रिंशेषु देवेषु प्रचरन्ति दृष्टपूर्वाणि, यानीमानि शक्रेण देवानामिन्द्रेण अभ्यवकीर्णानि। निर्मितान्येतानि पुष्पाणि। नैतानि पुष्पाणि वृक्षगुल्मलतानिर्जातानि, यानि शक्रेण देवानामिन्द्रेणाभ्यवकीर्णानि, मनोमयान्येतानि पुष्पाणीति। अथ खलु शक्रो देवानामिन्द्र आयुष्मतः सुभूतेश्चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं सुभूतिमेतदवोचत्-अनिर्जातान्येतान्यार्य सुभूते पुष्पाणि। तत्कस्य हेतोः? न हि मनोनिर्जातानि कानिचित्पुष्पाणि, नापि वृक्षगुल्मलतानिर्जातानि। अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्-यत्त्वं कौशिक एवं वदसि-अनिर्जातान्येतानि पुष्पाणि, नैतानि मनोनिर्जातानि, नापि वृक्षगुल्मलतानिर्जातानीति। यत्कौशिक अनिर्जातं न तत्पुष्पम्। अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्-गम्भीरप्रज्ञो बतायमार्यः सुभूतिः। तां च नाम पदप्रज्ञप्तिं निर्दिशति, तां च न विरोधयति, तां चोत्तानीकरोति, तामेव चोपदिशति। अथ खलु शक्रो देवानामिन्द्र आयुष्मतं सुभूतिमेतदवोचत्-एवमेतदार्य सुभूते, एवमेतत्। एवं चात्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं यथा आर्यसुभूतिरुपदिशति। एवमुक्ते आयुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्-एवमेतत्कौशिक, एवमेतत्। एवमत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्। एवं शिक्षमाणः कौशिक बोधिसत्त्वो महासत्त्वो न स्रोतआपत्तिफले शिक्षते, न सकृदागामिफले, न अनागामिफले, नाहर्त्वे शिक्षते, न प्रत्येकबुद्धत्वे शिक्षते, न बुद्धत्वे शिक्षते। यो नासु भूमिषु शिक्षते, स बुद्धत्वे सर्वज्ञत्वे वा शिक्षते। यो बुद्धत्वे सर्वज्ञत्वे वा शिक्षते, सोऽप्रमेयेष्वसंख्येयेषु बुद्धधर्मेषु शिक्षते। योऽप्रमेयेष्वसंख्येयेषु बुद्धधर्मेषु शिक्षते, स न रूपस्य विवृद्धये शिक्षते, न परिहाणाय। एवं स न वेदनाया न संज्ञाया न संस्काराणाम्। स न विज्ञानस्य विवृद्धये शिक्षते, न परिहाणाय। यो न रूपस्य विवृद्धये शिक्षते न परिहाणाय। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। यो न विज्ञानस्य विवृद्धये शिक्षते न परिहाणाय, स न रूपस्य परिग्रहाय शिक्षते नोत्सर्गाय। एवं स न वेदनाया न संज्ञाया न संस्काराणाम्। स न विज्ञानस्य परिग्रहाय शिक्षते, नोत्सर्गाय, नापि कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते। यो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते। एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानास्य शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते। एवं शिक्षमाण आयुष्मान् सुभूते बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति॥



आयुष्मान् सुभूतिराह-एवमेतदायुष्मन् शारिपुत्र, एवमेतत्। य आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते। सर्वबुद्धधर्माणामपि न परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते। एवं चायुष्मन् शारिपुत्र शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति॥



अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्-प्रज्ञापारमिता आर्य शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कुतो गवेषितव्याः? शारिपुत्र आह-प्रज्ञापारमिता कौशिक बोधिसत्त्वेन महासत्त्वेन आयुष्मतः सुभूतेः परिवर्ताद्गवेषितव्या। एवमुक्ते शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्-कस्यैष आर्य शारिपुत्र अनुभावो वेदितव्यः? कस्यैतदधिष्ठानं वेदितव्यं यदार्यसुभूतिः प्रज्ञापारमितां भाषते? आयुष्मान् शारिपुत्र आह-तथागतस्यैष कौशिक अनुभावो वेदितव्यः। तथागतस्यैतदधिष्ठानं वेदितव्यं यदायुष्मान् सुभूतिः प्रज्ञापारमितां भाषते। अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्-यत्कौशिक एवं वदसि-कस्यैषोऽनुभावो वेदितव्यः, कस्यैतदनुष्ठानं वेदितव्यं यदार्यसुभूतिः प्रज्ञापारमितां भाषते इति ? तथागतस्यैष कौशिक अनुभावो वेदितव्यः। तथागतस्यैतदधिष्ठानं वेदितव्यं यदहं प्रज्ञापारमितां भाषे। यदपि कौशिक एवं वदसि-प्रज्ञापारमिता बोधिसत्त्वेन महासत्त्वेन कुतो गवेषितव्येति? प्रज्ञापारमिता कौशिक बोधिसत्त्वेन महासत्त्वेन न रूपाद्गवेषितव्या नाप्यन्यत्र रूपाद्गवेषितव्या। एवं न वेदनाया न संज्ञाया न संस्कारेभ्यः न विज्ञानाद्गवेषितव्याः, नाप्यन्यत्र विज्ञानाद्गवेषितव्या। तत्कस्य हेतोः? तथा हि न रूपं प्रज्ञापारमिता, नाप्यन्यत्र रूपात्प्रज्ञापारमिता। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं प्रज्ञापारमिता, नाप्यन्यत्र विज्ञानात्प्रज्ञापारमिता॥



एवमुक्ते शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्-महापारमितेयमार्य सुभूते यदुत प्रज्ञापारमिता। अप्रमाणपारमितेयमार्य सुभूते यदुत प्रज्ञापारमिता। अपरिमाणपारमितेयमार्य सुभूते यदुत प्रज्ञापारमिता। अनन्तपारमितेयमार्य सुभूते यदुत प्रज्ञापारमिता। स्थविरः सुभूतिराह-एवमेतत्कौशिक, एवमेतत्। महापारमितेयं कौशिक यदुत प्रज्ञापारमिता। अप्रमाणपारमितेयं कौशिक यदुत प्रज्ञापारमिता। अपरिमाणपारमितेयं कौशिक यदुत प्रज्ञापारमिता। अनन्तपारमितेयं कौशिक यदुत प्रज्ञापारमिता। तत्कस्य हेतोः? रूपमहत्तया हि कौशिक महापारमितेयं यदुत प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्काराः। विज्ञानमहत्तया हि कौशिकमहापारमितेयं यदुत प्रज्ञापारमिता। रूपाप्रमाणतया कौशिक अप्रमाणपारमितेयं यदुत प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्काराः। विज्ञानाप्रमाणतया कौशिक अप्रमाणपारमितेयं यदुत प्रज्ञपारमिता। रूपापरिमाणतया कौशिक अपरिमाणपारमितेयं यदुत प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्काराः। विज्ञानापरिमाणतया कौशिक अपरिमाणपारमितेयं यदुत प्रज्ञपारमिता। रूपानन्ततया कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्काराः। विज्ञानानन्ततया कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता। एवं महापारमितेति कौशिक नाभिनिविशते। एवमप्रमाणपारमितेति, एवमपरिमाणपारमितेति, एवमनन्तपारमितेति नाभिनिविशते। तस्मात्कौशिक महापारमितेयम्, अप्रमाणपारमितेयम्, अपरिमाणपारमितेयम्, अनन्तपारमितेयं यदुत प्रज्ञापारमिता॥



आरम्बणानन्ततया कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता। सत्त्वानन्ततया कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता। कथं पुनः कौशिक आरम्बणानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता? सर्वधर्माणां हि कौशिक यतो नान्तो न मध्यं न पर्यवसानमुपलभ्यते, ततः कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता। अनेन कौशिक पर्यायेण आरम्बणानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता। पुनरपरं कौशिक यस्मात्सर्वधर्मा अनन्ता अपर्यन्ताः, न तेषामन्तो वा मध्यं वा पर्यवसानं वा उपलभ्यते, तस्मात्कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता। तत्कस्य हेतोः? रूपस्य हि कौशिक नान्तो न मध्यं न पर्यवसानमुपलभ्यते। एवं वेदनायाः संज्ञायाः संस्काराणाम्। विज्ञानस्य हि कौशिक नान्तो न मध्यं न पर्यवसानमुपलभ्यते। अनेनापि कौशिक पर्यायेण आरम्बणानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता॥



पुनरपरं कौशिक सत्त्वोऽनन्तोऽपर्यन्तः। तत्कस्य हेतोः? न हि सत्त्वस्यान्तो वा मध्यं वा पर्यवसानं वोपलभ्यते। तस्मात्कौशिक सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता। अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्-कथमायुष्मन् सुभूते सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता? स्थविरः सुभूतिराह-न हि कौशिक गणनायोगेन वा गणनाबहुत्वेन वा सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता॥



शक्र आह-कथं तर्हीदानीमार्य सुभूते सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता? स्थविरः सुभूतिराह-तत्कं मन्यसे कौशिक कतमस्यैतद्धर्मस्याधिवचनं यदुत सत्त्वः सत्त्व इति? शक्र आह-नैतदार्य सुभूते धर्मस्याधिवचनं न अधर्माधिवचनं यदुत सत्त्वः सत्त्व इति। आगन्तुकमेतन्नामधेयं प्रक्षिप्तम्। अवस्तुकमेतन्नामधेयं प्रक्षिप्तम्। अनात्मीयमेतन्नामधेयं प्रक्षिप्तम्। अनारम्बणमेतन्नामधेयं प्रक्षिप्तं यदुत सत्त्वः सत्त्व इति। स्थविरः सुभूतिराह-तत्किं मन्यसे कौशिक काचिदत्र सत्त्वपरिदीपना कृता ? शक्र आह-नो हीदमार्य सुभूते। सुभूतिराह-यत्र कौशिक न काचित्सत्त्वपरिदीपना कृता, तत्र का सत्त्वानन्तता? सचेत्कौशिक तथागतोऽर्हन् सम्यक्संबुद्धोऽनन्तविज्ञप्तिघोषेण गम्भीरनिर्घोषेण स्वरेण गङ्गानदीवालुकोपमान् कल्पानपि वितिष्ठमानः सत्त्वः सत्त्व इति वाचं भाषेत, अपि नु तत्र कश्चित्सत्त्व उत्पन्नो व उत्पत्स्यते वा उत्पद्यते वा, निरुद्धो वा निरोत्स्यते वा निरुध्यते वा? शक्र आह-नो हीदमार्य सुभूते। तत्कस्य हेतोः? आदिशुद्धत्वादादिपरिशुद्धत्वात्सत्त्वस्य। सुभूतिराह-अनेनापि कौशिक पर्यायेण एवं सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता। एवं च पुनः कौशिक सत्त्वानन्ततया प्रज्ञापारमितानन्तता वेदितव्या॥



अथ खलु सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सर्षिनरनारीगणास्त्रिरुदानमुदानयन्ति स्म-अहो धर्मः, अहो धर्मः, अहो धर्मस्य धर्मता। यस्तथागतस्य प्रादुर्भावः, स आर्येण सुभूतिना स्थविरेण सुभाषितेनेह सूच्यते देश्यते प्रकाश्यते प्रभाव्यते। तथागतं तं वयं भगवन् बोधिसत्त्वं महासत्त्वमद्याग्रेण धारयिष्यामो योऽनया प्रज्ञापारमितया अविरहितो भविष्यति, योऽपि च अनेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण विहरिष्यति॥



अथ खलु भगवांस्तान् सेन्द्रकान् सब्रह्मकान् सप्रजापतिकान् सर्षिनरनारीगणानामन्त्रयते स्म-एवमेतद्देवपुत्राः, एवमेतत्। यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके दीपवत्यां राजधान्यामन्तरायणमध्यगतोऽनया प्रज्ञापारमितया अविरहितोऽभूवम्, तदाहं दीपंकरेण तथागतेनार्हतां सम्यक्संबुद्धेन व्याकृतोऽनुत्तरायां सम्यक्संबोधौ-भविष्यसि त्वं माणव अनागतेऽध्वनि असंख्येयैः कल्पैः शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानां च बुद्धो भगवानिति। अथ खलु ते देवपुत्रा भगवन्तमेतदवोचन्-आश्चर्यं भगवन्, परमाश्चर्यं सुगत। यावदियं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वज्ञताया आहारिका अनुपरिग्राहिका चेति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शक्रपरिवर्तो नाम द्वितीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project