Digital Sanskrit Buddhist Canon

१ सर्वाकारज्ञताचर्या प्रथमः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1 sarvākārajñatācaryā prathamaḥ parivartaḥ
॥ अष्टसाहस्रिका प्रज्ञापारमिता॥



ॐ नमो भगवत्यै आर्यप्रज्ञापारमितायै।

१ सर्वाकारज्ञताचर्या प्रथमः परिवर्तः।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृधकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः, सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैरेकं पुद्गलं स्थापयित्वा यदुत आयुष्मन्तमानन्दम्॥



तत्र खलु भगवानायुष्मन्तं सुभूतिं स्थविरमामन्त्रयते स्म-प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितामारभ्य यथा बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिता निर्यायुरिति॥



अथ खल्वायुष्मतः शारिपुत्रस्यैतदभवत्-किमयमायुष्मान् सुभूतिः स्थविर आत्मीयेन स्वकेन प्रज्ञाप्रतिभानबलाधानेन स्वकेन प्रज्ञाप्रतिभानबलाधिष्ठानेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितामुपदेक्ष्यति उताहो बुद्धानुभावेनेति?



अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन आयुष्मतः शारिपुत्रस्य इममेवरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं शारिपुत्रमेतदवोचत्-यत्किंचिदायुष्मन् शारिपुत्र भगवतः श्रावका भाषन्ते देशयन्ति उपदिशन्ति उदीरयन्ति प्रकाशयन्ति संप्रकाशयन्ति, स सर्वस्तथागतस्य पुरुषकारो वेदितव्यः। तत्कस्य हेतोः? यो हि तथागतेन धर्मो देशितः, तत्र धर्मदेशनायां शिक्षमाणास्ते तां धर्मतां साक्षात्कुर्वन्ति धारयन्ति, तां धर्मतां साक्षात्कृत्य धारयित्वा यद्यदेव भाषन्ते, यद्यदेव देशयन्ति, यद्यदेव उपदिशन्ति, यद्यदेवोदीरयन्ति, यद्यदेव प्रकाशयन्ति, यद्यदेव संप्रकाशयन्ति, सर्वं तद्धर्मतया अविरुद्धम्। तथागतधर्मदेशनाया एव आयुष्मन् शारिपुत्र एष निष्यन्दः यत्ते कुलपुत्रा उपदिशन्तस्तां धर्मतां धर्मतया न विरोधयन्ति॥



अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन भगवन्तमेतदवोचत्-यद्भगवानेवमाह-प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितामारभ्य यथा बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितां निर्यायुरिति। बोधिसत्त्वो बोधिसत्त्व इति यदिदं भगवन्नुच्यते, कतमस्यैतद्भगवन् धर्मस्याधिवचनं यदुत बोधिसत्त्व इति? नाहं भगवंस्तं धर्मं समनुपश्यामि यदुत बोधिसत्त्व इति। तमप्यहं भगवन् धर्मं न समनुपश्यामि यदुत प्रज्ञापारमिता नाम। सोऽहं भगवन् बोधिसत्त्वं वा बोधिसत्त्वधर्मं वा अविन्दन् अनुपलभमानोऽसमनुपश्यन्, प्रज्ञापारमितामप्यविन्दन् अनुपलभमानोऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामववदिष्यामि अनुशासिष्यामि? अपि तु खलु पुनर्भगवन् सचेदेवं भाष्यमाणे देश्यमाने उपदिश्यमाने बोधिसत्त्वस्य चित्तं नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसम्, न भग्नपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, एष एव बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायामनुशासनीयः। एषैवास्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता वेदितव्या। एषोऽववादः प्रज्ञापारमितायाम्। सचेदेवं तिष्ठति, एषैवास्याववादानुशासनी॥



पुनरपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितायां भावयता एवं शिक्षितव्यं यथा असौ शिक्ष्यमाणस्तेनापि बोधिचित्तेन न मन्येत। तत्कस्य हेतोः? तथा हि-तच्चित्तमचित्तम्। प्रकृतिश्चित्तस्य प्रभास्वरा॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-किं पुनरायुष्मन् सुभूते अस्ति तच्चित्तं यच्चित्तमचित्तम्? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत् किं पुनरायुष्मन् शारिपुत्र या अचित्तता, तत्र अचित्ततायामस्तिता वा नास्तिता वा विद्यते वा उपलभ्यते वा? शारिपुत्र आह-न ह्येतदायुष्मन् सुभूते। सुभूतिराह-सचेदायुष्मन् शारिपुत्र तत्र अचित्ततायामस्तिता वा नास्तिता वा न विद्यते वा नोपलभ्यते वा, अपि नु ते युक्त एष पर्यनुयोगो भवति यदायुष्मान् शारिपुत्र एवमाह-अस्ति तच्चित्तं यच्चित्तमचित्तमिति? एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-का पुनरेषा आयुष्मन् सुभूते अचित्तता ? सुभूतिराह-अविकारा आयुष्मन् शारिपुत्र अविकल्पा अचित्तता॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मते सुभूतये साधुकारमदात्-साधु साध्वायुष्मन् सुभूते। यथापि नाम त्वं भगवता अरणाविहारिणामग्रतायां निर्दिष्टो निर्दिशसि। अतश्च बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेरुपपरीक्षितव्यः, अविरहितश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया वेदितव्यः। श्रावकभूमावपि शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या। इहैव प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यम्। प्रत्येकबुद्धभूमावपि शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या। इहैव प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यम्। बोधिसत्त्वभूमावपि शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या। इहैव प्रज्ञापारमितायामुपायकौशल्यसमन्वागतेन सर्वबोधिसत्त्वधर्मसमुदागमाय योगः करणीयः। तत्कस्य हेतोः? इहैव हि प्रज्ञापारमितायां विस्तरेण सर्वबोधिसत्त्वधर्मा उपदिष्टाः, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं योगमापत्तव्यम्। अनुत्तरायामपि सम्यक्संबोधौ शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या। इहैव प्रज्ञापारमितायामुपायकौशल्यसमन्वागतेन सर्वबुद्धधर्मसमुदागमाय योगः करणीयः। तत्कस्य हेतोः? इहैव हि प्रज्ञापारमितायां विस्तरेण सर्वबुद्ध धर्मा उपदिष्टाः, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं योगमापत्तव्यम्॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-योऽहं भगवन् एतदेव बोधिसत्त्वनामधेयं न वेद्मि नोपलभे न समनुपश्यामि, प्रज्ञापारमितामपि न वेद्मि नोपलभे न समनुपश्यामि। सोऽहं भगवन् एतदेव बोधिसत्त्वनामधेयमविन्दन् अनुपलभमानोऽसमनुपश्यन् प्रज्ञापारमितामपि अविन्दन् अनुपलभमानोऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामववदिष्यामि अनुशासिष्यामि? एतदेव भगवन् कौकृत्यं स्यात्, योऽहं वस्त्वविन्दन् अनुपलभमानोऽसमनुपश्यन् नामधेयमात्रेण आयव्ययं कुर्यां यदुत बोधिसत्त्व इति। अपि तु खलु पुनर्भगवंस्तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य। एवं तन्नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। सचेद्बोधिसत्त्वस्य महासत्त्वस्य एवं गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायां चित्तं नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसम्, न भग्नपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते। अधिमुच्यतेऽध्याशयेन अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया वेदितव्यः, स्थितोऽविनिवर्तनीयायां बोधिसत्त्वभूमौ, सुस्थितोऽस्थानयोगेन। पुनरपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने स्थातव्यम्। तत्कस्य हेतोः? सचेद्रूपे तिष्ठति, रूपाभिसंस्कारे चरति, न चरति प्रज्ञापारमितायाम्। एवं सचेद्वेदनायां संज्ञायां संस्कारेषु। सचेद्विज्ञाने तिष्ठति, विज्ञानाभिसंस्कारे चरति, न चरति प्रज्ञापारमितायाम्। तत्कस्य हेतोः? न हि अभिसंस्कारे चरन् प्रज्ञापारमितां परिगृह्णाति, नापि प्रज्ञापारमितायां योगमापद्यते, नापि प्रज्ञापारमितां परिपूरयते। अपरिपूरयमाणः प्रज्ञापारमितां न निर्यास्यति सर्वज्ञतायामपरिगृहीतं परिगृह्णन्। तत्कस्य हेतोः? रूपं हि अपरिगृहीतं प्रज्ञापारमितायाम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं हि अपरिगृहीतं प्रज्ञापारमितायाम्। यश्च रूपस्यापरिग्रहः, न तद्रूपम्। एवं यो वेदनायाः संज्ञायाः संस्काराणाम्। यो विज्ञानस्यापरिग्रहः, न तद्विज्ञानम्। सापि प्रज्ञापारमिता अपरिगृहीता। एवं ह्यत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्। अयं च बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मापरिगृहीतो नाम समाधिर्विपुलः पुरस्कृतः अप्रमाणनियतोऽसाधारणः। सर्वश्रावकप्रत्येकबुद्धैः सापि सर्वज्ञता अपरिगृहीता, न हि निमित्ततो ग्रहीतव्या। सचेन्निमित्ततो ग्रहीतव्या अभविष्यत्, न चेह श्रेणिकः परिव्राजकः श्रद्धामलप्स्यत। तत्र हि श्रेणिकः परिव्राजकः सर्वज्ञज्ञाने अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः। सोऽवतीर्य न रूपं परिगृह्णीते। एवं न वेदनां न संज्ञां न संस्कारान्। न विज्ञानं परिगृह्णीते। नापि तत्र प्रीतिसुखेन तज्ज्ञानं समनुपश्यति। नाध्यात्मं रूपस्य तज्ज्ञानं समनुपश्यति। न वहिर्धा रूपस्य तज्ज्ञानं समनुपश्यति। नाध्यात्मबहिर्धा रूपस्य तज्ज्ञानं समनुपश्यति। नाप्यन्यत्र रूपात्तज्ज्ञानं समनुपश्यति। एवं नाध्यात्मं वेदनायाः संज्ञायाः संस्काराणाम्। नाध्यात्मं विज्ञानस्य तज्ज्ञानं समनुपश्यति। न वहिर्धा विज्ञानस्य तज्ज्ञानं समनुपश्यति। नाध्यात्मवहिर्धा विज्ञानस्य तज्ज्ञानं समनुपश्यति। नाप्यन्यत्र विज्ञानात्तज्ज्ञानं समनुपश्यति। अत्र पदपर्याये श्रेणिकः परिव्राजकोऽधिमुक्तः। सोऽत्र सर्वत्र श्रद्धानुसारी सर्वज्ञज्ञाने धर्मतां प्रमाणीकृत्य एवमधिमुक्त इति। तेन न कश्चिद्धर्मः परिगृहीतः। नापि स कश्चिद्धर्मो य उपलब्धः, यं गृह्णीयान्मुञ्चेद्वा। स निर्वाणमपि न मन्यते। इयमपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता वेदितव्या यद्रूपं न परिगृह्णीते। एवं यद्वेदनां संज्ञां संस्कारान्। यद्विज्ञानं न परिगृह्णीते। न चान्तरा परिनिर्वाति, अपरिपूर्णैर्दशभिस्तथागतबलैश्चतुर्भिस्तथागतवैशारद्यैरष्टादशभिश्च आवेणिकैर्बुद्धधर्मैः। तस्मादियमपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता वेदितव्या॥



पुनरपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता एवमुपपरीक्षितव्यमेवमुपनिध्यातव्यम्-कतमैषा प्रज्ञापारमिता? कस्य चैषा प्रज्ञापारमिता? किं यो धर्मो न विद्यते नोपलभ्यते, सा प्रज्ञापारमितेति? सचेदेवमुपपरीक्षमाणः एवमुपनिध्यायन् नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसम्, न भग्नपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-किं कारणमायुष्मन् सुभूते अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः? यदा रूपमेव विरहितं रूपस्वभावेन, एवं यदा वेदनैव संज्ञैव संस्कारा एव, यदा विज्ञानमेव विरहितं विज्ञानस्वभावेन, यदा प्रज्ञापारमितैव विरहिता प्रज्ञापारमितास्वभावेन, यदा सर्वज्ञतैव विरहिता सर्वज्ञतास्वभावेन॥



एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-एतमेतदायुष्मन् शारिपुत्र एवमेतत्। रूपमेवायुष्मन् शारिपुत्र विरहितं रूपस्वभावेन। एवं वेदनैव संज्ञैव संस्कारा एव। विज्ञानमेवायुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन। प्रज्ञापारमितैव आयुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन। सर्वज्ञतैव आयुष्मन् शारिपुत्र विरहिता सर्वज्ञतास्वभावेन। प्रज्ञापारमितालक्षणेनापि प्रज्ञापारमिता विरहिता। लक्षणस्वभावेनापि लक्षणं विरहितम्। लक्ष्यस्वभावेनापि लक्ष्यं विरहितम्। स्वभावलक्षणेनापि स्वभावो विरहितः॥



एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-किं पुनरायुष्मन् सुभूते यो बोधिसत्त्वो महासत्त्वोऽत्र शिक्षिष्यते, स निर्यास्यति सर्वज्ञतायाम्? आयुष्मान् सुभूतिराह-एवमेतदायुष्मन् शारिपुत्र, एवमेतत्। यो बोधिसत्त्वो महासत्त्वोऽत्र शिक्षिष्यते, स निर्यास्यति सर्वज्ञतायाम्। तत्कस्य हेतोः? अजाता ह्यनिर्जाता ह्यायुष्मन् शारिपुत्र सर्वधर्माः। एवं चरत आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञता आसन्नीभवति। यथा यथा सर्वज्ञता आसन्नीभवति, तथा तथा सत्त्वपरिपाचनाय कायचित्तपरिशुद्धिर्लक्षणपरिशुद्धिः बुद्धक्षेत्रशुद्धिः। बुद्धैश्च समवधानं भवति। एवं च पुनरायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वज्ञताया आसन्नीभवति॥



पुनरपरमायुष्मान् सुभूतिर्बोधिसत्त्वं महासत्त्वमारभ्यैवमाह-सचेद्रूपे चरति, निमित्ते चरति। सचेद्रूपनिमित्ते चरति, निमित्ते चरति। सचेद्रूपं निमित्तमिति चरति, निमित्ते चरति। स चेद्रूपस्योत्पादे चरति, निमित्ते चरति। सचेद्रूपस्य निरोधे चरति, निमित्ते चरति। सचेद्रूपस्य विनाशे चरति, निमित्ते चरति। सचेद्रूपं शून्यमिति चरति, निमित्ते चरति। अहं चरामीति चरति, निमित्ते चरति। अहं बोधिसत्त्व इति चरति, निमित्ते चरति। अहं बोधिसत्त्व इति ह्युपलम्भ एव स चरति। एवं सचेद्विदनायां संज्ञायां संस्कारेषु। सचेद्विज्ञाने चरति, निमित्ते चरति। सचेद्विज्ञाननिमित्ते चरति, निमित्ते चरति सचेद्विज्ञानं निमित्तमिति चरति, निमित्ते चरति। सचेद्विज्ञानस्योत्पादे चरति, निमित्ते चरति। सचेद्विज्ञानस्य निरोधे चरति, निमित्ते चरति। सचेद्विज्ञानस्य विनाशे चरति, निमित्ते चरति। सचेद्विज्ञानं शून्यमिति चरति, निमित्ते चरति। अहं चरामीति चरति, निमित्ते चरति। अहं बोधिसत्त्व इति चरति, निमित्ते चरति। अहं बोधिसत्त्व इति ह्युपलम्भ एव स चरति। सचेत्पुनरस्यैवं भवति-य एवं चरति, स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितां भावयतीति, निमित्त एव स चरति। अयं बोधिसत्त्वोऽनुपायकुशलो वेदितव्यः॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-कथं पुनरायुष्मन् सुभूते चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-सचेदायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपे चरति, न रूपनिमित्ते चरति, न रूपं निमित्तमिति चरति, न रूपस्योत्पादे चरति, न रूपस्य निरोधे चरति, न रूपस्य विनाशे चरति, न रूपं शून्यमिति चरति, नाहं चरामीति चरति, नाहं बोधिसत्त्व इति चरति। एवं सचेन्न वेदनायां न संज्ञायां न संस्कारेषु। सचेन्न विज्ञाने चरति, न विज्ञाननिमित्ते चरति, न विज्ञानं निमित्तमिति चरति, न विज्ञानस्योत्पादे चरति, न विज्ञानस्य निरोधे चरति, न विज्ञानस्य विनाशे चरति, न विज्ञानं शून्यमिति चरति, नाहं चरामीति चरति, नाहं बोधिसत्त्व इति चरति। सचेत्पुनर्नास्यैवं भवति-य एवं चरति, स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितां भावयतीति। एवं चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्। स हि चरंश्चरामीति नोपैति, न चरामीति नोपैति, चरामि च न चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति, चरिष्यामीति नोपैति, न चरिष्यामीति नोपैति, चरिष्यामि च न चरिष्यामि चेति नोपैति, नैव चरिष्यामि न चरिष्यामीति नोपैति। तत्कस्य हेतोर्नोपैति? सर्वधर्मा ह्यनुपगता अनुपात्ताः। अयमुच्यते सर्वधर्मानुपादानो नाम समाधिर्बोधिसत्त्वस्य महासत्त्वस्य, विपुलः पुरस्कृतोऽप्रमाणनियतोऽसाधारणः सर्वश्रावकप्रत्येकबुद्धैः। अनेनैव समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते॥



बुद्धानुभावेन आयुष्मान् सुभूतिः स्थविर एवमाह-व्याकृतोऽयं भगवन् बोधिसत्त्वो महासत्त्वः पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, योऽनेन समाधिना विहरति। स तमपि समाधिं न समनुपश्यति, न च तेन समाधिना मन्यते-अहं समाहितः, अहं समाधिं समापत्स्ये, अहं समाधिं समापद्ये, अहं समाधिसमापन्नः, इति, एवं तस्य सर्वेण सर्वं सर्वथा सर्वं न संविद्यते॥



एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-कतमेनायुष्मन् सुभूते समाधिना विहरन् बोधिसत्त्वो महासत्त्वस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्व्याक्रियतेऽनुत्तरायां सम्यक्संबोधौ? शक्यः स समाधिर्दर्शयितुम्? सुभूतिराह-नो हीदमायुष्मन् शारिपुत्र। तत्कस्य हेतोः? तमपि हि स कुलपुत्रः समाधिं न जानाति, न संजानीते। आयुष्मान् शारिपुत्र आह-न जानाति न संजानीते इत्यायुष्मन् सुभूते वदसि? आयुष्मान् सुभूतिराह-न जानाति न संजानीते इत्यायुष्मन् शारिपुत्र वदामि। तत्कस्य हेतोर्न जानाति न संजानीते? अविद्यमानत्वेन तस्य समाधेस्तं समाधिं न जानाति न संजानीते। अथ खलु भगवान् आयुष्मते सुभूतये साधुकारमदात्-साधु साधु सुभूते। एवमेतत्सुभूते, एवमेतत्। यथापि नाम तथागतानुभावेन ते प्रतिभाति, तथागताधिष्ठानेनोपदिशसि। एवं चात्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्। तत्कस्य हेतोः? एवं हि शिक्षमाणो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः कतमस्मिन् धर्मे शिक्षते? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद्धर्मे शिक्षते। तत्कस्य हेतोः? न हि ते शारिपुत्र धर्मास्तथा संविद्यन्ते यथा बालपृथग्जना अश्रुतवन्तोऽभिनिविष्टाः। आयुष्मान् शारिपुत्र आह-कथं तर्हि ते भगवन् संविद्यन्ते? भगवानाह-यथा शारिपुत्र न संविद्यन्ते, तथा संविद्यन्ते एवमविद्यमानाः। तेनोच्यन्ते अविद्येति। तान् बालपृथग्जना अश्रुतवन्तोऽभिनिविष्टाः। तैरसंविद्यमानाः सर्वधर्माः कल्पिताः। ते तान् कल्पयित्वा द्वयोरन्तयोः सक्ताः तान् धर्मान्न जानन्ति न पश्यन्ति। तस्मात्तेऽसंविद्यमानान् सर्वधर्मान् कल्पयन्ति। कल्पयित्वा द्वावन्तावभिनिविशन्ते अभिनिविश्य तन्निदानमुपलम्भं निश्रित्य अतीतान् धर्मान् कल्पयन्ति, अनागतान् धर्मान् कल्पयन्ति, प्रत्युत्पन्नान् धर्मान् कल्पयन्ति ते कल्पयित्वा नामरूपेऽभिनिविष्टाः। तैरसंविद्यमानाः सर्वधर्माः कल्पिताः। ते तानसंविद्यमानान् सर्वधर्मान् कल्पयन्तो यथाभूतं मार्गं न जानन्ति न पश्यन्ति। यथाभूतं मार्गमजानन्तोऽपश्यन्तो न निर्यान्ति त्रैधातुकात्, न बुध्यन्ते भूतकोटिम्। तेन ते बाला इति संज्ञां गच्छन्ति। ते सत्यं धर्मं न श्रद्धधति। न खलु पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वा कंचिद्धर्ममभिनिविशन्ते॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते? भगवानाह-एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वज्ञतायामपि न शिक्षते। एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षते। एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञताया आसन्नीभवति, सर्वज्ञतायां निर्यास्यति॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यो भगवन् एवं परिपृच्छेत्-किमयं मायापुरुषाः सर्वज्ञतायां शिक्षिष्यते, सर्वज्ञताया आसन्नीभविष्यति, सर्वज्ञतायां निर्यास्यतीति? तस्य भगवन् एवं परिपृच्छतः कथं निर्देष्टव्यं स्यात्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-तेन हि सुभूते त्वामेवात्र प्रतिप्रक्ष्यामि। यथा ते क्षमते, तथा व्याकुर्याः। साधु भगवन्नित्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत्। भगवानेतदवोचत्-तत्किं मन्यसे सुभूते अन्या सा माया, अन्यत्तद्रूपम्, अन्या सा माया, अन्या सा वेदना। अन्या सा संज्ञा, अन्ये ते संस्काराः। अन्या सा माया, अन्यत्तद्विज्ञानम्? सुभूतिराह-न ह्येतद्भगवन्। न हि भगवन् अन्या सा माया अन्यत्तद्रूपम्। रूपमेव भगवन् माया, मायैव रूपम्। न हि भगवन् अन्या सा माया अन्या सा वेदना, अन्या सा संज्ञा अन्ये ते संस्काराः। वेदना संज्ञा संस्कारा एव भगवन् माया, मायैव वेदनासंज्ञासंस्काराः। न भगवन् अन्या सा माया अन्यत्तद्विज्ञानम्। विज्ञानमेव भगवन् माया, मायैव विज्ञानम्॥



भगवानाह-तत्किं मन्यसे सुभूते अत्रैषां संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारः पञ्चसूपादानस्कन्धेषु यदुत बोधिसत्त्व इति? एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-एवमेतद्भगवन्, एवमेतत्सुगत। तेन हि भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञपारमितायां शिक्षमाणेन मायापुरुषेणेव शिक्षितव्यं भवत्यनुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? स एव हि भगवन् मायापुरुषो धारयितव्यो यदुत पञ्चोपादानस्कन्धाः। तत्कस्य हेतोः? तथा हि भगवन् मायोपमं रूपमुक्तं भगवता। यच्च रूपं तत्षडिन्द्रियं ते पञ्च स्कन्धाः। तथा हि भगवन् मायोपमा वेदनासंज्ञासंस्कारा उक्ताः। तथा हि भगवन् मायोपमं विज्ञानमुक्तं भगवता। यच्च विज्ञानं तत्षडिन्द्रियं ते पञ्च स्कन्धाः। मा भगवन् नवयानसंप्रस्थिता बोधिसत्त्वा महासत्त्वा इमं निर्देशं श्रुत्वा उत्रसिषुः संत्रसिषुः संत्रासमापत्स्यन्ते। भगवानाह-यदि सुभूते नवयानसंप्रस्थिता बोधिसत्त्वा महासत्त्वाः पापमित्रहस्तगता भविष्यन्ति, उत्रसिष्यन्ति संत्रसिष्यन्ति संत्रासमापत्स्यन्ते। अथ चेत्सुभूते नवयानसंप्रस्थिता बोधिसत्त्वा महासत्त्वाः कल्याणमित्रहस्तगता भविष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-कानि पुनर्भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि? भगवानाह-य एनं पारमितासु अववदन्ति अनुशासति। येऽस्मै मारकर्माण्युपदिशन्ति। एवं मारदोषा बोद्धव्याः-इमे मारदोषाः। एवं मारकर्माणि बोद्धव्यानि-इमानि मारकर्माणि। तानि त्वया बुद्ध्वा विवर्जयितव्यानीति। इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य महायानसंप्रस्थितस्य महायानसमारूढस्य कल्याणमित्राणि वेदितव्यानि। एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यद्भगवानेवमाह-इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य महायानसंप्रस्थितस्य महायानसमारूढस्य कल्याणमित्राणि वेदितव्यानीति। यच्च बोधिसत्त्वो महासत्त्व इति भगवन्नुच्यते, तत्र बोधिसत्त्व इति भगवन् कः पदार्थ? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-अपदार्थः सुभूते बोधिसत्त्वपदार्थः। तत्कस्य हेतोः? सर्वधर्माणां हि सुभूते बोधिसत्त्वो महासत्त्वोऽसक्ततायां शिक्षते। सर्वधर्माणां हि सुभूते बोधिसत्त्वो महासत्त्वोऽनुबोधनार्थेन असक्ततायामनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। बोध्यर्थेन तु सुभूते बोधिसत्त्वो महासत्त्व इत्युच्यते। सुभूतिराह-यत्पुनर्भगवानेवमाह-बोधिसत्त्वो महासत्त्व इति, केन कारणेन भगवन् बोधिसत्त्वो महासत्त्व इत्युच्यते? भगवानाह-महतः सत्त्वराशेर्महतः सत्त्वनिकायस्य अग्रतां कारयिष्यति, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-ममापि भगवन् प्रतिभातियेनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते। भगवानाह-प्रतिभातु ते शारिपुत्र यस्येदानीं कालं मन्यसे। आयुष्मान् शारिपुत्र आह-महत्या आत्मदृष्ट्याः सत्त्वदृष्ट्याः जीवदृष्ट्याः पुद्गल दृष्ट्याः भवदृष्ट्याः विभवदृष्ट्याः उच्छेददृष्ट्याः शाश्वतदृष्ट्याः स्वकायदृष्ट्याः, एतासामेवमाद्यानां दृष्टीनां प्रहाणाय धर्मं देशयिष्यतीति, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते। अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते। भगवानाह-प्रतिभातु ते सुभूते यस्येदानीं कालं मन्यसे। सुभूतिराह-बोधिसत्त्वो महासत्त्व इति भगवन्नुच्यते। यदपि तद्भगवन् बोधिचित्तं सर्वज्ञताचित्तमनास्रवं चित्तमसमं चित्तं असमसमं चित्तमसाधारणं सर्वश्रावकप्रत्येकबुद्धैः, तत्रापि चित्ते असक्तोऽपर्यापन्नः। तत्कस्य हेतोः? तथा हि तत्सर्वज्ञताचित्तमनास्रवमपर्यापन्नं तत्, यदपि तत्सर्वज्ञताचित्तमनास्रवमपर्यापन्नम्। तत्रापि चित्ते असक्तोऽपर्यापन्नः। तेनार्थेन बोधिसत्त्वो महासत्त्व इति संख्यां गच्छति॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-केन कारणेन आयुष्मन् सुभूते तत्रापि चित्ते असक्तोऽपर्यापन्नः? सुभूतिराह-अचित्तत्वादायुष्मन् शारिपुत्र तत्रापि चित्ते असक्तोऽपर्यापन्नः॥



शारिपुत्र आह-किं पुनरायुष्मन् सुभूते अस्ति तच्चित्तं यच्चित्तमचित्तम्? सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र तत्र अचित्ततायामस्तिता वा नास्तिता वा विद्यते वा उपलभ्यते वा? शारिपुत्र आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-तद्यदि आयुष्मन् शारिपुत्र तत्र अचित्ततायामस्तिता वा नास्तिता वा न विद्यते वा नोपलभ्यते वा, तत्कथमायुष्मान् शारिपुत्र एवमाह-अस्ति तच्चित्तं यच्चित्तमचित्तमिति? शारिपुत्र आह-साधु साधु आयुष्मन् सुभूते। यथापि नाम त्वं भगवता अरणाविहारिणामग्रतायां निर्दिष्टो निर्दिशसि॥



अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तमेतदवोचत्-महासत्त्वो महासत्त्व इति यदिदं भगवन्नुच्यते, महासंनाहसंनद्धः स सत्त्वः। महायानसंप्रस्थितो महायानसमारूढश्च स सत्त्वः। तस्मात्स महासत्त्वो महासत्त्व इति संख्यां गच्छति॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-महासंनाहसंनद्धो महायानसंनद्ध इति यदिदं भगवन्नुच्यते, कियता भगवन् बोधिसत्त्वो महासत्त्वो महासंनाहसंनद्धो भवति ? भगवानाह-इह सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति-अप्रमेया मया सत्त्वाः परिनिर्वापयितव्या इति। असंख्येया मया सत्त्वाः परिनिर्वापयितव्या इति। न च ते सन्ति यैर्ये परिनिर्वापयितव्या इति। स तांस्तावतः सत्त्वान् परिनिर्वापयति। न च स कश्चित्सत्त्वो यः परिनिर्वृतो येन च परिनिर्वापितो भवति। तत्कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मतामुपादाय स्यात्। यथापि नाम सुभूते दक्षो मायाकरो वा मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायमभिनिर्मिमीते। अभिनिर्माय तस्यैव महतो जनकायस्यान्तर्धानं कुर्यात्। तत्किं मन्यसे सुभूते अपि नु तत्र केनचित्कश्चिद्धतो वा मृतो वा नाशितो वा अन्तर्हितो वा? सुभूतिराह-नो हीदं भगवन्। भगवानाह-एवमेव सुभूते बोधिसत्त्वो महासत्त्वोऽप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयति। न च स कश्चित्सत्त्वो यः परिनिर्वृतो येन च परिनिर्वापितो भवति। सचेद्बोधिसत्त्वो महासत्त्व इमं निर्देशमेवं निर्दिश्यमानं श्रुत्वा नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, इयता अयं सुभूते बोधिसत्त्वो महासत्त्वो महासंनाहसंनद्धो वेदितव्यः॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा असंनाहसंनद्धो बतायं भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः। भगवानाह-एवमेतत्सुभूते, एवमेतत्। असंनाहसंनद्धो बतायं बोधिसत्त्वो महासत्त्वो वेदितव्यः। तत्कस्य हेतोः? अकृता हि सुभूते सर्वज्ञता अविकृता अनभिसंस्कृता। तेऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां सत्त्वानामर्थाय अयं संनाहसंनद्धः॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-एवमेतद्भगवन्, एवमेतत्सुगत। तत्कस्य हेतोः? तथा हि भगवन् रूपमबद्धममुक्तम्। एवं वेदनासंज्ञासंस्काराः। तथा हि भगवन् विज्ञानमबद्धममुक्तम्। रूपतथतापि भगवन् अबद्धा अमुक्ता। एवं वेदनातथतापि संज्ञातथतापि संस्कारतथतापि। विज्ञानतथतापि भगवन् अबद्धा अमुक्ता॥



अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-रूपमायुष्मन् सुभूते अबद्धममुक्तमिति वदसि। एवं वेदनासंज्ञासंस्काराः। विज्ञानमायुष्मन् सुभूते अबद्धममुक्तमिति वदसि। रूपतथतापि आयुष्मन् सुभूते अबद्धा अमुक्तेति वदसि। एवं वेदनातथतापि संज्ञातथतापि संस्कारतथतापि। विज्ञानतथताप्यायुष्मन् सुभूते अबद्धा अमुक्तेति वदसि। अथ कतमत्तदायुष्मन् सुभूते रूपं यद्रूपमबद्धममुक्तमिति वदसि? एवं कतमा सा वेदना, कतमा सा संज्ञा, कतमे ते संस्काराः? कतमत्तदायुष्मन् सुभूते विज्ञानं यद्विज्ञानमबद्धममुक्तमिति वदसि? कतमा सा आयुष्मन् सुभूते रूपतथता या रूपतथताप्यबद्धा अमुक्तेति वदसि? एवं कतमा सा वेदनातथता संज्ञातथता संस्कारतथता? कतमा सा आयुष्मन् सुभूते विज्ञानतथता या विज्ञानतथताप्यबद्धा अमुक्तेति वदसि? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं पूर्णं मैत्रायणीपुत्रमेतदवोचत्-यदायुष्मन् पूर्ण मायापुरुषस्य रूपं तदबद्धममुक्तम्। एवं या मायापुरुषस्य वेदना, या मायापुरुषस्य संज्ञा, ये मायापुरुषस्य संस्काराः। यदायुष्मन् पूर्ण मायापुरुषस्य विज्ञानं तदबद्धममुक्तम्। या आयुष्मन् पूर्ण मायापुरुषस्य रूपतथता सा अबद्धा अमुक्ता। एवं या मायापुरुषस्य वेदनातथता संज्ञातथता संस्कारतथता। या आयुष्मन् पूर्ण मायापुरुषस्य विज्ञानतथता सा अबद्धा अमुक्ता। तत्कस्य हेतोः? असद्भूतत्वादबद्धा अमुक्ता, विविक्तत्वादबद्धा अमुक्ता, अनुत्पन्नत्वादबद्धा अमुक्ता। अयं स बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य महायानसंप्रस्थितस्य महायानसमारूढस्य महासंनाहोऽसंनाहः। एवमुक्ते आयुष्मान् पूर्णो मैत्रायणीपुत्रस्तूष्णीमभूत्॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-एवं भगवन् बोधिसत्त्वो महासत्त्वो महासंनाहसंनद्धः सन् महायानसंप्रस्थितो महायानसमारूढो भवति। कतमच्च तन्महायानम्? कथं वा तत्संप्रस्थितो वेदितव्यः? कुतो वा तन्महायानं निर्यास्यति? केन वा तन्महायानं संप्रस्थितम्? क्व वा तन्महायानं स्थास्यति? को वा अनेन महायानेन निर्यास्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-महायानमिति सुभूते अप्रमेयताया एतदधिवचनम्। अप्रमेयमिति सुभूते अप्रमाणत्वेन। यदपि सुभूते एवं वदसि-कथं वा तत्संप्रस्थितो वेदितव्यः? कुतो वा तन्महायानं निर्यास्यति? केन वा तन्महायानं संप्रस्थितम्? क्व वा तन्महायानं स्थास्यति? को वा अनेन महायानेन निर्यास्यतीति? पारमिताभिः संप्रस्थितः। त्रैधातुकान्निर्यास्यति। येनारम्बणं तेन संप्रस्थितम्। सर्वज्ञतायां स्थास्यति। बोधिसत्त्वो महासत्त्वो निर्यास्यति, अपि तु खलु पुनर्न कुतश्चिन्निर्यास्यति। न केनापि संप्रस्थितम्। न क्वचित्स्थास्यति। अपि तु स्थास्यति सर्वज्ञतायामस्थानयोगेन। नापि कश्चित्तेन महायानेन निर्यातो नापि निर्यास्यति नापि निर्याति। तत्कस्य हेतोः? यश्च निर्यायात्, येन च निर्यायात्, उभावेतौ धर्मौ न विद्येते नोपलभ्येते। एवमविद्यमानेषु सर्वधर्मेषु कतमो धर्मः कतमेन धर्मेण निर्यास्यति? एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसंनद्धो महायानसंप्रस्थितो महायानसमारूढो भवति॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-महायानं महायानमिति भगवन्नुच्यते। सदेवमानुषासुरं लोकमभिभवन्निर्यास्यति आकाशसमतया अतिमहत्तया तन्महायानम्। यथा आकाशे अप्रमेयाणामसंख्येयानां सत्त्वानामवकाशः, एवमेव भगवन् अस्मिन् याने अप्रमेयाणामसंख्येयानां सत्त्वानामवकाशः। अनेन भगवन् पर्यायेण महायानमिदं बोधिसत्त्वानां महासत्त्वानाम्। नैवास्यागमो दृश्यते, नैवास्य निर्गमो दृश्यते, नाप्यस्य स्थानं संविद्यते। एवमस्य भगवन् महायानस्य नैव पूर्वान्त उपलभ्यते, नाप्यपरान्त उपलभ्यते, नापि मध्य उपलभ्यते। अथ समं भगवंस्तद्यानम्। तस्मान्महायानं महायानमित्युच्यते। अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात्-साधु साधु सुभूते। एवमेतत्सुभूते, एवमेतत्। एवं महायानमिदं बोधिसत्त्वानां महासत्त्वानाम्। अत्र शिक्षित्वा बोधिसत्त्वैर्महासत्त्वैः सर्वज्ञता अनुप्राप्ता, अनुप्राप्स्यते अनुप्राप्यते च॥





अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तमेतदवोचत्-अयं भगवन् सुभूतिः स्थविरः प्रज्ञापारमितायाः कृतशोऽधीष्टो महायानमुपदेष्टव्यं मन्यते। अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-नाहं भगवन् प्रज्ञापारमितां व्यतिक्रम्य महायानमवोचम्। भगवानाह-नो हीदं सुभूते। अनुलोमत्वं सुभूते प्रज्ञापारमिताया महायानमुपदिशसि। एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-बुद्धानुभावाद्भगवन्। अपि नु खलु पुनर्भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति। तत्कस्य हेतोर्नोपैति? रूपापर्यन्ततया हि बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदनासंज्ञा संस्काराः। विज्ञानापर्यन्ततया हि बोधिसत्त्वापर्यन्तता वेदितव्या। रूपं बोधिसत्त्व इति नोपैति। इदमपि न विद्यते नोपलभ्यते। एवं वेदनासंज्ञासंस्काराः। विज्ञानं बोधिसत्त्व इति नोपैति, इदमपि न विद्यते नोपलभ्यते। एवं भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वधर्ममनुपलभमानो नाहं भगवन् तं धर्मं समनुपश्यामि यस्यैतन्नामधेयं यदुत बोधिसत्त्व इति। प्रज्ञापारमितामपि न समनुपश्यामि नोपलभे। सर्वज्ञतामपि न समनुपश्यामि नोपलभे। सोऽहं भगवन् सर्वेण सर्वं सर्वथा सर्वं तं धर्ममनुपलभमानोऽसमनुपश्यन् कतमं धर्मं कतमेन धर्मेण कतमस्मिन् धर्मेऽववदिष्यामि अनुशासिष्यामि? बुद्ध इति भगवन् नामधेयमात्रमेतत्। बोधिसत्त्व इति भगवन् नामधेयमात्रमेतत्। प्रज्ञापारमितेति भगवन् नामधेयमात्रमेतत्। तच्च नामधेयमनभिनिर्वृत्तम्। यथा आत्मा आत्मेति च भगवन्नुच्यते, अत्यन्ततया च भगवन्ननभिनिर्वृत्त आत्मा। एवमस्वभावानां सर्वधर्माणां कतमत्तद्रूपं यदग्राह्यमनभिनिर्वृत्तम्? कतमे ते वेदनासंज्ञासंस्काराः? कतमत्तद्विज्ञानं यदग्राह्यमनभिनिर्वृत्तम्? एवमेतेषां सर्वधर्माणां या अस्वभावता, सा अनभिनिर्वृत्तिः। या च सर्वधर्माणामनभिनिर्वृत्तिर्न ते धर्माः। तत्किमनभिनिर्वृत्तिमनभिनिर्वृत्त्यां प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामि? न चान्यत्र भगवन् अनभिनिर्वृत्तितः सर्वधर्मा वा बुद्धधर्मा वा बोधिसत्त्वधर्मा वा उपलभ्यन्ते, यो वा बोधाय चरेत्। सचेद्भगवन् एवं भाष्यमाणे एवं देश्यमाने एवमुपदिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसं न भग्नपृष्ठीभवति नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, एवं वेदितव्यम्-चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्। भावयत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम्। उपपरीक्षतेऽयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम्। उपनिध्यायत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामिति। तत्कस्य हेतोः? यस्मिन् हि समये भगवन् बोधिसत्त्वो महासत्त्वः इमान् धर्मान् प्रज्ञापारमितायां व्युपपरीक्षते, तस्मिन् समये न रूपमुपैति, न रूपमुपगच्छति, न रूपस्योत्पादं समनुपश्यति, न रूपस्य निरोधं समनुपश्यति। एवं न वेदनां न संज्ञां न संस्कारान्। न विज्ञानमुपैति, न विज्ञानमुपगच्छति, न विज्ञानस्योत्पादं समनुपश्यति, न विज्ञानस्य निरोधं समनुपश्यति। तत्कस्य हेतोः? तथा हि यो रूपस्यानुत्पादो न तद्रूपम्। यो रूपस्याव्ययो न तद्रूपम्। इत्यनुत्पादश्च रूपं च अद्वयमेतदद्वैधीकारम्। इत्यव्ययश्च रूपं च अद्वयमेतदद्वैधीकारम्। यत्पुनरेतदुच्यते रूपमिति, अद्वयस्यैषा गणना कृता। एवं तथा हि यो वेदनायाः संज्ञायाः संस्काराणाम्। तथा हि यो विज्ञानस्यानुत्पादो न तद्विज्ञानम्, यो विज्ञानस्याव्ययो न तद्विज्ञानम्। इत्यनुत्पादश्च विज्ञानं च अद्वयमेतदद्वैधीकारम्। इत्यव्ययश्च विज्ञानं च अद्वयमेतदद्वैधीकारम्। यत्पुनरेतदुच्यते विज्ञानमिति, अद्वयस्तैषा गणना कृता। एवं भगवन् प्रज्ञापारमितायां सर्वाकारं सर्वधर्मान् व्युपपरीक्षमाणः तस्मिन् समये न रूपमुपैति, न रूपमुपगच्छति, न रूपस्योत्पादं समनुपश्यति, न रूपस्य निरोधं समनुपश्यति। एवं न वेदनां न संज्ञां न संस्कारान्। न विज्ञानमुपैति, न विज्ञानमुपगच्छति, न विज्ञानस्योत्पादं समनुपश्यति, न विज्ञानस्य निरोधं समनुपश्यति। तत्कस्य हेतोः? तथा हि यो रूपस्यानुत्पादो न तद्रूपम्। यो रूपस्याव्ययो न तद्रूपम्। इत्यनुत्पादश्च रूपं च अद्वयमेतदद्वैधीकारम्। इत्यव्ययश्च रूपं च अद्वयमेतदद्वैधीकारम्। यत्पुनरेतदुच्यते रूपमिति, अद्वयस्यैषा गणना कृता। एवं तथा हि यो वेदनायाः संज्ञायाः संस्काराणाम्। तथा हि यो विज्ञानस्यानुत्पादो न तद्विज्ञानम्, यो विज्ञानस्याव्ययो न तद्विज्ञानम्। इत्यनुत्पादश्च विज्ञानं च अद्वयमेतदद्वैधीकारम्। इत्यव्ययश्च विज्ञानः च अद्वयमेतदद्वैधीकारम्। यत्पुनरेतदुच्यते विज्ञानमिति, अद्वयस्यैषा गणना कृता॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-तेन हि यथाहमायुष्मतः सुभूतेर्भाषितस्यार्थमाजानामि, तथा बोधिसत्त्वोऽप्यनुत्पादः। यदि च आयुष्मन् सुभूते बोधिसत्त्वोऽप्यनुत्पादः किं बोधिसत्त्वो दुष्करचारिकां चरति? यानि वा तानि सत्त्वानां कृतशो दुःखान्युत्सहते प्रत्यनुभवितुम्? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-नाहमायुष्मन् शारिपुत्र इच्छामि बोधिसत्त्वं महासत्त्वं दुष्करचारिकां चरन्तम् नापि स बोधिसत्त्वो महासत्त्वो यो दुष्करसंज्ञया चरति। तत्कस्य हेतोः? न हि आयुष्मन् शारिपुत्र दुष्करसंज्ञां जनयित्वा शक्योऽप्रमेयाणामसंख्येयानां सत्त्वानामर्थः कर्तुम्। अपि तु सुखसंज्ञामेव कृत्वा। सर्वसत्त्वानामन्तिके मातृसंज्ञां पितृसंज्ञां पुत्रसंज्ञां दुहितृसंज्ञां कृत्वा स्त्रीपुरुषेषु। एवमेताः संज्ञाः कृत्वा बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरति। तस्मान्मातृसंज्ञा पितृसंज्ञा पुत्रसंज्ञा दुहितृसंज्ञा बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामन्तिके यावदात्मसंज्ञा उत्पादयितव्या। यथा आत्मा सर्वेण सर्वं सर्वथा सर्वं सर्वदुःखेभ्यो मोचयितव्यः, एवं सर्वसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं सर्वदुःखेभ्यो मोचयितव्या इति। एवं च सर्वसत्त्वेषु संज्ञा उत्पादयितव्या-मयैते सर्वसत्त्वा न परित्यक्तव्याः। मयैते सर्वसत्त्वाः परिमोचयितव्या अपरिमाणतो दुःखस्कन्धात्। न च मयैतेषु चित्तप्रदोष उत्पादयितव्य अन्तशः शतशोऽपि छिद्यमानेनेति। एवं हि बोधिसत्त्वेन महासत्त्वेन चित्तमुत्पादयितव्यम् सचेदेवंचित्तो विहरिष्यति, न दुष्करसंज्ञी चरिष्यति, न दुष्करसंज्ञी विहरिष्यति। पुनरपरमायुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तमुत्पादयितव्यम्-यथा सर्वेण सर्वं सर्वथा सर्वमात्मा न विद्यते नोपलभ्यते, एवं सर्वेण सर्वं सर्वथा सर्वं सर्वधर्मा न संविद्यन्ते नोपलभ्यन्ते। एवमाध्यात्मिकबाह्येषु सर्वधर्मेषु संज्ञा उत्पादयितव्या। सचेदेवंचित्तश्चरिष्यति, न दुष्करसंज्ञी चरिष्यति, न दुष्करसंज्ञी विहरिष्यति। यदप्यायुष्मन् शारिपुत्र एवमाह-अनुत्पादो बोधिसत्त्वो इति। एवमेतदायुष्मन् शारिपुत्र, एवमेतत्। अनुत्पादो बोधिसत्त्व इति॥



शारिपुत्र आह-किं पुनरायुष्मन् सुभूते बोधिसत्त्व एवानुत्पादः, उताहो बोधिसत्त्वधर्मा अप्यनुत्पादः? सुभूतिराह-बोधिसत्त्वधर्मा अपि आयुष्मन् शारिपुत्र अनुत्पादः शारिपुत्र आह-किं पुनरायुष्मन् सुभूते बोधिसत्त्वधर्मा एवानुत्पादः, उताहो सर्वज्ञताप्यनुत्पादः? सुभूतिराह- सर्वज्ञताप्यायुष्मन् शारिपुत्र अनुत्पादः। आह-किं पुनरायुष्मन् सुभूते सर्वज्ञतैवानुत्पादः, उताहो सर्वज्ञताधर्मा अप्यनुत्पादः? आह-सर्वज्ञताधर्मा अप्यायुष्मन् शारिपुत्र अनुत्पादः। आह-किं पुनरायुष्मन् सुभूते सर्वज्ञताधर्मा एवानुत्पादः, उताहो पृथग्जनोऽप्यनुत्पादः? आह-पृथग्जनोऽप्यायुष्मन् शारिपुत्र अनुत्पादः। आह-किं पुनरायुष्मन् सुभूते पृथग्जन एवानुत्पादः, उताहो पृथग्जनधर्मा अप्यनुत्पादः? आह-पृथग्जनधर्मा आप्यायुष्मन् शारिपुत्र अनुत्पादः। एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-यद्यायुष्मन् सुभूते बोधिसत्त्वोऽप्यनुत्पादः, बोधिसत्त्वधर्मा अप्यनुत्पादः, सर्वज्ञताप्यनुत्पादः, सर्वज्ञताधर्मा अप्यनुत्पादः, पृथग्जनोऽप्यनुत्पादः, पृथग्जनधर्मा अप्यनुत्पादः, नन्वायुष्मन् सुभूते अनुप्राप्तैव अयत्नेन बोधिसत्त्वेन महासत्त्वेन सर्वज्ञता भवति। एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-नाहमायुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य प्राप्तिमिच्छामि, नाप्यभिसमयम्। नाप्यनुत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते। आह-किं पुनरायुष्मन् सुभूते अनुत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते, उताहो उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते ? आह-किं पुनरायुष्मन् शारिपुत्र अनुत्पन्नो धर्म उत्पन्नः, उताहो अनुत्पन्न एव धर्मोऽनुत्पन्नः? आह-किं पुनरायुष्मन् सुभूते उत्पाद एव धर्मोऽनुत्पादः, उताहो अनुत्पादो धर्म उत्पादः? आह-उत्पादो धर्मोऽनुत्पादो धर्म इत्यायुष्मन् शारिपुत्र न प्रतिभाति जल्पितुम्। आह-अनुत्पादोऽपि ते आयुष्मन् सुभूते प्रतिभाति जल्पितुम्। आह-अनुत्पाद एवायुष्मन् शारिपुत्र जल्पः। अनुत्पाद एव आयुष्मान् शारिपुत्र प्रतिभाति। अनुत्पाद एव आयुष्मन् शारिपुत्र प्रतिभानम्। एवमेवायुष्मन् शारिपुत्र अत्यन्तं प्रतिभाति॥



एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-धार्मकथिकानामायुष्मान् सुभूतिरग्रतायां स्थापितव्यः। तत्कस्य हेतोः? तथा ह्यायुष्मान् सुभूतिः स्थविरो यतो यत एव परिप्रश्नीक्रियते, ततस्तत एव निःसरति, धर्मतायाश्च न चलति, तां च धर्मतां न विरोधयति। एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-धर्मतैषा आयुष्मन् शारिपुत्र भगवतः श्रावकाणामनिश्रितधर्माणाम्। ते यतो यत एव परिप्रश्नीक्रियन्ते, ततस्तत एव निःसरन्ति, धर्मतां च न विरोधयन्ति, धर्मतायाश्च न व्यतिवर्तन्ते। तत्कस्य हेतोः? यथापि नाम अनिश्रितत्त्वात्सर्वधर्माणाम्। एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-साधु साधु आयुष्मन् सुभूते। कतमैषा सर्वधर्मानिश्रितपारमिता बोधिसत्त्वानां महासत्त्वानाम्? सुभूतिराह-प्रज्ञापारमितैव आयुष्मन् शारिपुत्र सार्वयानिकी, सर्वधर्मानिश्रिततया सर्वधर्मानिश्रितपारमिता च। इति हि यस्य बोधिसत्त्वस्य महासत्त्वस्य एवं गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायामेवं देश्यमानायामेवमुपदिश्यमानायां न भवति चित्तस्य अवलीनत्वम्, न भवति काङ्क्षायितत्वम्, न भवति धंधायितत्वम्, न भवति चित्तस्यान्यथात्वम्, वेदितव्यमयं बोधिसत्त्वो महासत्त्वो विहरत्यनेन प्रज्ञापारमिताविहारेण अविरहितश्चानेन मनसिकारेणेति॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मतं सुभूतिमेतदवोचत्-कथमायुष्मन् सुभूते अविरहितो बोधिसत्त्वो महासत्त्वोऽविरहितो मनसिकारेण भवति, यः प्रज्ञापारमिताविहारेण विहरति? यदि ह्यायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वोऽविरहितो मनसिकारेण भवति, एवं स विरहितः प्रज्ञापारमिताविहारेण भवति। यदि च आयुष्मन् सुभूते अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण भवति, एवं स विरहितो मनसिकारेण भवति। यदि च आयुष्मन् सुभूते मनसिकारेणाविरहितो बोधिसत्त्वो महासत्त्वः, अविरहित एव प्रज्ञापारमिताविहारेण भवति। एवं सति सर्वसत्त्वा अप्यविरहिता भविष्यन्ति प्रज्ञापारमिताविहारेण। तत्कस्य हेतोः? सर्वसत्त्वा अपि ह्यविरहिता मनसिकारेण विहरन्ति॥



एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-साधु साधु आयुष्मन् शारिपुत्र। अपि तु उपालप्स्ये त्वा। अर्थ एव त्वायुष्मता शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः। तत्कस्य हेतोः? सत्त्वास्वभावतया आयुष्मन् शारिपुत्र मनसिकारास्वभावता वेदितव्या। सत्त्वासद्भावतया आयुष्मन् शारिपुत्र मनसिकारासद्भावता वेदितव्या। सत्त्वविविक्ततया आयुष्मन् शारिपुत्र मनसिकारविविक्तता वेदितव्या। सत्त्वाचिन्त्यतया आयुष्मन् शारिपुत्र मनसिकाराचिन्त्यता वेदितव्या। सत्त्वानभिसंबोधनतया आयुष्मन् शारिपुत्र मनसिकारानभिसंबोधनता वेदितव्या। सत्त्वायथाभूतार्थाभिसंबोधनतया आयुष्मन् शारिपुत्र मनसिकारायथाभूतार्थाभिसंबोधनता वेदितव्या। अनेन आयुष्मन् शारिपुत्र एवंरूपेण मनसिकारेण इच्छामि बोधिसत्त्वं महासत्त्वं विहरन्तमनेन विहारेणेति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project