Digital Sanskrit Buddhist Canon

अध्यर्धशतिका प्रज्ञापारमिता

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Adhyardhaśatikā prajñāpāramitā
नय-द्व्यर्धशतिका-अर्धशतिकाद्यपरपर्याया

अध्यर्धशतिका प्रज्ञापारमिता।

ॐ नमो भगवत्यै प्रज्ञापारमितायै नमः।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् * * * * * * * वज्रपाणिना बोधिसत्त्वेन महासत्त्वेन, अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन, आकाशगर्भेण च, वज्रमुष्टिना च, मञ्जुश्रिया, च सचित्तोत्पादधर्मचक्रप्रवर्त(र्ति)ना (?) च, गगनगञ्जेन च, सर्वमारप्रमर्दिना च बोधिसत्त्वेन महासत्त्वेन। एवंप्रमुखैरष्टाभिर्बोधिसत्त्वकोटिभिः * * * आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं सदर्थं सुपदाक्षरं पर्यवदातम्, सर्वधर्मविशुद्धिनिर्हारं देशयति स्म-कामविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। दृष्टिविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। रतिविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। तृष्णाविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। भूषणविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। आह्लादनविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। आलोकविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। कायसुखविशुद्धिपदेमतत् यदुत बोधिसत्त्वपदम्। [वाक्सुख] विशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। मनोविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। शब्दविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। गन्धविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। रसविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। स्पर्शविशुद्धिपदमेतत् यदुत बोधिसत्त्वपदम्। तत्कस्य हेतोः ? तद्यथा सर्वधर्माः स्वभावविशुद्धाः। सर्वधर्माः [स्वभावशून्याः]। स्वभावशून्यतया प्रज्ञापारमिताविशुद्धिर्भवति॥



अथ भगवान् वैरोचनस्तथागतः पुनरपीदं प्रज्ञापारमितानयं सर्वतथागतशान्तधर्मताभिसंबोधिनिर्हारं देशयति स्म-वज्रसमताभिसंबोधि(धौ?) महाबोधिवज्रदृढतया। अर्थसमताभिसंबोधौ महाबोधिरेकार्थतया। धर्मसमताभिसंबोधौ महाबोधिः स्वभावशुद्धतया (?)। सर्वसमताभिसंबोधौ महाबोधिः सर्वाविकल्पनतयेति॥



अथ भगवान् सर्वदुष्टविनयशाक्यमुनिस्तथागतः पुनरपि सर्वधर्मसमताविजयसंग्रहं नाम प्रज्ञापारमितानिर्हारं देशयामास-रागाप्रपञ्चतया * * *। द्वेषाप्रपञ्चतया * * * मोहाप्रपञ्चता, मोहाप्रपञ्चतया सर्वधर्माप्रपञ्चता, सर्वधर्माप्रपञ्चतया प्रज्ञापारमिताप्रपञ्चता वेदितव्या इति॥



अथ भगवान् स्वभावशुद्धस्तथागतः पुनरपीदं सर्वधर्मसमतावलोकितेश्वरज्ञानमुद्रं नाम प्रज्ञापारमितानयं देशयामास-सर्वरागविशुद्धिता लोके द्वेषविशुद्धितायै संवर्तते। सर्वमलविशुद्धिता लोके द्वेषवि[शु]द्धितायै संवर्तते। सर्वमलविशुद्धिता लोके सर्वपापविशुद्धितायै संवर्तते। सर्वधर्मविशुद्धिता लोके सर्वसत्त्वविशुद्धितायै संवर्तते। सर्वज्ञानविशुद्धिता लोके प्रज्ञापारमिताविशुद्ध्यै संवर्तते इति॥



अथ भगवान् सर्वत्रैधातुकाधिपतिस्तथागतः पुनरपि सर्वतथागताभिषेकसंभवज्ञानगर्भं नाम प्रज्ञापारमितानयं देशयामास-अभिषेकदानं सर्वत्रैधातुकराज्यप्रतिलम्भाय संवर्तते। अर्थदानं सर्वाशापरिपूरये संवर्तते। धर्मदानं सर्वधर्मताप्राप्तये संवर्तते। आमिषदानं सर्वकायवाक्चित्तसुखप्रतिलम्भाय संवर्तते इति॥



अथ भगवान् सर्वतथागतज्ञानमुद्राप्राप्तसर्वतथागतमुष्टिधरस्तथागतः [शाश्वत] (?) पुनरपि सर्वतथागतज्ञानमुद्राधिष्ठानवज्रं नाम प्रज्ञापारमितानयं देशयामास-सर्वतथागतकायमुद्रापरिग्रहः सर्वतथागतत्वाय संवर्तते। वाग्मुद्रापरिग्रहः सर्वधर्मप्रतिलम्भाय संवर्तते। चित्तमुद्रापरिग्रहः सर्वसमाधिप्रतिलम्भाय संवर्तते। वज्रमुद्राप्रतिग्रहः सर्वकायवाक्चित्तवज्रसत्त्वसर्वोत्तमसिद्धये संवर्तते इति॥



अथ भगवान् सर्वधर्माप्रपञ्चस्तथागतः पुनरपि चक्राक्षरपरिवर्तं नाम प्रज्ञापारमितानयं देशयामास-शून्याः सर्वधर्मा निःस्वभावयोगेन, निर्निमित्ताः सर्वधर्मा निर्निमित्ततामुपादाय, अप्रणिहिताः सर्वधर्मा अप्रणिधानयोगेन, प्रकृतिप्रभास्वराः प्रज्ञापारमितापरिशुद्ध्या इति॥



अथ भगवान् सर्वतथागतचक्रान्तर्गतस्तथागतः पुनरपि महाचक्रप्रवेशं नाम प्रज्ञापारमितानयं देशयामास-वज्रसमताप्रवेशः सर्वतथागतचक्रप्रवेशाय संवर्तते। अर्थसमताप्रवेशो महाबोधिसत्त्वचक्रप्रवेशाय संवर्तते। धर्मसमताप्रवेशः सर्वधर्मचक्रप्रवेशाय संवर्तते। सर्वसमताप्रवेशः सर्वचक्रप्रवेशाय संवर्तते इति॥



अथ भगवान् सर्वपूजाविधिविस्तरभाजनस्तथागतः पुनरपि सर्वपूजाग्र्यं नाम प्रज्ञापारमितानयं देशयामास-बोधिचित्तोत्पादनता सर्वतथागतपूजाविधिविस्तरः। सर्वसत्त्वधातुपरित्राणता सर्वतथागतपूजाविधिविस्तरः। सद्धर्मपरिग्रहः सर्वतथागतपूजाविधिविस्तरः। प्रज्ञापारमितालिखनलेखनधारणवाचनोच्चारणभावनपूजनकर्मण(कर्म ?) सर्वतथागतपूजाविधिविस्तरः इति॥



अथ खलु भगवान् सर्वविनयसमर्थस्तथागतः पुनरपीदं ज्ञानमुष्टिपरिग्रहं सर्व[स]त्त्वविनयज्ञानगर्भं नाम प्रज्ञापारमितानयं देशयामास-सर्वसत्त्वसमतायां क्रोधसमता, सर्वसत्त्वविनयनतायां क्रोधविनयनता, सर्वसत्त्वधर्मतायां क्रोधधर्मता, सर्वसत्त्ववज्रतायां क्रोधवज्रता। तत्कस्य हेतोः ? सर्वसत्त्वविनयो बोधिरिति॥



अथ भगवान् सर्वधर्मसमताप्रतिष्ठितस्तथागतः पुनरपीदं सर्वधर्माग्र्यं नाम प्रज्ञापारमितानयं देशयामास-सर्वसमतया प्रज्ञापारमितासमता, सर्वार्थतया प्रज्ञापारमितार्थता, सर्वधर्मतया प्रज्ञापारमिताधर्मता, सर्वकर्मतया प्रज्ञापारमिताकर्मता वेदितव्या इति॥



अथ भगवांस्तथागतो वैरोचनः पुनरपि सर्वसत्त्वाधिष्ठानं नाम प्रज्ञापारमितानयं देशयामास-सर्वसत्त्वास्तथागतगर्भाः समन्तभद्रमहाबोधिसत्त्वसर्वात्मतयो (या ?)। वज्रगर्भा सर्वसत्त्वा वज्रगर्भाभिषिक्ततया, धर्मगर्भाः सर्वसत्त्वाः सर्ववाक्प्रवर्तनतया, कर्मगर्भाः सर्वसत्त्वाः सर्वसत्त्वकरणताप्रयोगतया इति॥



अथ भगवाननन्तापर्यन्तानिष्ठस्तथागतोऽनन्तापर्यन्तानिष्ठधर्मा पुनरप्यस्य कल्पस्य परिनिष्ठाधिष्ठानार्थमिदं सर्वधर्मसमतापरिनिनधिष्ठानवज्रं नाम प्रज्ञापारमितानयं देशयामासप्रज्ञापारमितानन्ततया सर्वतथागतानन्तता, प्रज्ञापारमितापर्यन्ततया सर्वतथागतापर्यन्तता, प्रज्ञापारमितानैकतया सर्वधर्मानैकता, प्रज्ञापारमितापरिनिष्ठतया सर्वधर्मापरिनिष्ठता भवति॥



अथ भगवान् वैरोचनः सर्वतथागतगुह्यधर्मताप्राप्तसर्वधर्माप्रपञ्चः पुनरपि इदं महासुखवज्रामोघ * * * नाम वज्रामोघधर्मताप्रज्ञापारमितामुखं परममनादिनिधनमध्यं देशयामास- महारोगोत्तमसिद्धिर्महाबोधिसत्त्वानां महासुखोत्तमसिद्ध्यै संवर्तते। महासुखोत्तमसिद्धिर्महाबोधिसत्त्वानां सर्वतथागतमहाबोध्युत्तमसिद्ध्यै संवर्तते। सर्वतथागतमहाबोध्युत्तमसिद्धिर्महाबोधिसत्त्वानां सर्वमहामारप्रमर्दनोत्तमसिद्ध्यै संवर्तते। सर्वमहामारप्रमर्दनोत्तमसिद्धिर्महाबोधिसत्त्वानां सकलमहात्रैधातुकैश्वर्योत्तमसिद्ध्यै संवर्तते। सकलमहात्रैधातुकैश्वर्योत्तमसिद्धिर्महाबोधिसत्त्वानामशेषानवशेषसर्वसत्त्वधातुपरित्राणसर्वसत्त्वहितसुखपरमात्यन्तमहासुखोत्तमसिद्ध्यै संवर्तते इति॥ तत्कस्य हेतोः ?



यावद्भवाधिष्ठानेऽत्र भवन्ति वरसूरयः।

तावत्सत्त्वार्थमतुलं शक्या कर्तुमनिर्वृताः॥१॥



प्रज्ञापारमितोपायज्ञानाधिष्ठानसाधिता।

सर्वकर्मविशुद्ध्या तु भवशुद्धा भवन्ति ह॥२॥



रागादिविनयो लोके आभवात्मासकृत्सदा।

तेषां विशोधनार्थं तु विनयं ज्ञातवान् स्वयम्॥३॥



यथा पद्मं सुरक्तं तु रागदोषैर्न लिप्यते।

वासदोषैर्भवे नित्यं न लिप्यन्ते जगद्धिताम् (?)॥४॥



महारागविशुद्धास्तु महासौख्या महाधनाः।

त्रिधात्वीश्वरतां प्राप्ता अर्थं कुर्वन्तु तं दृढम्॥५॥इति॥



अध्यर्धशतिका प्रज्ञापारमिता समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project