Digital Sanskrit Buddhist Canon

आर्याबुद्धबलाधानप्रातिहार्यविकुर्वणनिर्देशनाम महायानसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
आर्याबुद्धबलाधानप्रातिहार्यविकुर्वणनिर्देशनाम

महायानसूत्रम्

एवं मया श्रुतम्। एकस्मिन् समये भगवान् महानदीनैरञ्जनातीरे सन्निषन्नाः सार्धमार्यावलोकितेश्वर वज्रपाणि मैत्रेयमजुश्रीपूर्वङ्गमैः सप्तबोधिसत्त्वसहस्रैः सार्धं सुभूति शारिपुत्रमौद्गल्यायन–पुर्वङ्गमैः सर्वेर्महाश्रावकैः शक्रब्रह्मलोकपालराजामात्यब्राह्मणगृहपतिभिः सर्वैः सत्कृतः मानितः पूजितः। भगवान् भक्तकृत्यं कृत्वा मण्डलमालायां संनिषण्णो धर्मप्रतिसंयुक्तया कथया एतान् सन्तोषयति संचोदयति समुत्तेजयति संहर्षयति। मण्डलमालायस्तथागतो महर्द्धिनगरीं वाराणसीं गत्वा तस्यामाम्रपालीवने निषिदति स्म। अथ तस्मिन् समये महापृथिवी संकम्पिता संप्रवेधिता। स्थितं तत्र महासिंहासनमेकं नानारत्नमयं सप्तकर्मकृतं योजनमात्रमुच्चमर्धयोजनमात्रविस्तृतं सुखचितमतिहर्षणीयं मनोज्ञं दिव्यभक्तसंस्तृतं नानादिव्यपुष्पफलप्रलम्बितं दिव्यगन्धवर्णयुक्तम्। तथागतानामवरोपितकुशलमूलमवलोक्य सर्वसत्त्वानामनुत्पत्तिधर्मक्षान्तिप्रतिलम्भोऽभूत्।


अथ भगवान् सिंहासनस्थितो बुद्धावतंसकनाम समाधिं प्रतिलेभे। अथ समाधेर्व्युत्थाय बोधिसत्त्वार्यावलोकितेश्वरं वज्रपाणिं चेदमवोचत्। अवलोकितेश्वर त्वं महालोकधातुं गत्वा च दशसु दिक्षु लोकधातौ विनेयसत्त्वानां कषाययुक्तानाम् अश्राद्धानां पापचरितानां क्लेशावृतनाम् अमातृज्ञानामपितृज्ञानाम अश्रामण्यानाम् अब्राह्मण्यानां त्रिरत्नानभिश्राद्धानां तेषां सर्वेषां त्वं च वज्रपाणिश्च द्वौ महर्द्धिं समाधिबलं प्रपद्य अस्यां मण्डलमालायामभिसंक्षिप्य संग्रहं कुरुतम्।


अथार्यावलोकितेश्वरो वज्रपाणिश्च तथागतस्य वचनं श्रुत्वा सर्वसत्त्वान्वलोक्य समुत्तेजनं नाम समाधिं समापेदे। तेन समाधिबलेन महापृथिवी षड्विकारं कम्पिता प्रकम्पिता सम्प्रकम्पिता। त्रिसाहसमहासाहस्रलोकधातौ ब्रह्मलोकधातौ यावद् रूपलोकधातौ तयोः कायावभासप्रादुर्भावोऽभूत्। अथ तदवभासत् इमाः संचोदना गाथा निश्चरन्ति स्म।

अथ तदा कायावभासानिश्चरितगाथावसाने एकैकं पारम्पर्येण त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वे सत्त्वा विज्ञापिताः समुत्तेजिताः। ते सर्वे सत्त्वा मिथ्यादृस्टिं परित्यज्य सम्यगदृष्टियुक्ता अभूवन्। ये मानमदस्तम्भयुक्तास्ते मानमदस्तम्भवियुक्ता अभूवन्। ये कामरागानुचरिताः प्रमत्तास्ते प्राणातिपादत्तादानकामेषु–मिथ्याचाराद्यष्टाकुशलधर्मेभ्यो निवृत्ताः आर्याष्टाङ्गिकमार्गे स्थापिताः। सर्वे ते औद्धत्यहास्यलास्यक्रीडालोभक्रोधेर्ष्यारागादि सर्वं परित्यज्य तथागतदर्शनसेवनपर्युपासनधर्मश्रवणकामा अभूवन्। देवनागयक्षगन्धर्वासुरकिन्नरगरुडमहोरगराजामात्यभिक्षुभिक्षुण्युपासकोपासिकाभिः सर्वे दिव्यपुष्पमाल्यगन्धचूर्णचीवरच्छत्रध्वजपताकादिभिः तथाग़तः पूजितः। अथ सर्वे ते येन महानगर्ययां वाराणस्याम् आम्रपालीवनं तेनोपसंक्रम्य तथागतानामवरोपितकुशलमूलपुण्यतेजसा तथागतस्योपरि पुष्पवर्षमभिप्रावर्षन्।

[अथा तदा भगवान् जम्बुद्वीपे आम्रपालीवनं समन्ततः नियुतशतसहस्त्रयोजन] विस्तीर्णमध्यतिष्ठत् समं पाणितलमिव च दिव्यं मनोरमं वर्णोपेतम्। दिव्यपुष्पवृक्ष–गन्धवृक्ष–[फलवृक्षमहारत्नवृक्ष–कल्पवृक्ष–वस्त्रवृक्षादिभिरलङ्कृतं] दिव्यसंहासनोपेतं रत्नपत्तदामाभिप्रभं पीतं दिव्यकिङ्किणीदामशब्दोपशोभितं तद्यथा [सुखावती–लोकधातुः। तथा मनोज्ञं] प्रल्हादनीयं प्रेमणीयम् अभिनन्दनीयं सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धदेवनागयक्ष[गन्धर्वासुरगरुडकिन्नरमहोरगो] पासकोपासिकाराजामात्यब्राह्मणगृहपत्याकीर्णमध्यतिष्ठत्।


अथार्यावलोकितेश्वरो बोधिसत्त्वो वज्रपाणिश्च समाधेर्व्युत्थाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य त्रिः प्रदक्षिणीकृत्य भगवन्तमेतदवोचत्। [अस्ति भगवन् तथागतानामु]पायकौशल्यं सत्त्वपरिपाकाय। बहवो भगवन् बोधिसत्त्वा महाश्रावका देवनागयक्षगन्धर्वासुर[गरुडकिन्नरमहोरग]–राजामात्यगृहपतयो भिक्षुभिक्षुण्युपासकोपासिकाः संनिपतितास्तथागततेजसा ऋद्ध्यनुभावेन। [साधु साधु कुलपुत्राः। ए]वमेव बहवो भो जिनपुत्रास्तथागतानामुपायकौशल्यं सत्त्वपरिपाकाय यथाशयानां [यथा वैनयिककुशलमूलाधिगतानां] नानाधिमुक्तानां सत्त्वानां चरिं ज्ञात्वा धर्मं देशयन्ति। केचित् सत्त्वा बोधिसत्त्ववैनेयाः केचिच्छ्रावक[वैनेयाः केचित् प्रत्येकबुद्धवैनेयाः केचिद् देववैनेयाः केचित् शक्र]वैनेयाः केचिद् ब्रह्मवैनेयाः केचिन्नागवैनेयाः केचिन्महर्धिकवैनेयाः केचिद्राजवैनेयाः केचित् [समाधिवैनेयाः केचिद् धर्मश्रवण]वैनेयाः केचित् प्रातिहार्यवैनेयाः केचित्तथागतपरिनिर्वाणवैनेयाः केचिद्धातुवैनेयाः केचित् [चैत्यकरणप्रवेशविहारचंक्र]मोद्यानकारापणकुशलमूलवैनेयोत्सुकाः केचित् प्रस्तरप्रतिबिम्बकारापणालेख्य–[सुवर्णरजतरैत्यप्रतिबि]म्बकारापण–कुशलमूलोतसुकवैनेयाः केचिद् भिक्षुसंघपूजनसत्करणकुशलमूलोत्सुकवैनेयाः केचित् [सूत्रपृच्छन–] लिखनपथनपूजनोत् सुकवैनेयाः केचिद्दीपपुष्पधूपगन्धमाल्याहाराभ्यलंकरणोत्सुका भवन्ति। न परमार्थकुशलमूल[धर्मोपेता न निर्वाणधर्मोपेताः।] धर्माणामपि च भो जिनपुत्रा नास्ति तथागतानां किचिदज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा। आगतं वा जानाति। [अनागतं वा जानाति। अल्पं वा जानाति। बहुं वा जानाति।] अतीतं जानाति। प्रत्युतपन्नं जानाति। सर्वसत्त्वानामीर्यापथं जानाति। चरिं जानाति। धातुं जानाति। उत्पादं जानाति। उपप[त्तिं जानाति। तद्यथा] भो जिनपुत्रा वैद्यः सुशिक्षितः सर्वाष्टाङ्गायुर्वेदमुपगतः सर्वधातुकौशल्यसर्वद्रव्योपकरणप्रयोगाभियुक्तः[सत्त्वानां नाना]व्याधिशरीरपरिपीडितानाम् धातुं जानाति। बलं जानाति। वेलं जानाति। औषधं जानाति। वातिकं पैत्तिकं श्लैष्मिकं सान्निपातिकं रुधिरम् आमजं गुल्मिकं जलोदरं [हृद्रोगं] कुष्ठं [कण्डूं दद्रुं] पिटकादीन् विष][वैसर्पा]दीन् जानाति। स सर्वं ज्ञात्वा नानाविधानि द्रव्यौषधानि [प्रयोज्य वमन]विरेचनचूर्णयोगनस्तुकर्म–सीराबंधन–घृततैल–बालचूर्णयोगेन पाचन–वमन–प्रयोगोपायैः सर्वसत्त्वानां तान् सवव्याधि[नुपशमयति। नानाव्याधितः] परिमोक्ष्यन्ते नानाव्याधिभयेभ्यश्च। एवमेव भो जिनपुत्रास्तथागतो नानासमाधि–ऋद्धिपाद–बलवैशारद्य–दिव्यचक्षुः–[श्रोत्रादिभिरष्टाङ्गायुर्वेदसमन्वागतः नानाधात्वाशयप्रयोगकुशलः रागद्वेषमोह व्याधिक्लेशोपक्लेशव्याधिपीडीतानां सत्त्वानां [मानमदमत्तता–] वृतानां कामशोकभयक्रोधावृतानां नरकतिर्यग्योनियमलोकभूमिपरिमोक्षणार्हं नानोपायकौशल्यैर्नानाप्र[कारयोगैः नाना]समाधि–ऋद्धिविक्रीडितैः सत्त्वान् परिमोचयति।

यावदनुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्यानुपधिशेषे निर्वाणाधातौ परिनि[र्वापयति।] अकुशलैर्धमैः परिमोक्ष्यते। आर्याष्टाङ्गे मार्गे प्रतिष्ठापयति। तद्यथापि कुलपुत्राः चन्द्रमण्डलमुपायाकौशल्य [समन्वागतं यथा]धातुकुशलमूलवैनेयान् सत्त्वानामर्थाय आत्मानमन्तर्हितं दर्शयति। अर्धचन्द्राकृतिमण्डलमुपदर्शयति। [कृष्णापक्षशुक्लप]क्षाण्युपदर्शयति। परिपूर्णचन्द्रमण्डलमुपदर्शयति। सर्वतमोऽन्धकारं विधमयति। सर्वतृणवनगुल्मौषधि[फलादीन्] प्रल्हादयति। एवमेव भो जिनपुत्राः तथागतानां नानादुःखावृतानां सत्त्वानां नानाधातुवैनेयानां सत्त्वानां मार्गचर्याकौशल्यं परिनिर्वानां दर्सयति। जातिं दर्शयति। चक्रवर्तिराज्यं दर्शयति। क्रीडारति–स्त्रीहास्यलास्य–गन्धमाल्यरतिक्रिडां दर्शयति। [गृहत्यागप्रव्रज्यादुष्करचर्यां दर्शयति। मारबल[दमन–धर्म] चक्रप्रवर्तनं दर्शयति।

यावन्महाधर्ममेघवृष्टया सर्वसत्त्वानां [संतोषणमुपदर्शयति। परि]निर्वृता अपि तथागता नानाप्रयोगधातुपूजनस्तूपविहारप्रितिबिंबाकारापणप्रव्रज्याभिनिष्क्रमणभिक्षुसंघ[सत्कारविनयधर्म]लिखनवाचनपठनादेव सर्वसत्त्वान् मोक्षयन्ति। शिक्षाधारणाव्रतनियमोपवास–संवरग्रहणोपायकुशलैः [सर्वसत्त्वान् मोक्षयन्ति।] सर्वनरकतिर्यग्योनियमलोकाक्षणापायदुर्गतिभ्यो यावत् प्रल्हादयन्ति। धर्मश्रवणेन अनुत्तरायां सम्यक्संबौधौ [स्थापयन्ति]।

अथ तस्मिन् समये केषांचिदल्पबुद्धीनां देवपुत्राणाम् एतदभवत्। किमयं तथागतः क्षिप्रमेव परिनीर्वाणधातौ [प्रवेष्टुमिच्छतीति ते चिन्तयित्वा दुर्मनसः अभूवन्।...]द्यमित्यर्थं परिनिर्वाणां वर्णयति सूचयति। महापर्षत् संनिपात्य नानाऋद्धिविकुर्वाणप्रातिहार्यं दर्शयति। [तद्यथा पूर्वकैः] तथाग़तैरर्हद्भिः सम्यक्संबुद्धैस्तथागतकृत्यं कृतं दीर्घतरमायुरधिष्ठाय सर्वसत्त्वान् जातिजराव्याधि–[च्युतिशोक]–परिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्ष्य तथायमनेन तथागतेन सर्वे तथागतकृत्यं नाद्यपि कृतम्। [तस्मात् शोकव्यतिक्रमणं संवर्णयतीतिं चिन्तयित्वा ते] तूष्णीमभूवन्।

अथ मजुष्रीः कुमारभूतस्तेषां देवपुत्राणां चेतसैव चित्त माज्ञाय तान् देवपुत्रानेतदवोचत्। [देवपुत्रा मा एवं चिन्त]यत मा प्रव्याहरत्। मा दिनमनसो भवत्। बहूनितथागतानामुपायकुशल–नानोपायप्रज्ञा–स[माध्यादिकुशलमूलबलप्रणिधानानि] नानाशयानां सत्त्वानां धर्मं देशयन्ति। यथा मया देवपुत्राः तथाग़तानां पूर्वकाणां तथागतो[पायकौशल्यम् ऋद्धिवि]कुर्वाण प्रातिहार्यं दृष्टं तथाहं जानामि।

मा हि एव तथागतो बुद्धबलाधानप्रातिहार्यं नाम महासूत्रराजं प्र[काशयितुकामोऽति]रेक कर्तुकामः। अपि च देवपुत्रा न तथागताः परिनिर्वान्ति। न तथागतानां परिनिर्वाणं संविद्यते। न आयुः[क्षयो भवति। अप्रमेय]कल्पकोटिम् अनभिलाप्याकल्पास्तथागताः तिष्ठन्ति। अपि च उपायकौशल्येन सत्त्वानां परिनिर्वाणं धर्शयन्ति। न चाक्रा[न्तिर्न संक्राण्तिः] तथागतानां संविद्यते। सद्धर्मान्तर्धानं दर्शयन्ति। यथा यथा सत्त्वान् पश्यति परिनिर्वाणवैनेयः धातुवैनेयः कशायिक[जातीयः तथाग]ते अश्रद्दधानताम् अगुरुशुश्रूषितां गच्छति तथा तथागतः परिनिर्वाणं दर्शयति न चाक्रान्तिर्न संक्रान्तिस्तथागतानां संविद्यते।] सर्वसत्त्वाः परिपक्वकुशलमूला भवन्ति। तथागते दर्शनाभिकांक्षिणः पूजार्हाः धर्मश्रवणाथिकाः।

चन्द्रमण्डलं [यथा रोचते तथा] तदा तथागता लोक उत्पद्यन्ते बहुजनहिताय बहुजनसुखाय। यावद्देवानां च मुनुष्यानां च त्रिरत्नोद्द्योत[नाय स्फुटनाय न] च तथागतानां जातिः संविद्यते। तद्यथापि नाम कुलपुत्राः आदर्शमण्डले सुमृष्टे नाना रूपाणि दृश्यन्ते [दृश्यं न संविद्यते न] तत्रागमो दृश्यते न निर्गमः प्रतिबिम्बस्य एवमेव देवपुत्राः तथागतकायो द्रष्टव्यः। तद्यथापि नाम कुल[पुत्रा मायकारःसु]शिक्षितः नानानगरतोरणोद्यानां नानारथां चक्रवर्तिरूपां नानारतिक्रीडां दर्शयित्वा अन्तर्धापयति न च तस्याः क्रान्तिर्दृश्यते [न] आगमो न निर्गमः एवमेव तथागतानामुतपादपरिनिर्वाणं द्रष्टव्यम्। अपि च देवपुत्राः पूर्वप्रणिधानेन तथागताः परिनिर्वृता अपि कल्पपरिनिर्वृता अपि कल्पकोटि परिनीर्वृता अपि सत्त्वानां पूजनसत्करणधातुस्तूपकारापणप्रति[बिम्बकारापण]–नामधेयग्रहणसद्धर्मधारणपूजना नानालोकधातुव्यवस्थिता अपि मोक्षयन्ति सर्वनरकतिर्यग्योनियमलोका[क्षण]दुर्गतिविनिपातेभ्यः सर्वदुःखेभ्यः यावदनुपूर्वेण अनुत्तरां सम्यक्संबोधिसम्भिसंबुध्यते। कः पुनर्वादो ये तथागत[आन् प्रत्यक्ष]पूजया पूजयिष्यन्ति गन्धपुष्पमाल्यविलेपनवस्त्राभरणैः।

ये च देवपुत्राः केचित् सत्त्वा वर्षशतसहस्त्रकल्पकोटीपरिनिर्वृतान् [प्राञ्जलिभूतान् एक]वारान् नामधेयं ग्रहीष्यन्ति 'नमो बुद्धायेति' कृत्वा पुष्पमाकाशे क्षेप्स्यन्ति ते सर्वे दुःखस्यान्तं करिष्यन्ति। तिष्ठत्वाकाशे पुष्पं ये केचित् [सत्त्वाः] अनुशिक्षमाणास्तथागतपूजार्थाय एकतथागतशिक्षामपि धारयिष्यन्ति एकदिवसम् एकरात्रिमुहूर्तं तथागत[पूजनचिन्ता–]भियुक्ताः सर्वदुःखस्यान्तं कृत्वा नुपूर्वेणानुत्तरां सम्यक्संबोधिमभिसंबोधिष्यन्ति। ये च तथागतपूजायां दिश्यसिकनाम....वापि हास्यलास्यबालरतिक्रीड[नक]मेव कारयिष्यन्ति सर्वे ते दुःखस्यान्तं कृत्वानुत्तरां सम्यक्संबोधिसमभिसंबोधिष्यन्ति कः [पुनर्वादो ये धातुस्तूपं] धातुप्रतिमां वा कृत्वा सर्वसत्त्वदयापरज्ञाः 'सर्वसत्त्वान् दुःखेभ्यः परिमोचयिष्यामीति' अनुत्तरायां सम्यक्संबोधौ [चित्तमुत्पाद्य दिव्यपुष्पगन्धमाल्यविलेपनचूर्णतूर्यच्छत्रध्वजपताकाभिः पूजयिष्यन्ति दर्शयिष्यन्ति ते जातिजरामरणदुःखपायसेभ्यः परिमोक्ष्यन्ते]।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project