Digital Sanskrit Buddhist Canon

आर्यचतुर्धर्मनिर्देशसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Āryacaturdharmanirdeśasūtram
आर्यचतुर्धर्मनिर्देशसूत्रम्

(पापशोधनोपायभूतं चतुःप्रतिपक्षबलनिर्देशसूत्रम्)



(ख) संस्कृते पुनरुद्धारितम्



भारतीयभाषायाम्-आर्यचतुर्धर्मनिर्देशं नाम महायानसुत्रम्।



नमः सर्वबुद्ध-बोधिसत्त्वेभ्यः



एवं मया श्रुतम्- एकस्मिन् समये भगवान् बुद्धः त्रायस्त्रिंशदेवेषु सुधर्मादेवसभायां सार्द्धं पञ्चानां भिक्षुशतानां महासंघेन, संबहुलैः मैत्रेयमञ्जुश्र्यादिबोधिसत्त्वैर्महासत्त्वैर्विहरतिस्म। तस्मिन् समये भगवान् बुद्धः बोधिसत्त्वं महासत्त्वं मैत्रेयमुद्दिश्योपदिष्टवान्-



चतुर्भिर्मैत्रेय ! धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवति। कतमैश्चतुर्भिः ? यदुत विदूषणासमुदाचारेण, प्रतिपक्षसमुदाचारेण, प्रत्यापत्तिबलेन, आश्रयबलेन च। तत्र विदूषणासमुदाचारोऽकुशलं कर्माध्याचरति, तत्रैव तत्रैव च विप्रतिसारबहुलो भवति। तत्र प्रतिपक्षसमुदाचारः कृत्वाऽप्यकुशलं कर्म कुशले कर्मण्यत्यर्थाभियोगं गतः। प्रत्यापत्तिबलं संवरसमादानादकरणसंवरलाभः। तत्राश्रयबलं बुद्धः-धर्म-संघशरणगमनमनुत्सृष्टबोधिचित्तता च। सुबलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम्। एभिर्मैत्रेय ! चतुर्भिधर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृपोपचित्तं पापमभिभवतीति॥



बोधिसत्त्वैर्महासत्त्वैः सूत्रमिदं सदा पठनीयं (वाचयितव्यं) स्वाध्यायितव्यं चिन्तयितव्यं सुबहुलं भावयितव्यं च। अनेन दुश्चरितानि फलं नाभिनिर्वर्तिष्यन्ते। एवं भगवान् उपदिष्टवान्। बोधिसत्त्वेन महासत्त्वेन मैत्रेयेण तैश्च भिक्षुभिः बोधिसत्त्वैः शतक्रत्वादिदेवपुत्रैः सर्वसम्पन्नपरिमण्डलेन च आप्तमनसा भगवतः प्रवचनमभिनन्दितम्।



॥इति आर्यचतुर्धर्मनिर्देशं नाम महायानसूत्रं समाप्तम्॥



भारतीयोपाध्यायसुरेन्द्रबोधिना महालोचावा-वन्देज्ञानसेनेन चानूदितं व्यवस्थापितं च।



॥भवतु सर्वमङ्गलम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project