Digital Sanskrit Buddhist Canon

हयग्रीवविद्या

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Hayagrīvavidyā
हयग्रीवविद्या



नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। नमः सर्वसत्त्वव्यसनघातिने। नमः सर्वसत्त्वभयप्रशमनकराय। नमः सर्वसत्त्वभयोत्तारणकराय। नमः सर्वविद्याधिगताय। नमः सर्वविद्याविधिगतमूर्तये महाकारुणिकाय। नमो महाविद्याराजप्राप्तये महायोगिने।



तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्‍गीर्णं वज्रधरमहीयं हयग्रीवं नाम परमहृदयमावर्तयिष्यामि [स]र्वकर्मार्थसाधकम्। असह्यं सर्वभूतानां यक्षाणां च [विना]शकम्। अमोघं सर्वकर्मणां विषाणां च नाशकम्। तद्‍यथा



ॐ तरुल तरुल वि[त]रुल वि[त]रुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलितवसुधातल निःस्वसितहसितमारुतोत्‍क्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकरसर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद प[रमं]त्राम्। रक्ष रक्ष क्षमस्व क्षमस्व स मयाभिहितां मन्त्राम्। सिद्धिं मे दिश[दिश] आविश आविश। घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि। इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन [धुन विधुन] विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ। तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु मा विलम्ब। हयग्री[वा]य फट् वज्रखुराय फट् वज्रदंष्ट्राय फट् वज्रदंष्ट्रोत्‍कटभयभैरवाय फट्। परविद्यासंभक्षणाय फट्। परमन्त्रविनाशकाय फट्। सर्वग्रहोत्‍सादकाय फट्। सर्वविषघातकाय फट्। सर्वग्रहेष्वप्रतिहताय फट्। वडवामुखाय फट्। सर्वग्रहपिशाचान् मे वशमानय। यावन्तो मम [ये केचित्] अहितैषिणस्तान् सर्वान् वडवामुखेन निकृन्तय फट्। नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवान् आज्ञा[प]यति स्वाहा।



अयं हयग्रीवविद्या राजा पठितसिद्धः उपचारः आत्मरक्षाजापेन पररक्षा पंचरंगीसूत्रम् एकविंशतिग्रन्थयः कृत्वा बन्धितव्यम्। यावजीवं रक्षा कृता भवति। डा‍इनीग्रहगृहीतस्य प्रतिकृतिं कृत्वा पिण्डशस्त्रेण छेत्तव्या। सर्वपरकृता मंत्राश्छिन्ना भवन्ति सर्वशत्रवस्तम्भनं मनसा व्यवहारे स्व[-]खम् मुखे कृत्वा विद्या जप्तया उत्तरायति। स्पृष्टावेशने[षु]स्नातं शुचिवस्त्रप्रावृतं शुचौ प्रदेशे सुमनसा[सं]बद्धा आवेशये शुक्लवलिर्यथालंभेन। चन्द्रग्रहे सूर्यग्रहे घृतं ताम्रभाजने कृत्वा तावज्जेपद्यावच्चन्द्रो मुक्तो भवति तं घृतं पिवे मेधावी भवति एकेनोद्देशेन श्लोकशतमुद्‍गृण्हाति। पद्मां जुहे घृतमक्षयं भवति। अथ साधितुमिच्छेत्। चन्दनमयं लोकेश्वरप्रतिमा कर्तव्या। दक्षिणेनार्यवज्रधरः। वा[मे]नार्यावलोकितेश्वरः त्रिमूर्तिः कार्यः। सर्वोपरि वडवामुखः परविद्यासंभक्षणः। तस्याग्रतः अयं हयग्रीव-विद्याराजम् अष्टसहस्रं जपेत्। ततः सर्वकर्माणि कुर्या[त्]। स्पृष्टावेशनं गुग्गुलधूपेन। सततजापेन सर्वकार्यसिद्धिर्भवति। सर्वडा‍इनी दृष्टमात्रा वशीभवति। भस्मना सर्षपेण उदकेन सप्त जप्तेन रक्षा कर्तव्या। सीमाबन्धः कृतो भवति। सर्वमुद्रामोक्षणम् उदकेन वशीकरणं फलपुष्पाद्यैः। अयं पठितसिद्धः। असाधित एव सर्वकर्मा[णि कु]रुते॥०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project