Digital Sanskrit Buddhist Canon

सितातपत्रा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sitātapatrā dhāraṇī
सितातपत्रा

ॐ नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः।

एवं मया श्रुतम् एकस्मिन् समये भगवान् देवेषु त्रायस्त्रिंशेषु विहरति स्म। सुधर्मायां देवसभायां महता भिक्षुसंघेन महता च बोधिसत्त्वसंघेन भिक्षुशतैः शक्रेण च देवतानामिन्द्रेण सार्धम्। तत्र खलु भगवान् प्रज्ञप्त एवासने निषद्य उष्णीषमवलोकितं नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य भगवत उष्णीषमध्यादिमानि मन्त्रपदानि निश्चरन्ति स्म।

नमो भगवते उष्णीषाय शुद्धे विरजे विमले स्वाहा। नमो भगवते अप्रणिहतो उष्णीषाय। नमो बुद्धाय। नमो धर्माय। नमो संघाय। नमः सप्तानां सम्यक्संबुद्धकोटीनां नमो मैत्रेयप्रमुखानां सर्वबुद्धबोधिसत्त्वानां सश्रावकसंघानाम्। नमो लोके अर्हतानाम्। नमः स्त्रोत-आपन्नानाम्। नमः सकृदागामिनाम। नमो अनागामिनाम्। नमो लोके सम्यग्गतानाम्। नमः सम्यक्प्रतिपन्नानाम्। नमो देवर्षीणाम्। नमो देवब्रह्मणे। नमो बुद्धाय। नमो भगवते रुद्राय उमापतिसहिताय। नमो वरुणाय। नमो भगवते नारायणाय। महापञ्चमुद्रा नमः नमस्कृताय। नमो भगवते नन्दिकेश्वरमहाकालाय। त्रिपुरनगरविद्रावणकराय। अधिमुक्तिककश्मीरमहाश्मशाननिवासिताय। नमो मातृगणसहिताय। नमो भगवते तथागतकुलस्य। नमो भगवते पद्मकुलस्य। नमो भगवते वज्रकुलस्य। नमो भगवते मणिकुलस्य। नमो भगवते गजकुलस्य। नमो भगवते कर्मकुलस्य। नमो भगवते रत्नकुलस्य। नमो भगवते कुमारकुलस्य। नमो भगवते नागकुलस्य। नमो भगवते रागकुलस्य। नमो भगवते दृढशूर[र]णसेनप्रहरणराजाय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते अमिताभाय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते अक्षोभ्याय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते वज्रधरसागरगर्जिने तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते भैषज्यगुरुवैदूर्यप्रभराजाय तथागतायार्हते सम्यक्‍संबुद्धाय। नमो भगवते अमोघसिद्धये तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते सुपुष्पितसालेन्द्रराजाय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते पद्मोत्तरराजाय तथागतायार्हते सम्यक्संबुद्दाय। नमो भगवते विपश्यिने तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते शिखिने तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते विश्वभुवे तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते क्रकुच्छन्दाय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते कनकमुनये तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते काश्यपाय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते रत्नचन्द्राय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते रत्नकेतुराजाय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते समन्तभद्राय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते वैरोचनाय तथागतायार्हते सम्यक्संबुद्धाय। नमो भगवते विकसितकमलोत्तरगन्धकेतुराजाय तथागतायार्हते सम्यक्संबुद्धाय। एभ्यो नमस्कृत्वा इमां भगवतीं सर्वतथागतोष्णीषसितातपत्रा- नामापराजितां प्रत्यङ्गिरां प्रवक्ष्यामि।

सर्वकलिकलहविग्रहविवादप्रशमनीम्। सर्वभूतग्रहनिवारणीम्। सर्वपरविद्याच्छेदनीम्। अकालमृत्युपरित्रायणीम्। सर्वसत्त्वबन्धनमोक्षणीम्। सर्वदुःस्वप्ननाशनीम्। यक्षराक्षसग्रहाणां विध्वंसनकरीम्। चतुरशीतिनां ग्रहसहस्राणां विध्वंसनकरीम्। अष्टाविंशतीनां नक्षत्राणां प्रसादनकरीम्। सर्वशत्रुनिवारणीमष्टानां महाग्रहाणां विध्वंसनकरीम्। घोरदुष्टदुःस्वप्नानां च विनाशनकरीम्। विषशस्त्राग्न्युदकोत्तारणीम्। सर्वदुर्गतिभयोत्तरणीम्। यावदष्टावकालमरणपरित्राणकरीम्। अपराजितां महाघोरां महाबलां महातेजां महाचण्डां महाश्वेतां महदीप्तां महामालां महाज्वालां महापाण्डरवासिनीम्।

आर्यतारा भृकुटी चैव जया च विजया तथा।

सर्वमारविहन्त्री च वज्रमालेति विश्रुता॥


पद्मा भावजचिन्हा च माला चैवापराजिता।

वज्रतुण्डी विशाली च शान्ता वैदेहपूजिता॥


सौम्यरूपा महाश्वेता ज्वाला पाण्डरवासिनी।

आर्यतारा महाबला अपरा वज्रशृङ्खला॥

[तथा च] वज्रकौमारी कुलंदरी [तथैव] च।

वज्रहस्ता वज्रविद्या [तथा] काञ्चनमालिका॥


कुसुंभरत्ना(रदना) चैव वैरोचनकुलप्रभा।

तथागतकुलोष्णीषविश्रुता विजृम्भमानिका॥


वज्रा कनकप्रभा लोचना वज्रतुण्डिका।

[तथा] श्वेता च कमलाक्षिणी बुद्धलोचना॥


तथा वज्रप्रभा चन्द्रा तथा वज्रधरापि च।

वज्रमाला महामाया देवी च कनकप्रभा॥


सुलोचना [तथा चैव] श्वेता च कमलेक्षणा।

विनीता शान्तचित्ता च आत्मगुणज्ञा शशिप्रभा॥


इत्येता महामुद्रागणाः सर्वमातृगणाश्च सर्वा रक्षां कुर्वन्तु मम सर्वसत्त्वानां च।


ॐ ऋषिगणप्रशस्ते सर्वतथागतोष्णीषसितातपत्रे हूँ हूँ ह्रीं ष्ट्रों जम्भनि। हूँ हूँ ह्रीं ष्ट्रों स्तम्भनि। ॐ हूँ हूँ ह्रीं ष्ट्रो परविद्यास्तम्भनकरी। हूँ हूँ ह्रीं ष्ट्रों सर्वयक्षराक्षसग्रहाणां विध्वंसनकरी। हूँ हूँ ह्रीं ष्ट्रों चतुरशितीनां ग्रहसहस्राणां विध्वंसनकरी। हूँ हूँ ह्रीं ष्ट्रो अष्टाविंशतिनां नक्षत्राणां प्रसादनकरी। हूँ हूँ ह्रीं ष्ट्रो अष्टानां महाग्रहाणां विध्वंसनकरी। हूँ हूँ ह्रीं ष्ट्रों रक्ष २ मां सर्वसत्त्वांश्च।


नमो भगवति सर्वतथागतोष्णीषसितातपत्रे महाप्रत्यङ्गिरे महसहस्रभुजे महासहस्रशीर्षे कोटीशतसहस्रनेत्रे अभेद्ये ज्वलितटंकारि महवज्रोदारे त्रिभुवनमण्डले। ॐ स्वस्तिर्भवतु मम सर्वसत्त्वानां च। राजभयात्, चौरभयात्, अग्निभयात्, उदकभयात्, विषशस्त्रभयात्, शत्रुभयात्, परचक्रभयात्, दुर्भिक्षभयात्, अरिभयात्, अशनिभयात्, अकालमृत्युभयात्, धरणीकम्पभयात्, उल्कापातभयात्, राजदण्डभयात्, चण्डमृगभयात्, नागभयात्, विद्युद्‍भयात्, तप्तबालुकभयात्, सुपर्णिभयात्, सर्वमृत्यूपद्रवोपसर्गोपायासभयात्, ग्रहभयात्, देवभयात्, नागभयात्, यक्षभयात्, राक्षसभयात्, गन्धर्वभयात्, असुरग्रहात्, महोरगग्रहात्, मनुष्यग्रहात्, अमनुष्यग्रहात्, भूतग्रहात्, प्रेतग्रहात्, पिशाचग्रहात्, कुम्भाण्डग्रहात्, पूतनग्रहात्, कटपूतनग्रहात्, स्कन्दग्रहात्, उन्मादग्रहात्, छायाग्रहात्, अपस्मारग्रहात्, ओस्ताडकग्रहात्, डाकिनीग्रहात्, कटडाकिनीग्रहात्, रेवतीग्रहात्, शकुनिग्रहात्, मातृनन्दिग्रहात्, लम्बिकाग्रहात्, शमिकाग्रहात्, आलम्बनग्रहात्, कटवासिनीग्रहात्, कंटकमालिनीग्रहात्, सर्वग्रहात्। व्रताहारिण्याः, गर्भाहारिण्याः, रुधिराहारिण्याः, मांसाहारिण्याः, मेदाहारिण्याः, मज्जाहारिण्याः, जाताहारिण्याः, जीविताहारिण्याः, वल्याहारिण्याः, माल्याहारिण्याः, गन्धाहारिण्याः, पुष्पाहारिण्याः, धूपाहारिण्याः, फलाहारिण्याः, शस्याहारिण्याः, आहुत्याहरिण्याः, पूजाहारिण्याः, विष्टाहारिण्याः, मूत्राहारिण्याः, खेटाहारिण्याः, सिंघाणकाहारिण्याः, वाताहारिण्याः, विरिक्ताहारिण्याः, अशुच्याहारिण्याः, स्पन्दनिकाहारिण्याः, वित्ताहारिण्याः, चित्ताहारिण्याः।


एतेषां सर्वेषां सर्वविघ्नांश्छिन्दयाम्यसिना कीलयामि वज्रेण। परिव्राजकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। डाकडाकिनीकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। ब्रह्मकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। शक्रकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। नारायणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। महापशुपतिकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। महाकालकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। मातृकागणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। कापालिकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। शबरकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। पुक्कसकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। अथर्वणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। वज्रकौमारीकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। यमारिकृतां विद्यां छिन्दयाम्यसिना किलयामि वज्रेण। यमदूतकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। क्रूरनागकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। अधिकर्मकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। विनायककृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। कुमारकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। चतुर्महाराजकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। चतुर्भगिनीकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। गरुडकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। जयकरमधुकरसिद्धिकरसर्वार्थसाधनकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। शृंगिरिटिनन्दिकेश्वरकार्त्तिकेयचन्द्रसूर्यगणपतिसहायकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। नग्नश्रव(म)णकृतं विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। अर्हतकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। अवलोकितेश्वरकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। वीतराग [कृतां] विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। वज्रपाणि गुह्यकाधिपतिकृतां विद्यां चीन्दयाम्यसिना कीलयामि वज्रेण। यत्र यत्रकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। येन कारितां तस्य कृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। मुण्डश्रव(म)णकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। दूतदूती-चेटचेतीकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। सर्वर्षिवरकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। सर्वदेवतगणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। सर्वाहितैषिपतिकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।


ॐ भगवति रक्ष २ मां सर्वसत्त्वांश्च सर्वभयेभ्यः सर्वोपद्रवोपसर्गोपायासेभ्यः सर्वदुष्टप्रदुष्टान् सर्वप्रत्यमित्राहितैषिणो वा तथागतोष्णीषसितातपत्रे नमोस्तु ते। सर्वबुद्धनमस्कृते। असितानलार्कप्रभास्फुट-विकसितसितातपत्रे।


ॐ ज्वल २ धक २ खाद २ दर २ विदर २ छिन्द २ भिन्द २ हूं हूं फट् २ स्वाहा।


सर्वदुष्टान् हूँ हूँ सर्व उल(ल्ल)ङ्घितेभ्यः फट्। सर्वदुर्लिखितेभ्यः फट्। सर्वदुश्छायेभ्यः फट्। सर्वदिग्भ्यः फट्। सर्वविदिग्भ्यः फट्। सर्वदुर्मुक्तेभ्यः फट्। सर्वदुश्छर्दितेभ्यः फट्। सर्वावद्यतेभ्यः फट्। सर्वदुष्कृतेभ्यः फट्। सर्वदुष्प्रेक्षितेभ्यः फट्। सर्वज्वले(रे)भ्यः फट्। सर्वापस्मारेभ्यः फट्। सर्वापस्मारकेभ्यः फट्। सर्वडाकिनीभ्यः फट्। सर्वरेवतीभ्यः फट्। सर्वकटवासिनीभ्यः फट्। सर्वजा(या)मकेभ्यः फट्। सर्वशकुनिभ्यः फट्। सर्वमातृनन्दिकेभ्यः फट्। सर्वगरेभ्यः फट्। सर्वविषेभ्यः फट्। सर्वयोगेभ्यः फट्। सर्वालंबकेभ्यः फट्। सर्वभयेभ्यः फट्। सर्वोपद्रवेभ्यः फट्। सर्वोपसर्गोपायासेभ्यः फट्। सर्वोत्त्रासेभ्यः फट्। सर्वव्याधिभ्यः फट्। सर्वश्रमणेभ्यः फट्। सर्वग्रहेभ्यः फट्। सर्वतीर्थकेभ्यः फट्। सर्वप्रत्यर्थिकेभ्यः फट्। सर्वपातकेभ्यः फट्। सर्वोन्मादेभ्यः फट्। सर्वविद्याधरेभ्यः फट्। जयकर-मधुकरसर्वार्थसाधकेभ्यः फट्। सर्वविद्याचारेभ्यः फट्। सर्वविद्याराजेभ्यः फट्। सर्वसाधकेभ्यो विद्याचार्येभ्यः फट्। चतुर्भ्यो भगिनीभ्यः फट्। वज्रकौमारीये विद्याराज्ञीये फट्। सर्वविध्नविनायकानां फट्। परविद्रापन(वण) कराय फट्। सर्वासुरेभ्यः फट्। सर्वगरुडेभ्यः फट्। सर्वमहोरगेभ्यः फट्। सर्वमनुष्यामनुष्येभ्यः फट्। सर्वमरुतेभ्यः फट्। सर्वकुम्भाण्डेभ्य फट्। वज्रशृङ्खलाय महाप्रत्यङ्गिराय फट्। सर्वोपसर्गेभ्यः फट्। महाप्रत्यङ्गिरेभ्यः फट्। छिन्द २ फट्। भिन्द २ फट्। हूँ हूँ फट्। हे हे फट्। हो हो फट्। अमोघाय फत्। अप्रतिहताय फट्। वरदाय फट्। असुरविद्रायन(वण)कराय फट्। सर्वदेवेभ्यः फट्। सर्वनागेभ्यः फट्। सर्वयक्षेभ्यः फट्। सर्वराक्षसेभ्यः फट्। सर्वगन्धर्वेभ्यः फट्। सर्वकिन्नरेभ्यः फट्। सर्वभूतेभ्यः फट्। सर्वप्रेतेभ्यः फट्। सर्वपिशाचेभ्यः फट्। सर्वपूतनेभ्यः फट्। सर्वकटपूतनेभ्यः फत्। सर्वस्कन्देभ्यः फट्। वज्रशृङ्खलेभ्य फट्। महाप्रत्यङ्गिराराजाय फट्। कालाय फट्। महाकालाय फट्। मातृगणेभ्यः फट्। महामातृगणनमस्कृताय फट्। वैष्णवीये फट्। माहेश्वरीये फट्। ब्रह्मायणीये फट्। अग्नीये फट्। महाकालीये फट्। कालदण्डीये फट्। ऐन्द्रीये फट्। रौद्रीये फट्। चामुण्डीये फट्। वाराहीये फत्। महावाराहीये फट्। कालरात्रीये फट्। रात्रीये फट्। यमदाढीये फट्। कापालीये फट्। महाकापालीये फट्। कौमारीये फट्। यामीये फट्। वायवे फट्। नैरृतीये फट्। वारुणीये फट्। मारूतीये फट्। महामारुतीये फट्। सौम्याये फट्। ऐशानीये फट्। पुक्कसीये फट्। अर्थर्वणीये फट्। शबरीये फट्। कृष्णशबरीये फट्। यमदूतीये फट्। निशीदिवाचरेभ्यः फट्। त्रिसन्ध्याचरेभ्यः फट्। धरणीये फट्। अधिमुक्तिककाश्मीरमहाश्मशानवासिनीये फट्। एभ्यः सर्वभयेभ्यः फट्। सर्वदोषेभ्यः फट्। ॐ ष्ट्रौ बन्ध २ दुष्टान् रक्ष २ मां सर्वसत्त्वानां स्वाहा।



ये केचिन् मम सर्वसत्त्वानां च दुष्टा दुष्टचित्ता रौद्रा रौद्रचित्ता पापाः पापचित्ताः कुपिताः कुपितचित्ता अमित्रा अमित्रचित्ता। एते मम सर्वसत्त्वानां च रक्षां कुर्वन्तु जीवन्तु वर्षशतं पश्यन्तु शरदां शतम्। ये केचिद्यक्षग्रहाः, व्रताहाराः, गर्भाहाराः, रुधिराहाराः, बंशा(वसा)हाराः, मांसाहारः, मेदाहाराः, मज्जाहाराः, जाताहाराः, जीविताहाराः, वल्याहाराः, माल्याहाराः, गन्धाहाराः, पुष्पाहाराः, धूपाहाराः, फलाहाराः, आहुत्याहाराः, वित्ताहाराः, चित्ताहाराः, पूजाहाराः, मुद्राहाराः, श्लेष्माहाराः, खेटाहाराः, सिंघाणकाहाराः, वाताहाराः, विरिक्ताहाराः, अशुच्याहाराः, स्पन्दनिकाहाराः। पापचित्ताः, दुष्टचित्ताः, रौद्रचित्ताः, देवग्रहाः, नागग्रहाः, यक्षग्रहाः, राक्षसग्रहाः, गन्धर्वग्रहाः, असुरग्रहाः, गरुडग्रहाः, किन्नरग्रहाः, महोरगग्रहाः, मनुष्यग्रहाः, अमनुष्यग्रहाः, मरुतग्रहाः, पिशाचग्रहाः, भूतग्रहाः, कुम्भाण्डग्रहाः, पूतनग्रहाः, कटपूतनग्रहाः, स्कन्दग्रहाः, उन्मादग्रहाः, छायाग्रहाः, अपस्मारग्रहाः, ओस्ताडकग्रहाः, डाकिनीग्रहाः, रेवतीग्रहाः, शमिकाग्रहाः, जा(या)मकग्रहाः, शकुनिग्रहाः, मातृनन्दिग्रहाः, कम्बुकामिनीग्रहाः, अलम्बनग्रहाः, कटडाकिनीग्रहाः, कंटकमालिनीग्रहाः, सर्वग्रहाः।



ज्वरा एकाहिकाः, द्वैतीयकाः, त्रैतीयकाः, चातुर्थिकाः, सप्ताहिकाः, अर्द्धमासिकाः, मासिकाः, द्वै[मा]सिकाः, मौहूर्त्तिकाः, नित्यज्वराः, विषमज्वराः, प्रेतज्वराः, पिशाचज्वराः, मानुषज्वराः, अमानुषज्वराः, वातिकाः, पैत्तिकाः, श्लैष्मिकाः, सान्निपातिकाः, सर्वज्वराः शिरोवर्तिमपनयन्तु मम सर्वसत्त्वानां च अर्द्धावभेदकम्, अरोचकम् अक्षिरोगं नासरोगं मुखरोगं कण्ठरोगं हृद्रोगं गलग्रहं कर्णशूलं दन्तशूलम् उरःशूलं हृदयशूलं मर्मशूलं पृष्ठशूलम् उदरशूलं वस्तिशूलं गुदशूलं योनिशूलं प्रदरशूलम् ऊरूशूलं जङ्घाशूलं हस्तशूलं पादशूलम् अङ्गप्रत्यङ्गशूलं मम चापनयन्तु।

भूतप्रेतवेतालडाकिनीज्वरदग्धकण्डूकिटीभकुष्टपित्तकप्लीहभगंदरलूतापामावैसर्पलोहलिङ्गाशेषश्वासत्रासकासमूर्छागरविषय-

योगाग्न्युदकमारमारीकलहवैरकान्ताराकालमृत्युत्र्यम्बुकत्रै(तै)लाटकवृश्चिकसर्पनकुलसिंहव्याघ्रर्क्षतरक्षुचर्मरमकरवृकतस्कराजीवकायिकानपनयन्तु। अन्येषां सर्वेषां सितातपत्रमहोष्णीषमहाप्रत्यङ्गिराविद्यानुभावेन यावद् द्वादशयोजनाभ्यन्तरेण पञ्चाशतयोजनाभ्यन्तरेण वा विद्याबन्धं करोमि तेजोबन्धनं करोमि सर्वविद्याबन्धनं करोमि परविद्याबन्धनं करोमि सीमाबन्धनं करोमि धरणीबन्धनं करोमि दशदिग्बन्धनं करोमि परसैन्यस्तम्भनं करोमि। तद्यथा ॐ अनने २ खखने २ वीषम २ वीरे २ मौन्य २ शान्ते २ दान्ते २ वज्रधर बन्धबन्धनि वज्रपाणे फट्।



ॐ हूँ ष्ट्रों फट् २ स्वाहा। ॐ वज्रपाशे बन्ध २ वज्रपाशं च सर्वदुष्टविघ्नविनायकान् हूँ फट् २ रक्ष २ मां सर्वसत्त्वांश्च स्वाहा। य इमां सर्वतथागतोष्णीषसितातपत्रानामापराजिताप्रत्यङ्गिरामहाविद्याराज्ञीं लिखित्वा भूर्जपत्रे वस्त्रे वा वल्कले वा कायगतं वा कण्ठगतं वा कृत्वा धारयिष्यति वाचिष्यति अशुद्धकं न क्षमिष्यति। सर्वकृत्यकर्म न क्रमिष्यति। नगरं क्रमिष्यति, योगं क्रमिष्यति, नाकालमृत्युना कालं करिष्यति। सर्वग्रहाणां सर्वविघ्नविनायकानां च प्रियो भविष्यति। मन-आपश्चतुरशीतिकल्पकोटीसहस्राणि जातौ जातौ जातिस्मरो भविष्यति चतुरशीतिवज्रकुलकोटिनियुतशतसहस्राणि विद्यादेवता नित्यं सततसमितं तस्य रक्षावरणगुप्तिं करिष्यन्ति। चतुरशीतिवज्रदूती किंकरा नित्यं परिपालयिष्यन्ति तेषामपि प्रियो भविष्यति। मन-आपश्च न कदाचिद्यक्षत्वं न राक्षसत्वं न भूतत्वं न पिशाचत्वं न पूतनत्वं न कटपूतनत्वं न मनुष्यदारिद्र्यं प्रत्यनुभविष्यति। गङ्गानदीबालुकासंख्येयाप्रमेयाणां बुद्धानां भगवतां पुण्यस्कन्धेन समन्वागतो भविष्यति। इमां च सर्वतथागतोष्णीषसितातपत्रानामापराजितां प्रत्यङ्गिरां महविद्याराज्ञीं धारयमाण अब्रह्मचारी ब्रह्मचारी भविष्यति। अमौनी मौनी भविष्यति। अशुचिः शुचिर्भविष्यति। अनुपवासी उपवासी भविष्यति। योऽपि पञ्चानन्तर्यकारी स्यात् सोऽपि निर्धूतपापो भविष्यति। पूर्वकर्मावरणं निरवशेषं परिक्षयं गच्छति। यः कश्चित् मातृग्रामे तथागतोष्णीषसितातपत्रानामापराजिता महाप्रत्यङ्गिरा महाविद्याराज्ञीं धारयमाणः पुत्रार्थी पुत्रं प्रतिलभते। आयुःपुण्यबलं प्रतिलभते। इतश्च्युत्वा सुखवत्यां लोकधातावुपपद्यते। स च रागद्वेषमोहमानदर्पविगतो भविष्यति। यः कश्चिन्मनुष्यमारे पशुमारे गोमारे सर्वेऽप्युपद्रवोपसर्गोपायासपरचक्रागमनेषु तस्य भगवतो जिनस्य सम्यक्संबुद्धस्य सर्वतथागतोष्णीषसितातपत्रानामापराजितां ध्वजाग्रावरोपितां कृत्वा महता पूजासत्कारेण महतीं पूजां कृत्वा सर्वनगरद्वारेषु प्रवेशयेत् विहारे वा ग्रामे वा नगरे वा जनपदे वा निगमे वा श्मशाने वा पर्वते वा अरण्यायतने वा इमामपराजितां प्रत्यङ्गिरां विद्याराज्ञीं महता सत्कारेण प्रवेशयेत्। प्रवेशितमात्रेण प्रशान्तिकृतो भविष्यति। सर्वेऽप्युपद्रवोपसर्गोपायासाः परचक्राणि प्रशाम्यन्ति। अनन्तो नागराजा शङ्खपालो नागराजा महाकृष्णो नागराजा नन्द्युपनंदौ नागराजानौ अन्ये च सर्वे ते नागराजानः काले च कालं वर्षयिष्यन्ति कालेन कालं औत्सुक्यमापत्स्यते। कालेन कालं गर्जयिष्यन्ति सर्वरोगोपद्रवांश्चोपशमयिष्यन्ति।



ॐ ष्ट्रों बन्ध २ सर्वदुष्टान् रक्ष २ मां सर्वसत्त्वांश्च स्वाहा। ॐ हूँ ष्ट्रों बन्ध २ दुष्टान् रक्ष २ मां सर्वसत्त्वांश्च वज्रपाणे हूँ फट् स्वाहा। ॐ सर्वतथागतोष्णीष अवलोकितमूर्ध्नि तेजोराशि। ॐ ज्वल २ धक् २ खाद २ दर २ विदर २ छिन्ते(छिन्द) २ भिन्द २ हूँ २ फट् ३ रक्ष २ मां सर्वसत्त्वांश्च स्वाहा। ॐ सर्वतथागतोष्णीषसितातपत्रे हूँ फट्। ॐ रक्ष २ मां सर्वसत्त्वांश्च हूँ फट् स्वाहा। तद्यथा- ॐ अनले २अचरे २ खसमे २ वीरे २ सौम्ये २ सर्वबुद्धाधिष्ठानाधिष्ठिते सर्वतथागतोष्णीषसितातपत्रे सर्वदुष्टचित्तान् हूँ फट् स्वाहा। बुद्धयोगेन सर्वोपद्रवेषु त्रिजप्ता कर्तव्या। सर्वबुद्धबोधिसत्त्वाश्च सदेवमानुषासुरगरुडकिन्नरमहोरगश्च लोको भगवतो भाषितमभ्यनन्दन्निति।



आर्यसर्वतथागतोष्णीषसितातपत्रानामपराजिता प्रत्यङ्गिरा

महाविद्याराज्ञी समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project