Digital Sanskrit Buddhist Canon

वसुधाराधारणी

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vasudhārādhāraṇī

श्री वसुधाराधारणी।





ॐ नमः। श्री जिनशासनाय।


संसारद्वयदैन्यस्य प्रतिहन्तृ दिनावहे।


वसुधारे सुधाधारे नमस्तुभ्यं कृपामहे॥१॥





एवं मया श्रुतमेकस्मिन् समये भगवान् कोशाम्ब्यां महानगर्यां कण्टकसंज्ञके महावनवरे घोसितारामे महाभिक्षुसंघेन सार्धं पञ्चमात्रेर्भिक्षुशतैस्संवरबहुलैश्च तपोधनैर्बोधिसत्त्वैर्महासत्त्वैः सर्वशुद्धधर्मगुणसमनुगतैः परिवृतः पुरस्कृतो धर्मं देशयति स्म।





तेन पुनः खलु समयेन कौशाम्ब्यां महानगर्यां सुचन्द्रो नाम गृहपतिः प्रतिवसति स्म। उपशान्तेन्द्रिय उपशान्तमानसो बहुपोष्यो बहुपुत्रो बहुदुहितृको बहुभृत्यपरिजनसम्पन्नः श्राद्धो महाश्राद्धः कल्याणाशयः [येन] भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं अनेकशत- सहस्रप्रदक्षणीकृत्यैकान्ते न्यषीदत्। एकान्ते निषण्णश्च सुचन्द्रो गृहपतिर्लब्धावसरो भगवन्तमेतदवोचत्।





पृच्छेयमहं भगवन्तं तथागतं अर्हन्तं सम्यक्‌संबुद्धं किञ्चित् प्रदेशं सचेत् मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय। एवमुक्ते भगवान् सुचन्द्रं गृहपतिमेतदवोचत्। पृच्छ त्वं गृहपते यद्यदेवाकांक्षसि, अहं ते यथाप्रश्नव्याकरणाय चित्तमाराधयिष्ये। एवमुक्ते सुचन्द्रो गृहपतिः साधु भगवन्निति कृत्वा भगवतः प्रतिश्रुत्य भगवन्तमेतदवोचत्।





कथं भगवन् कुलपुत्रो वा कुलदुहिता वा दरिद्रो भूत्वा अदरिद्रो भवति व्याधितश्च भूत्वा अव्याधितो भवति। अथ खलु भगवान् जानन्नेव सुचन्द्रं गृहपतिमेतदवोचत्। किमिति त्वं [गृहपते दरिद्रतायाः परिप्रश्नं पृच्छसि एवमुक्ते] गृहपतिर्भगवन्तं एतदवोचत्। दरिद्रोऽहं भगवन् दरिद्रोऽहं सुगत बहुपोष्यो बहुपुत्रो बहुदुहितृको बहुभृत्यपरिजनसंपन्नश्च। तद्दर्शयतु भगवांस्तादृशं धर्मपर्यायं येन दरिद्राः सत्त्वाः अदरिद्राः भवेयुः व्याधिताश्च सत्त्वा अव्याधिता भवेयुः बहुधनधान्यकोशकोष्टागारसम्पन्नाश्च भवेयुः प्रिया मनापाश्च मनोज्ञाः संदर्शनीयाश्च भवेयुः दानपतयो महादानपतयश्च अक्षीणहिरण्यसुवर्णधनधान्यरत्नकोशकोष्टागाराश्च भवेयुः। मणिमुक्तावैडूर्यवज्रशङ्खशिलाप्रवालजातरूपरजतसमृद्धाश्च भवेयुः। सुप्रतिष्ठितसुसमृद्धगृहपुत्रदार कुटुम्बाश्च भवेयुः।





एवमुक्ते भगवान् सुचन्द्रगृहपतिमेतदवोचत्। अस्ति गृहपते तेष्वपि असंख्येयेषु कल्पष्वतीतेषु प्रमाणेषु यदाप्तीत् तेन कालेन तेन समयेन भगवान् वज्रधरसागरनिर्घोषो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पात(दि) विद्याचरणसम्पन्नो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्। तस्य तथागतस्यन्तिकान्मया गृहपते अयं वसुधारा नाम धारिणी श्रुता श्रुत्वा चोपगृहीता धारिता वाचिता पर्यवाप्ता प्रवर्त्तिता प्रकीर्त्तिता अनुमोदिता परेभ्यश्च विस्तरेण संप्रकाशिता अहमप्येतर्हि गृहपते तां धारिणीं भाषिष्ये यथा अस्या धारिण्याः प्रभावेन कुलपुत्रं मानुषा न विहेठयन्ति अमानुषाः ...यक्षाः ...राक्षसाः ...प्रेताः ...पिशाचा ...भूता ...कुम्भाण्डा ...स्कन्दा ...अपस्मारा ...उस्ता ...पूतना ...कटपूतना ...यातुधाना न विहेठयन्ति। मूत्राहारा रूधिराहारा विष्टाहारा वसाहारा मांसाहारा श्लेष्माहारा पूआहारा सिंहाणकाहारा खेलाहारा मेधाहारा मद्याहारा जाताहारा जीविताहारा बल्याहारा माल्याहारा यावदुच्छिष्टाहारा न विहेठयन्ति। यस्य चेयं गृहपते धारिणी श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा हृदयगता हस्तगता श्रुतिमात्रगता पर्यवाप्ता प्रवर्त्तिता प्रकीर्तिता विचिंतिता धारिता वाचिता लिखिता अनुमोदिता परेभ्यश्च संप्रकाशिता च भविष्यति तस्य कुलपुत्रस्य कुलदुहितुर्वा दीर्घरात्रं अर्थाय सुखाय हिताय क्षेमाय सुभिक्षाय योगसंभाराय भविष्यति। यश्चैमां वसुधाराधारिणीं तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो महतीं उदारां पूजां कृत्वा नमस्कृत्वा अर्चयेत् अर्धरात्रेश्चतुर्वारान् तस्य देवता आत्तमनस्काः प्रमुदिताः प्रीताः सौमनस्यजातास्त्वयमेवागत्य धनधान्यहिरण्यसुवर्णरत्नवृष्टिं पातयिष्यन्ति ताः प्रीतास्तथागतशासने प्रीता बुद्धप्रज्ञप्त्या प्रीता संघप्रज्ञप्त्या प्रीता मम धर्मभाणकस्याशयेन च। नमो रत्नत्रयाय। ॐ नमो भगवते वज्रधरसागरनिर्धोषाय तथागतस्यार्हते सम्यक्संबुद्धाय तद्यथा ॐ श्री सुरूपे सुवदने भद्रे सुभद्रे भद्रवति मंगले सुमंगले मंगलवति अर्गले अर्गलवति चन्द्रे चन्द्रवति अले अचले अचपले उद्‍घातिनि उद्‍भेदिनि उच्छेदिनि उद्योतिनि शस्यवति धनवति धान्यवति उद्योतवति श्रीमति प्रभवति अमले विमले निर्मले रुरुमे सुरूपे सुरुपविमले अर्चनस्ते अतनस्ते वितनस्ते अनुनस्ते (?) अवनतहस्ते विश्वकेशि विश्वनिशि विश्वनंशि विश्वरूपिणि विश्वनखि विश्वशिरे विशुद्धशीले विगूहनीये विशुद्धनीये उत्तरे अनुत्तरे अंकुरे नंकुरे प्रभंकुरे ररमे रिरिमे रुरुमे खखमे खिखिमे खुखुमे धधमे धिधिमे धुधुमे ततरे ततरे तुरे तुरे तर तर तारय तारय मां सर्वसत्त्वांश्च वज्रे वज्रे वज्रगर्भे वज्रोपमे वज्रिणि वज्रवति उक्के बुक्के नुक्के धुक्के कक्के हक्के ढक्के टक्के वरक्के आवर्त्तिनि निवर्त्तिनि निवर्षणि प्रवर्षणि वर्धनि प्रवर्धनि निष्पादनि वज्रधरसागरनिर्धोषं तथागतं अनुस्मर अनुस्मर सर्वतथागतसत्यमनुस्मर संघसत्यमनुस्मर अनिहारि अनिहारि तप तप कुट कुट पूर पूर पूरय पूरय भगवति वसुधारे मम सपरिवारस्य सर्वेषां सत्त्वानां च भर भर भरणि शान्तमति जयमति महामति सुमंगलमति पिंगलमति सुभद्रमति शुभमति चन्द्रमति आगच्छागच्छ समयमनुस्मर स्वाहा। स्वभावामनुस्मर स्वाहा। धृतिं ....। सर्वतथागतानां विनयं ...हृदयं ...उपहृदयं ...जयं ...विजयं ...सर्वसत्वविजयमनुस्मर स्वाहा।





ॐ श्रीं वसुमुखीं स्वाहा। ॐ श्रीं वसुश्री स्वाहा। ॐ श्रीं वसुश्रिये स्वाहा। ॐ वसुमति स्वाहा। ॐ वसुमतिश्रिये स्वाहा। ॐ वस्वे स्वाहा। ॐ वसुदे स्वाहा। ॐ वसंधरि स्वाहा। ॐ धरिणि धारिणि स्वाहा। ॐ समयसौम्ये समयंकरि महासमये स्वाहा। ॐ श्रिये स्वाहा। ॐ श्रीकरि स्वाहा। ॐ धनकरि स्वाहा। ॐ धान्यकरि स्वाहा।





मूलमन्त्र। ॐ श्रिये श्रीकरि स्वाहा। ॐ धनकरि धान्यकरि रत्नवर्षणि स्वाहा। साध्यमन्त्र। ॐ वसुधारे स्वाहा। हृदयम्। लक्ष्म्यै स्वाहा। ॐ उपहृदयम्। ॐ लक्ष्मी भूतलनिवासिने स्वाहा। सं यथा दं ॐ यानपात्रावहे स्वाहा। मा दूरगामिनी अनुत्पन्नानां द्रव्याणामुत्पादिनि उत्पन्नानां द्रव्याणां वृद्धिंकरि त्रुटे लिटे लिटे लि इत इत आगच्छागच्छ भगवति मा विलम्बं मनोरथं मे परिपूरय। दशभ्यो दिग्भ्यो यथोदकधारा परिपूरयन्ति महीं यथा तमांसि भास्करो रश्मिना विध्यापयति चिरंतनानि यथा शशी शीतांशुना निष्पादयत्यौषधीः।





इन्द्रो वैवस्वतश्चैव वरुणो धनदो यथा।


मनोनुगामिनी सिद्धिं चिन्तयन्ति सदा नृणाम्॥





तथेमानि यथाकामं चिन्तितं सततं मम।


प्रयत्नंतु प्रसिद्ध्यन्तु सर्वमन्त्रपदानि च॥





तद्यथा। सुट सुट खट खट खिटि खिटि खुटु खुटु मरु मरु मुंच मुंच मरुञ्च मरुञ्च तर्प्पिणि तर्प्पिणि तर्जनि तर्जनि देहि देहि दापय दापय उत्तिष्ट उत्तिष्ट हिरण्यसुवर्णं प्रदापय स्वाहा। अन्नपानाय स्वाहा। वसुनिपाताय स्वाहा। गौः स्वाहा सुरभे स्वाहा। वसु स्वाहा। वसुपतये स्वाहा। इन्द्राय स्वाहा। यमाय स्वाहा। वरुणाय स्वाहा। वैश्रवणाय स्वाहा। दिग्भ्यो विदिग्भ्यः स्वाहा। उत्पादयन्तु मे कांक्षाविरहं अनुमोदयन्तु इमं मे मन्त्रपदाः। ॐ ह्रं ह्रीं एह्येहि भगवति दद दापय स्वाहा। एतद्भगवत्या आर्यवसुधाराया हृदयं महापापकरिणोऽपि सिद्‍ध्यति पुरुषप्रमाणान् स्वभोगान् ददाति ईप्सितं मनोरथं परिपूरयति कामदुहान् यान् कामान् कामयति तांस्तानीप्सितान् परिपूरयति। मूलविद्या। नमो रत्नत्रयाय। नमो देवि धनददुहिते वसुधारे धनधारां पातय कुरु २ धनेश्वरी धनदे रत्नदे हे हेमधनरत्नसागरमहानिधाने निधानकोटिशतसहस्रपरिवृते एह्येहि भगवति प्रविश्य मत्पुरं मद्भवने महाधनधान्यधारां पातय कुरु २ ॐ ह्रं त्रट कैलासवासिनीये स्वाहा। महाविद्या। ॐ वसुधारे महावृष्टिनिपातिनि वसु स्वाहा। मूलहृदयं। ॐ वसुधारे सर्वार्थसाधिनी साधय २ उद्धर २ रक्ष २। सर्वार्थनिधयन्त्रं वव टत वव टण्ट डण्ड स्वाहा। परमहृदयं। ॐ नमो भगवत्यै आर्यलेवडिके यथा जीवसंरक्षणि फलहस्ते दिव्यरूपे धनदे वरदे शुद्धे विशुद्धे शिवकरि शान्तिकरि भयनाशिनि भयदूषणि सर्वदुष्टान् भञ्जय २ मोहय २ जम्भय २ स्तम्भय २ मम शान्तिं पुष्टिं वश्यं रक्षां च कुरु २ स्वाहा। लेवडिका धारिणीयं।





इयं सा गृहपते इमानि वसुधाराधारिणीमन्त्रपदानि सर्वतथागतानां अर्हतां सम्यक्संबुद्धानां पूजां कृत्वा षण्मासान्नावर्तयेत् ततः सिद्धा भवति यस्मिंश्च स्थाने इयं महाविद्या वाच्यते सा दिक् पूज्यमाना भवति पौष्टिककार्यं स्वगृहे परगृहे वा भगवतस्तथागतस्यार्यावलोकितेश्वरस्य च मन्त्रदेवतायाश्चाग्रतः सर्वबुद्धबोधिसत्त्वेभ्यो नमस्कृत्वा शुभे स्थाने कोशे कोष्टागारे वा चन्दनेन चतुरस्रमण्डलं कृत्वा त्रीन् वारान् आवर्तयन् ततो गृहपते कुलपुत्रस्य वा कुलदुहितुर्वा महापुरुषमात्रया वसुधारया गृहं परिपूरयति सर्वधनधान्यहिरण्यसुवर्णरत्नैः सर्वोपकरणैश्च सर्वोपद्रवांश्च नाशयति। तेन हि त्वं गृहपते उद्गृगृहीष्वेमां वसुधार नाम धारिणीं धारय वचय देशय उद्‍ग्राहय पर्यवाप्नुहि प्रवर्तय अनुमोदय परेभ्यश्च विस्तरेण संप्रकाशय तद् भविष्यति दीर्घरात्रं अर्थाय हिताय सुभिक्षाय क्षेमाय योगसम्भाराय चेति।





साधु भगवन्निति सुचन्द्रो गृहपतिः भगवतोऽन्तिकादिमां वसुधारां नाम धारिणीं श्रुत्वा हृष्टः तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भगवतश्चरणयोर्निपत्य कृतकरपुटो भूत्वा भगवन्तमेतदवोचत्। उद्‍गृहीता मे भगवन् इयं वसुधारा नाम धारिनी प्रकीर्तिता धारिता वाचिता पर्यवाप्ता अनुमोदिता मनसानुपरिचिंतिता च परेभ्यश्च विस्तरेण इदानीं सम्प्रकाशयिष्यामीति।





अथ तत्क्षणमात्रेण सुचन्द्रो नाम गृहपति [ः] परिपूर्णकोशकोष्टागारो बभूव। अथ खलु सुचन्द्रो गृहपतिः भगवन्तं अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं अनेकशः पुनः पुनरवलोक्य भगवतोऽन्तिकात् प्रक्रान्तः।





अथ खलु भगवानायुष्मन्तं आनन्दं आमन्त्रयते स्म। गच्छ त्वं आनंद सुचन्द्रस्य गृहपतेरगारं गत्वा च परिपूर्णं पश्य सर्वधनधान्यहिरण्यरत्नसुवर्णैः सर्वोपकरणैर्महाकोशकोष्टागाराणि च परिपूर्णानि।





अथ खल्वायुष्मान् आनंदो भगवतः प्रतिश्रुत्य येन कोशाम्बी महानगरी येन सुचन्द्रस्य गृहपतेरगारं तेनोपसंक्रान्तः। उपसंक्रम्याभ्यन्तरं प्रविश्याद्राक्षीत् तत् परिपूर्णं सर्वधनधान्यहिरण्यसुवर्णैः सर्वोपकरणैश्च महाकोशकोष्टागाराणि च परिपूर्णानि। दृष्ट्वा च विस्मितो हृष्टः सन्तौष्टः उदग्र आत्तमना प्रमुदितः प्रीतिसौमनस्यजातो येन भगवांस्तेन उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवंद्य भगवन्तमेतदवोचत्। को भगवन् हेतुः कः प्रत्ययोऽस्य येन सुचन्द्रो गृहपतिर्महाधनो महाभोगो महाकोशकोष्टागारः सर्वधनधान्यसमृद्धः संवृत्तः। भगवानाह। श्राद्धानंद सुचन्द्रगृहपतिः परमश्राद्धः कल्याणाशयः। उद्‍गृहीता च तेनेयं वसुधारा नाम धारिणी धारिता वाचिता देशिता ग्राहिता पर्यवाप्ता प्रकीर्तिता अनुमोदिता इदानीं परेभ्यश्च संप्रकाशयिष्यति।





तेन चानंद त्वमप्युद्‍गृहीष्वेमां वसुधारा नाम धारिणीं धारय वाचय देशय ग्राहय पर्यवाप्नुहि प्रवर्त्तय प्रकीर्तय अनुमोदय परेभ्यश्च विस्तरेण संप्रकाशय। यस्येयं कुलपुत्रस्य वा कुलदुहितुर्वा हस्तगता गृहगता पुस्तकगता भविष्यति न तस्य रोगदुर्भिक्षमरककांतारादयो भविष्यन्ति क्रमेण विभवास्तस्य प्रवर्धिष्यन्ति तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय सुखाय देवानां च मनुष्याणां च।





नाहं आनंद तं धर्मे समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमनब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां च इमां वसुधारा नाम धारिणीं महाविद्यां अन्यथा करिष्यति अतिक्रमिष्यति वा नैतत्स्थानं विद्यते। तत् कस्य हेतोः। अभेद्या ह्येते आनंद वसुधाराधारिणीमन्त्रा न वैते क्षीणकुशलमूलानां सत्त्वानां श्रुतिपथ[मप्या]गमिष्यन्ति कः पुनर्वादो पुस्तकगतामपि कृत्वा गृहे धारयिष्यन्ति। तत् कस्य हेतोः। सर्वतथागतानां ह्येतद् वाक्यं सर्वतथागतैरेषा धारिणी भाषिता अधिष्ठिता स्वमुद्रिकया मुद्रिता प्रभाविता प्रकाशिता प्रकीर्तिता अनुमोदिता प्रशस्ता संवर्तिता विवृतोत्तानीकृत आरोचिता स्वाख्याता सुनिर्दिष्टा च सर्वसत्त्वानां दरिद्राणां नानाव्याधिपरिपीडितानां सर्वदुष्टभयोपद्रवाणां चार्थायेति।





आनन्द आह। उद्‍गृहीता मे भगवन्नियं वसुधारा नाम धारिणी धारिता वाचिता ग्राहिता देशिता प्रवर्त्तिता प्रकीर्तिता अनुमोदिता मनसा सुपरिचिंतिता।





अथ खल्वायुष्मान् आनंद उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य तस्यां वेलायां कृतकरपुटो भूत्वा इदमुदानयति स्म।





अचिंतियो भगवान् बुद्धो बुद्धधर्मोऽप्यचिंतय।


अचिंतयो हिऽत्र सत्तानां विपाकश्चाप्यचिंतय॥


शास्त्राय नेहि सर्वज्ञ जरामरणपारग।


धर्मराज फलप्राप्ता बुद्धवीरं नमोस्तु ते॥


अथ खल्वायुष्मान् आनंदो हृष्टः तुष्टः आत्तमना प्रमुदितः प्रीतिसौमनस्यजातो भगवन्तमेतदवोचत्। को नाम भगवन् धर्मपर्यायः कश्चेमां धारयामि। भगवानाह। तेन हि त्वमानंद सुचन्द्रगृहपतिपरिपृच्छेत्यपि धारय सर्वधनधान्यमित्यपि धारय सर्वतथागतप्रशस्तो वसुधाराधारिणीकल्पं इत्यपि धारय।

इदमवोचद् भगवन्नात्तमना आयुष्मान् आनंदस्ते च भिक्षवस्ते च बोधिसत्वा सा सर्वावती पर्षद् सदेवमानुषासुरगन्धर्वाश्च लोको भगवतो भाषितमभ्यनंदन्निति।

इत्यार्यवसुधाराधारिणी समाप्ता॥ छ॥ छ॥ छ॥ (?) संवत् १६९५ वर्षे अश्वन वदि ७ भृगुवासरे॥ छ॥ छ॥ छ॥ साहश्री पमनीयासुत साहश्री ५ इन्द्रजी सुंदर पठनार्थ परोपकारार्थम्॥॥शुभं भवतु लेखकपाथकयोः॥ छ॥ श्रीः॥


अथ खल्वायुष्मान् आनंदो हृष्टः तुष्टः आत्तमना प्रमुदितः प्रीतिसौमनस्यजातो भगवन्तमेतदवोचत्। को नाम भगवन् धर्मपर्यायः कश्चेमां धारयामि। भगवानाह। तेन हि त्वमानंद सुचन्द्रगृहपतिपरिपृच्छेत्यपि धारय सर्वधनधान्यमित्यपि धारय सर्वतथागतप्रशस्तो वसुधाराधारिणीकल्पं इत्यपि धारय।

इदमवोचद् भगवन्नात्तमना आयुष्मान् आनंदस्ते च भिक्षवस्ते च बोधिसत्वा सा सर्वावती पर्षद् सदेवमानुषासुरगन्धर्वाश्च लोको भगवतो भाषितमभ्यनंदन्निति।

इत्यार्यवसुधाराधारिणी समाप्ता॥ छ॥ छ॥ छ॥ (?) संवत् १६९५ वर्षे अश्वन वदि ७ भृगुवासरे॥ छ॥ छ॥ छ॥ साहश्री पमनीयासुत साहश्री ५ इन्द्रजी सुंदर पठनार्थ परोपकारार्थम्॥॥शुभं भवतु लेखकपाथकयोः॥ छ॥ श्रीः॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project