Digital Sanskrit Buddhist Canon

एकादशः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekādaśaḥ parivartaḥ
एकादशः परिवर्तः

अथ खलु भगवान् शाक्यमुनिस्तथागतः शक्रब्रह्मविरूढक-विरुपाक्ष-धृतराष्ट्र-कुवेरानामन्त्रयति स्म। अहं भद्रमुखाः इह क्लिष्टे पञ्चकषाये बुद्धक्षेत्रे सत्त्वानां कारुण्य-प्रणिधानेन अनुत्तरां सम्यक् संबोधिमभिसंबुद्धः [सत्त्वानाम] विद्यान्धकारप्रक्षिप्तानां क्लेशतस्करधूर्तोपद्रुतानां [क्लेशानां प्रशमनाय] मारपक्षो मे पराजितः सद्धर्मध्वज उच्छ्रेपितोऽप्रमाणाः सत्त्वा [दुःखात्] परिमोक्षिताः। सद्धर्मवृष्टिरुत्‍सृष्टा मारकोट्यो मे [पराजिताः। यदेतर्हि भद्र]मुखा युष्माकं हस्तेऽनुपरिन्दामि तदेभिरप्रमाणैर्गणनासमतिक्रान्तैः बुद्धैर्भगवद्‍भिर्बोधिसत्त्वैर्महासत्त्वैश्च दश[दिशि लोकधातौ सन्निपतितैरधिष्ठाय रक्षितो]वज्रधर्मसमता-प्रतीत्यधर्महृदय-सर्वसमुच्छ्रय-विध्वंसनो धारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायः। [इह बुद्धक्षेत्रे] पृथिवीरस-सत्त्वावासदोषाणां प्रशमाय सत्त्वपरिपाकाय सर्वाशुभकर्मनिरवशेषपरिक्षयार्थं त्रिरत्न[वंशचिरस्थित्यर्थं बुद्धाभिप्राय]परिनिष्पत्त्यर्थमेष युष्माभिरप्यधि]ष्ठाय रक्षितव्य इति। यच्च मे [सद्-]धर्मनेत्रीसंरक्षण कुशलमूलपुण्याभिसंस्काराणि उच्चारणदेशन[स्मरणवाचन]त्रिशरणगमनोपासकसंवर-ब्रह्मचर्यावास-कुशमूलपुण्याभिसं[स्काराणि यावत् प्रथमध्यानभावना] यावत् संज्ञावेदयितनिरोधभावना यावत् स्रोत-आपत्तिफल-साक्षात्‍कृ[तिर्यावदपराणि कुशलमूलपुण्याभिसंस्काराणि एतर्हि कृतानि अनागते करणीयानि वा मम सद्धर्मप्रदीपप्रज्वालन-पुण्याभिसंस्काराणि सर्वमेतद् युष्माकं हस्ते परिन्दामि।]

..... ..... ..... .....
..... ..... ..... .....

अस्य धर्मपर्यायस्य प्रकाशनार्थं [धर्मभाणकं पुद्गलं संचो]दयिष्यामः। धर्मभाणक-धर्मश्रावणिकानां धनधान्यसर्वभोगसम्पद् विवृद्धिं साधयिष्यामः। अविप्रलोपधर्मं जिनशासनं संधारयिष्यामः। अथ खलु[सर्वे बुद्धा भगवन्तः सर्वेषां मनुष्यामनुष्याणां साधुकारं प्रददुः।]

अथ कौतूहलिको बोधिसत्त्वो महासत्त्वस्तं शाक्यमुनिं तथागतं[पर्येषते। किं भगवन् मारकोट्यः सपरिवाराः समागताः।] भगवानाह। सर्वे सपरिवाराः। [अथ खलु] कौतूहलिको बोधिसत्त्वः [आह। किं सपरिवारा मारा त्रिरत्ने लब्धप्रसादाः]। भगवानाह। कुलपुत्रायं खलु मारः पापीमान् सहस्रपरिवारोऽलब्धप्रसादः [कुपितः अनात्तमना वर्तमाने अनागतकालेऽपि यावदेषोऽवतारप्रेक्षी अवतारगवेषी सद्धर्मनेत्रीविप्रलोपार्थं [प्रयत्यते। ..............तथा] ............एकविंशतिपरिवारा एते अलब्धप्रसादाः कुपिताः अनात्तमना [वर्तमाने अनागतकालेऽपि यावत् सद्धर्म]नेत्रीप्रविस्तारः तावदेते मम शासने अवतारप्रेक्षिणः अवतारगवेषिणः [सद्धर्मनेत्रीविप्रलोपार्थं प्रयत्यते। तत् कस्य हेतोः। पूर्व]वैराधिष्ठितत्वादनवरोपितकुशलमूलत्वादकल्याणमित्रपरिगृहीतत्वात्...... [निर्वाणसुखे अलब्धप्रसादत्वात् प्रणिधानपरिगतत्वात्] चित्तेन चित्तं न संददति न प्रसीदन्ति न संतिष्ठन्ति न प्रमाद्यन्ति। [बुद्धानां महासन्निपातं दृष्ट्वा गम्भीरां धारणीं श्रु]त्वानेनैवं हेतुना पश्चाच्छ्रद्धां प्रतिलप्स्यते। अनुत्तरायां सम्यक् संबोधौ [प्रसादं लप्स्यते।

अथ कौतूहलिको बोधिसत्त्वः आह। भगवन्नयं] धर्मपर्यायोऽनवरुप्तकुशलमूलानामपि सत्त्वानां सचेत्.....श्रवणमार्गे नदेत् तेषां .....[अनुत्तरायां सम्यक्‍संबो]धौ चित्तमुत्पादयेत्। तेन खलु पुनः समयेन नागदत्तो नाम मारः पूर्व........नुत्तरायां सम्यक् संबोधौ। स महर्षिवेषेण शाक्यमुनिना.....



[महासन्निपातरत्नकेतुधारणीसूत्रं समाप्तम्॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project