Digital Sanskrit Buddhist Canon

दशमः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Daśamaḥ parivartaḥ

दशमः परिवर्तः

सर्वोऽब्‍घातुः सर्वस्तेजोधातुः सर्वो वायुधातुः सर्व आकाशधातुरधिष्ठितः सद्धर्मनेत्रीचिरस्थित्यर्थं त्रिरत्नवंशानुपच्छेदार्थं सर्वसत्त्वपरिपाकार्थं यावत् संसारपारङ्गमनार्थम्।

अथ खलु सर्वे ते बुद्धा भगवन्तो ये तद्‍बुद्धक्षेत्रनिवासिनो बोधिसत्त्वा महासत्त्वाः शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा ये च महौजस्कमहौजस्काः सत्त्वा ये च चातुर्द्वीपिकायां लोकधातौ नैवासिकास्तान् सर्वानामंत्र्यैवमाहुः। युष्माकं मार्षा हस्ते भूयिष्ठतरामिमां सद्धर्मनेत्रीमधिष्ठाय परिन्दामि सर्वसत्त्वपरिपाकार्थम्। तथा युष्माभिरियं सद्धर्मनेत्री मनसि कर्तव्या उज्ज्वालयितव्या रक्षितव्या। यथा न क्षिप्रमिहायं सद्धर्मः प्रलुज्येत नान्तर्धीयेत। ये च श्राद्धाः कुलपुत्राः कुलदुहितरश्चेमं महासन्निपातधर्मपर्यायं धारयिष्यन्ति यावल्लिखित्वा भिक्षुभिक्षुण्युपासकोपासिकाः सद्धर्मधारकाः पुद्‍गलास्तान् सर्वान् [परिपालनार्थं] युष्माकं हस्ते न्यासतः परिन्दामः आरक्ष-परिपालनतायै। धर्मभाणकाः पुद्‍गला धर्मकामा ध्यानाभिरता धर्मश्रावणिकाः सद्धर्मधारकाः युष्माभिः रक्षितव्याः। तत् कस्य हेतोः। ये इह भूतास्तथागता अर्हन्तः सम्यक् संबुद्धाः सर्वैस्तैस्तथागतैः क्लिष्टे पञ्चकषाये बुद्धक्षेत्रे सनिपत्य सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इयं धर्मनेत्री परि[द]त्ता रक्षायै यावत् सर्वसत्त्वपरिपाकाय। एवमेव ये भविष्यन्ति अनागतेऽध्वनि दशसु दिक्षु बुद्धा भगवन्तः तेऽपि सर्वे क्लिष्टेषु पञ्चकषायेषु बुद्धक्षेत्रेषु क्षणात् सन्निपत्य सत्त्वहितार्थम् एताहि धारणीमन्त्रपदानि भाषिष्यन्ते। इमां च धर्मनेत्रीमधिष्ठास्यन्ति। सर्वेषां शक्त्रब्रह्मलोकपालानां हस्ते इमां धर्मनेत्रीमनुपरिन्दास्यन्ति रक्षापरिपालनार्थम्। वयमप्येतर्हि युष्माकमिह बुद्धक्षेत्रनिवासिनां चातुर्द्वीपिकनिवासिनां च शक्रब्रह्मालोकपालदेव-नागयक्ष-गन्धर्वासुरगरुडकिन्नर-महोरगेन्द्राणां हस्ते भूयिष्ठतरम् अनुपरिन्दामः आरक्षायै सत्त्वपरिपाकार्थम्। तथा युष्माभिरियं सद्धर्मनेत्री मनसि कर्तव्या प्रोज्ज्वालयितव्या यथा न क्षिप्रमेव प्रलुज्येत नान्तर्धीयेत। ये च श्राद्धाः कुलपुत्राः कुलदुहितरश्च सद्धर्मधारकाश्च पुद्‍गला भिक्षुभिक्षुण्युपासकोपासिका ये इमं महासन्निपातं धर्मपर्यायं धारयन्ति यावत् पुस्तकलिखितमपि कृत्वा धारयन्ति धर्मभाणका धर्मश्रावणिका ध्यानयुक्ताः सद्धर्मधारका युष्माभिस्ते रक्षितव्याः पूजयितव्याः। तत कस्य हेतोः। सर्वबुद्धाधिष्ठितोऽयं धर्मपर्यायो यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा जनपदे वा कर्वटे वा राजकुले वारण्यायतने वा यावत् कुटुम्बिकगृहे वायं धर्मपर्यायः प्रचरेत् प्रकाश्येत उद्दिश्येत पर्यवाप्येत वा अन्तशः पुस्तकलिखितमपि कृत्वा भाष्येत तेन धर्मरसेन पृथिवीरससत्त्वौजांसि विवर्धिष्यन्ते। तेन यूयमोजोवन्तस्तेजोबलवीर्यपराक्रमवन्तो भविष्यथ। परिवार-विमान-वृद्धिश्च युष्माकं भविष्यति। मनुष्यराजा अप्यारक्षिता भविष्यन्ति। राजैश्वर्येण ते विवर्धिष्यन्ते सर्वराष्ट्रं च तेषां सुरक्षितं भविष्यति। तेन च धर्मरसेन सन्तर्पिता जम्बुद्वीपे राजानः परस्परहितचित्ता भविष्यन्ति। कर्मविपाकं श्रद्धास्यन्ति। कुशलचित्ता भविष्यन्ति। अमत्‍सरचित्ता हितवस्तुचित्ताः सर्वसत्त्वदयाचित्ता यावत् सम्यग्दृष्टिका राजानो भविष्यन्ति। प्रति प्रति स्वविषयेऽभिरंस्यन्ते। अयं च जम्बुद्वीपः स्फीत उदारो जनाकीर्णो भविष्यति। सुभीक्षतरो रमणी[य]तरश्च भविष्यति। बहुजनमनुष्याकीर्णा ओजोवती च पृथिवी भविष्यति स्निग्धतरा च। मृदुतरफलानि च। यत्रौषधि-धन-धान्य-समृद्धतरा च आरोग्य-सुखस्पर्शविहार-संजननी च भविष्यति। सर्वकलि-कलह-दुर्भिक्ष-रोग-परचक्र-दंश-मशक-शलभाशिविष-दुष्टयक्ष-राक्षस-मृग-पक्षि-वृका अकालवातवृष्टयः प्रशमिष्यन्ति। सम्यग् नक्षत्र-रात्रि-दिवसार्धमास-ऋतु-संवत्‍सराणि प्रवहिष्यन्ति। सत्त्वाश्च प्रायो दशकुशलकर्मपथचारिणो भविष्यन्ति। इतश्च्युताः सुगतिस्वर्गगामिनो भविष्यन्ति। तेऽपि युष्मत्परिवारा भविष्यन्ति। एवं बहुगुणमहानुशंसोऽयं धारणीधर्मपर्यायः सर्वबुद्धाधिष्ठितो महासंनिपातः सत्त्वानां संस्कारपारङ्गमाय यशोविवृद्धिपारिपूर्यै भविष्यति। निरवशेषं मातृग्रामभावपरिक्षयाय उपपत्तिवेदनीयोऽपरपर्यायवेदनीयः संक्षेपाद् दृष्टधर्मवेदनीयोऽपि स मातृग्रामात्मभावः आक्षिप्तः स सर्वः परिक्षयं यास्यति स्थाप्यनन्तर्यकारिणं सद्धर्मप्रतिक्षेपकं वा आर्यापवादकं वा। यदन्यत् कायवाङ्मनःफलविपाकदौष्ठुल्यं तत् सर्वं परिक्षयं यास्यति।

य इमं धर्मपर्यायम् अन्तशः पुस्तकलिखितमपि कृत्वा धारयिष्यति तस्य सुमेरुमात्राणि कर्मक्लेशवरणानि परिक्षयं यास्यन्ति। सर्वकुशलमूलालम्बनानि च विवृद्धिं पारिपूरिं यास्यन्ति। सर्वाङ्गपारिपूरिः सर्वाभिप्रायसंपत्तिः सर्वाणि कायवाङ्मनःसुचरितानि च विवर्धिष्यन्ते। सर्वकुदृष्टिप्रहाणं सर्वशत्रुः सहधर्मनिग्रहः सर्वसूक्ष्मशान्तमार्गावतारो भविष्यति।

अस्य सर्वबुद्धाधिष्ठितस्य महासंनिपातधारणीधर्मपर्यायस्य प्रभावेण यत्र च विषये पुनरयं धर्मपर्यायः प्रचरिष्यति तत्र सा पृथिवी स्निग्धतरा भविष्यति। ओजोवती मृदुफलरसा भविष्यति। तिक्तकटुकपरुषविरसपरिवर्जिता भविष्यति। पुष्पफलसमृद्धतरा धनधान्यकोषकोष्ठागारकुम्भकलशवृद्धिर्भविष्यति वस्त्रान्नपानौषधोपकरणा भूयिष्ठतरा। ये च तत्र अन्नपानोपजीवितसत्त्वास्ते नीरोगतरा भविष्यन्ति वर्णवन्तो बलवन्तः स्मृतिमन्तः प्रज्ञावन्तो धर्मकामाः कुशलपर्येष्ट्यभिरताः पापपरिवर्जिताः। ते ततश्च्यवित्वा युष्माकं सहभाव्यतायोपपत्‍स्यन्ते। तथा यूयं परिवारवृद्धा बलवन्तोऽप्रतिहतचक्रा धर्मबलेन चातुर्वर्ण्यं जनकायं परिपालयिष्यथ। सत्त्वान् धर्मार्थेषु नियोक्ष्यथ। एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति।

अथ खलु मान्दारवगन्धरोचस्तथागतो विशुद्धेन बुद्धविषयज्ञानस्वरघोषेणार्थपदव्याहारानुरूपेण कृत्‍स्नमिदं बुद्धक्षेत्रमापूर्य सर्वे च बोधिसत्त्वा महासत्त्वाः शक्रेन्द्रा यावद् ब्रह्मेन्द्रा महोरगेन्द्रा ये चेह बुद्धक्षेत्रे निवासिनो भूयिष्ठतरम् अस्यां चातुर्द्वीपिकायां निवासिनः सर्वबुद्धानां भगवतां च वचनेन चास्य संनिपातसूत्रस्य धर्मनेत्रया धारणाय प्रकाशना[य] रक्षणायोत्साहयामास।

तेन खलु पुनः समयेन मैत्रेयपूर्वङ्गमाणां सप्तनवतिकोटीसहस्राणि क्षान्तिप्रतिलब्धानां महासत्त्वानामिह बुद्धक्षेत्रे निवासीनि तानि सर्वाणि एककण्ठेनैवमाहुः। वयमपि सर्वबुद्धानां भगवतां वचनेन सर्वत्र्यध्वानुगतानां तथागतानां पूजार्थमिमं धर्मपर्यायं न्यायतः शास्त्रसंम[त]तो गुरुगौरवेण प्रतिगृण्हीमः। कारुण्येन सत्त्वपरिपाकार्थं यावदनुत्तरे मार्गे प्रतिष्ठापनार्थं वयमिमं धर्मपर्यायं ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण उद्दयोतयिष्यामः। सत्त्वांश्च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थम्। तेन खलु पुनः समयेन सर्वे बुद्धा भगवन्तस्तब्दुद्धक्षेत्रान्तर्गताः साधुकारं प्रददुः। साधु साधु सत्‍पुरुषा एवं युष्माभिः करणीयम्।

अथ खलु सर्वे शक्रब्रह्ममहोरगेन्द्रा ये चेह बुद्धक्षेत्रे [अ]पराणी चतुःषष्टिकोटीनयुतानि महौजस्कमहौजस्कानां सत्त्वानां ते सर्वे एककण्ठेनैवमाहुः। वयमप्येतं महासन्निपातं धर्मपर्यायम् उद्‍ग्रहीष्यामः। यावद् विस्तरेण संप्रकाशयिष्यामः समुद्दयोतयिष्यामः सत्त्वांश्च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थम्। सद्धर्मधारकान् धर्मश्रावणिकांश्च रक्षिष्यामः परिपालयिष्यामः। यत्र चायं धर्मपर्यायः प्रचरिष्याति तत्र वयं सर्वबुद्धानां भगवतां वचनेन सर्वकलिकलहविग्रहविवाददुर्भिक्ष-रोगपरचक्राकालवातवृष्टिशीतोष्णानि च दुष्टरूक्षपरुषविरसतिक्तकटुकभावान् प्रशमयिष्यामः। क्षेमरमणीयतां सुभिक्षसामग्रीं संपादयिष्यामः। सद्धर्मनेत्री-चिर-स्थित्यर्थमुद्‍योगमापत्‍स्यामः। भूयस्या मात्रया धार्मिकान् राज्ञः परिपालयिष्यामः। ध्यानाभिरतांश्च सत्त्वान् रक्षिष्यामः। अथ सर्वे ते बुद्धा भगवन्तः साधुकारं प्रददुः। साधु साधु भद्रमुखाः। एवं युष्माभिः करणीयम्। आत्मोभयपरार्थमुद्‍योगमापत्तव्यम्। एवं च युष्माभिः त्रयध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति। यत्र हि नाम यूयं सत्त्वपरिपाकार्थं सद्धर्मनेत्रया उज्‍ज्वालनार्थं सद्धर्मचिरस्थित्यर्थम् उद्‍युक्ता न चिरेण यूयं क्षिप्रमनुत्तरां सम्यक् संबोधिमभिसंभोत्‍स्यथ।

अथ खलु ये अस्यां मध्यमायां चार्तुद्वीपिकायां निवासिनः शक्रब्रह्मदेवेन्द्रा महोरगेन्द्रा ये च महोजस्कमहौजस्काः सत्त्वास्ते सर्वे उत्थायासनात् प्राञ्जलयः स्थित्वैवमाहुः। वयमपि सर्वबुद्धानां भगवतां वचनेनेमां सद्धर्मनेत्रीमुद्‍द्योतयिष्यामो रक्षिष्यामः। इमं च महासन्निपातं सर्वबुद्धाधिष्ठितं धारणीमुद्राधर्मपर्यायं न्यायतः प्रतिग्रहीष्यामः। यावद् ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण संप्रकाशयिष्यामः। सद्धर्मधारकांश्च पुद्‍गलान् रक्षिष्यामः परिपालयिष्यामः। ये च धर्मप्रतिपत्तिस्थिता धर्मभाणका धर्मश्रावणिका भिक्षुभिक्षुण्युपासकोपासिकाः श्राद्धाः कुलपुत्राः कुलदुहितरश्चेमं धर्मपर्यायमुद्‍ग्रहीष्यन्ति यावत् पुस्तकलिखितमपि कृत्वा धारयिष्यन्ति ध्यानाभियुक्तास्तान् वयं सर्वान् रक्षिष्यामः परिपालयिष्यामः सत्‍करिष्यामः मानयिष्यामः पूजयिष्यामः चीवरच्छत्रध्वजपताकाविलेपनैर्यावत् सर्वभैषज्यपरिष्कारैः सत्करिष्यामः। अस्य च धर्मपर्यायस्य भाष्यमाणस्य प्रकाश्यमानस्य वयं स्वयमुपसंक्रमिष्यामः श्रवणाय शास्तृसंज्ञया वयमिमं धर्मपर्यायं सत्‍करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामश्छत्रध्वजपताकाभिः। तत् कस्य हेतोः। अस्मिन् वयं सर्वबुद्धाधिष्ठिते धारणीमुद्राधर्मपर्याये प्रकाश्यमाने धर्मरसेन ओजोवन्तो भविष्यामः। बलवन्तो वीर्यवन्तः स्मृतिमन्तो ज्ञानवन्तः पक्षपरिवारवन्तः अप्रतिहतचक्रपराक्रमा भविष्यामः। एवं वयं सर्वविषये सर्वान् कलिकलहविवाददुर्भिक्ष-रोगपरचक्रा-कालवातवृष्ट्यति-शीतोष्णानावृष्टि-दुःस्वप्नदुर्निमित्त-दुष्टरूक्षपरुषतिक्त-कटुकविरसाकुशलपक्षान्तकरान भावान् प्रशमयिष्यामः। भूयस्या मात्रया क्षेमसुभिक्षान्त-रमणीया-रोग्यसामग्रीं सम्पादयिष्यामः। कालेन वातवृष्टिशीतोष्णौघान् आवाहयिष्यामः। सम्यग्‍ग्रहरात्रिदिवस-मासार्धमासर्तु-संवत्सरानावाहयिष्यामः। सम्यग् ग्रहनक्षत्रसूर्याचन्द्रमसौ वाहयिष्यामः। नद्युतस्-सरस्तडागपुष्करिणीः प्रपूरयिष्यामः। यत्र सत्त्वानामुदकौघेन पीडा भविष्यति तद्वयं प्रतिनिवारयिष्यामः। भूयस्या मात्रया वयं तेषु ग्रामनगरनिगमजनपदेषु सत्त्वहितार्थं पत्रशाखापुष्पफलगन्धधान्यौषधशस्यानि स्निग्धमृष्टवर्णरसमहत्प्रभूततराणि निष्पादयिष्यामः। धनधान्यौषधवस्त्राभरणैः सत्त्वानामवैकल्यं संपादयिष्यामः। तेषां च सत्त्वानां कुशलपर्येष्टितो धराणीमुद्राधर्मपर्यायः प्रकाश्येत। अन्तशः पुस्तकलिखितमपि कृत्वा धार्येत वा वाच्येत वा पूजासत्‍कारेण वा धार्येत। तेषु ये राजानो भविष्यन्ति तान् वयं क्षत्रियान् मूर्धाभिषिक्तान् रक्षिष्यामः परिपालयिष्यामः। अहितं चैषामपनेष्यामः। अहित चैषामुपसंहरिष्यामः। सर्वकौतुकमङ्गलकुदृष्टिकुकार्य-क्वधिष्ठान-कुप्रणिधि-कुशरण-कुहनलपनमायाषठ्यमृषावादेर्यारोषमात्स]र्याणि प्रशमयिष्यामः। सम्यग्‍दृष्टिमार्गे ऋजुके श्रद्धा-दम-संयम ह्र्यपत्राप्येषु संनियोक्ष्यामः। एवमग्रमहिषीनामन्तःपुरकाणा[म]मात्यगणमहामात्र-नैगमपौरुषजानपदानां चतुर्णां वर्णानां स्त्रीपुरुषदारकदारिकाणामपि रक्षां करिष्यामः परिपालनं यावत् ह्यपत्राप्ये सन्नियोक्ष्यामः। अन्तशश्चतुष्पदानपि तेषु विषयेषु रक्षिष्यामः। एषु अस्य धर्मपर्यायस्य प्रकाशनं भविष्यति यावल्लिखितमपि पुस्तके स्थास्यति। एवंरूपैर्वयं महद्भिरुद्‍योगपराक्रमैस्तान् सत्त्वान् परिपालयिष्यामो धर्मनेत्रीसमुद् द्योतनार्थम् अनन्तर्धानाय उद्‍योगमापत्‍स्यामः।

अथ ते सर्वे बुद्धा भगवन्तस्तेभ्यः सत्‍पुरुषेभ्यः साधुकारं प्रददुः। साधु साधु भद्रमुखाः। एवं युष्माभिः करणीयं यद् यूयं धर्मनेत्र्यास्त्रिरत्नवंशस्य च अनन्तर्धानाय उद्‍युक्ताः एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति।

इति रत्नकेतुसूत्रे दशमः आरक्षपरिवर्तः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project