Digital Sanskrit Buddhist Canon

षष्ठः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaṣṭhaḥ parivartaḥ
षष्ठः परिवर्तः



तेषांश्च बुद्धानां भगवतां समादर्शनेनैव बुद्धक्षेत्रान्तर्गतानां [सत्त्वानां रागद्वेषमोहादीनि]..... सर्वेषां चित्तचैत्येषु प्रशेमुः। एकैकश्च सत्त्व एवं संजानीते.....मामेकैकस्तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनधर्मं देशय[ति].....।

तेन खलु पुनः समयेन ये अस्मिन् कृत्‍स्ने बुद्धक्षेत्रे अन्तर्गताः सर्वसत्त्वाः सर्वन्द्रियोपस्तब्धाः .....यत्त्वस्माकं बुद्धा भगवन्तो धर्मं देशयन्तु। अस्माकं भदन्त स्वगतं धर्म वयं बुद्धानां भगवतां धर्मेषु प्रतिप[त्स्यामहे].....।

[तेन खलु पुनः समयेन अपरेषां बुद्धानां भगवतां पूजाकर्मणे] स शाक्यमुनिस्तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेन उदारेण गन्धेन सर्वमिदं बुद्धक्षेत्रं स्फुटमकरोत्..........।

[बुद्धानां भगवतां पूजा]कर्मणे सर्वबुद्धक्षेत्रान्तर्गताश्च सर्वसत्त्वा नानारत्नपुष्पमाल्यविलेपनेर्नानाच्छत्रध्वजपताकालङ्कारैः .....बुद्धानां भगवतां पूजाकर्मणे एवमाह। समन्वाहरन्तु बुद्धा भगवन्तो ये केचित् एतर्हि दशसु दिक्षु लोकधातौ.....।

[अ]हं पूर्वप्रणिधानेनैवं प्रतिकूले पञ्चकषाये लोके अनुत्तरां सम्यक्‍सम्बोधिम् अभिसंबुद्धो नष्टाशयानां प्रनष्टमार्गाणाम् [अविद्यान्धानां तमिस्रभूतानां क्लेशा]क्षिप्तानां त्रयपायसंप्रस्थितानामकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्‍परि[वर्जितानामानन्तर्यकृतानां सद्धर्मवर्जितानां] चर्यापवादकानाम् अकृपाशयानां सत्त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रशमना[य ग्रामनगरनिगमजनपदान्] पदभयामुपसंक्रमामि। सत्त्वहितार्थं स्वल्परूक्षविरसपरमजगुप्सितं प्रतिकूलमाहारं [भक्षयिष्यामि। तेषां कुशलमूलजननार्थं] कर्पासभङ्गचीवरपांसुकुलानि प्रावृणोमि। पर्वतगिरिकन्दरवनषण्ड-[शून्यागार-श्मशान-] शय्यासनं परिभुनज्मि। उपायकौशल्यमहाकरुणा

..... ..... ..... .....
..... ..... ..... .....

[वीर्यसन्नहनेन विविधां कथां] कथयामि। क्षत्रियेभ्यो राजैश्वर्यकथां कथयामि। ब्राह्मणेभ्यो वेद-नक्षत्र-कथां कथयामि। अमात्येभ्यो जनपदकर्मान्तकथां कथयामि। वणिग्‍भ्य क्रयविक्रयकथां कुटुम्बेभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालङ्कारपुत्रैश्वर्यसपत्नकथां श्रमणेभ्यः [क्षान्तिसौरत्यत्रिकर्मवीर्य]कथां कथयामि। सत्त्वपरिपाकाय अप्राप्तस्य प्राप्तये नियुनज्मि। अनधिगतस्याधिगमाय असाक्षात्‍कृतस्य साक्षात्‍क्रियायै [अमुक्तानां मोचनाय] नानाविधानि दुःखान्युत्‍सहामि। सत्त्वपरिपाकाय जनपदचर्यां चरामि।

अथ च पुनर्ये इमे सत्त्वास्तत्र मामाक्रोशन्ति परिभाषन्ति [ईर्ष्यान्वितेन] धर्मेणाभूतेनाभ्याख्यान्ति कुहन-लपन-मायाशाठ्य-मृषावाद-पारुष्यैः स्त्रीवचनैरभ्याख्यान्ति पांसुभिर्मामवकिरन्ति। शस्त्रविषाग्नि[चक्रतोमरशरखड्‍गशक्ति]परश्वधशूलायुधवृष्टिभिर्मम वधाय पराक्रामन्ति। हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्नांश्च मद्वधायोत्‍सृजन्ति। [ममावासविहारकूटागारान्] अशुचिना दुर्गन्धेनापूरयन्ति। मच्छ्रावकाणां चान्तर्नगरमनुप्रविष्टानामिमे अनार्याः सत्त्वाः अनाचारेण नृत्यगीतेनानुविचरिष्यन्ति। [शतसहस्रो]पायैर्मद्वधायोद्युक्ताः शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनेत्रीप्रभेदाय [मम धर्मचारिणां] मारणायोद्‍युक्ताः। तत् खल्वेतर्हि सर्वे बुद्धा भगवन्तस्तेषां बुद्धानां भगवतां [धर्म]नेत्रीम् अवलोकयत। यथा ते बुद्धैर्भगवद्भिरस्मिन् क्लिष्टे पञ्च[कषाययुक्ते काले] महासन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दना[र्थं] सर्वत्रिरत्नवंशस्थित्यनुपच्छेदार्थं सत्त्वानां कुशलमूल[वर्धनार्थं सर्व]परप्रवादसहधर्मनिग्रहार्थं सत्त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टि [कायवाङ्मनःक्लेश] प्रशमनार्थं सर्वगृहग्रामनगरराष्ट्ररक्षणार्थं सर्वशाठ्यविष[काखोर्दमोहनदुःस्वप्नदुर्दर्श]नार्थं सर्वधान्यौषधिफलपुष्परससत्त्वोपजीव्यर्थं क्षत्रियब्राह्मणविट्‍शूद्रकुशलचर्यानियोजनार्थं बोधिसत्त्व[चित्तोत्पादपारमितापूर]णार्थं बोधिसत्त्वानां महासत्त्वानामुपायज्ञानकौशल्यस्मृतिमतिगति-शौर्यप्रतिभाणविवृद्ध्यर्थमभिषेक-भूमि-समाश्वासावतारज्ञानपारङ्गमार्थं तैः पूर्वकैस्तथागतैरर्हद्भिः संबुद्धैरयं वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनी-धरणी-मुद्रापद-प्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितोऽधिष्ठितोऽन्योन्यमनुमोदितः।

तत् साधु। एवमेवैतर्हि ये दशसु दिक्षु बुद्ध भगवन्तस्तिष्ठन्तो यापयन्त इह मम बुद्धक्षेत्रे पञ्चकषाये पृच्छा[यै] समागताः संनिषण्णाः सन्निपतितास्ते सर्वे अस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भासध्वमधितिष्ठतन्योन्यं भाषध्वमनुमोदध्वं सर्द्धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावदनावरणज्ञानपारङ्गमार्थमनुकंपायै ममध्येषणाय च यदिह बुद्धक्षेत्रे धर्मनेत्री चिरं तिष्ठेत्। अनतिक्रमणी सर्वपरप्रवादिभिरविप्रलोपधर्मिणी स्यात्। त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वसत्त्वोपजीव्यः स्यात्।

अथे ते बुद्धा भगवन्त एवमाहुः। एवमेतत् अवश्यमेवास्माभिर्बुद्धकार्यै करणीयम्। इह बुद्धक्षेत्रे धर्मनेत्रीमधिष्ठा स्यामः चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावदनावरणज्ञानपारङ्गमाय यानिमान् वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणधर्मपर्यायन् भाषिष्यामः। शृण्वन्तु सर्वसत्त्वाः ये केचिदिह बुद्धक्षेत्रेऽन्तर्गताः। तद्‍यथा। अङ्कर अङ्कर। भङ्कर प्रभङ्कर। भयविह। मित्र भसे। अखे अख संवरे। दोमे दोमन्ते। केवटे केयूरे। समवहने समन्तभद्रे। धर्मे धर्मे धर्मके। जफले मित्रानुफले फलवते। गणे गणपरन्ते। हिलि हिलि। हिलि हिलिके। जम्भवते। टकटे टकन्ते टकवरन्ते। घनवहन्ते। हिरिन्ते शिरिन्ते। विंद्रुवते। गोवाहे। जुरे मित्र। जुरे जुषे। अग्रे अवमे। सत्य तथता। हुलि हिले चन्द्रे। समधर्मे धर्मे। कुचुरु मुचुरु। अचिद्र। चिलि चिलिलि। चवह। चुलु चुलु। मित्रवह। कुलु कुलु। सर सर। कुटु कुटु। महासरसर। तुटु तुटु। महासत्यहृदय। पुष्पे सुपुष्पे। धूमपरिहरे। अभये। रुचिरे। करक्षे। अभयमस्तु। विवह तितिले ममले पश्वख। शिशिर शिशिर। लोकविनायक वज्रे वज्रधरे वज्रवते। वज्रमते वज्रददे। चक्रवज्रे। चक्रे चवते। धरे धरे। भरे भरे। पूरे टर। हुहुरे। भंगवंवरे। शर शच चिलि चुरु पूरे। मण्डने मण्डने। गगरणे। मुहूर्ते सर्वमुहूर्तके। धिधिरयनि मखिश्वरलयणि रिषिनिजनि धरवचि। चण्डाली मे मे सर्वसस्याधिष्ठिता। आच्छिद्यन्तु वाहनाम्। मिनि फलवति ओजाग्रे विचिनि। वनरह। वुवुरे। गुरु गुरु। मुरु मुरु। हिलि हिलि। हल हल। काकण्डवह हिहितां। आयुहन। कुण्डज्वाल। भसे गर्दने। आदहति। मार्गाभिरोहणि। फलसत्ये आरोहवति। हिलि हिलि। यथा वज्राय स्वाग्र यथापरं च हृदयवाह। सत्यपरिभाव मार्गाभिरोहणे अचलबुद्धि दद प्रचल पचय। पिण्डहृदय चन्द्रचरण। अचले शोधने प्रक्रिनिमार्गे। इल्[इलि]ले। प्रभे सारव्रते। सर्वतथता सत्यानुगते। अनावरणव्रते। अलथ अङ्गुरे शमिनि विब्रह्मवयोहि। अहिते अवाणि। निरवयव अचिरमार्ग। लन लघुंसरे। त्रिरत्नवंशे धर्मकाय ज्वलचन्द्रे। समुद्रवति। महद्भूतव्यय। समुद्रवेगवधार्णिमुद्रेण मखिमुद्र। सुरप्रतिसंविद्धमुद्र। आवर्तनि। संमोह। स्करविद्युतरसे क्षिति। मुद्रितोऽसि। ये केचित् पृथिवी वह वह वह वह। कीटकपट। शैल प्रतीत्य हृदयेन मुद्रिता धारणी। धर [धर धर]। दन्तिला दन्तिन्दाला हुस्क सर्वहृदय मुद्रितोऽसि। जड जवट्ट जखवट सुमतिवति महद्भूत मुद्रित। ये केचित् षडायतननिसृताद्भुता इनि मिने। सचके घोषसचने। मुद्रितचर्याधिष्ठानवाक्‍पथानन्यथा। महापुण्यसमुच्चयावतार। महाकरुणया मुद्रित। सर्वसम्यक् प्रतिपत् चिरभद्रं ज्वलतु धर्मनेत्री। सर्वे मुनिवृषभाः महाकरुणसमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा।

अथ तावदेव ते सर्वबुद्धक्षेत्रान्तर्गताः सर्वसत्त्वास्त्रीष्कृत्यैवमाहुः। नमः सर्वबुद्धेभ्यः। नमो नमः सर्वबुद्धेभ्य इति। एवं चाहुः। अहो महाश्चर्यो मुनिसंनिपातः। अहो महाश्चर्यो बोधिसत्त्वानां महासत्त्वानां महाश्रावकाणां च संनिपातः। अहो वत महाश्चर्याद्भुताश्रुतपूर्वोऽयं वज्रधर्मस्मता-प्रतीत्य-धर्महृदय-सर्वधर्म-समुच्छ्रय-विध्वंसनी-धारणी-मुद्रापदप्रभेद-प्रवेशव्याकरणो धर्मपर्यायः। सर्व-शास्तृशासन-धर्मनेत्री-त्रिरत्न-वंशाधिष्ठान-निर्देशो मारविषय-बलविध्वंसनो मारपाशसंच्छेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रापणः धर्मपक्षरक्षाकरो यावत् सकलबुद्धविषयप्रपूरणार्थम्। एतर्हि सर्वबुद्धैर्भगवद्भिरयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः। सर्वसत्त्वहृदयमुद्रा सर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत् सर्वसत्त्वानामानुत्तरपरिनिर्वाणप्रतिलाभाय। अस्मिन् खलु पुनर्धारणीव्याकरणे भाष्यमाणे त्रिंशद्‍गङ्गानदीवालुकासमानां बोधिसत्त्वानां महासत्त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभोऽभूत्।

तेन खलु पुनः समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात् प्राञ्जलिर्भूत्वा समन्ततोऽवलोक्य बुद्धाधिष्ठानेन स्वर्द्धिबलानुभावेन सर्वमिदं बुद्धक्षेत्रं स्वरेणपूर्य एवमाह।

दुर्लभा जिनचन्द्राणामीदृशी परिषत् पुनः।
विद्वांसो दुर्लभाश्चै[व] बोधिसत्त्वा महाव्रताः॥
ईदृशायाश्च मुद्रायाः श्रवणं परमदुर्लभम्।
येयं कारुणिकैर्नाथैर्धमनेत्री स्वधिष्ठिता॥
सर्वेषां मारपक्षाणां शत्रूणां च पराजयः।
रत्नत्रयानुपच्छेदः संबुद्धैः समधिष्ठितः॥
सर्वावरणनाशाय क्षान्ति-सौरतवर्धिनी।
सत्त्वानामावर्जनी चेह राज्यराष्ट्रस्य पालनी॥
वारणी दुष्कृतस्येह कुदृष्टि-प्रतिषेधनी।
आश्वासो बोधिसत्त्वानां बोधिमार्ग-प्रदर्शनी॥
पारमितावर्धनी चैव भद्रचर्या-प्रपूरणी।
उपायज्ञान-प्रतिभान-वृद्ध्यै अप्यधिष्ठिता।
संग्रहः शुक्लपक्षस्य धारणीष्वपराजिता।
निरञ्जना बोधिमार्गस्य ज्वालनी धर्मसाक्षिणाम्॥
सर्वा विनीय विमतिर्धरणीष्वधिमुच्यते।
एष वै सकलो मार्गो येन बोधिः प्रवर्तते॥
वयं भूयः प्रवक्ष्यामो धारणीमपराजिताम्।
धर्मभाणकरक्षायै श्रोत्राणामभिवृद्धये॥
छन्दं ददाति को न्वर्थो बोधिसत्त्वो महायशाः।
अनावरणाभावाय सत्त्वानां हितवृद्धये॥

तेन खलु पुनः समयेन गङ्गानदीबालुकासमाः कुमारभूता बोधिसत्त्वा महासत्त्वा एककण्ठेनैवमाहुः। वयमप्यस्यां धारण्यां छन्दं ददामोऽधितिष्ठामः। यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा स्नात्वा शुचीनि चीवराणि प्रावृत्य नानापुष्पसंच्छन्ने नानागन्धप्रधूपिते नानारसपरिवृते नानावस्त्राभरणदुष्यसंस्थिते छत्रध्वजपताकोच्छ्रापिते स्वलंकृते मण्डलमाले मृदुसुखसंस्पर्शे सिंहासने अभिरुह्य इमां धारणीं संप्रकाशयेत् न चास्य कश्चित् चित्तसंक्षोभं कायसंक्षोभं मनःसंक्षोभं वा करिष्यति। न चास्य कश्चित् काये श्वासं मोक्ष्यति शीर्षरोगं च कर्तुं शक्ष्यति। नेदं स्थानं विद्यते। न कायरोगं वा न जिव्हारोगं वा न दन्तरोगं नाक्षिरोगं न ग्रीवारोगं न बाहुरोगं न पृष्ठरोगं न अन्त्ररोगं नोदररोगं न श्रोणीरोगं न ऊरुरोगं न जङ्घारोगं कश्चित् कर्तुं शक्ष्यति। न चास्य स्वरसंक्षोभो भविष्यति। यश्च तस्य धर्मभाणकस्य पूर्वाशुभकर्मणा धातुसंक्षोभः स्वरसंक्षोभो वा स्यात् तस्येमां धारणीं वाचयतः सर्वो निःशेषं प्रशमिष्यति। कर्मपरिक्षयात् स्वस्ति भविष्यति। येऽपि तत्र धर्मश्रावणिकाः संनिपतिष्यन्ति तेषामपि न कश्चित् धातुसंक्षोभं करिष्यति स्वरसंक्षोभं वा। ये च तत्र इमां धारणीं श्रोष्यन्ति तेषां यदशुभेन कर्मणा दीर्घग्लानिः धातुसंक्षोभो वा स्वरसंक्षोभो वा स्यात् तत् सर्वं परिक्षयं यास्यति।

अथ खलु चन्द्रप्रभः कुमारभूतो येन ते बुद्धा भगवन्तो गङ्गानदीवालुकासमा बोधिसत्त्वपरिवारास्तेनाञ्जलिं प्रणम्यैवमाह। समन्वाहरन्तु मे बुद्धा भगवन्तोऽस्यां धारण्यां छन्दं ददतु। तद् यथा। क्षान्ते असमारूपे। मैत्रे सोमवते। एहि नव कुंजवे। नव कुंजवे नव कुंजवे। मूलशोधने। वढख वढख। मारतथता-परिच्छेद। वहस वहस। अमूले अचले दद। प्रचले विधिले एकनयपरिच्छेद। चण्डिनवोरसतृणे भूलरे भूसरतृणे खगसुरतृणे स्नवसुरतृणे भूतकोटे परिच्छेदे। जलख जलखवये। जलनामशख ककख। हह हह। हुहु हुहु। स्पर्शवेदनपरिच्छेद। अममा नुमम ख्यम-मस मुद्रव। मुद्र खसंस्काराणामंपरिच्छेद। बोधिसत्त्वाक्षतिविम महाविम भूतकोटि आकाशश्वासपरिच्छेद। स्वाहा।

तेन खलु पुनः समयेन सर्वबुद्धक्षेत्रान्तर्गता बोधिसत्त्वा महासत्त्वास्ते च महाश्रावकाः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रास्ते च महौजस्कमहौजस्काः सत्त्वाः सर्वे साधुकारं प्रददुः। ते च बुद्धा भगवन्त एवमाहुः। महाबलवेगवती सर्वशत्रुनिवारिणी वत इयं धारणी सर्वभयव्याधिदुःस्वप्नदुर्निमित्तमोक्षणी यावदनावरणज्ञानमहापुण्यज्ञानसमुच्चयानुत्तरज्ञाननिष्यन्दा इयं धारणी भाषिता।

तेन खलु पुनः समयेन भुतेश्वरो नाम महाब्रह्मा महाब्रह्मबलविषयव्यूहाधिष्ठानेन स्त्रीरूपेण भगवतोऽमितायुः पुरतो निषसाद परमवर्णपुष्कलतया समन्वागतो दिव्याभिक्रान्तैः परमोदारैर्वस्त्रालङ्कारैः पुष्पगन्धमाल्यविलेपनैश्चाभ्यलंकृतः। अथ भूतेश्वरो महाब्रह्मा उत्थायासनादञ्जलिं प्रणम्यैवमाह। अधितिष्ठन्तु। मे बुद्धा भगवन्तः स्वरमण्डलवाग्‍व्याहारविनिश्चयनिर्देशं यदहम् इदं कृत्‍स्रं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयेयम्। न च मे अत्र कश्चिद् विघ्नो भवेत्। यत् इदमेतर्हि धर्मभाणकानां धर्मश्रावणिकानां चार्थाय तादृशीं मन्त्रपदरक्षां भाषेत यथा यः कश्चित् पश्चिमे काले मारो वा मारपर्षद् वा देवो वा नागो वा नागी वा नागमहल्लको वा नागमहल्लिका वा नागपार्षदो वा नागपार्षदी वा नागपुत्रको वा नागपुत्रिका वा विस्तरेण कर्तव्यं यावत् पिशाचो वा पिशाची वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो वा पिशाचपार्षदी वा पिशाचपुत्रको वा पिशाचपुत्रिका वा मनुष्यो वा अमनुष्यो वा धर्मभाणकानां धर्मश्रावणिकानां वा अवतारप्रेक्षी अवतारगवेषी प्रत्यर्थिकः प्रत्यमित्रो वा उपसंक्रमेतान्तशो धर्मभाणकानां धर्मश्रावणिकानां वा एकरोमकूपमपि विहेठयेद् विहिंसयेद् विलोपयेत् ओजो वा हरेत् श्वासं वा काये प्रक्षिपेत् दुष्टचित्तो वा प्रेक्षेत अन्तशः एकक्षणमपि तेषामहं यावत् माराणां मनुष्या-मनुष्याणां प्रतिषेधं दण्डपरिग्रहं वा कुर्याम्। जृम्भणं मोहनं शपथं दद्याम्। अभितिष्ठन्तु मे बुद्धा भगवन्तः स्वरमण्डलवाग्‍व्याहारं यदहमिदं कृत्‍स्नं बुद्धक्षेत्रं स्वरेणापूरयेयम्। कश्चात्र मे सहायो भविष्यतीति। अथ खलु ते बुद्धा भगवन्तस्तूष्णींभावेनाधिवासयामासुः।

तत्र च शिखिन्धरी नाम शक्रो जाम्बूनदमयेन निष्कावभासेनालंकृतकायो नातिदूरे निषण्णः। अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणम् एवमाह। मा भगिनि अमितायुषस्तथागतस्य पुरतो निषीदस्व। मा भगिनी अत्र प्रमाद्यस्व। मा भगवन्तं विहेठय। तत् कस्य हेतोः।

प्रपंचाभिरता बाला निष्प्रपञ्चास्तथागताः।
संस्कारं दर्शयिष्यन्ति चोत्‍पादव्ययलक्षणम्॥

सर्वरूपाक्षरपदप्रभेदतथतानयप्राप्तास्तथागताः। न भगिनि तथागतस्तथतां विरोधयति एकसमतया तथतया यदुताकाशसमतया। आकाशमप्यसमारोप-त्रिसंस्कारव्ययलक्षणम्। यथाकाशमकल्पमविकल्पं संस्कारेषु एवमेव तथागतः। कामगुणान् न प्रपञ्चयति न कल्पयति न विकल्पयति नाधितिष्ठति नाभिनिविशति। एवं न जीवं न जन्तुं न पोषं न पुद्‍गलं न स्कन्धायतनानि प्रपञ्चयति नाभिनिविशति नाधितिष्ठति न कल्पयति न विकल्पयति। कथं नाम त्वं भगिनि तथागतकायं प्रपञ्चयसि।

अमितायुस्तथागत आह। समीक्ष्य देवानामिन्द्र वाचं भाषस्व। मा ते स्याद्दीर्घरात्रमनिष्टं फलम्। महासत्‍पुरुषो ह्येष बहुबुद्धकृताधिकारोऽवरोपितकुशलमूलो बुद्धानां भगवतामन्तिके। अनेन पुनः सत्‍पुरुषेण तथागतपूजाकर्मणे स्वलंकृतस्त्रीरूपमभिनिर्मितम्। मा त्वमेनं स्त्रीभावेन समुदाचर।

अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणमेवमाह। क्षमस्व कुलपुत्र ममानुकम्पामुपादाय। मा चाहमस्य भाषितस्यानिष्टं फलं प्राप्नुयामिति। अथ कौतूहलिको बोधिसत्त्वा आह। यदि भगवन् शक्रणेदं वचनमप्रतिदेशितमभविष्यत् कियांस्तस्य फलविपाकः। अमितायुस्तथागत आह। यदि कुलपुत्र अनेन न प्रतिदेशितमभिष्यत् चतुरशीतिजन्मसहस्राणि कामगर्भपरिभूतस्त्रीभावः परिगृहीतः स्यात्। तस्मात्तर्हि रक्षितव्यं वाक्‍कर्म। प्रतिभा[तु] ते कुलपुत्राधिष्ठितस्तथागतैस्तव स्वरमण्डलवाग्‍व्याहारः।

अथ भूतेश्वरो ब्रह्मा बुद्धाधिष्ठानेन प्राञ्जलिदशदिशो व्यवलोक्यैवमाह। समन्वाहरन्तु मां बुद्धा भगवन्तो बोधिसत्त्वाश्च महासत्त्वा महाश्रावकाश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश्चात्र च्छन्दं ददतु यस्यायमभिप्रायः स्यात्। इयं धर्मनेत्री चिरस्थितिका भवेत्। धर्मभाणकानां धर्मश्रावणिकानां च प्रतिपत्तियुक्तानां मा विहेठो भवेदिति। स च मे च्छन्दं ददातु यच्च पश्चिमे काले न मारा [न] मनुष्यामनुष्यास्तेषां विहेठं कुर्युः।

अथ स भूतेश्वरो ब्रह्मा तेषां दुष्टचित्तानां प्रतिषेधनाय शप[थग्रह]णायोच्चस्वरशब्दं मुमोच। तेन च शब्देन सर्वामिमां लोकधातुमापूरयामास। तेन खलु पुनः समयेन सर्वे ब्रह्मेन्द्रा एककण्ठेनैवमाहुः। वयमस्यां धारण्यां छन्दं ददामः। स्वयं च पश्चिमे काले इमां धारणीं धारयिष्यामः प्रकाशयिष्यामः सद्धर्मं रक्षिष्यामः तांश्च धर्मभाणकान् धर्मश्रावणिकांश्च प्रतिपत्तियुक्तान् रक्षिष्यामः। वद त्वं सत्‍पुरुष। वयं बुद्धानां भगवतां बोधिसत्त्वानां महासत्त्वानां च महाश्रावकाणां च पुरतोऽस्यां धारण्यां छन्दं ददामः।

अथ खलु भूतेश्वरो ब्रह्मा एवमाह। अधितिष्ठन्तु मे बुद्धा भगवन्तो बोधिसत्त्वा महासत्त्वा महाश्रावकाश्च। तद् यथा।

अमले विमले गणषण्डे। महारे चण्डे महाचण्डे। चमे महाचमे। सोमे स्थामे। अवह विवह। अङ्गनी नेत्रखवे मूलपरिच्छेदे। यक्षचण्डे पिशाचचण्डे आवर्तनि संवर्तनि। संकारणि जम्भनि मोहनि उच्चाटनि। हमह मह मह मह। आकुञ्चने खगशव। अमले अमूल परिवर्ते असारखव स्वाहा।

य इमानतिक्रमेन्मन्त्रान् न चरेद् गणसन्निधिम्।
अक्षि मुद्रेत् स्फालेत् शीर्षमङ्गभेदो भवेदपि॥

तद् यथा। अचच अवह। चचचु क्रक्ष चचट चचान। खग चच चचचच न च। अमूल चच अमूल चचह मामूल चचह मूल मूपड महा स्वाहा।

अथ तावदेव सर्वे ब्रह्मेन्द्रा यावत् पि[शा]चेन्द्राः साधुकारं ददुः। एवं चाहुः। अतीव महासहस्रबलवेगप्रमर्दनानि एतानि मन्त्रपदानि। पाशोऽयं सक्तः सर्वाहितैषिणां भूतानां कुतः पुनस्तेषां जीवितम्। भूतेश्वरो ब्रह्मा एवमाह। ये दुष्टाश्रया अकृपा अकृतज्ञा भूताः सत्त्वानां विहेठकामा वा मारपार्षद्या वा अवतारप्रेक्षिणो बुद्धशासनाभिप्रसन्नानां राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानामबतारप्रेक्षिण उपसंक्रमेयुः। अग्रमहिषीणां पुत्रदुहितॄणां चान्तःपुरिकाणां वामात्यभटबलाग्रपार्षद्यानामन्येषां वा बुद्धशासनाभिप्रसन्नानां स्त्रीपुरुषधारकधारिकाणासुपासकोपासिकानां वा धर्मभाणकानां धर्मश्रावणिकानां भिक्षूणां भिक्षुणीनां वा ध्यानस्वाध्यायाभियुक्तानां वैयावृत्याभियुक्तानां वा अवतारप्रेक्षिण उपसंक्रमेयुः। अन्तशः एक[मुहूर्तमपि सत्त्वानाम्] एकरोमकूपमपि विहेठयेयुः विहिंसयेयुर्विप्रलोपयेयुः। ओजो वा अपहरेयुः श्वासं वा काये प्रक्षिपेरन् दुष्टचित्ता वा प्रेक्षेरन् क्लिन्नदुर्गन्धकायानां तेषां माराणां यावन्मनुष्यामनुष्याणां सप्तधा मूर्धा स्फालेत् अक्षीणी चैषां विपरिवर्तेरन् हृदयान्युच्छुष्येरन् श्वित्रा भवेयुः क्लिन्नदुर्गन्धकाया ऋद्धिपरिहीना भूमिश्च तेषां विवरमनुप्रयच्छेत्। वायवश्च तान् चतुर्दिशं विक्षेपेयुः। पांसुभिरवकीर्णास्तत्रैव विक्षिप्तचित्ता पर्यटेयुः। ये भूमिचरास्ते पृथिवीविवरम् अनुप्रविशेयुः चतुरशीतियोजनसहस्राणि अधस्तत्रैव तेषामायुःपरिक्षयः स्यात्। ये जलचरा दुष्टभूता बुद्धशासने नाभिप्रसन्नाः स्युः राज्ञां क्षत्रियाणां बुद्धशासनाभिप्रसन्नानां यावद्वैयावृत्याभियुक्तानां भिक्षूणां विहेठं कुर्युस्तेषामपि तथैव सप्तधा मूर्धा स्फालेत्। यावत्तत्रैव तेषामायुःपरिक्षयः स्यात् य इमान् मन्त्रानतिक्रमेयुः। अपि च यस्मिन् विषये इयं मारमण्डलाप्राजितधारणीधर्मपर्यायः प्रचरिष्यति तत्र वयं रक्षावरणगुप्तये औत्‍सुक्यमापत्‍स्यामहे सवांश्च तत्र धर्मकामान् सत्त्वान् परिपालयिष्यामः।



[महासन्निपातरत्नकेतुसूत्रे षष्ठः धारणीपरिवर्तः॥६॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project