Digital Sanskrit Buddhist Canon

चतुर्थः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturthaḥ parivartaḥ

चतुर्थः परिवर्तः

यावत् पूर्वोक्तम्। ते चत्वारो महाश्रावकस्तद्‍राजगृहं महानगरं पिण्डाय प्रविशन्तस्तैर्मारकुमारकैरनाचारेणाध्यतिष्ठन् नर्तस्व श्रमण गायस्व श्रमणेति। तैश्च महाश्रावकैर्वीथिमध्ये प्रधावद्भिर्निर्वाणमार्गपदप्रतिसंयुक्तेन गीतस्वरेण यदा चेमा गाथा भाषिता तदा महापृथिवी प्रचकम्पे। तत्‍क्षणं बहूनि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशतसहस्राणि भगवच्छासनाभिप्रसन्नानि साश्रुमुखान्येवमाहुः।

तिष्ठत्वशोको वरधर्मसारथि-
रेषा ह्यवस्था जिनवरशासनस्य।
तच्छ्रावकाणां जनतामद्य दृष्ट्वा
विजृम्भितं केन मनः प्रसादयेत्॥१॥

अथ तानि बहूनि देवनागयक्षराक्षकोटीनयुतशतसहस्राणि साश्रुमुखानि येन भगवास्तेन उपजग्मुः। उपेत्य भगवतः पुरतः स्थित्वा एवमाहुः।

अवस्थां शासनस्यास्य भगवन् प्रेक्ष्य सांप्रतम्।
मो[पेक्षां]कुरु सर्वज्ञ शासनाचारगुप्तये॥२॥

भगवानाह।
एष गत्वा स्वयं तत्र मारं जित्वा सवाहनम्।
करोमि जनतां सर्वां निर्वाणपुरगामिनीम्॥३॥

अथ ते सर्व एवैककण्ठेनैवमाहुः। मा भगवन् गच्छ। ननूक्तं भगवता अचिन्त्यो बुद्धानां भगवतां बुद्धविषयोऽचिन्त्यो मारविषयः अचिन्त्यो नागविषयः अचिन्त्यः कर्मणां कर्मविषय इति सर्वविषयाणां बुद्धविषय एव विशिष्टतरः। शक्तो भगवानिहैवासने निषण्णो मारकोटीनयुतानि पराजेतुं धर्मस्कन्धकोटीनयुतानि प्रकाशयितुं क्लेशसागरमुच्छोषयितुं दृष्टिजालं समुद्धर्त्तुं सत्त्वकोटीनयुतानि ज्ञानसागरेऽवतारयितुम्। नाद्य भगवतो गमनकालो युक्तः। भगवानाह। यावन्तः सत्त्वधातौ सत्त्वास्ते सर्वे मारा भवेयुः यावन्ति च पृथिवीपरमाणुरजांसि तावन्त्येकैकस्य मारबलाधिष्ठानानि भवेयुः। ते सर्वे मम वधाय पराक्रमेयुः। रोमकूपमपि मे न शक्ता विघातयितुम्। शक्तश्च अहमिहैव निषण्णो मारकोटीनयुतानि पराजेतुं स्थाप्यैनं सपरिवारं मारम्। गमिष्यामि पुनरहं यन्मम पूजाकर्मणे [ए]भिर्मारैः सर्वराजगृहं महानगरं मारबलर्धि[वि]कुर्वणाधिष्ठानव्यूहैरलंकृतं तदनुकम्पायै परिमोक्षाय यत्ते माराः परमप्रीतिप्रसादजाताः कुशलमूलबीजमवरोपयिष्यन्ति अनुत्तरायां सम्यक्‍संबोधौ।

यदा च भगवान् आसनादुत्थातुकामः अथ तावदेव प्रभावशोभना नाम वेणुवन-परिपालिका देवता सा भगवतः पुरतोऽश्रुमुखी स्थित्वैवमाह।

नैवाद्य कालो भगवन् प्रवेष्टुं
पुरं समन्तादिह मार-पूर्णम्।
एकैक एवं परमप्रचण्डः
कोटीवृतस्तिष्ठति वादिसिंहः॥४॥

द्वेषप्रदीप्ता निशितास्त्रधारिणो
वधाय तेऽद्याकुलचेतसः स्थिताः।
मा सर्वथाद्य प्रविशस्व नाथ
मा संक्षयं यास्यसि लोकबन्धो॥५॥

यदा च भगवानासनादभ्युत्थितस्तदा द्युतिमतिर्नाम विहारदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवमाह।

पापीमतां सहस्राणि पञ्च तिष्ठन्ति सायुधाः।
त्वां प्रतीक्षन्ति निस्त्रिंशा व्रज माद्य महामुने॥६॥

यदा भगवान् विहाराद् विनिश्चक्रमे तदा सिद्धमतिर्नामौषधि] देवता सा भगवताः पादौ शिरसाभिवन्द्यैवमाह।

हा कष्टं नश्यते मार्गो धर्मनेत्री प्रलुज्यते।
धर्मनौर्याति संभेदं लोकदीपे क्षयं गते॥७॥

धर्मरस उदारो हीयते सर्वलोके
जगदिदमतिपूर्णं क्लेशधूर्तैः प्रचण्डैः।
ननु मम भुवि शक्तिः काचिदस्ति प्रलोपं
सुगतमुनिवराणां संप्रधर्तुं कथंचित्॥८॥

अतिबहव इहास्मिन् त्वद्विनाशाय रौद्रा
निशितपरुषखड्‍गाः संस्थिताः पापधर्माः।
कुरु सुगत ममाज्ञां लोकसंरक्षणार्थं
प्रविश दशबलाद्य मा पुरं सिद्ध्यात्र॥९॥

अथ भगवान् विहाराङ्गनादभिप्रतस्थे। द्युतिन्धरा च नाम तत्र वृक्षदेवता सा करुणकरुणं रुदन्ती भगवतः पादौ शिरसाभिवन्द्यैवमाह।

सर्वं नाथ भविष्यति त्रिभुवनं नष्टेक्षणं साम्प्रतं
नाशं पूर्णमनोरथे त्वयि गते सर्वार्थसिद्धे मुनौ।
एतस्मिन् गगने भुजङ्गरसनास्तीक्ष्णासिबाणायुधा-
स्त्वन्नाशाय चरन्ति वन्हिवदना मा गच्छ तत्राधुना॥१०॥

यदा च भगवान् द्वारकोष्ठके अवततार अथ ज्योतिवरणा नाम द्वारकोष्ठकदेवता सा उच्चैःस्वरेण रुदन्ती भगवतः पादौ शिरसाभिवन्द्यैवमाह।

एते ब्राह्मणसंज्ञिनां पुरवरे विंशत्सहस्राण्यथो
दिप्तास्यक्षुरसायकप्रहरणाः प्रेक्षन्ति ते निर्दयाः।
अन्योन्यामतिरौद्रनिर्दयवतां विंशत्‍सहस्राण्यत्-
स्तिष्ठन्त्येह विनाशनाय तव हे मा गच्छ शुद्धानन॥११॥

अथ भगवान् द्वारशालां प्रविवेश। तत्र च तमालसारा नाम राजगृहनगरपरिपालिका देवता। सा च तस्योच्चस्वरेण रुदन्ती भगवतः सकाशं त्वरयोपजगाम। उपेत्य पादौ शिरसाभिवन्द्य एवमाह।

मार्गोऽयं भगवन् पुनः परिवृतः सिंहोष्ट्रमत्तद्विपै-
र्भिक्षूणां च विहेठनाय बहुधा मारैर्विघातः कृतः।
उद्‍युक्तास्तव चान्यतीर्थचरणाः शास्तुर्वधार्थं भुवि
त्व मेघस्वन देवनागकृपया मा गच्छ दीप्तप्रभ॥१२॥

दृष्ट्वा नरामरभुजङ्गमकिन्नरेन्द्रा-
स्त्वच्छाशनस्य विलयं विहितं समेत्य।
भीता द्रवन्ति भगवन् जितमार मारान्
मायावृतानतिविकूलमुखांश्च भूयः॥१३॥

सद्धर्मस्य विलोपनां च महतीं लोकस्य चोपप्लवं
नक्षत्रद्युतिनाशितं च गगनं चन्द्रार्कयोर्विभ्रमम्।
संपश्यन् वत सज्जनोऽद्य विरसः प्रोच्चैः शिरस्ताडितो
हा कष्टं कथयत्यतीव स्वगतभ्रंशं समाशङ्कयन्॥१४॥

नश्यते दृष्टसूर्योऽयं धर्मोल्का याति संक्षयम्।
मृग्दाति मृत्यु संबुद्धं धर्मतोयं विशुष्यते॥१५॥

सद्धर्मचारिणां लोके विनाशे प्रत्युपस्थिते।
प्रादुर्भावोऽसतामेव माराणां भवति ह्यतः॥१६॥

अथ सा देवता भगवतः प्रतिनिवर्तनमदृष्ट्वा साश्रुमुखीभूय एवमाह।

लोकं निरीक्षस्व मुनेः समग्रं न गच्छ वादिप्रवराद्य संक्षयम्।
म मत्‍पुरे नाशमुपागते त्वयि त्रिलोकनिन्द्या सततं भवेयम्॥१७॥

शृणु मे वचो नायक सत्त्वसार मा मत्‍पुरे गच्छ विनाशमद्य।
सत्त्वानुकम्पार्थमिह प्रतीक्ष्य सत्त्वांश्च जन्मर्तिभयद्विमोक्षय॥१८॥

स्मर प्रतिज्ञां हि पुरा तथागता प्राप्योत्तमं तारयिता भवेयम्।
सत्त्वाननेकान् बहुदुःखतप्तान् आश्वासय प्राणभृतां वरिष्ठ॥१९॥

तिष्ठाग्रमूर्ते बहुकल्पकोट्यः कामेषु सक्तो वत बालवर्गः।
तच्छान्तये देशय धर्ममार्गं स्वभावशून्यायतनेन्द्रियार्थम्॥२०॥

ततो भगवान् द्वारशालायामवततार। अथ तावदेव दृढा नाम पृथिवी देवता दशभिर्महौजस्कमहौजस्काभिर्देवतासहस्रैः सार्धम् अश्रुमुखी प्रकीर्णकेशी भगवतः पुरतः प्राञ्जलिः स्थित्वैवमाह।

स्मर प्रधानं रुधिरप्रपूर्णा यत्ते प्रदत्ताश्चतुराः समुद्राः।
शिरांसि चास्थीनि च चक्रवाडवं नेत्राणि गङ्गासिकतासमानि॥२१॥

रत्नानि चैवं विविधानि पूर्वं पुत्राश्च दाराश्च द्विरदास्तथाश्वाः।
आवासवस्त्रशयनान्नपानं भैषज्यमिष्टं च तथातुराणाम्॥२२॥

कृता च पूजा प्रवरा स्वयम्भुवां शीलं त्वया रक्षितमप्रमादिना।
क्षान्तिश्रुतं सेवितमेव नित्यं मातृज्ञता चैव पितृज्ञता च॥२३॥

जीर्णान्यनन्तानि च दुष्कराणि
सत्त्वा ह्यनेकव्यसनात् प्रमोचिताः।
यत्‍पूर्वमादौ प्रणिधिः कृत्तस्ते
बुद्धो भवेयं परमार्थदेशकः॥२४॥

उत्तारयेयं जनतां महौघात्
लोकाय धर्मं वत देशयेयम्।
तृष्णाधिमूलानि महाभयानि
दुःखान्यशेषाणि च शोषयेयम्॥२५॥

अभये पुरे सत्त्वगणं प्रवेशये
निवेश्य तान् वै वरबोधिमार्गे।
विमोचयेयं बहुदुःखपीडितान्
तां सत्त्वधातुं परिपूर्ण कुर्याम्॥२६॥

मार्गन्धुराणामिह पापचारिणां
क्षमस्व नाथ श्रुतशीलनाशिनाम्।
निस्तारयैतां समयप्रतिज्ञां
वदस्व धर्मं बहु कल्पकोट्यः॥२७॥

ओघात् समुत्तारय नाथ लोकं
संस्नापयाष्टाङ्गजलेन चैनम्।
नेहास्ति सत्त्वाः सदृशास्त्रिलोके
त्वया हि नाथ प्रवरो न कश्चित्॥२८॥

मुक्तः स्वयं लोकमिमं च मोचय
उत्तारय [त्वं] त्रिभवार्णवाज्जगत्।
त्वमेकबन्धो जगदेकबान्धव-
स्तिष्ठस्व नित्यं विभजस्व धर्मम्॥२९॥

अथ भगवान् द्वारशालायामवततार। तत्‍क्षणादेव च बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि गगने विचरमाणानि साश्रुमुखान्येवमाहुः।

अस्माभिरादौ सुगता हि दृष्टा
प्रशान्तकाले सुविनीतशिष्याः।
धर्मोपदेशं विपुलं च कुर्वतां
तेषां विघातो न स ईदृशोऽभूत्॥३०॥

एषो हि शास्तातिनिहीनकाले
प्राप्तः स्वयम्भूत्वमुदारबुद्धिः।
क्लेशादि धर्मं समुवाच लोके
परिपाचनार्थं जगतां मुनीन्द्रः॥३१॥

अस्मिन् पुनस्तिष्ठ हि वादिसिंह
पापीमतां नैकसहस्रकोट्यः।
कुर्वन्ति धर्मस्य विनाशमेवं
मा बुद्धवीराद्य पुरे विश्वस्व॥३२॥

अथापरा देवता एवमाह।
चक्रं जिनैर्वर्तितमेकदेशे
तैः पूर्वकैर्लोकहितप्रयुक्तैः।
अयं पुनर्गच्छतु यत्र तत्र
मा खल्ववस्थां समवाप्‍स्यतेऽद्य॥३३॥

अथापरापि देवता एवमाह।
कारुण्यहेतोरिह सार्थवाह
चचार सत्त्वार्थमतीव कुर्वन्
स केवलं त्वद्य पुरेऽत्र मा वै
नाशं प्रयायादिति मे वितर्कः॥३४॥

तेन खलु पुनः समयेन तानि बहूनि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगकोटीनयुतशतसहस्राणि साश्रुदिनवदनानि गगनतलपथादवतिर्य भगवतः पुरतः स्थित्वा अनेकप्रकारान् आत्मनो विप्रकारांश्चक्रुः। केचित् केशान् विलुम्पन्ति स्म। केचिदाभरणानि मुमुचुः। केचिच्छत्रध्वजपताकाः प्रपातयामासुः। केचित् स्वशरीरेण भूमौ निपेतुः। केचिद् भगवतश्चरणौ जगृहुः। केचिदतिकष्टं रुरुदुः। केचिदुरसि पाणिभिः पराजघ्नुः। केचिद् भगवतः पदमूले स्थित्व मद्‍गुवत् परावर्तन्ते स्म। केचिद् भगवतः पुरतः प्राञ्जलयो भूत्वा स्तुतिनमस्कारान् चक्रुः। केचिद् भगवन्तं पुष्पधूगन्धमाल्यविलेपनवस्त्राभरणसुवर्णसूत्रमुक्ताहारपुष्पैरवकिरन्ति स्म।

अथापरा बव्हयो देवकोट्यः उच्चैरेककण्ठेनैवमाहुः।
त्वया प्रचीर्णानि हि दुष्कराणि
अतीव लोकार्थमितो बहूनि।
क्षीणे त्वमुत्पन्न इहाद्य काले
उपेक्षकस्तिष्ठ च मा त्यजस्व॥३५॥

अल्पं कृतं तेऽनघ बुद्धकार्यं
साक्षीकृताश्चाल्पतरास्त्रिदेवाः।
त्वं तिष्ठ धर्मान् सुचिरं प्रकाशयन्
उत्तारयास्मात् त्रिभवार्णवाज् जगत्॥३६॥

सत्त्वा ह्यनेके शुभकर्मचारिणः
परिपक्वबीजा अमृतस्य भाजनाः।
करुणां जनस्य प्रतिदर्शयाथ
ओघेभ्य उत्तारय लोकनाथ॥३७॥

येऽत्रा टवीमध्यगता भ्रमन्ति
संसारकान्तारविनष्टमार्गाः।
तेषां स्वमार्गं प्रतिदर्शयस्व
प्रमोक्षयार्योत्तमधर्मवाग्‍भिः॥३८॥

एतत्तवाश्चर्यतरं कृपाद्भुतं
प्रवर्तितं यद्वरधर्मचक्रम्।
चिरं हि तिष्ठ त्वमुदारबुद्धे
मा खल्वनाथा जनता भवेत्॥३९॥

अथापरापि देवता एवमाह।
नाशं प्रयास्यत्यथ यद्विनायको
लोकस्तथान्धो निखिलो भविष्यति।
अष्टाङ्गमार्गस्त्रिविमोक्षहेतोः
सर्वेण सर्वं न भविष्यतीह॥४०॥

अस्माभिरस्मिञ्छुभबीजमुप्तं
वः कायचेतोद्धरमप्रमत्तैः।
ततो वयं सर्वसुखैः समन्विताः
पुण्याकरस्यास्य हि मा भवेत् क्षयः॥४१॥

तेन च समयेन बहूनि शुद्धावासदेवकोटीनयुतशतसहस्राणि तत्रैव सन्निपतितान्यभूवन्। तान्यप्येवमाहुः।

मा भैष्टं यूयं न मुनेरवस्था
भविष्यति काचिदुदारबुद्धेः।
प्रत्यक्षपूर्वा वयमस्य साधो-
रूपागता यद्भुवि मारकोट्यः॥४२॥

षट्‍त्रिंशद्‍योजनानि प्लुतरभसपरा यत् समन्ताद् वितत्य
प्रासासिस्फीतखड्‍गप्रचुरखररवा भीषणी मारसेना।
संप्राप्ता बोधिमण्डे विलयमुपगता तत्‍क्षणादेव भीता
प्राप्तार्थस्याद्य किं तत्‍प्रसृतयशसो विघ्नमेव प्रकुर्यात्॥४३॥

अथापरा देवता प्ररुदन्ती एवमाह।
मारस्यैकस्य सा सेना प्रागासिन्न महाबला।
मारकोटीसहस्राणामियं सेना महाबला॥४४॥

निःसंशयमिह प्राप्तो नाशं लोकविनायकः।
यद्विनाशदयं लोको निरालोको भ्रमिष्यति॥४५॥

अथ खलु ते शक्रब्रह्मलोकपाला भगवतः [पादौ परिवज्यैव]माहुः।

तिष्ठेह साधु कुरु मन्दधीनामस्मद्‍वचः कारुणिकप्रधान।
बहुदेवकोट्यो महाशोक तप्तास्ताः सांप्रतं धर्मरसेन सिञ्च॥४६॥

अथ खलु भगवांस्तां सर्वावतीं पर्षदं मैत्र्या विशालभ्यां नयनाभ्याम् अवलोक्य ब्राह्मेण स्वरेण तां समाश्वासयन्नेवमाह।

मा भैष्ट यूयं भवताद्य निर्भयाः
सर्वेऽपि माराः सगणाः सवाहनाः।
शक्ता न मे भीषयितुं समग्राः
रोमाप्यथैकं किमु सर्वदेहम्॥४७॥

आश्वासयाम्यद्य तु सर्वलोकं
धर्मं सदाहं भुवि देशयिष्ये।
मार्गच्युतानामहमेव सम्यग्
मार्गोपदेशं विशदं करिष्ये॥४८॥

कृतानि पूर्वं बहु दुष्कराणि
मयान्नपानं विपुलं प्रदत्तम्।
आवासभैषज्यमनल्पकं च
कर्तुं विघातं मम कोऽद्य शक्यते॥४९॥

त्यक्ता मय ह्यश्वरथा गजाश्च
विभूषणान्याभरणानि चैव।
दासाश्च दास्यो निगमाश्च राष्ट्राः
कर्तुं विघातं मम कः समर्थः॥५०॥

भार्या सुता दुहितृ कलत्रवर्ग-
मैश्वर्यमिष्टं भुवि राजवंशः।
दत्तो मया सत्त्वहिताय कस्मा-
च्छरीरनाशोऽद्य भविष्यति मे॥५१॥

शिरश्च नेत्रे उभे कर्णनासे
हस्तौ च पादौ तनु चर्म लोहितम्।
स्वजीवितं त्यक्तमपीह देहिनां
कर्तुं विहिंसां मम कः समर्थः॥५२॥

बव्हयो मयातीव हि बुद्धकोट्यः
संपूजिता भक्तिमता सहस्तम्।
शीलश्रुतिक्षान्तिरतेन नित्यं
कर्तुं विलोपं ममः समर्थः॥५३॥

पूर्वं मया वै बहु दुष्कराणि
कृतानि मेऽतीव समाहितेन।
संछिन्नगात्रेण न रोषितं मनः
कर्तुं विहिंसां मम कोऽद्य शक्तः॥५४॥

क्लेशा जिता मे नितयोऽस्मि बुद्धः
सर्वेषु सत्त्वेषु च मैत्रचित्तः।
ईर्ष्या च मे नास्ति खिलं न रोषो
न मे समर्थः पुरतोऽद्य कश्चित्॥५५॥

जितं मया मारबलं समग्रं
पराजिता मे बहु मारकोट्यः।
युष्मद्विमोक्ष नियतं करिष्ये
मा भैष्ट कस्मान्न पुरं प्रवेक्षेप॥५६॥

ये केचि दिशासु दशश्वपीह
बुद्धा हि तिष्ठन्ति तु सत्त्वहेतोः।
तान् सर्वबुद्धानिहैकिकरिष्ये
महर्धिकांश्चाप्यथ बोधिसत्त्वान्॥५७॥

क्षेत्रं प्रपूर्णं सकलं करिष्ये
ज्ञानेन पुण्येन च वासयिष्ये।
तैरेव बुद्धैः सह नेतृसंस्थितः
करिष्ये बुद्धानुमतं च कार्यम्॥५८॥

तेन खलु पुनः समयेनाप्रमेयासंख्येयानि देवनागयक्षराक्षसासुर-गरुड-किन्नर-महोरग-मनुष्यामनुष्य-कोटीनयुत-शतसहस्राणि भगवते साधुकारं प्रददुः। एवं चाहुः। नम आश्चर्याद्भुतासंख्येयवीर्यसमन्वागताय। नमो नमो महाश्चर्यसमन्वागताय बुद्धाय भगवते। आश्वासितो भगवता सदेवको लोकः पराजितो भगवता मारपक्षः विधूतं सत्त्वानां सन्धिक्लेशकालुष्यम्। प्रहाणः सत्त्वानां मानपर्वतः। छिन्नो जन्मवृक्षः। विचूर्णितो मृत्युसूर्यः। विधूतोऽविद्यान्धकारः। प्रसादिता अन्यतीर्थ्याः। संशोषिताश्चत्वार ओघाः। प्रज्वालिता[नि] धर्मोल्कानि। दर्शितो बोधिमार्गः। नियोजितः क्षान्तिसौरत्ये। क्रीडापितो ध्यानसौख्ये। अवबोधितानि चत्त्वार्यार्यसत्यानि। समुत्तारितो भगवता महाकारुणिकेन शास्त्रा जन्मसमुद्रात् सदेवको लोकः। प्रवेशिताः सत्त्वा अभयपुरम्।

अथ ते देवमनुष्या नानापुष्पधूपगन्धमाल्यालंकारविभूषणैर्भगवन्तमभ्यर्चयित्वा भगवतोऽर्थाय ते मार्गं शोभयामासुः। दिव्यवस्त्रपुष्पदुष्यैश्च भगवन्तं संच्छादयन्ति स्म। दिव्यैश्च मान्दारव-माहामान्दारव-पारूषक-महापारूषक-मञ्जूषक-रोच-महारोचोत्‍पलकुमुदपुण्डरीकैः संच्छादयामासुः। यत्र भगवान् तौ चरणौ निश्चिक्षेप तस्मिंश्च मार्गे उभयोः पार्श्वयोः दिव्यान् सप्तरत्नमयान् वृक्षान् अभिनिर्मीय दिव्यवस्त्रदुष्यहस्तकर्णशीर्षाभरणैरलंचक्रुः। तेषु च वृक्षान्तरेषु दिव्यां पुष्करिणीं मापयन्ति स्म। शीतस्वादूदकविप्रसन्ना अनाविला अष्टाङ्गोपेतवारिपरिपूर्णा समन्तात् सप्तरत्नालंकारालंकृता। अन्तरिक्षे च सप्तरत्नमयानि च्छत्राणि दधिरे। ध्वजपताकासुवर्णसूत्रमुक्ताहारांश्च सुवर्णचूर्णवर्षाश्च ववर्षुः। रूप्यवैडूर्यचूर्णागरुतगर-चन्दन-कालानुसारि-तमालपत्रवर्षाणि समुत्‍ससर्जुः। गोशीर्षोरगसारचन्दनचूर्णं स तस्मिन् मार्गे ववर्षुः। सुवर्णसूत्रमुक्ताहारमणिमुक्ताभिश्च सर्वं गगनतलं नानादिव्यालंकारैरलञ्चक्रुः। ततस्तस्य नगरस्य च बहिर्धा देवमनुष्या भगवतः पूजाकर्मणे मार्गशोभां चक्रिरे। अन्तर्नगर च मारा मारपार्षदश्च शोभाव्यूहैर्व्यूहमायासुर्भगवतः पूजाकर्मणे।

अथ खलु भगवान् तस्मिन् समये शूरंगमं नाम समाधिं समापेदे। तेन च समाधिना यथा समापन्न एव मार्गं जगाम। तेन खलु पुनः समयेन नानाविधैः कायरूपलिङ्गेर्यापथैर्भगवांस्तं मार्गमभिप्रतस्थे। तत्र ये सत्त्वा ब्रह्मभक्तिका ब्रह्मवैनयिकास्ते ब्रह्मरूपेण भगवन्तं मार्गं व्रजन्तमद्राक्षुः। यावद् ये शक्रवैनयिका ये नारायणवैनयिका ये महेश्वरवैनयिका ये चातुर्महाराजवैनयिका ये चक्रवर्तिवैनयिका ये कोट्टराजवैनयिका ये महर्षिवैनयिका ये श्रमणवैनयिका ये मारवैनयिका ये स्त्रीवैनयिका ये सिंहवैनयिका ये गजवैनयिका ये नागवैनयिका ये असुरवैनयिका ये शशभक्तिकाः शशवैनयिकाः शशरूपलिङ्गेर्यापथेन भगवन्तं मार्गं व्रजन्तमद्राक्षुः। ये सत्त्वा बुद्धवैनयिकास्ते बुद्धरूपलिङ्गेर्यापथेनैव भगवन्तं मार्गं व्रजन्तमद्राक्षुः। सर्वे च ते सत्त्वाः प्राञ्जलयो भूत्वा समभिष्टुवन्तः नमस्कुर्वन्तः पृष्ठतः पृष्ठत समनुबद्धा जग्मुः।

तेन खलु पुनः समयेन योऽसावनुहिमवन्निवासी ज्योतीरसो नाम ऋषिर्मारेण पापीमता उद्‍योजितः स पञ्चशतपरिवारो राजगृहस्य महानगरद्वारसमीपे [प्रतीक्ष्य भगवतो रूपलिङ्गेर्यापथमपश्यत् तथा मार्गे चासंख्येया वृक्षदेवताः पूजाकर्मणे उद्‍युक्ताः। दृष्ट्वेदं तस्यैतदभवत्। सत्यवादी महर्षिरयं महानुभावः पूजार्हः]। ..... ..... ..... ..... ..... ..... .....

अथ ज्योतीरस ऋषीः सपरिवारो बुद्धरूपलिङ्गेर्यापथा[न्वि]तं भगवन्तं [दृष्ट्वा पूर्वकुशलमूल-सम्मुखीभूतः].....। स रत्नकेतुं नाम बोधिसत्त्वसमाधिं प्रतिलेभे। यः समाधिः भवत्यसंहार्यः सर्वसमापत्तिभिः।

अथ ज्योतीरसो महर्षिर्भगवतः [पुरतः प्राञ्जलिभूतः पुष्पं दत्त्वा स्तुत्वा च] अब्रवित्।
अनन्तवर्णलोकनाथः सत्यवादी सुस्थितः
भासितस्ते सर्व [लोक ज्ञाननेत्रज्योतिषा]।
[सदा सत्त्वहिताय ते वीर्य मैत्र्यभ्युद्‍गता
नमस्तेऽ]द्य सत्त्वसारक्षीणासंगनायक॥
स्वर्णवर्णकाञ्चनाभ शीतला[स्ते अंशवः
सर्वसत्त्व बोधिलाभ हेतुगुण-योजक]।
[धर्मचक्रवर्तनेन ध्वस्त] क्लेशपर्वत
पश्चिमा ते चर्यनिष्ठा बोधिज्ञानकारणम्॥
महाभि[षक् सत्त्वसार लक्षणैरलङ्कृतः
देशनाय बुद्ध भूत्वा नायकाद्य याचितः]।
छिन्धि मे त्वं दृष्टिजालं तीर्णो जगत् तारये
कियच्चिरेण बुद्धो भेष्ये [देशय नरोत्तम]॥
[सत्त्व-दुःख-ओघ-भव-सागराद्धि तारय
निर्वाण क्षेमे च] मार्गे स्थापय निरास्रवे।
दशदिशासु येऽपि बुद्ध सागरोपमागुणैः
[तेभ्य अहु अध्येषमि बोधिचित्तपरायणे]॥
[सर्व सत्त्व दुःखस्पृष्ट रौद्र शुभ] कर्कशै-
स्त्र्यध्विकञ्च पुण्यमद्य कायवाङ्‍मानसं मे।
भवेच्च तेन [सत्त्व शीतीभूतचित्तकः
नित्य-क्षेम-बुद्धक्षेत्रे प्राप्नुयाच्च निर्वाणम्]॥
यान्तु सर्व सत्त्वव्याधि क्लेशतोय शुष्यतु
लभन्तु ज्ञानमिन्द्रियाणि सारवन्ति [स्वभावतः]।
[ये च सत्त्व बधबन्धदुःखेन उपद्रुताः
तेऽपि क्षिप्रं सन्तु मुक्ता मे च] पुण्यतेजसा॥
एकक सत्त्वो सर्वे सागरगुणान् लभे
प्रज्ञैव पुण्या[प्रमेय सुखैः सर्व तर्पये]।
[सम्यग् दृष्टिमाप्नुवन्तु धूतपापास्ते द्रुतं]
जातिस्मराः सर्वे सन्तु सत्त्व धर्मचारिणः॥
पारं भवार्णवस्य ते तरन्तु धर्मसिद्धये।
[सर्वधर्मपारंगमं बुद्धञ्चापि प्रसादये]॥
[तिष्ठ] कल्पानप्रमेय धर्मवृष्टि वर्षयन्।
स्नापयन्तु सर्वसत्त्व धर्ममेघवारिणा॥
कायेन [मनसा वाचा मया यदत्ययं कृतम्]।
[प्रतिदेश्ये बुद्धसंघमध्येष्ये] सत्त्वगौरवात्॥
नाहं च भूयः पापदृष्टिकर्म समाचरे।
अचिन्तियान् सदा[दृष्ट्वा]पुद्‍गलान् [पुरतः स्थितान्]॥
[यत्‍किञ्चिन्मे पुण्यमस्ति तद्‍बोधि नामये] पुनः।
सर्व चर्यां सत्त्वहेतोः सर्वदुःखं समुत्‍सहे॥
नियोजये सर्वसत्त्व बोधिमार्गे [उत्तमे]।
[प्रज्ञाभूत सागरं च कल्पक्षेत्रं विचरये]॥
प्रापणीयो यतो बोधिस्पर्शो भवेद्विशुद्ध हि।
सर्वसत्त्वक्षान्तिभूमौ स्थितो [नूनं भवेच्च सः]॥
प्राप्नुयामभिज्ञा पञ्च वादिसिंह[स्य अन्तिके]।
[दृष्ट्वानासङ्ग नायक शास्त्रं सर्वत्र देशय]।
स चे भविष्ये बुद्धो लोके सर्वेषां धर्मसारथिः।
निक्षिपीय मुक्तपुष्पच्छत्राम्बरे स्थितेयु ये॥
[ते भवन्तु देवनागयक्षादीनां वशानुगाः।
त्वत्‍पादवन्दने]शिरेण कम्पतां च वसुन्धराः॥

अथ खलु ज्योतीरस ऋषिस्तानि पुष्पाणि येन भगवांस्तेनोपरि प्र[क्षप्तानि। तानि च] एकच्छत्रस्तस्थौ। यं दृष्ट्वा ज्योतीरसः ऋषिर्भूयस्या मात्रया निरामिषेण प्रीति-सौमनस्येन उद्वेल्यमानो भगवतः पादयोः निपपात। समनन्तरनिपतितश्च ज्योतीरस ऋषीर्भगवतश्चरणयोः। अथ तावदेव [त्रिसाहस्रमहासाहस्रलोक]धातुः षड्विकारं प्रचकम्पे। यानि च तत्राप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि [निरुद्वेगचित्तानि] प्राप्तान्यभूवन्। ये च गजवैनयिकाः सत्त्वास्ते गजरूपेण सुगतं दृष्ट्वा संतृप्ताः येन महर्षिस्तेनोपरि पुष्पाणि प्रक्षिप्य तानि च आकाशे संस्थितानि। तं च पृथिवीकम्पं दृष्ट्वा भूयस्या मात्रया आश्चर्यप्राप्ता भगवतश्चरणयोर्निपेतुः। येऽपि बुद्धवैनयिकाः सत्त्वास्ते सर्वे भगवतो बुद्धवेशं दृष्ट्वा आश्चर्यप्राप्ता अभूवन्।

अथ भगवान् शूरङ्गमात् समाधेर्व्युदतिष्ठत्। तस्माच्च समाधेर्व्युथितं [दृष्ट्वा बुद्धवैनयिकाः सत्त्वाः अतीव] प्रीतिप्रामोद्यजाता भगवन्तं यथालब्धैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणालंकारैरभ्यवकिरन् च इमा गाथा अभाषन्त।

उत्तिष्ठ शिघ्रं शृणु व्याकरिष्ये
महर्षे बोधायेति नायकोऽब्रवीत्।
[महानुभावेन] धरा चकम्पे
कुसुमा[नि च च्छत्रभूतानि नभ]सि॥
[त्वं नोऽसि बुद्धो] द्विपदप्रधानो
विभो [तथा] लोकहिताय शास्ता।
अनन्तपुण्यो गगनप्रमाण-
स्त्रैलोक्यसारो जगतः [प्रदीपः]॥

[अथ ज्योतीरसो बोधिसत्त्वो महा]सत्त्वो भगवन्तमेतदवोचत्। कीदृशं भगवन् तद्‍बुद्धक्षेत्रं भविष्यति यत्त्राहं धर्मचक्रं प्रवर्त्तिष्ये। भगवानाह..... .....।

[ऋषिज्योतीरसप्रसादपरिवर्तो नाम चतुर्थः॥४॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project