Digital Sanskrit Buddhist Canon

तृतीयः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaḥ parivartaḥ

तृतीयः परिवर्तः

अथ खलु अस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनार्हता सर्वावतीयं सहालोकधातुरुदारेणावभासेन स्फुटाभूत्। ये चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयन्ति ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयन्ति स्म। कुतोऽयमवभासः उत्‍पन्नः। नूनं पापीमान् नाम मारो यस्तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः योऽस्मत्तो बलवन्तः ईश्वरतरो महौजस्कश्च। अथ खलु ते मारा व्यवलोकयन्तोऽद्राक्षुः तं मारं पापीमन्तं कोषागारे निषण्णं परमदुर्मनस्थम्। अथ तत् कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगाम। उपेत्य मारं पापीमन्तमेवमाह। किं भोः कामेश्वर ! सर्वावतीयं लोकधातुरवभासिता त्वं च शोकागारं प्रविश्य निषण्णः। अथ कामेश्वरो मारः तेषां मारकोटीशतानां विस्तरेणारोचयति स्म। यत् खलु मार्षाः जानीयु[रि]हैकः श्रमण उत्‍पन्नः शाक्यवंशात् परमशठो मायावी। तेनोत्‍पन्नमात्रेण सर्वावतीयमिह लोकधातुरवभासिता प्रकम्पिता क्षोभिता। ये केचिदिह कृत्‍स्नलोकधातौ विद्वांसो महेन्द्रा वा नागेन्द्रा वा यक्षेन्द्रा वा सुरेन्द्रा वा महोरगेन्द्रा वा गरुडेन्द्रा वा किन्नरेन्द्रा वा यावदन्येऽपि केचिन्म[नु]ष्या विद्वांसस्ते सर्वे तमुपागताः पूजाकर्मणे यावत् षड्‍वर्षाणि एकाक्यद्वितीयं निषद्या लक्षणां मायां साधितवान्। अहमपि स्वबलदर्शनं चिकीर्षुः एवं षट्‍त्रिंशत्‍कोटीसैन्यपरिवारः उपसंक्रम्य समन्ततोऽनुपरिवार्य सर्वमारबलविकुर्वण-ऋद्धिबलपराक्रमं संदर्शित[वान्। पश्यैकं रोमकू]पमप्यहम् अशक्तोऽस्मि संत्रासयितुं वा भीषयितुं वा किमङ्ग पुनस्तस्मादासनात् कम्पयितुं किंवा पुनरन्यं विघातं कर्तुमिति। अथ चैतेन वृषलेन तादृशी माया प्रदर्शिता [प्रकं]पश्च कृतः यत् ससैन्योऽहं पराजितश्छिन्नवृक्ष इव धरणीतले निपतितः। तेन च तत्रैव निषण्णेन तादृशी अलक्षणा माया सा[धिता ययासौ सर्वमारविषय]मेवा[भि]भूतं साधितविद्यां तस्मादुत्थाय सत्त्वेभ्यः संप्रकाशयामास। ये च केचिदिह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञास्तथा मा[यायां छन्दकृतस्तेषां चित्तं] प्रजानामि गत्युपपत्तिं वा षट्‍सु गतिषु। ये च तच्छरणगतास्तेषाम् एकरोमकूपमपि न शक्नोमि संत्रासयितुं वा संक्षोभयितुं वा [कम्पयितुं वा] लोके पुनस्तस्माद् विसंवादयितुं वा कम्पयितुं वा शक्नुयाम्। अद्यैव च मे पञ्च परिचारिकाशतानि विंशतिश्च पुत्रसहस्राणि सगणपर्षद्यानि वृषलं गौतमं [श्र]मणं शरणं गतास्तस्य पुरतो निषण्णाः। न चाहं भूयस्तानि शक्तस्तस्माद् विवेचयितुम्। तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः [सुहृदो भ]वत। तं शाक्यपुत्रं वृषलं जीविताद् व्यपरोपयिष्यामः। ये च सत्त्वास्तच्छरणगतास्तान् सर्वान् विध्वंसयिष्यामः। कृष्णं मायाशाठ्यं श्रमणपक्षं पराजेष्यामः। [शुक्लं मारप]क्षम् उद्द्योतयिष्यामः। ततः पश्चात् सुखस्पर्शं विहरिष्यामः।

अथ ज्योतिष्प्रभो मारः इमं जम्बुद्वीपं व्यवलोकयामास यत्र तथागतः [संनिषण्णो] धर्मं देशयति। अथ ज्योतिष्प्रभो मारो भगवतः कायमद्राक्षीत् स्वरघोषयुक्त[स्तस्य धर्मदे]शनामश्रौषीत्। अथ तावदेव तस्य रोम[हर्षणः] संत्रा[सः] उत्‍पन्नः। अथ स मारं पापीमन्तमेवमाह।

कृत्‍स्ने क्षेत्रे ह्येष विशिष्टो वररूपः
पुण्यज्ञानी [चिरस्थितिकश्च] शुद्धः।
चिरकालं क्लेशान्मुक्तो मार्गसुयुक्तः
सर्वे तस्य भव[क्षय] शोकविमुक्तः॥१॥

मा त्वं भूयः क्रोधवशं गच्छानययुक्तम्
अग्रो ह्येष श्रेष्ठः शरण्यस्त्रिभवेऽस्मिन्।
यस्यास्मिन्न द्वेषलवोऽपि प्रतिभाति
व्यामूढोऽसौ सौख्यविनष्टो भवतीह॥२॥

अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तमेवमाह।
महर्धिकोऽसौ वरपुण्यलक्षणो
ह्यनाश्रितः सर्वगतिप्रमुक्तः।
अशेष[दुःख]क्षयमार्गदेशको
विहिंसितुं मारशतैर्न शक्यम्॥३॥

पापीमानाह।
वशं मदीयां जनतां कृताहि
युष्मज्जनस्तस्य वशानुगोऽयम्।
न चिरात् स शून्यं विषयं करिष्यति
अस्मद्‍गतिः कुत्र पुनर्भविष्यति॥४॥

अथ वनराजो नाम मारः स मारं पापीमन्तमेवमाह।
यदा तवासीत् परम समृद्धि-
स्तदा त्वया दर्शितमात्मसौर्यम्।
बलप्रनष्टोऽस्यधुना निराशः
किं स्पर्धसे सर्वविदा सहाद्य॥५॥

खड्‍गसोमो मारः प्राह।
क्वचिन्न तस्यास्ति मनःप्रदोष वा
न विशुद्ध [तिष्ठति चित्ता]शयेन।
त्रैधातुकान्मुक्तगतिप्रचारो
नासौ [परै]र्घातयितुं हि शक्यम्॥६॥

पापीमानाह।
ये सन्निषण्णा इह लोकधातौ
कामप्रसक्ता मदमानमूर्च्छिताः।
[सदा]नुवृत्ता मम किंकरास्ते
कथं न शक्यं तैर्विघातयितुं समग्रैः॥७॥

क्षितितोयो नाम मारः स एवमाह।
मायामरीचिप्रतिमानसारान्
भावान् परिज्ञाय विनीततृष्णः।
भवेष्वसक्तो गगनस्वभावः
शक्यं विघतः कथमस्य कर्तुम्॥८॥

पापीमानाह।
इहैव तस्यास्ति वशो त्रिलोके
मिष्टान्नपानासनवस्त्रसेविनः।
त्रिवेदना चास्य मतौ प्रतिष्ठिता
क्षयं प्रणेतुं न कथं हि शक्यम्॥९॥

तृष्णञ्जहो नाम मारः स एवमाह।
या ऋद्धिरस्मिन् विषयेऽस्ति काचित्
पापीमतां चैव महोरगाणाम्।
सिद्धार्थ-ऋद्धेर्न कलां स्पृशन्ति
क्षयं प्रणेतुं च कथं हि शक्यम्॥१०॥

पापीमानाह।
भक्तच्छेदो मयास्य हि कारितस्तच्छिला पुनः क्षिप्ता।
उक्तास्तथा क्रोशा आश्रमात् कम्पितोऽपि सः॥११॥

बोधाक्षो नाम मारः स एवमाह।
यदा त्वया तस्य कृतो विघातः
कश्चित् प्रदोषः कुपितेन तेन।
संदर्शितस्ते भृकुटीमुखे वा
किं तस्य साक्षात् [कु]वचः श्रुतं ते॥१२॥

पापीमानाह।
प्रतिसंख्यया सो क्रमते च नित्यं
प्रहीणरागो गतदोषमोहः।
सर्वेषु सत्त्वेषु स मैत्रचित्तः
संसर्गचर्या पुनरस्य नित्यम्॥१३॥

दुर्धषो नाम मारः स एवमाह।
ये च त्रिसंयोजनपाशबद्धा-
स्तेषां विघाताय वयं यतेम।
स तु प्रहीणामयमोहपाशः
क्षयं प्रणेतुं च कथं हि शक्यम्॥१४॥

पापीमानाह।
यूयं मम प्राप्तबलाः सहायाः
सद्यो भवन्तो भवताप्रमत्ताः।
अपोऽधितिष्ठामि महीमशेषां
सर्वा दिशः पर्वतमालिनी च॥१५॥

गगनात् प्रचण्डं घनशैलवर्षं
समुत्‍सृजाम्यायसचूर्णराशिम्।
नाराचशक्तिक्षुरतोमरांश्च
क्षिपामि कायेऽस्य विचूर्णनार्थम्।
एभिः प्रयोगैरभिघातदीप्तै-
स्तं स्थाक्यसिंहं प्रकरोमि भस्म॥१६॥ पेयालम्।

यावन्मारकोटीभिर्गाथाकोटी भाषिंता इति।

अथ सर्वे माराः एककण्ठेनैवमाहुः। एवमस्तु। गमिष्यामः स्वकस्वकेभ्यो भवनेभ्यः। सन्नाहं बद्ध्वा ससैन्यसपरिवाराः आगमिष्यामो यदस्माकम् ऋद्धिबलविषयं तत्‍सर्वमादर्शयिष्यामः। अथ त्वं स्वयमेव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस्तत्‍क्षणे प्रदर्शयति।

अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारकोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य नानाप्रहरणयुक्तो विविधसन्नाहसंनद्धस्तस्यामेव रात्रया[म]त्ययेनेमं जम्बुद्विपमनुप्राप्तः। अङ्गमगधसन्धौ गगनस्था यावदेवास्मिंश्चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरग-प्रेत-पिशाच-कुम्भाण्डा भगवतोऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास्ते सर्वे मारेण पापीमता भगवतोऽन्तिके वधाय उद्योजिताः। तेऽपि नानाप्रहरणवर्मप्रावृतास्तत्रैव तस्थुः। मारोऽपि पापिमान् अनुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरस ऋषिः प्रतिवसति महेश्वरभक्तिकः अष्टादशसु विद्यास्थानेषु ऋद्धिविषयपारमिप्राप्तः पञ्चशतपरिवारस्तस्य महेश्वररूपेण पुरतः स्थित्वैवमाह।

नियतं गौतमगोत्रजो ऋषिवरो विज्ञात्तोऽभिज्ञाश्रितो
मगधे संवसतीह सोऽद्य चरती पिण्डाय राज्ञोर्गृहम्।
तेन त्वं सह संलपस्व विशदं नानाकथाभिः स्थिरः
तत्रैव त्वमप्येव पञ्च नियतं प्राप्स्यस्यभिज्ञावशिम्॥१७॥

अथ मारः पापीमानिमां गाथां भाषित्वा तत्रैवान्तर्हितः। स्वभवनञ्च गत्वा स्वपार्षद्यानां माराणामारोचयति स्म।
मत्तो भोः शृणुताद्य यादृगतुला बुद्धिर्मया चिन्तिता
स्वैरं शाक्यसुतं समालपयत ऋद्धिप्रभावान्वितम्।
तां मायां न विदर्शयेत् स्वविषयां मारोरुदर्पो महान्
नित्यं स्निग्धवचः स शिष्यनियतो मातेव पुत्रेषु च॥१८॥

शिष्यास्तस्य हि ये प्रहीण[प्र]मदाश्चर्यां चरन्ति ध्रुवं
पूर्वाण्हे नगरं क्रमेण निभृतं स्वैरेण तावद्वयम्।
गृण्हीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर्यथा
श्रुत्वैतां प्रकृतिं मनोविरसतां यायात् स शाक्यर्षभः॥१९॥

अपरो मार एवमाह।
सिंहव्याघ्रगजोष्ट्रचण्डमहिषाः क्षिप्रं पुरस्यास्य हि
प्रावृण्मेघनिनादिनः खररवान्निर्मीय नैकान् बहिः।
तिष्ठेमो वयमायुधप्रहरणाः साक्षात् स दृष्ट्वाद्भुतान्
भ्रान्तो ऋद्धिमपास्य यास्यति ततो नानादिशो विस्मृतः॥२०॥

अपरो मारः प्राह।
वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर्मुखै-
र्नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्‍गाश्रितैः।
आकाशाद् घनरावसुप्रहरणैर्मेघाशनिं मुञ्चतः
क्षिप्रं स सभयं प्रयास्यति ततो भूकम्पहेतोर्वशम्॥२१॥

विस्तरेण यथासौ माराणां मारबलविषयविकुर्वतां सर्वे तथैवाचक्षुः।

भगवांश्च पुनः सर्वावतीमिमां त्रिसाहस्रमहासाहस्रीं लोकधातुं वज्रमयीमध्यतिष्ठत्। न च पुनर्भूयो मारा रावांश्चक्रुर्न चातुर्दिशमग्निपर्वतास्तस्थुः। न कृ[ष्णा]भ्रा नाकालवायवो न च कश्चिन्नागोऽभिप्रवर्षति स्म अन्तशः एकबिन्दुरपि बुद्धबलाधिष्ठानेन।

तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाण्हे निवास्य पात्रचीवरमादाय राजगृहं महानगरं पिण्डाय प्रविविशुः। आयुष्मान् शारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश। तत्र च नगरे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महत्मवेषसदृशा नृत्यन्तो गायन्तः संचेरुः। ते आयुष्मन्तं शारिपुत्रमुभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धावन्ति स्म नृत्यन्तो गायन्तः शारिपुत्रमेवमाहुः। नर्तस्व श्रमण गायस्व श्रमण। शारिपुत्र आह। शृणुत यूयं मार्षाः स्वयम्। अश्रुतपूर्वां गीतिकां श्रावयिष्यामि। ते च सव मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवमाहुः।

अलमेव हि आयतनेहि वञ्चिता वयमायतनेहि।
आघतनानि हि आयतनानि अन्तु करोम्यहु आयतनानाम्॥२२॥

अलमेव हि स्कन्धकृतेहि वञ्चिता वयं स्कन्धकृतेहि।
आघतनानि हि स्कन्धकृतानि अन्तु करोम्यहु स्कन्धकृतानाम्॥२३॥

तद्यथा। वहर वहर। भारवह मरीचिवह। सद्यवह अमवह। स्वाहा॥

स्थविरः शारिपुत्रो धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म। अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवमाहुः।

क्षमापयामो वयमद्य नाथं
त्वामेव बन्धुं जगतः सुदेशिकम्।
स्कन्धा यथा ते सभयाः प्रदिष्टाः
तव वयं साक्षिण एषु नित्यम्॥२४॥

सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो निषेदुर्धर्मश्रवणाय।

अथ खल्वायुष्मान् महामौद्‍गल्यायनः पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत्। तथापि पञ्चाशन्मारकुमारका यावद् गीतस्वरेणैवाहुः।

अलमेव हि धातुमयेहि वाञ्चिता वयं धातुमयेहि।
आघतनानि हि धातुमयानि अन्तु करोम्यहु धातुमयानाम्॥२५॥

अलमेव हि वेदयितेहि वञ्चिता वयं वेदयितेहि।
आघतनानि हि वेदयितानि अन्तु करोम्यहु वेदयितानाम्॥२६॥

अलमेव हि चेतयितेहि वञ्चिता वयं चेतयितेहि।
आघतनानि हि चेतयितानाम् अन्तु करोम्यहु चेतयितानाम्॥२७॥

अलमेव हि संज्ञाकृतेहि वञ्चिता वयं संज्ञाकृतेहि।
आघतनानि हि संज्ञाकृतानि अन्तु करोम्यहु संज्ञाकृतानाम्॥२८॥

अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि।
आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम्॥२९॥

तद् यथा। आमव आमव आमव। आरज रणजह। शम्यथ शम्यथ शम्यथ। गगनपम स्वाहा॥

धावन् गीतस्वरेण आयुष्मान् महामौद्‍गल्यायनो मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म। अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः।

ऋद्ध्यान्वितेर्यापथगुप्तमुनीन्द्रसूनुः
संसारदोषसमदर्शक-धर्मदीपः।
पापं प्रहाय वयमादरभक्तिजाता
बुद्धं गताद्य शरणं वरधर्मसंघम्॥३०॥

सर्वे ते पञ्चाशान्मारकुमारका वीथीमध्ये आयुष्मतो महामौद्‍गल्यायनस्य पादौ शिरसाभिवन्द्य तस्यैव पुरतो निषेदुर्धर्मश्रवणाय।

अथायुष्मान् पूर्णो मैत्रायणीपुत्रः उत्तरेण नगरद्वारेण पिण्डाय प्राविशत्। यावद् वीथ्यां धावमानो गीतस्वरेणैवमाह।

अलमेव हि स्पर्शकृतेहि वञ्चिता वयं स्पर्शकृतेहि
आघतनानि हि स्पर्शकृतानि अन्तु करोम्यहु स्पर्शकृतानाम्॥३१॥

अलमेव हि आघिपतेहि वञ्चिता वयम् आधिपतेहि
आघतनानि हि आधिपतीनि अन्तु करोम्यहु आधिपतोनाम्॥३२॥

अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि।
आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम्॥३३॥

अलमेव हि सर्वभवेहि वञ्चिता वयं सर्वभवेहि।
आघतनानि हि सर्वभवानि अन्तु करोम्यहु सर्वभवानाम्॥३४॥

लघु गच्छति आयु मार्षा
सलिला शीघ्रजवेन वेगिनी।
न च जानति बालिशो जनो
अबुधो रूपमदेन मत्तकः॥३५॥ पेयालाम्
अबुधः शब्दमदेन मत्तकः॥३६॥
अबुधो गन्धमदेन मत्तकः॥३७॥
अबुधो रसमदेन मत्तकः॥३८॥
अबुधः स्पर्शमदेन मत्तकः॥३९॥

लघु गच्छति आयु मार्षाः
सलिला शीघ्रजवेन वेगिनी।
न च पश्यति बालिशो जनो
अबुधो धर्ममदेन मत्तकः॥४०॥
अबुधः स्कन्धमदेन मत्तकः॥४१॥
अबुधो धातुमदेन मत्तकः॥४२॥
अबुधो भोगमदेन मत्तकः॥४३॥
अबुधः सौख्यमदेन मत्तकः॥४४॥
अबुधो जातिमदेन मत्तकः॥४५॥
अबुधः काममदेन मत्तकः॥४६॥

लघु गच्छति आयु मार्षाः
सलिला शीघ्रजवेन वेगिनी।
न च जानति बालिशो जनो
अबुधः सर्वमदेन मत्तकः॥४७॥

तद्‍यथा। खर्गव खर्गव खर्गव। मुन विज्ञानि। आवर्त विवर्त खबर्त। ब्रह्मार्थ ज्योतिवर्त स्वाहा॥

अथायुष्मान् पूर्णो धावन् गीतस्वरेण मारपुत्रेभ्य इमा गाथा इमानि च मन्त्रपदानि भाषते स्म। अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः।

त्वयोपदिष्टः खलु शान्तिमार्गो
मायामरीचिप्रतिमाश्च धातवः।
संकल्पमात्र-जनितो वत जिवलोको
रत्नत्रयं हि शरणं वरदं व्रजामः॥४८॥

सर्वे ते पञ्चाशन्मारकुमारका आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय।

तेन च समयेन आयुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत्। तत्र च नगरद्वारे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यन्तो गायन्तो विचेरुः। ते आयुष्मन्तं सुभूतिमुभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्तः आयुष्मन्तं सुभूतिमेवमाहुः। नर्तस्व श्रमण गायस्व श्रमण। सुभूतिराह। शृणुत मार्षा यूयम्। अश्रुतपूर्वां गीतिकां श्रावयिष्यामि। सर्वे चाल्पशब्दा अभूवन्। धावन् गीतस्वरेण आयुष्मान् सुभूतिरेवमाह।

अनित्य सर्वभाव माय-बुद्‍बुदोपमा
न नित्यमस्ति संस्कृते क्वचिच्चलात्मके यथा।
मरीचि दृष्टमेव यथा नास्ति तत्र शाश्वतं
लघु व्ययो हि सर्व धर्म बुद्धिमान् प्रजानते॥४९॥

सर्वे स्पर्शदुःखभारवेदना निरात्मिका
यत्र प्रसक्त सर्वे बाल दुःखधर्मपिडिताः।
मित्रं न कश्चिदस्ति सर्वदुःखमोचका
यथा हि श्रद्धा बोधिमार्ग भावना च सेविता॥५०॥

एकपक्ष सर्वधर्म संज्ञा वर्जिता शुभा
निरात्मयोग सर्वचर्य द्रव्यलक्षणात्मिका।
न जीवपोषपुद्‍गलोऽपि कारको न विद्यते
विज्ञात्व मायाशाठ्य बोधिचित्त नामय॥५१॥

विज्ञान वर्ततेन्द्रियेषु विद्युता यथा नभे
अनात्मकाश्च सर्वे स्पर्शवेदनापि चेतना।
योनिशो निरीक्ष्य किंचिदस्ति नैव द्रव्यता
संमोहितो हि बालवर्गो यन्त्रवत् प्रवर्तते॥५२॥

स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते
भूतकोटि शान्त शून्य सर्व अन्तवर्जिता।
अमोहधर्मतैष उक्त बोधिमार्गचारिका-
नयेहि नायकेन बोधिप्राप्ततायिना॥५३॥

तद्यथा। सुमुन्दे विमुन्दे सुन्दजहि। सिलि सिलि। सिलि सिलि। अवहसिलि [अवह]सिलि। तथात्वसिलि भूतकोटिसिलि स्वाहा॥

अथायुष्मान् सुभूतिर्धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म। अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नसनसः एवमाहुः।

अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः।
यत् कृतं पापकं कर्म [मोहेनाज्ञानतस्तथा]॥५४॥

प्रतिदेशय तच्चैव वयं साक्षाज् जिनात्मजाः
प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिते॥५५॥

सर्व ते पञ्चाशन्मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसा वन्दित्वा तस्यैव पुरतो वीथीमध्ये निषेदुर्धर्मश्रवणाय।

तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म। तत्र च वीथीमध्ये स्थविर शारिपुत्रः उत्तरामुखो निषण्णः। महामौद्‍गल्यायनः पञ्चिमामुखो निषण्णः। पूर्णो दक्षिणामुखः। सुभूतिः पूर्वामुखः। परस्परमर्धयोजनप्रमाणेन तस्थुः। तेषां च चतुर्णां महाश्रावकाणां मध्ये पृथिवीप्रदेशे पद्मं प्रादुरभूत् पञ्चाशद्धस्तविस्तारं जाम्बूनदमयेन दण्डेन नीलवैडूर्यमयैः पत्रैः श्रीगर्भमयेन केसरेण मुखामयया कर्णीकया। ततश्च पद्मान्महानवभासोऽभवत्। तस्यां च वीथ्यां तत्‍पद्मं त्रिपौरुषम् उच्चत्वेन संदृश्यते स्म यावच्चातुर्महाराजकायिकेषु देवेषु तत्‍पद्मं दिव्यानि पञ्चाशद् योजनानि उच्चत्वेन संदृश्यते स्म। त्रायस्त्रिंशत्‍सु तत्‍पद्मं योजनशतमुच्चत्वेन संदृश्यते स्म यावदकनिष्ठेषु देवेषु तत्‍पद्मम् अर्धयोजनमुच्चत्वेन संदृश्यते स्म। तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः। ये सत्त्वा इह भूमिस्थितास्ते इमान् श्लोकान् शुश्रुवः।

एकः पुद्‍गल उत्‍पन्नो बुद्धक्षेत्रे इहानघः।
निहतो मार एकेन ससैन्यबलवाहनः॥५६॥

एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितम्।
एकाकीह जगद्धेतोराया[तो हि] न संशयः॥५७॥

विद्वांसौ बहुनीतिशस्त्रकुशलौ धर्मार्थमोक्षार्थिकौ
नीतिज्ञौ उपतिष्यकौलितवरौ शास्त्रे विनीताविह।
विद्वान् सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान्
नेष्यत्यद्य स सर्वलोकमहितो वादिप्रधानो मुनिः॥५८॥

त्रयध्वज्ञानसुदेशकः श्रमणराट् शिक्षात्रयोद्‍भावक-
स्त्राता वै सनरामरस्य जगतो धर्माप्रमेयार्थवित्।
लोकस्याथ हितप्रचारकुशलो ज्ञानप्रदीपो महान्
सद्वादी त्रिमलप्रहीण इह सो अद्यैव संगास्यति॥५९॥

लोकार्थमभ्रान्तमतिश्चचार
दुःखार्दितं सर्व जगद् विमोचयन्।
अविद्यया नीवृतलोचनानां
सद्धर्मचक्षुः प्रददौ यथावत्॥६०॥

सर्वावतीयं परिषत् समागता
न चिरादिहायास्यति वादिसिंहः।
परमार्थदर्शी परमं सुरूपो
बलैरुपेतो हि परापरज्ञः॥६१॥

दृष्ट्वा जगद्दुःखमहार्णवस्थम्
आहन्तुमायास्यति धर्म[भेरीम्]।
षडिण्द्रियैरुत्तमसंवरस्थः
[षडाश्रयश्च षड]भिज्ञकोविदः॥६२॥

षट्‍पारधर्मोत्तमदेशनायै
षड्‍बीज आयास्यति वादिसिंहः।
षडिन्द्रियग्रा[मविहेठनाय]
षडुत्तमार्थ स्मृति सारथेन्द्रः॥६३॥

यावत् षट्‍सु कामावचरेषु देवेषु ततः पद्मादिमा गाथा निश्चेरुः।

यूयं समग्रा रतिमद्य भुंजथ
प्रमत्तचित्ता मदतृष्ण[सं]रताः।
सदा विमूढा रतिपानमत्ता
न पूजयध्वं सुगतं प्रमादात्॥६३॥

कामाननित्यो दकचन्द्रसन्निभः
संसारपाशोऽतिदृढः प्रजायाः।
अनिःसृतानां रतिषु प्रमादिनां
न निर्वृतो वा तु पुनर्भविष्यति॥६४॥

सदा प्रमत्ता न शमाय युक्ता
न पश्यत प्राक्‍सुकृतं शुभाशुभम्।
जरा-रुजा-मृत्युभयैः परीता
अपायभूमिप्रसृताश्च यूयम॥६५॥

दानं दमं संयममप्रमादं
निषेवत प्राक्‍सुकृतं च रक्षत।
उत्‍सृज्य कामानशूचिननन्ता-
नुपसंक्रमध्वं सुगतं शरण्यम्॥६६॥

गत्वा च तस्माद् वचनं शृणुध्वं
सुभाषितं तद्धि महार्थिकं वचः।
प्रज्ञा-विमुक्तिः प्रशमाय हेतुः
सद्धर्मयुक्तं श्रवणं महार्थम्॥६७॥

यावत् षोडशसु देवनिकायेषु तस्य पद्मस्य पत्रेभ्यः इमा एवंरूपा गाथा निश्चेरुः।

धर्मं प्रयत्नेन विभावयध्वं
समाहित-ध्यानरता अनङ्गनाः।
अभ्रान्तचित्ताश्च विमोक्षकाङ्क्षिणो
द्वेषप्रहाणाय मतिं कुरुध्वम्॥६८॥

त्रयोदशाकार-निमित्त-दीपिकां
विभावयध्वं परमां हि क्षान्तिम्।
अथैव चाप्यत्र विमोक्षमाशु
संप्राप्स्यथ व्याधिजरावियुक्तम्॥६९॥

शाश्वत ये रूपविकल्पसंज्ञके
नित्यं ध्रुवात्मस्थिरभावदृष्टयः।
तेषां च जन्म[जरयोर]हानि-
रपायभूमिप्रवणा हि ते वै॥७०॥

त्रैधातुकं वीक्ष्य सदा निरात्म-
मद्रव्यमस्वंवशकं निरीहम्।
क्षान्तिं विभावेन्ति य आनुलोमिकीं
भवन्ति ते सर्वि गतिप्रमुक्ताः॥७१॥

तेषां न मृत्युर्न जरा न रोगो
न दुर्गतिर्नाप्रियसंप्रयोगः।
आकाशतुल्यानिह सर्वधर्मान्
ये भावयन्ते व्ययभावयुक्तान्॥७२॥

अत्यन्तशुद्धो हि वरः स मार्गो
येषामसङ्गं मन-इन्द्रियेषु।
मारान् विधुन्वन्ति चतुष्प्रकारान्
यथाह्ययं संप्रति शाक्यसिंहः॥७३॥

एकं नयं ये तु विभावयन्ति
निष्किञ्चनं सर्वनिमित्तवर्जितम्।
द्वयप्रहाणाय विनीतचेष्टा
तेषामयं मार्गवरः प्रणीतः॥७४॥

विभाव्य शून्यानिह सर्वधर्मान्
अस्वामिकानकारकजातिवृत्तान्।
स्पृशन्ति बोधिं गगनस्वभावां
निरुत्तमां प्रार्थनया विवर्जिताम्॥७५॥

एभिरेवंरूपैरर्थपदधर्मशब्दैर्निश्चरद्‍भिर्य इह लोकधातौ मनुष्यामनुष्यास्ते समागम्य वीथीमध्ये समन्तास्तस्य पद्मस्य निषेदुः। यावदप्रमेयासंख्येया अकनिष्ठा देवा अकनिष्ठाभवनादवतीर्य ते पद्मस्य समन्ततो न्यषीदन् धर्मश्रवणाय। अश्रौषीन्मारः पापीमानेतान् श्लोकान्। समन्ततश्च व्यवलोक्य अद्राक्षीत् राजगृहे महानगरे वीथिमध्ये पद्मम्। ततश्चेमे श्लोकाः निश्चेरुः। तदा पद्मं परिचार्य अप्रमेयासंख्येयानि मनुष्यकोटीनयुतशतसहस्राणि सन्निषण्णानि धर्मश्रवणाय।

अथ खलु मारः पापीमान् ऊर्द्ध्वं व्यवलोकितवान्। अद्राक्षीत् षट्‍सु कामावचरेषु देवेषु सर्वत्र देवभवने तत्‍पद्मम्। तदेव चानुपरिवार्य अप्रमेयासंख्येयानि देवकोटीनयुतशतसहस्राणि [सन्निषण्णानि] धर्मश्रवणाय।

अथ भूयस्या मात्रया मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी संहृष्टरोमकूपः प्रखिन्नगात्रः संप्रकम्पितशरीरो गगने प्रधावन् महता स्वरेण परान् मारान् प्रक्रोशन्नेवमाह।

शृणु गिरि मम इमा समवहितमना
न मे वशो स्वविषये न च बलमिह मे।
इदमिह मुनिबलमतिगुणविशदं
प्रसरति जगति स्थिरजनकरणम्॥७६॥

कमलमिहोदयति नरमरु ल्हादयितु-
मुपगत निखिलतो सुजननियता।
परितृषित सुगतसुवचननिरता
व्रजति हि शमथपथमतिगुणपरमा॥७७॥

मायेयं श्रमण प्रवर्तत इह त्रैलोक्यसंमोहने
सर्वेऽनन्यमना नरामरगणाः पद्मं वितत्य स्थिताः।
क्षिप्रं मुञ्चत शैलवृष्टिमधुना भीष्मस्वरं राविणो
गच्छेन्नाशमयं यथाद्य निहतो मारोऽग्रसिन्यायुधैः॥७८॥

अथापरो मारः पापीमन्तमेवमाह।
शृण्वस्माकमिदं वचो हितकरं विज्ञातधर्मोऽसि किं
यत् पश्यन्निह मरसैन्यविलयं नायासि शान्ति ततः।
भ्रान्ताः स्म असमीक्ष्य सौगतमिदं तेजोवपुः श्रीघनं
रूपं नान्यदिहोत्तमं सुशरणं बुद्धादृते नायकम्॥७९॥

अथापरो मारः प्ररुदन् परमक्रोधाविष्टवचनो मारं पापीमन्तमेवमाह।

कुमार्गसंप्रस्थित मार्गहीन
प्रजानसे न स्वबलं न शक्तिम्।
न लज्जसेऽपत्रपसे न चैव
यस्त्वं सह स्पर्धसि नायकेन॥८०॥

अस्मब्दलैर्यद्विलयं प्रयातं
बुद्धस्य शक्त्या तु जगत् समग्रम्।
उपागमत् पद्मसमीपमाशु
धर्मश्रवाप्यायितशुद्धदेहः॥८१॥

वयं तु वीभत्‍सतराः प्रयाता
दुर्गन्धकाया बलवीर्यनष्टाः।
यावन्न याता विलयं क्षणेन
तावद् व्रजामः शरणं मुनीन्द्रम्॥८२॥

अथापरे माराः कृताञ्जलय एवमाहुः।
पापीमंस्त्वमपेतधर्मचरणः पापक्रियायां रतो
नाथो ह्येष जगद्धितार्थकुशलो बुद्धः सतामग्रणीः।
आयामो नगरं द्रुतं वयमिह प्रीतिप्रसन्नेक्षणाः
गच्छामः शरणं त्रिलोकमहितं सर्वौषधं प्राणिनाम्॥८३॥

अथ तत्रैव गगनघोषवतिर्नाम मारः स उच्चस्वरेणैवमाह।
सव यूयं समग्राः शृणुत मम वचो भक्तितः प्रीतियुक्ताः
पापाद् दृष्टिं निवार्य प्रणततनुमनोवाक्‍समाचारचेष्टाः।
त्यक्तक्रोधाः प्रहृष्टमुनिवरवचनाः स्फीतभक्तिप्रसादा
गत्वा बुद्धं समक्षं शरणमसुलभं पूजयामोऽद्य भक्तया॥८४॥

अथ तत्‍क्षणमेव सर्वे मारा गगनतलादवतीर्य राजगृहनगरद्वाराणि सप्तरत्नमयानि चक्रुः। केचिन्मारचक्रवर्तिराजवेषमात्मानमभिनिर्मीय भगवतः पूजापरास्तस्थुः। केचिद् ब्रह्मवेषं केचिद्वशवर्तिवेषं केचिन्महेश्वरवेषं केचिन्नारायणवेषं केचित्तुषितवेषं केचिद् यमवेषं केचिच्छक्रवेषं केचित्त्रयस्त्रिंशद्वेषं केचित् कुमारवेषं केचिद् वैश्रवणवेषं केचिद् विरूढकवेषं केचिद् विरूपाक्षवेषं केचिद् धृतराष्ट्रवेषं केचित् प्राकृतचतुर्महाराजवेषं केचित् सूर्यवेषं केचिच्चन्द्रवेषं केचित्तारकवेषं केचिदसुरवेषं केचिद् गरुडवेषं केचित् किन्नरवेषं केचिन्महोरगवेषं केचिद् रत्नपर्वतवेषं केचित् निष्कवेषं केचिन्नानारत्नवेषं केचिद् रत्नवृक्षवेषं केचित् क्षत्रियवेषं केचिदन्यतीर्थिकवेषं केचिच्चक्ररत्नवेषं केचिन्मणिरत्नवेषं केचिदैरावणवेषं केचिद्वलाहकराजवेषं केचित् स्त्रीरत्नवेषं केचित् श्रेष्ठिमहारत्नवेषम् आत्मानमभिनिर्मीय तस्थुर्भगवतः पूजाकर्मणे। केचिन्नीला नीलवर्णाः श्वेतवर्णालङ्कारालंकृतमात्मानमभिनिर्मीय भगवतः पूजाकर्मणे लोहितान् छत्रध्वजपताकामुक्ताहारान् धारयन्तस्तालप्रमाणामात्रमुच्चत्वेन गगनतले तस्थुः। केचिदवदाता अवदातवर्णा मञ्जिष्ठवर्णाभरणविभूषणाः पीतान् छत्रध्वजपताकान धारयन्तस्तस्थुः। केचिन्मञ्जिष्ठा मञ्जिष्ठवर्णाः सुवर्णाभरणविभूषणा नीलान् छत्रध्वजपताकान् धारयन्तस्तस्थुः। केचिल्लोहिता लोहितवर्णाः श्वेतमुक्तवर्षं ववर्षुः। केचित् श्वेताः श्वेतवर्णाः लोहितमुक्तवर्षं ववर्षुः। केचिद्देवर्षिवर्णमात्मानमभिनिर्मीय गगनात् पुष्पवर्षम् अभिप्रवर्षुः। केचिद् भगवतः श्रावकवेषमात्मानमभिनिर्मीय नानादिव्यगन्धवर्षं गगनाद्ववर्षुः। केचिद् गन्धर्ववर्णा नानादिव्यतूर्याणि पराजघ्नुः। केचित् अमरकन्यावर्णा नानारत्नभाजनेषु गन्धोदकं धारयन्तः पृथिवीं सिषिञ्चुः। केचित् कालकृष्णवर्णाः गन्धान् प्रधूपयामासुः। केचिद्देवपुत्ररूपेण नृत्यगीतस्वरान् मुमुचुः। केचिन्नानावर्णा येन भगवांस्तेन प्राञ्जलयो भगवन्तं तुष्टुवुः। केचिन्माराः मारपार्षद्या अपि यस्यां दिशि भगवांस्तदभिमुखा नानाविधानि मणिरत्नानि दधिरे भगवतः पूजाकर्मणे। केचिद् वीथीगृहशरणगवाक्षोरणहर्म्य-चत्वरशृङ्गाटककूटागार-द्वार-वृक्षविमानेषु स्थित्वा प्राञ्जलयो निषेदुः भगवत पूजाकर्मणे।

अथ स मारो यदा अद्राक्षीत् सर्वांस्तान् मारान् सपरिवारान् श्रमणगौतमं शरणं गतान् तदा भूयस्या मात्रया क्षूब्धस्त्रस्तो भ्रान्तः प्ररुदन्नेवमाह।

न भूयो मे सहायोऽस्ति नष्टा श्रीर्मेऽद्य सर्वतः।
भ्रष्टोऽस्मि मारविषयात् कुर्यां वीर्यं हि पश्चिमम्॥८५॥

मूलं छिन्द्यामहं पद्मं सत्त्वा येन दिशोऽव्रजन्।
छेदात् पद्मस्य संभ्रान्ता एतत् स्यात् पश्चिमं बलम्॥८६॥

इति संचिन्त्य मारः पापीमान् वायुवदवतीर्य गगनाद् येन तत्‍पद्मं वीथीगतं तेन प्रसृत्य तत्‍पद्ममादण्डादिच्छति ऊद्धर्तुं स्प्रष्टुमपि न शशाक। पत्राणि छेत्तुमिच्छति न च तानि ददर्शुः। पद्मकर्णिकामपि पाणिना पराहन्तुमिच्छति तामपि नैव लेभे। तद् यथा विद्युद् दृश्यते न चोपलभ्यते। तद् यथा वा छाया दृश्यते न चोपलभ्यते। एवमेव तत् पद्मं दृश्यते न चोपलभ्यते।

यदा च मारः पापीमान् तत् पद्मं ददर्श न चोपलेभे न पस्पर्श अथ पुनः सर्वपर्षत् संत्रासनार्थम् उच्चैः महाभैरवं स्वरं मोक्तुमिच्छति तदपि न शशाक। न पुनर्महाबलवेगेन उभाभ्यां पाणिभ्यामिच्छति महापृथिवीं पराहन्तुं कम्पयितुं तदपि स्प्रष्टुं न शशाक नैवोपलेभे। तद् यथापि नाम कश्चित् आकाशमिच्छेत् परामर्ष्टुं न च उपलभते। एवमेव मारः पापीमान् ददर्श पृथिवीं न च पस्पर्श नोपलेभे। तस्यैतदभवत्। यत्त्वहं यथा संनिपतितानां सत्त्वानां प्रहारं दद्यां चित्तविक्षेपं वा कुर्याम् इति। ददर्श तान् सत्त्वान् न चैकसत्त्वमपि उपलेभे न च पस्पर्श।

अथ भूयस्या मात्रया मारः पापीमान् रुरोद। बुद्धनुभावेन चास्य सर्वं शरीरं वृक्षवत् चकम्पे। साश्रुमुखश्चतुर्दिशं च व्यवलोकयन्नेवमाह।

मायैषा श्रमणेन सर्वजगतोऽद्यावर्जनार्थं कृता
येनाहं पुरतो विमोहित इद भ्रान्तिं गतोऽस्मि क्षणात्।
भ्रष्टोऽहं विषयात् स्वपुण्यबलतः क्षीणं च मे जीवितं
शीघ्रं यामि निराकृतः स्वभवनं यावन्न यामि क्षयम्॥८७॥

स्वभवनमपि गन्तुमिच्छति न तत्रापि शशाक गन्तुम्। स भूयस्या मात्रया त्रस्तो रुरोद। एवं चास्योदपादि। परिक्षीणोऽहम् ऋद्धिबलात् माह्यैवाहं श्रमणस्य वशमागच्छेयम्। मा वा मेऽस्य शत्रोर्वा अग्रतो जीवितक्षयः स्यात् यत् त्वहमतोऽन्तर्धायेयं सहाबुद्धक्षेत्रस्य बहिर्धा कालं क्रुयां यथैकसत्त्वोऽपि मे सहाबुद्धक्षेत्रे वा कालं कुर्वन्तं न पश्येत्। तथापि न शक्नोति अन्तर्धातुं न दिग्‍विदिक्षु पलायितुं वा तत्रैव कण्ठे पंचबन्धनबद्धमात्मानं ददर्श। भूयस्या मात्रया कुपितस्त्रस्तः उच्चै रुदन्नेवमाह। हा प्रियपुत्रबान्धवजना न भूयो द्रक्ष्याम इति।

अथ घोषवतिर्नाम मारश्चक्रवर्तिवेषेण निषण्णभूतो मारं पापीमन्तमेवमाह।

किं भोः शोकमनास्त्वमद्य रुदिषि व्याकोषवक्त्रस्वरः
क्षिप्रं सर्वजगद्वरं मुनिवरं निर्भीः शरण्यं व्रज।
त्राणं लोकगतिश्च दीपशरणं नाथस्त्रिदुःखापहो
न त्वेतं समुपास्यसि सुखशमं सौख्यं न संप्राप्स्यसि॥८८॥

अथ मारस्य पापीमत एतदभवत्। यत्त्वहं सन्तोषवचनेन श्रमणगौतमं शरणं व्रजेयं यदहमेभ्यो बन्धनेभ्यः परिमुच्येयम्।

अथ् मारः पापीमान् यस्यां दिशि भगवान् विजहार तेनाञ्जलिं प्रणम्यैवमाह। नमस्तस्मै वरपुद्‍गलाय जराव्याधिपरिमोचकाय। एवमहं त्सं बुद्धं भगवन्तं शरणं गच्छामि। एवं चाह।

अस्मान्नाथ महाभयात् सुविषमात् क्षिप्रं मुनेर्बन्धनात्
मुच्येयं शरणागतोऽस्मि सुगतस्याद्यप्रभृत्यग्रणीः।
मोहान्धेन मया त्वयि प्रकुपितेनोच्चैः प्रदोषः कृतः
तत् सर्वं प्रतिदेशयामि पुरतस्त्वां साक्षिणं स्थाप्य तु॥८९॥

यदा च मारः पापीमान् सन्तोषवचनेन बुद्धं भगवन्तं शरणं गतस्तदा मुक्तमात्मानं संजानीते। यदा पुनरस्यैवं भवति प्रक्रमेयमिति पर्षद इति पुनरेव कण्ठे पञ्चबन्धनबद्धमात्मानं संजानीते। यदा पुनर्न क्वचिद् गन्तुं शशाक तदा भगवतोऽन्तिके त्राणशरणचित्तमुत्‍पादयामास। पुनर्मुक्तमत्मानं संजानीते यवत् सप्तकृत्वो बद्धमुक्तमात्मानं संजानीते स्म तत्रैव निषण्णः।

इति महासन्निपातरत्नकेतुसूत्रे तृतीयो मारदमन-परिवर्तः समाप्तः॥३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project