Digital Sanskrit Buddhist Canon

द्वितीयः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyaḥ parivartaḥ

द्वितीयः परिवर्तः



अथ ता मारकन्या मारपुत्राश्च सगनपारिषद्या भगवन्तं [तत्‍क्षणं प्रार्थयामासुः। अ]र्थिका वयं भगवन्ननेनैवंरूपेण यानेन च ज्ञानेन च ऋद्धया कृपयोपायेन प्रतिभानेन च। आश्चर्यं भगवन् यावदुपाय[ज्ञान]समन्वागतस्तथागतः। [कतमैर्भ]गवन् धर्मैः समन्वागतः पुरुषपुद्‍गलो न च पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते। भगवानाह। चतुर्भिर्धर्मैः समन्वागतः [कुलपुत्र]इहैकत्यपुरुषपुद्‍गलो न पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते। कतमैश्चतुर्भिः। इह भद्रमुखाः कुलपुत्रः सर्वधर्मान्न परामार्ष्टि न च क्वचिद् धर्ममुद्‍गृण्हाति नोपैति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यदुत दानपारमितायां चरन् न दानफलं परिचरति नोद्‍गृण्हाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यावत् प्रज्ञापारमितायामपि चरन् यावन्न कल्पयति न विकल्पयति।



पुनरपरं भद्रमुखाः स कुलपुत्रो न सत्त्ववादी भवति न जीववादी न पोषवादी न पुरुषवादी न पुद्‍गलवादी न सत्त्वधातुं मनसा परामार्ष्टि यावन्न कल्पयति न विकल्पयति।



पुनरपरं भद्रमुखाः स कुलपुत्रो न रूपशब्दगन्धरसस्प्रष्टव्यानि परामार्ष्टि यावन्न कल्पयति न विकल्पयति।



पुनरपरं भद्रमुखाः स कुलपुत्रः सर्वत्र्यध्वत्रैधातुकस्कन्धधात्वायतनानां हेतुप्रत्ययालम्बनफलविपाकसमुत्थानाश्रयोत्‍पादान्न परामार्ष्टि यावन्न कल्पयति न विकल्पयति।



तत् कुतः। सर्व[ज्ञताज्ञान]चर्याधिष्ठानं [सर्वविषयकल्पनाविकल्पनाविरहेण अनालम्बनयोगचर्यया] च कर्तव्यम्। अभावा भद्रमुखाः सर्वधर्माः सर्वज्ञता च यावदघोषानिमित्तानक्षराप्रणिहितानुत्‍पादानिरोधालक्षणासंगा अनालम्बनादर्शना विविक्ता निरात्मा अलक्षणीया क्षणव्यूपशान्ता अतमानालोकास्थानाविषया[वशा]पक्ष्याप्रतिपक्ष्या अचिन्त्याहेयामत्‍सराप्रपञ्चा[रजोविरजो]निरवयवा अकिंचनाकारकावेदकानाश्रयाग्राह्याविज्ञप्तिकाप्रतिभासाक्षणिका भद्रमुखाः [स]र्वज्ञता गगनसमा शून्यानुपलम्भयोगेनानधिष्ठानयोगेनापरामर्शयोगेन अकल्पविकल्पयोगेन कर्तव्यम्।



एभिर्भद्रमुखाश्चतुर्भिर्धर्मैः समन्वागतः [पुरुषपु]ग्दलो न पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते। यः कश्चिद् भद्रमुखाः सर्वविषयसंगसमुच्छ्रय[ल]क्षणाधिष्ठान[परिचर्यया सर्वज्ञतां प्रार्थयते] स द्वयसक्तो भवति। द्वय [सक्त]मनःसंकल्पो विसंवादयति सर्वज्ञताम्। तत्र कतमद् द्वयम्। यत् स्कन्धधात्वायतनानि लक्षणव्यवचारेणाधितिष्ठति [उद्गृण्हाति। द्वय]मेतद् विसंवादयति सर्वज्ञताम्। चर्याधिष्ठानफलकल्पना द्वयमेतत्। जाटिभवोपादानसत्त्वाधिष्ठानकल्पना द्वयमेतत्। देशनाप्रकाशनप्रज्ञापन-वाक्‍पथरुतव्या[हारा]धिष्ठानकल्पना द्वयमेतत्। उच्छेद-शाश्वतव्यवलोकन-ज्ञान-ज्ञेयाधिष्ठानकल्पना द्वयमेतत्। सत्त्वजीवपोषपुरुषपुद्‍गल-कारककारापकसंज्ञाधिष्ठानकल्पना द्वयमेतत्। यः पारापारोहापोहानधितिष्ठति कल्पयति द्वयमेतत्। यः कश्चिद् भद्रमुखाः सर्वज्ञज्ञानं पर्येषते पुरुषपुद्‍गलः स त्र्यध्वाहंकारममकारसमुदयनिरोधव्यवचारानधितिष्ठति संकल्पयति [उद्‍गृण्हाति] तस्य द्वयमेतत् सर्वज्ञज्ञाने। तद् यथा कश्चित् पुरुषः अग्नयर्थिको भूतलं परामृशेत् पानार्थिकोऽग्निं भोजनार्थिकः [पाषाणं] पुष्पार्थिकः चीवरं गन्धार्थिको मनुष्यकुणपं चीवरार्थिकः श्मशानं वस्त्रार्थिकोऽश्मानं विलेपनार्थिकः आकाशं परामृशेत् एवमेव भद्रमुखाः यश्चर्याधिष्ठानसंगव्यवचारसमुच्छ्रय-द्वयाधिष्ठानेन सर्वज्ञज्ञानं पर्येषते निष्फलस्तस्य व्यायामः।



अथ खलु तस्यामेव परिषदि धारणमतिर्नाम बोधिसत्त्वः सन्निपतितोऽभूत् सन्निषण्णः। स येन भगवांस्तेनाञ्जलिं प्रणमैयवमाह। यद् भगवन् अनभिलाप्यधर्मः शक्यमभिसम्बोद्धुम्। भगवानाह। एष एवाभिसंबोधो यदनभिलाप्यं जानीते। तेन हि कुलपुत्र त्वामेव प्रवक्ष्यामि। यदि ते क्षमं तथा व्याकुरु।



अस्ति द्वयलक्षणभावो यः सर्वज्ञता नाम लभते। आह। यद्यस्तीति वक्ष्यामि शाश्वतो भविष्यति। अथ नास्ति चेद वक्ष्याम्युच्छेदो भविष्यति। मध्यमा च प्रतिपन्नोपलभ्यते। नासावस्ति नापि नास्तीति। यदेष्वसंगानुत्‍पादाव्ययाप्रमाणासंख्योऽतमानालोकेषु ज्ञानम् एष एवाभिसंबोधः।



विद्युन्मतिर्बोधिसत्त्व आह। यत्र भगवन् नागतिर्न गतिरित्येव ज्ञानावतारकौशलम् एष एवाभिसंबोधः।



वैरोचनो बोधिसत्त्व आह। यत्र भगवन् न प्राप्तिलक्षणं नाभिसमयो न साक्षात्‍क्रिया न शमो न प्रशमो न त्रयध्वं न त्रियानं न प्रणिधिसामीचीमन्यना एष एवाभिसंबोधः।



धारणमतिर्बोधिसत्त्व आह। यो भगवन् न त्रधातुकं न त्रीणी संयोजनानि न त्रैविद्यतां न त्रियानतां न स्कन्धधात्वायतनानि न कल्पयति न विकल्पयति न हानिं न वृद्धिं न सामीचीं करोति एष एवाभिसंबोधः।



वज्रमतिर्बोधिसत्त्व आह। यः पृथग्जनधर्मः वार्यधर्मो वा शैक्षधर्मः वाशैक्षधर्मः वा श्रावकधर्मः वा प्रत्येकबुद्धधर्मः न कल्पयति न विकल्पयति न सामीचीं करोति एष एवाभिसंबोधः।



दृढमतिर्बोधिसत्त्व आह। [यो विवेकनयेन] तथतां व्यवचारयति एष एवाभिसंबोधः।



रत्नपाणिर्बोधिसत्त्व आह। योऽनुत्‍पादलक्षणं सर्वधर्माणां न प्राप्तये नाभिसमयाय न [कल्पयति एष एवाभिसंबोधः]।



अचिन्त्यमतिर्बोधिसत्त्व आह। यस्त्रैधातुकव्यवचारचित्तमेव चित्ते प्रवेशयति उभे चित्ते न व्यवचार्येणोपलभते एष एवाभिसंबोधः।



अरिविजयो बोधिसत्त्व आह। [यः] सर्वधर्मेषु न सज्यते नानुनीयते नोपेक्षते न प्रतिमन्यते न स्पृहयते न मुह्यते न गृण्हाति न मुच्यते एष एवाभिसंबोधः।



पद्मगर्भो बोधिसत्त्व आह। यः पुण्यपापयोः न सज्जते गम्भीरक्षान्तिनयावताराहङ्कारममकारान्न कल्पयति एष एवाभिसंबोधः।



चन्द्रप्रभः कुमारभूत आह। यो भगवान् प्रशमात् सर्वधर्मान्न प्रजानीते न च धर्माणां स्वभावमाचयं वोपचयं वा पश्यति एष एवाभिसंबोधः।



खगमतिः कुमारभूत आह। यस्य सर्व तम-आलोकोत्‍पादव्ययः [वृद्धिहानिः] चित्तचैतसिकेषु न प्रवर्तन्ते एष एवाभिसंबोधः।



अक्षयमतिर्बोधिसत्त्व आह। यस्त्रिपरिशुद्धः पारमितासु अभ्यासं करोति अनुपलम्भयोगेन न रज्यते न विरज्यते एष एवाभिसंबोधः।



मञ्जुश्रीः कुमारभूत आह। यो भगवन् [सर्व]धर्मेषु न रज्यते न विरज्यते गम्भिरधर्मनयं च प्रजानाति। यश्च प्रजानाति तन्नायूहति[न]निर्यूहति नाकर्षति न व्याकर्षति न च कस्यचिद्धर्मस्यापचयं वाविद्यां [वा]विमुक्तिं चोत्‍पादयति व्ययं वा हानीं वा वृद्धिं वा वस्तुषु न संकल्पनतो [न] विकल्पनतः एष एवाभिसंबोधः। अनेनैव नयेन सर्वाभिसंबोधः।



अथ कौतूहलिको बोधिसत्त्व आह। किं मञ्जुश्रीरायोगप्रयोगेन प्रयोजनम्। यदनेनैकनयतथताप्रवेशेनैव गम्भीरभावनानयेन सर्वज्ञज्ञानपरिज्ञानम्।



मञ्जुश्रीराह। विषमदृष्टिरहितः सम्यग्‍दृष्टि[र]समारोपः। अशाठ्य-ऋजुकतासमारोपः। पापरहितो गुरुगौरवासमारोपः। सुवचनास ० सम्यगाजीवास ० सर्वसंयोजनरहितास ० समाक्रोश-सर्वसत्त्वकृपास ० त्रिसंवरास ० अविसंवादनकुशलधर्मास ० अव्युपशान्तास ० सद्धर्मारक्षास ० सर्वसत्त्वापरित्यागास ० सर्ववस्तुपरित्यागास ० दुर्बलसत्त्व-बलप्रतिष्ठापनास ० भीतशरणाभयास ०। कुमार्गसंप्रस्थितानां प्रतिपत्तिनियोजनास ० क्षान्तिसौरत्यास ० सर्वग्राहसं[ग]लक्षणास ० सर्वरजस्तमस्कन्धवर्जनास ० सर्वपरिणामना-फलविपाकवर्जनासमारोपः ०। इमे कुलपुत्र विंशतिः प्रयोगाः सर्वज्ञज्ञानस्य। सर्वाक्षररुतघो[षवचनव्याहारवाक्य-] प्रभेद तथताज्ञानप्रवेशेन सर्वज्ञज्ञानस्य प्रयोगः। सर्वतथागतवचनानि अन्यतीर्थिकवचनतथताप्रवेशेन सर्वचर्यातथताप्रवेशेन सर्वपुण्यो[पेत]प्रज्ञापारमिताप्रयोगतथताप्रवेशेन सर्वोपादानोत्पादव्ययतथताप्रवेशेन सर्वत्रिविमोक्षाश्रयहेतुकर्मधर्म[तथता]प्रवेशेन व ज्ञात्वा सर्वज्ञज्ञानस्य प्रयोगावबोधो भवति।



कौतूहलिको बोधिसत्त्व आह। यावदेतत् मञ्जुश्रीर्यदा इमं गम्भीरं धर्मनयमवबुध्यते तदा न कश्चिद्धर्म समनुपश्यति यो धर्मो देश्येत यस्मै देश्येत यैर्वार्थपदव्यञ्जनैर्देश्येत प्रकाश्येत। यं वा पुनः प्रजह्याद् यं वा भावयेद् यं वा परिजानीयात् सर्वधर्मानभिलाप्ययोगेन तथतां प्रविशति सः सर्वज्ञज्ञानमवबुध्यते।



भगवानाह। साधु साधु कुलपुत्र सुभाषितस्तेऽयमेकनयेन सर्वज्ञज्ञानप्रतिलाभः। तत् कुतः सर्वधर्मा ह्यसमारोपः। अनुत्पादाविनाशकोटीकः अविद्यानिर्वाणानुत्‍पादभूतकोटीकः आकाशनिर्वाणा[नुत्पादभूत] कोटीकः अनभिलाप्यकोटीकः सर्वधर्माः। एवं सर्वसत्त्वाः। सर्वधर्मा न द्रव्यकोटीकः सर्वासंगवस्तुतः परिकीर्तितः। सर्वत्र्यध्वत्रैधातुकस्कन्धनिष्किञ्चनकोटीकः त्रिसंस्कारशून्यताकोटीकः धर्मस्कन्धविपाकस्कन्धादयः अपचयस्कन्धा न द्रव्यकोटीकः [परिकीर्तितः]। शून्यताभूतकोट्यनभिलाप्यार्थसर्वधर्मसमन्वागतो बोधिसत्त्वो महासत्त्वः सर्वज्ञज्ञानमवतरति।



तस्मिन् खलु पुनः सर्वज्ञज्ञानप्रतिलाभव्याकरणे भाष्यमाणे विंशतिभिर्मारकन्यामारपुत्रगणपार्षद्यसहस्रैरनुत्‍पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा। औदारिकं च कायं विजह्य मनोमयं कायं प्रतिलेभिरे। अपरेषामप्येषां विंशतीनामनुत्‍पत्तिकधर्मक्षान्तिप्रतिलाभोऽभूत्। द्विनवतीनां च देवमनुष्यबिम्बराणां विचित्रविचित्राणां च बोधिसत्त्वक्षान्तिध्यानधारणीनां प्रतिलाभोऽभूत्।



अथ तानि विंशतिसहस्राणि अनुत्‍पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्त्वानां महासत्त्वानां भगवन्तं दिव्यैः पुष्पैरभिकिरन्ति अभिप्रकिरन्ति स्म। भगवतश्च पादौ शिरोभिरभिवन्द्यैवमाहुः। पश्य भगवन् कल्याणमित्रसंसर्गवशेन सत्त्वानां सर्वपुण्योपायकुशलमूलानि मनसिकाराणि भवन्ति। भगवानाह। कर्मप्रत्यय एष द्रष्टव्यः कौतूहलप्राप्तानां च सत्त्वानां भगवान् संशयछित्त्यर्थमिमं पूर्वयोगमुदाजहार।



भूतपूर्वं कुलपुत्रा अतीतेऽध्वनि अपरिमाणेषु महाकल्पेषु अतिक्रान्तेसु अस्यामेव चातुर्द्वीपिकायां यदासीत् तेन कालेन तेन समयेन द्युतिन्धरे महाकल्पे वर्तमाने अष्टषष्टिवर्षसहस्रायुष्कायां प्रजायां तेन च कालेन तेन समयेन ज्योतिसोम्यगन्धावभासश्रीर्नाम तथागतोऽभूत् विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां बुद्धो भगवान्। क्लिष्टे पञ्चकषाये लोके वर्तमाने च चतुर्णां पर्षदां त्रियानप्रतिसंयुक्तां सन्देशयति स्म। तेन खलु पुनः समयेन राजाभूत् उत्‍पलवक्त्रो नाम चतुर्द्वीपेश्वरश्चक्रवर्ती। अथ राजा उत्‍पलवक्त्रोऽपरेण कालसमयेन सान्तःपुरपरिवारः सबलकायो येन ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तेनोपसंक्रामत्। उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं नानपुष्पैरभ्यवाकिरत् नानागन्धैर्नानाधूपैश्च पूजां कृत्वा भगवतो भिक्षुसंघस्य पादौ शिरसाभिवन्द्याभ्यां गाथाभ्याम् अभ्यष्टावीत्।



भुजंगामरादिभिरतीव गुणैः

समभिष्टुतः प्रचुरदोषहरः।

धनसप्तकेन च हितो जगतो

वद केन सूक्ष्ममतिमान् भवति॥१॥



जगतस्तमोघ्नः शमदीपकर

च्युतिजन्मजरोभ्दवनशोकदमः।

जगतस्त्वपायपथवारयता

वद केन मुच्यति ह मारपथा॥२॥



अथ खलु मारपुत्राः स ज्योतिसोम्यगन्धवभासश्रीस्तथागतो राजानमुत्‍पलवक्त्रमेतदवोचत्। त्रिभिः सत्पुरुषधर्मैः समन्वागतो बोधिसत्त्वः सूक्ष्ममतिर्भवति। कतमैस्त्रिभिः। अध्याशयेन सर्वसत्त्वेषु करुणायते। सर्वसत्त्वानां दुःखप्रशमाय उद्यतो भवति मातृवत्। सर्वधर्मादीन् निर्जीवनिष्पोषनिष्पुद्‍गलानानाकरण-समान् व्युपपरीक्षते। एभिस्त्रिभिर्धर्मैः समन्वागतः सत्पुरुषो बोधिसत्त्वः सूक्ष्ममतिर्भवति। अपरैस्त्रिभिः महाराज धर्मैः समन्वागतः सत्‍पुरुषो मारपाशेषु न सज्जते। कतमैस्त्रिभिः। यदुत सर्वसत्त्वेष्वक्रोधनो भवति अनवतारप्रेक्षी सर्वसत्त्वसमदक्षिणीयः समसंज्ञामयो भवति। सर्वधर्मानेकनयेन व्युपपरीक्षते यदुत आकाशसमान् निःसंस्काराननानात्वानजाताननुत्‍पन्नाननिरुद्धान्। सर्वानाकाशवद् द्रव्यलक्षणविगताननुपलम्भयोगेन प्रत्यवेक्षते। एभिर्महाराज त्रिभिर्धर्मैः समन्वागतः पुरुषो मारपाशेषु न सज्जते मारपथाच्च निर्मुच्यते।



अथ राज्ञः उत्‍पलवक्त्रस्याग्रमहिषी सुरसुन्दरी नाम सा चतुरशीतिभिः स्त्रीसहस्रैः परिवृता पुरस्कृता येन ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तेनोपजगाम। उपेत्य तं भगवन्तं ज्योतिसोम्यगन्धावभासश्रियं तथागतं नानापुष्पैरभ्यवकीर्य आभिर्गाथाभिरध्यभाषत।



असदृगुणधर वितिमिरकरण

च्युतिहर वद कथमिहा युवति।

भवतिह पुरुषो व्यपगतकुगति

श्रियु विनयमन द्रुतहितकर॥३॥



परमगतिगत सुगत प्रशमरतिकर

भगवन् त्यजति युवति तां कथमिह पुरुषः।

वद मम लघु सुविनय परहितकर

शमयातितिमिरा मम नयगगनात्॥४॥



असमसम जगति श्रमण परम

प्रथित गुणगण स्मृतिविनयधर।

मम यदि पुरिषेह भवति हि धरता

लघु वद वितिमिर सुगतपथामृतम्॥५॥



एवमुक्ते कुलपुत्र स ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तां सुरसुन्दरीमग्रमहिषीमेतदवोचत्। अस्ति भगिनि पर्यायो येन मातृग्रामो मातृग्रामभावं लघ्वेव परिवर्तयति पूर्वाक्षिप्तमातृग्रामभावो लघ्वशेषं क्षीयते न च भूयो मातृग्रामेषु उपपत्तिं प्रतिगृण्हाति यावदनुत्तरपरिनिर्वाणे हान्या [ह्यनत्र स्व]प्रणिधानात्। तत्र भगिनि कतरः पर्यायो येन पर्यायेण मातृग्रामो लघु पुरुषो भवति पूर्वाक्षिप्तं च मातृग्रामभावं लघ्वशेषं क्षेपयति। इह भगिनि इयं रत्नकेतुर्नाम धारणी महार्थिकी महानुशंसा महाप्रभावा सर्वमातृग्रामभावक्षयकरी कायवाङ्‍मनोदुःखविपाकदौष्ठुल्यं निरवशेषं क्षेपयति। अस्याश्च रत्नकेतुधारण्याः समाश्रयणेन मातृग्रामस्य मातृग्रामभावो निरवशेषो गच्छति। स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवति। पुरुषश्चापि रूप[वान् सर्वाङ्ग]परिपूर्णो भवति ऋजुः सूक्ष्मज्ञानकुशलो भवति कायवाङ्मनःसुकृतकर्मान्तः सुचरितचारी सर्वशतुर्निर्जेता भवति। यश्चास्य दृष्टधर्मसांपरायिकः काय[वाङ्म]नोदुःखप्रतिसंवेदनीयो दुष्कृतानां वाङ्मनःकर्मणां फलविपाकः स परिक्षयं गच्छति। स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकमार्यापवादकं च तेषां पुनस्तेनैव भावेन परिक्षयं गच्छति [अ]परिशेषः स्त्रीभावः। कायवाङ्मनोदौष्ठुल्यवैपाकिकः सुमेरुमात्रः पारजन्मिकः स्त्रीभावेनापि निवर्तको दुःखविपाकप्रतिसंवेदनीयः कर्मावरण-पापनिष्यन्दनिरवशेषः परिक्षयं गच्छति।



तत् कुतः। [तद्] यथा नाम इयं रत्नकेतुधारणी सर्वैरतीतैस्तथाग़तैरर्हद्भिः सम्यक्‍सम्बुद्धैर्भाषिताश्चाधिष्ठिता अन्योन्यमनुमोदिताः स्तुता अभिष्टुता वर्णिताः सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलबिवृद्धितायै। एभिः केचिदेतर्हि दशसु दिक्षु प्रत्युत्‍पन्नास्तथागता अर्हन्तः सम्यक्‍संबुद्धास्तिष्ठन्ति यापयन्ति स्वकस्वकेषु बुद्धक्षेत्रेषु। सर्वे ते बुद्ध भगवन्त इमां रत्नकेतुधारणीं भाषन्ते यावत् प्रशंसन्ति सत्त्वानां कर्मपरिक्षयाय कुशलमूलविवृद्धये। येऽपि ते भविष्यन्ति अनागतेऽध्वनि दशसु दिक्षु अन्योन्येषु तथागता अर्हन्तः सम्यक्‍संबुद्धास्तेऽपीमां रत्नकेतुं धारणीं भाषिष्यन्ति यावत् प्रशंसिष्यन्ति सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलविवृद्धये। तेऽहमप्येतर्हि रत्नकेतुं धारणीं भाषिष्यामि। अनुमोदिष्यन्ति च दशसु दिक्षु प्रत्युत्‍पन्नानं तथागतानां भाषमाणानामहमिमां रत्नकेतुधारणीं वर्णयिष्यामि प्रशंसिष्यामि। यः कश्चिद् भगिनि राजा क्षत्रियो मूर्धाभिषिक्तो जनपदस्थामप्राप्तः इमां रत्नकेतुं धारणीं पुस्तके लिखित्वा धारयिष्यन्ति तस्य राज्ञः क्षत्रियस्य दशसु दिक्षू उदारः कीर्तिशब्दश्लोकोऽभ्युद्‍गमिष्यति। यावत् परं रूपधातुमुदारैः किर्तिशब्दैरापूरयिष्यति। अनेकानि च देवनागयक्षगन्धर्वकोटीनयुतशतसहस्राणि तस्य क्षत्रियस्य पृष्ठतः समनुबद्धा रक्षानुगुप्तये स्थास्यन्ति। सर्वे च तस्य विषये कलिकलहदुर्भिक्षरोगपरचक्रवातवृष्टिशीतोष्णदोषाः प्रशमं यास्यन्ति। सर्वे च दुष्टयक्षराक्षससिंहमहिषगजवृका अनपबाधिनो भविष्यन्ति। सर्वे विषतिक्तकटुकरूक्षविरसपरुष दुःखसंस्पर्शवेदनीया दोषाः प्रशमं यास्यन्ति। सर्वाणि चास्य धनधान्यौषधिवनस्पतयः फलपुष्पाणि प्ररोहिष्यन्ति विवर्धिष्यन्ति स्त्रिग्धानि सुरसानि च भविष्यन्ति। स चेद् राजा क्षत्रियो मूर्धाभिषिक्तः संग्रामे प्रत्युपस्थिते इमं रत्नकेतुं धारणीपुस्तकं ध्वजाग्रावरोपितं कुर्यात् स राजा क्षत्रियो मूर्धाभिषिक्तः परचक्रं पराजेष्यति। स चेदुभयो राज्ञोः क्षत्रिययोर्मूर्धाभिषिक्तयोः संग्रामाभिरूढयोर्ययो रत्नकेतुधारणीपुस्तकं ध्वजाग्रावरोपितं भविष्यति तौ परस्परं प्रीतिसामग्रीं करिष्य[तः]। इत्येवं बहुगुणान्वया रत्नकेतुधारणी यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा मनुष्याणां वामनुष्याणां वा चतुष्पदानां व्याधितानामकालमरणं विहेठं वा स्यात् तत्रायं रत्नकेतुधारणीपुस्तको महापूजोपकरणैः प्रवेशयितव्यः। प्रवेश्य सुस्नातेन सुविलिप्तगात्रेण नवचीवरप्रावृतेन ब्रह्मचारिणा नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते सिंहासनेऽभिरुह्य तत्रायं रत्नकेतुधारणीपुस्तको वाचयितव्यः। सर्वे तत्र व्याधयोऽकालमरणानि च प्रशमं यास्यति। सर्वाणि च तत्र भयरोमहर्षदुर्निमित्तानि अन्तर्धास्यन्ति। यः कश्चिन्मातृग्रामः पुत्रार्थी भवेत् तेन स्नात्वा नवचीवरं प्रावृत्य ब्रह्मचारिणा पुष्पगन्धमाल्यविलेपनैरिमं पुस्तकमर्चयित्वा स्वयं नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते आसनेऽभिरुह्येयं रत्नकेतुधारणी वाचयितव्या। पुत्रप्रतिलाभी भविष्यति। एषः [अस्य भवति अन्तिमो] मातृग्रामभावो यावदनुत्तरपरिनिर्वाणादन्यत्र स्वप्रणिधानात् सत्त्वपरिपाचनहेतो।



[तस्मिन् काले तथागतो ज्योतिप्रभश्रीरिमां रत्नकेतुधारणीम् उदाहरत्। जलोके जलोके। मोके जलि। जल जलिमि। जलव्रते जहिले। वर-पुरुष-लक्षणसमारुह्य। अममे वममे वममे। नवमे महासे। जहमे जहमे जहमे जहमे। वरमे वरमे। वववे। वववे। वहवे। वंगवे। वजवे। वार वारशे। जमलेख। परख। अल जहिलि। जन तुले। जन तुभुखे। वहर वहर। सिंह व्रते। नन तिला। नन तिन दाला। सूर्यविहग। चन्द्रविहग। चक्षु रज्यति शविहग। सर्वक्षयस्त्रित्वसुरविहग। जखग जखग। सुरखघ वहम। अम्रिख। अम्रिख। अम्रिख। अम्रिख। अम्रिख। अम्रिख। अम्रिख अम्रिख। म्रिख म्रिख म्रिख। व्यवदेत कर्म। दुने दुने। उपत व्यवच्छेद् ज्ञानकृत। अनुद पदाखग। नेरुक। अङ्गुले भङ्गुले विभङ्गुले। कुलह। इन्द्रपरिविभह। व्यवच्छेद करभ। वव्रति। वव्रति। च प्रति। च प्रति। अमोह दरशने। परिवर्त भष्यु। खसम। क्रिमज्योतिखग। जहि जहि ज्योति। निष्क भिरस। भिरस। भिरस। भिरज। मतिक्रम। भिवक्रिव। महाक्रिव। हिले हिहिले। अरुणवते। समनिष्के। दमदानध्यान अपरामृशे। फलकुण्डललेख। निवर्त इस्त्रिभाव। कर्मक्षय [प्रादुर्भव पुरुषत्वम्। असमसम। समयविभिदधि]ज्ञ तथागत स्वाहा।



समनन्तरभाषितायां शाक्यमुनिना तथागतेनास्यां रत्नकेतुधारण्यां पुनरपि महापृथिवी कम्पि[ता। पञ्चशतमारकन्यानां सहश्रवने]न अस्या रत्नकेतुधरण्याः स्त्रीव्यञ्जनमन्तर्धाय पुरुषव्यञ्जनं प्रादुरभवत्। अप्रमेयासंख्येयानां देवनागयक्षग[न्धर्वासुरगरुडकिन्नरमहोरगराक्षस]कुम्भाण्ड-कन्यानां सहस्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्यञ्जनान्यन्तर्धाय पुरुषव्यञ्जनानि प्रादुर्भूतानि। [तासां सर्वासामनुत्तरायां सम्यक्‍सम्बोधौ अनिवर्तनचित्तमभूत्]। सर्वासां चानागत-स्त्रीभाव-प्रतिलाभसंवर्तनीयं कर्मावरमशेसमनिरुद्वं च। ताः स्त्रियः प्राञ्जलय[स्तथागतं शाक्यमुनिं महास्वरेण प्रार्थयन्त्य] आहुः। नमो नम आश्चर्यकारकाय शाक्यमुनये तथागतायार्हते सम्यक्‍संबुद्धाय। ब्रूहि महाकृपया [विस्तरेण कथमस्माकं] स्त्रीभावमन्तर्हितं सर्वाकारपरिपूर्णं पुरुषभावं सम्भूतम्। तेनाश्चर्यप्रातिहार्यसंवेगेन [वयमनुत्तरायं सम्यक्‍संबोधौ चित्तं जनयेम। भगवन् ब्रूहि] इमं पूर्वयोगप्रमेयासंख्येयदेवमनुष्याणामभिभवाय।



अथ खलु भगवान् शाक्यमुनिस्तथागतः [पूर्वयोगमवोचत्। भद्रमुखामुष्मिन् काले यस्मिन् समये] ज्योतिसौम्यगन्धावभासश्रियस्तथगतस्यान्तिकाद् राज्ञ उत्‍पलवक्त्रस्याग्रमहिष्या सुरसुन्दर्या देव्या सार्धं च[तुरशीतिस्त्रीसाहस्रेण सा रत्नकेतुधारणी श्रुता श्रवणमात्रेणैव] तस्याः सुरसुन्दर्याः अग्रमहिष्यास्तेषां चतुरशीतिनां स्त्रीसहस्राणां स्त्रीव्यञ्जनान्यन्तर्धाय पुरुषव्यञ्जनानि [प्रादुर्भूतानि। तथैवासंख्येयाप्रमेयाणां] देवकन्यानां यावन्मनुष्यामनुष्यकन्यानां [श्रवणमात्रेणैव] अस्या रत्नकेतुधारण्याः स्त्रीन्द्रियमन्तर्हितं पु[रुषेन्द्रियं प्रादुर्भूतम्। सर्वासां तासां स्त्री] सहस्राणामनागत-स्त्रीभाव-प्रतिलाभ-संवर्तनीयं कर्मावरणमशेषं संनिरुद्धम्। यदा च राज्ञः उत्‍पलवक्त्रस्याग्रमहिष्याः [सुरसुन्दर्याः सपारिषद्यायः पुरुषत्वं संजातं] तदा स राजा उत्‍पलवक्त्रश्चातुर्द्वीपेश्वरश्चक्रवर्ती ज्येष्ठकुमारं राज्याभिषेकेणाभिषिच्य सार्धमेकोनेन पुत्रसहस्रेण [सार्धं सुरसुन्दरेण] सार्धं चतुरशीतिभिः सुरसुन्दरमहापुरुषसहस्रैः सार्धमपरिर्द्विनवतिभिः प्राणसहस्रैरभिनिष्क्रम्य तस्य ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिके केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेवागारादनागारिकां प्रव्रजितः। प्रव्रजित्वा स्वाध्यायभिरतो योनिशं मनसिकाराभियुक्तोऽभूत्।



अथ तत्र बहूनां प्राणकोटीनामेतदभवत्। कस्माद् राजा चक्रवर्ती प्रव्रजितः। ते परस्परमेवमाहुः। मारकर्माभियुक्त एष तथागतः शठो मायावी मारकर्मसमायुक्तम इमं धर्मं देशयति। केषांचित् स्त्रीव्यञ्जनमुपनामयति। केषांचित् पुरुषव्यञ्जनम्। केषाञ्चित् केशश्मश्रूण्यवतारयति। केषाञ्चिद् रक्तानि वासांसि प्रयच्छति केषाञ्चित् पाण्डुराणि। केषांचिद् देवोपपत्तये धर्मं देशयति। केषाञ्चिन्मनुष्योपपत्तये केषाञ्चित्तिर्यग्‍योन्युपपत्तये केषाञ्चिद् च्युत्युपपत्तये धर्मं देशयति। मारकर्मपथाभियुक्तः स्त्रीकरणमायया समन्वागतः स श्रमणो ज्योतिसोम्यगन्धावभासश्रीः श्रमणरूपेण विसंवादकः यन्नूनं वयमितः प्रक्रमेन न चास्य रूपलिङ्गग्रहणं पश्येम न चास्य किञ्चिद् वचनं शृणुयाम।



अथ तत्रैव कुमारभृतो नाम भटः। स एवमाह। या मम भार्या अन्तःपुरिका दुहितरश्चाभूवन् सर्वासामनेन श्रमणकोरण्डकेन स्त्रीव्यञ्जनान्यपनीय पुरुषेन्द्रियाण्यभिनिर्मितानि। सर्वासां शिरांसि निर्मुण्डानि कृत्वा रक्तानि वासांसि अनुप्रदत्तानि। अहं चैकाकी शोकार्तो भूतः। एते सर्वे वयं समग्रा भूत्वा विषमं महागहनपर्वतं प्रविशामः। यत्र वयमस्य मारपाशाभियुक्तस्य श्रमणकोरण्डकस्य श्रमणमायाविनः स्वरघोषमपि न शृणुयाम प्रागेव पश्याम इति। ते सर्वे तुष्टा एवमाहुः। एवमस्त्विति।



अथ कुमारभृतो भटस्तैर्विचिकित्‍साप्राप्तैर्बहुभिः प्राणकोटीभिः सार्धं प्राक्रामत् प्रत्यन्तिमे जनपदे विषमपर्वतगहने स्व-ऋषिवेषेण चर्यां चचार। तेभ्यश्च सत्त्वेभ्यः एवं धर्मं देशयामास। नास्ति संसारान्मीक्षो नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाकः। उच्छेदवादी [अयं] श्रमणः उत्‍पन्नो मारकर्माभियुक्तो विसंवादकः। ये च तं दर्शनायोपसंक्रमन्ति ये च तमभिवादयन्ति ये चास्य धर्मं शृण्वन्ति ते विक्षिप्तचित्ता भवन्ति। शिरांसि चैषां मुण्डयति। गृहान्निर्वासयति। रक्तानि वासांसि प्रयच्छति। श्मशानचर्यां चारयति। भैक्ष्यचर्यासु निवेशयति। एकाहारिणः करोति। विषमदृष्टिमनसोऽनित्योद्विग्नान् विवेकवासाभिरतान्‍लयनप्रक्षिप्तान् कामरतिनृत्यगीतगन्धमाल्यविलेपनाभरणविभूषण-मैथुनधर्म-सुरामद्यपान-रहितानल्प-भाषिणः करोति। एवंरूपः स श्रमणवेषेणोच्छेदवादी मारपथाभियुक्तः सत्त्वानां शत्रुभूत उत्‍पन्नः अदृष्टश्रुतपूर्वमेतस्य श्रमणगौतमस्य क्रियोपलक्षित इति। तेन बहूनि प्राणकोटीनयुतशतसहस्राण्येवंरूपामिमां पापिकां दृष्टिं ग्राहितान्यभूवन्।



यो वापरेण समयेन उत्‍पलवक्त्रो महाश्रमणोऽश्रौषीत् कस्मिंश्चित् पर्वतगहने केचित् स्वयं कुमार्गसंप्रस्थिताः परानप्येतां विषमां दृष्टिं ग्राहयन्तः त्रयाणां रत्नानामवर्णं चारयन्तीति श्रुत्वा चास्यैतदभवत्। यावदहं तावत् सत्त्वांस्ततः पापकात् दृष्टिगतान्न परिमोक्षयेयं न च सम्यग्‍दृष्टौ प्रतिष्ठापयेयं निरर्थकं मे श्रामण्यं भवेत्। कथं चाहम् अनागताध्वनि अन्धभूते लोके अनुत्तरां सम्यक्‍संबोधिमभिसंबुध्येयम्। कथं च व्यसनगतांश्चतुर्मारपाशबन्धनबद्धान् सत्त्वान् शक्ष्यामि परिमोचयितुमिति।



अथोत्‍पलवक्त्रो महाश्रमणो महादृढपराक्रमः कारुणिकस्तं ज्योतिसोम्यगन्धवभासश्रियं तथागतमवलोक्यानेकप्राणि-शत-सहस्रपरिवृतः पुरस्कृतस्तेषु तेषु प्रत्यन्तिमेषु ग्रामनगरनिगमपर्वतविषमकर्वटस्थानेषु चर्यां चरन् तत्र वा अत्र तेभ्यः सत्त्वेभ्यो धर्मं देशयामास। तान् सत्त्वान् पापकान् दृष्टिगतान् निवारयित्वा सम्यग्‍दृष्टौ नियोज्यानुत्तरायं सम्यक्‍संबोधौ प्रतिष्ठापयामास। कांश्चिदपरान् प्रत्येकबुद्धयानप्रणिधाने कांश्चित् श्रावकयाने कांश्चित् फले प्रतिष्ठापयामास। कांश्चित् प्रव्रजयामास। कांश्चिदुपासकसंवरे कांश्चिदुपवासे कांश्चित् त्रिशरणगमने प्रतिष्ठापयामास। स्त्रीभ्यश्च इमां रत्नकेतुधारणीं देशयामास। स्त्रीभावान्निवर्तयित्वा प्रतिष्ठापयामास पुरुषत्वे। याश्च तावत् ह्यश्रामण्यस्तथागतस्यान्तिके विचिकित्‍साप्राप्ता अभूवंस्ताः सर्वस्ततः पापकदृष्टिगतात् निवार्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्‍संबोधौ प्रतिष्ठापयामास। तस्यैव च ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिकमुपनीय प्रव्रजयामास स्थाप्य कुमारभृतं भटम्। तेन चैवं प्रणिधानं कृतमभूत्। यथा ममानेनोत्‍पलवक्त्रेण श्रमणेन पर्षदं विलोप्य नीता तथाऽहमप्यस्यानुत्तरां सम्यक्‍संबोधिमभिप्रस्थितस्य तत्र बुद्धक्षेत्रे मारत्वं कारयेय यदुत गर्भस्थानात् प्रभृति एनं विहेठयेयम्। ततः पश्चाज्जातमात्रं कुमारक्रीडापरं शिल्पकर्मपठनस्थं रतिक्रीडान्तःपुरगतं यावद् बोधिमण्डसंनिषण्णं संत्रासयेयम्। विघ्नानि च कुर्याम्। बोधिप्राप्तस्य च शासनविप्रलोपं कुर्याम्।



अथ स उत्‍पलवक्त्रो महाश्रमणस्तं कुमारभृतं भटमेवं प्रणिधिकृतावसायं महता कृच्छोद्योगपराक्रमैः प्रसादयित्वा ततः पापकदृष्टिगतात् प्रतिनिवर्त्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्‍संबोधौ चित्तमुत्पादयति स्म।



अथ कुमारभृतभटो विनीतप्रसादः इदं प्रणिधानं चकार। यदा त्वं महाकारुणिक अनुत्तरां सम्यक्‍संबोधिम् अभिसंबुद्धो भवेस्तदा बोधिप्राप्तो मां व्याकुर्या अनुत्तरायां सम्यक्‍संबोधौ।



स्यात् खलु पुनर्भद्रमुखा युष्माकं कांक्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेनासीदुत्‍पलवक्त्रो नाम येन तस्य ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्य सपरिवारस्यानेकविधं पूजोपस्थानं कृतमनेकैश्च प्राणकोटीनयुतशतसहस्रैः सार्धं निष्क्रम्य प्रव्रजितः अप्रमाणानि च प्राणकोटीनयुतशसहस्राणि ततः [पापकदृष्टि]गतान्निवारयित्वा त्रिषु यानेषु निवेशितानि। अप्रमेयः सत्त्वः फलषु प्रतिष्ठापितः। अप्रमाणश्च स्त्रीकोटीनयुतशतसहस्राणां पुरुषप्रतिलाभः कृत इति। न खलु युष्माभिरेवं द्रष्टव्यम्। अहं स तेन कालेन तेन समयेन राजाभूत् चातुर्द्वीपेश्वरश्चक्रवर्ती उत्‍पलवक्त्रो नाम। मया स एवंरूपः मनसिकारः कृतः। यत् खलु पुनर्युष्माकं भद्रमुखाः काङ्क्षा [वा] विमतिर्वा अन्या सा तेन कालेन तेन समयेनाभूत् सुरसुन्दरी नामाग्रमहिषी यया श्रामण्यमवाप्तम्। मैत्रेयः स बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेनाभूत्। स्यात् खलु भद्रमुखाः युष्माकं काङ्‍क्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेन कुमारभृतो नाम भटोऽभूत् सार्धं प्राणकोटीभिः। न खलु पुनर्युष्माभिरेवं द्रष्टव्यम्। अयं स मारः पापीमांस्तेन कालेन तेन समयेन कुमारभृतो नाम भटोऽभूत्। यन्मया तत्‍कालं [तस्य पार्षदः] प्रव्राजितः तेन मयि प्रदोषमुत्‍पाद्यैवं प्रणिधानं कृतम्। यदा त्वमनुत्तरां सम्यक्‍संबोधिमभिसंबुद्धः स्यास्तदा त्वं मां व्याकुर्या अनुत्तरायां सम्यक्‍संबोधौ। तस्यैव यू[यं कुल]पुत्रा ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिके[ऽ]प्रसादं कृत्वासंवृतवाग्‍भाषितं पापकं दृष्टिगतं परिगृह्य मयैव यूयं ततः पापदृष्टिगतात् परिमोच्य प्रव्राजिताः। ततः अनु[पू]र्वेण युष्माभिर्बहूनि बुद्धसहस्राणि पर्युपासितानि। तेषां च पूजोपस्थानं कृतम्। तेभ्यश्च धर्मं श्रुत्वा प्रणिधानं कृतम्। षट्‍सु पारमितासु [चर्या कृता] इति। तेन यूयं कायवाङ्‍मनोदुश्चरिकर्मणा पूर्वं त्रिष्वपायेषु अनेककल्पदुःखान्यनुभूतवन्तः। तेनैव कर्मावरणेन एतर्हि मारस्य पापीमतो भवने उपपन्न इति। अस्मिन् खलु पुना रत्नकेतुधारणी-पूर्वयोगे भाष्यमाणे भगवता शाक्यमुनिना तथागतेन तेषां पञ्चानां मारकन्याशतानां स्त्रीभावमन्तर्धाय पुरुषभावः संवृत्तोऽनुपत्तिकधर्मक्षान्तिप्रतिलम्भश्चाभूत्। अप्रमाणानाम् असंख्येयानां सत्त्वकोटीनयुतशतसहस्राणां सदेवमानुषायाः प्रजायाश्च अनुत्तरायां सम्यक्‍संबोधौ चित्तान्युत्‍पन्नानि। [ते] अवैवर्त्याश्चाभूवन् अनुत्तरायां सम्यक्‍संबोधौ। एवमप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि श्रावकप्रत्येकबुद्धयाने[ऽ] वैवर्त्यानि अभूवन्। अप्रमेयासंख्येयानां देवमानुषकन्यानां मातृग्रामभावोऽभिनिवृत्तः पुरुषभावाश्रयप्रतिलभश्चाभूत्।



महायानसूत्राद्रत्नकेतु-पूर्वयोगपरिवर्तो

नाम द्वितीयः॥२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project