Digital Sanskrit Buddhist Canon

प्रथमः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamaḥ parivartaḥ

महासन्निपातरत्नकेतुधारणीसूत्रं
प्रथमः परिवर्तः

नमस्तथागताय गन्धप्रभश्रिये। नमो महाब्रह्मघोषाय।

एतेषां नमस्कर्तासंप्राप्तः मारव्यूहेन।

एषा धारणी उद्‍ग्रहणीया। मया अस्यां विद्यायां सिद्धिः प्राप्ता। अवामे अवामे अवामे। ॐ वरे ॐ वरे। परिकुञ्ज नट नट पुस्कर वहज लुख। खम खम। इलि मिलि। किलि मिलि। कीर्तिवर। मुद्रे मुद्रे मुखे स्वाहा।

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे महानगरे विहरति व्याकलन्तकनिवापे सार्धं महता भिक्षुसंघेन सार्धं भिक्षुसहस्रैः सर्वैरर्हद्भिः क्षीणास्रवैर्निष्क्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैः महानागैः कृतकृत्यैः कृतकरणीयैः अपहृतभारैः अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरेकान्ते निषण्णैः सार्धं बोधिसत्त्वनियुतैः महता बोधिसत्त्वसंघेन तद्यथा मेरुशिखरधरकुमारभूतेन वरूणमतिकुमारभूतेन सुमतिकुमारभूतेन जिनमतिकुमारभूतेन रश्मिमतिकुमारभूतेन आकाशमतिकुमारभूतेन विद्युन्मतिकुमारभूतेन मञ्जुश्रिया कुमारभूतेन शाक्यकुमारभूतेन वरूणकुमारभूतेन विमलकुमारभूतेन मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन। ते सर्वे बोधिसत्त्वनियुताः क्षान्तिधारण-समाधि-प्रतिलब्धाः सर्वधर्मानावरणज्ञाः सर्वसत्त्वसमचित्ताः सर्वमारविषयसमतिक्रान्ताः सर्वतथागतविषयावतारज्ञानकुशला महामैत्री महाकरुणासमन्वागता उपायज्ञानकुशलाः।

तस्मिन् समये राजगृहे महानगरे द्वौ प्राज्ञौ परिव्राजकौ प्रतिवसतः मेधाविनौ अष्टादशविद्यास्थानपारंगतौ पञ्चशतपरिवारौ। तत्र एक उपतिष्य अपरश्च कोलितः। एतौ द्वौ गणमुखयौ परिव्राजकौ परस्परं संस्थापनं कृतवन्तौ। यदावयोश्चैकः प्रथमममृतमधिगच्छेत् तदपरस्यारोचयितव्यम्।

अथ खलु आयुष्मानश्वजित् पूर्वाण्हकालसमे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविशत्। अद्राक्षीदुपतिष्यः परिव्राजको गोचराय प्रस्थितमायुष्मन्तमश्वजितं राजगृहे महानगरे पिण्डाय चरन्तरम्। दृष्ट्वास्यैतदभवत्। न मे कस्यचित् पूर्वं श्रमणस्य वा ब्राह्मणस्य वान्येषां वा केषांचिन् मनुष्यभूतानामयमेवंरूपः प्रासादिकः ईर्याप[थः]यथास्य भिक्षोर्यत्त्वहमेतमुपसंक्रम्य परिपृच्छेयम्। कस्ते आयुष्मन् शास्ता कं बोद्दिश्य प्रव्रजितः कस्य वा धर्मो रोचते।

अथोपतिष्यः येनायुष्मानश्वजित् तेनोपसंक्रामदुपसंक्रम्याभ्युपेत्यायुष्मताश्वजिता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथामुपसंसृत्य [कान्ते न्यषीदत्। एकान्ते निषण्ण उपतिष्यः] परिव्राजक आयुष्मन्तश्वजितमेतदवोचत्। कस्ते आयुष्मन् शास्ता कं बोद्दिश्य प्रव्रजितः कस्य वा धर्मो रोचते। अथायुष्मानश्वजि[दुपतिष्यं परिव्राज] कमेतदवोचत्।

शाक्य[स्या]स्ति सुतो महाव्रततपाः सर्वोत्तमोऽस्मिन् वशी
संसारार्णवपारगोऽपि जगतो मुक्तस्तथा मोचकः।
बुद्धो नाम [विबुद्धोऽनुत्तर इह दुः]खार्णवोच्छोषकः
तं यातः शरणं सदाहममलो धर्मस्ततो रोचते॥१॥

उपतिष्य आह। किंवादी तव शास्ता किमाख्यायी। आयुष्मानश्व[जिदाह। तस्मात् आयुष्मन् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये।

कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा
कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः।
यस्मिन् जन्म-जरा-विपत्तिनियतं दुःखं न सन्तिष्ठते
तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते॥२॥

अथोपतिष्यस्य परिव्राजकस्येमं धर्मपर्यायं श्रुत्वा विरजोविगतमलं विगतोपक्लेशं धर्मेषु धर्मचक्षुर्विशुद्धम्। स स्रोतआपत्तिफलं प्राप्तस्तस्यां वेलायामिमा गाथा अभाषत।

..... ..... ..... जन्मसरितां संशोषणी सर्वदा
यद् बुद्धेन् सुदुर्लभं श्रुत मया धर्मामृतं देशितम्।
यद्‍दुःखव्युपशान्तये च जगतः प्रज्ञाविभावातुलो
..... ..... ..... मार्गो ह्ययं निष्ठितः॥३॥

अथोपतिष्यः परिव्राजकः आयुष्मन्तमश्वजितमेतदवोचत्। कुत्रायुष्मा[न विह]रत्यर्हन् सम्यक् संबुद्धः। आयुष्मानश्वजिदाह। इहैवायुष्मन् भगवान् राजगृहे विहरति स्म वेणुवने कलन्दकनि [वापे महाभिक्षुसंघे]न सार्धं यदुत जटिलसहस्रेण प्रव्रजितेन। उपतिष्य आह। एषोऽहं सखायं सशिष्यवर्गमवलोक्य प्रव्रजिष्यामि।

अथोपतिष्यः परिव्राजकः आयुष्मतोऽश्वजितः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणं कृत्वा प्राक्रामत्। य[त्र कोलितः] तेनोपजगाम। अद्राक्षीत् कोलितः परिव्राजकः उपतिष्यं परिव्राजकं दूरत एवागच्छन्तम्। दृष्ट्वा च पुनः उपतिष्यं परि[व्राजकमाह]। विप्रसन्नानि ते आयुष्मन्निन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातश्छविवर्णः। आह। अमृतं ते आयुष्मन्नधिगतम्। उपतिष्य [आह। आयुष्म]न्नधिगतममृतमिति। आयुष्मन् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्येऽहं ते यन्मयाधिगतम्।

अथ कोलितः परि[व्राजक ए]कांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनोपतिष्यः परिव्राजकस्तेनाञ्जलिं प्रणम्यै [तदवोचत्]।

येनात्तरेयं त्रिभवात् जलौघोत् स्कन्धान्महारींश्च [विनाशयेयम्। वद मार्गमेकं शिव शोकहीनं यमत्र जानेयं ह्यपुनर्भवाय]॥४॥

अथोपति[ष्यः आ]ह।
कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा
कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः।
यस्मिन् जन्म[जराविपत्तिनियतं दुःखं न सन्तिष्ठते
तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते॥५॥

कोलितोऽप्याह।
दुःखस्य प्रशमाय शान्त ..............
[सर्वक्लेशकषाय]दृष्टिदोषशमनं चाज्ञानसंच्छेदकम्।
तुच्छं संस्कृतमात्रं रिक्तकमतः शून्यं विसंवादकं
भूयो ब्रूहि पदं हि येन विमलं श्रुत्वा [शमं लप्स्यते]॥६॥

उपतिष्य आह।
कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा
कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः।
यस्मिन् जन्मजराविपत्तिनियतं दुःखं न सन्तिष्ठते।
तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते॥७॥

अथ तत्रैव कोलितेन परिव्राजकेन विरजोविगतमलं विगतोपक्लेशं धर्मेषु धर्मचक्षुर्विशुद्धं स श्रोतआपत्तिफलं संप्राप्तः। एवमाह।

ओघोत्तारण एष भूतचरणः शान्तः प्लवो वेगवान्
नैतज्ज्ञानवरं त्रिदुःखशमनं संसारपारगमम्।
स्कन्धक्लेशविघात-मारदमनो ह्येषा परिज्ञा सती
मोक्षो ह्येष विधौतवैरकलहो दुःखार्णवोच्छोषकः॥८॥

कोलित आह। कुत्र स भगवानेतर्हि बुद्धो विहरति। उपतिष्य आह। श्रुतं मे आयुष्मन्निहैव च स भगवान् राजगृहे विहरति वेणुवने कलन्दकनि[वापे] भिक्षुसंघेन सार्धं बोधिसत्त्वसंघेन सार्धम्। एवं श्रुत्वा उपसंक्रम्य एकान्ते न्यषीदत्। आवां भगवतोऽन्तिके प्रव्रज्यां ग्रहीष्यावः।

कोलित आह। एवम् आयुष्मन् प्रव्रज्यैवास्तु सहावयोः परिवारेण। उपतिष्य-कोलितौ परिव्राजकौ परिवारसंघेन सार्धं येन भगवान् तेनोपजग्मतुः।

अथ तेन क्षणलवमुहूर्तेन मारः पापीयानश्रौषित्। यावङ्गमगधेषु जनपदेषु विख्यातयशस्कीर्त्तिसमन्वागतौ सत्‍पुरुषा वुपतिष्यकोलितौ सपरिवाराविच्छतः श्रमणस्य गौतमस्य शासने प्रव्रज्यां [ग्रहीतुम्]। एवं श्रुत्वा सोऽचिन्तयत्। स चेत्तौ श्रमणस्य गौतमस्य शिष्यौ भविष्यतः शून्यं मे मारविषयं करिष्यतः। साङ्कथ्यतः सत्‍पुरुषौ प्रव्रज्याया विच्छेदयेयम्। अथ पापी[यान् अचिन्तयत्। वेषान्तरं परिगृह्य उपसंक्रमेयम्]।

अथ तेन क्षणेन मारः पापीयान् शीघ्रमेव स्वभवनादन्तर्धायायुष्मतोऽश्वजितो वेषलिङ्गेन च पथेन तयोः सत्‍पुरुषयोः [पुरतः उपसंक्रान्तः। उपसंक्रम्य एतदवोचत्।

उक्तं] सर्वमिदं मया हि वितथं हेतूपमं कारणं
युवयोरेव मनः प्रचारनियमं विज्ञातुमेवं मया।
सर्वं चैतदपार्थकं हि कथितं नास्त्यत्र हेतुः पुनः
कृष्णस्यास्य शुभस्य [कर्मण इह प्रा]प्तिः फलं वा कुतः॥९॥

क्षिप्रं कामगुणेष्वतीव चरतं क्रिडां युवां विन्दतं
मृत्युर्नास्ति न जन्म नार्तिजरसे लोकः परो नास्ति वः।
पुण्यापुण्यफलं च कर्मजनितं नास्त्यत्र हेतुः क्रिया
लाभाय वदतीह शाक्यतनयो मा श्रद्धया गच्छतम्॥१०॥

अथोपतिष्य-कोलितयोरेतदभूत्। मारो वतायं पापीयानुप[संक्रान्त आवयोः प्रव्रज्याभिच्छेदनार्थम्। अथोपतिष्यः पराङ्‍मुखः [स्वप]रिषदमाहूयैवमाह। शृणुत यूयं माणवकाः। स्मरत संसारदोषान्।

जरया पीडितो लोको मृत्युना परिवारितः।
उभयोस्तत्‍प्रहाणाय प्रव्रज्यां साधु गृण्हत॥११॥

[अथ] कोलितो मारं प्रोवाच।
ते ज्ञातः प्रवरः सतां मतिधरो धर्मस्त्रिदुःखान्तकृत्
कश्चिन्नास्ति यदावयोर्मतिमिमां व्यु[च्चा]लयेत् सर्वथा।
तृष्णायाः प्रशमाय धीरमनसा वाचां [सदा] व्युत्थितौ
मा सिंहाकृतिना शृगालवचनैरावां मतेर्भ्रामय॥१२॥

याश्च देवता दृष्टसत्यास्ता गगनस्थितास्ताभ्यां सत्‍पुरुषाभ्यं साधुकारं प्रददुः। साधु साधु सत्‍पुरुषाः सर्वलोकविश्रु[त] एष मार्गो यदुत प्रव्रज्यानिष्क्रमः। सर्वदुःखोपशान्त एष मार्गः। सर्वतथागतगोचरावतार एष मार्गः सर्वबुद्धैर्भगवद्भिर्वर्णितः। प्रशस्त एष मार्गः।

अथ खलु मारः पापीयान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्जगाम। अथ खलु उपतिष्यकोलितौ परिव्राजकौ स्वपरिषदमवलोक्यैतद् वचनम् ऊचतुः। यत् खलु माणवका यूयं जानीध्वमावां जरामरणसागरपारंगमाय तथागतमुद्दिश्य प्रव्रज्यां संप्रस्थितौ। यः पुनर्युष्माकं नेच्छति भगवतः शासने प्रव्रजितुम् इहैव निवर्तताम्। सर्वाणि च तानि पञ्च माणवकशतान्येवमाहुः। यत् किञ्चिद् वयं जानीमस्तत् सर्व युवयोरनुभावेन। नूनं युवामुदारे स्थाने प्र[व्रजितौ। यम् उद्दिश्य प्रव्रजितौ युवां तमुद्दिश्य] वयमपि प्रव्रजिष्यामः।

अथोपतिष्यकोलितौ परिव्राजकौ पञ्चशतपरिवारौ भगवन्तमुद्दिश्य प्रव्रज्यायां संप्रस्थितौ विदित्वा मारः पापीयान् बहिर्देशे राजगृहस्य महानगरस्य महाप्रपातमभिनिर्मितवान् योजनशतानामधस्तात् यथा तौ न शक्ष्यतः श्रमणस्य गौतमस्यान्तिकमुपसंक्रमितुमिति। भगवांश्च पुनस्तादृशी[मृद्धिमभिनिर्मिमीते येन]तावुपतिष्यकोलितौ परिव्राजकौ तं महाप्रपातं न ददर्शतुः ऋजुना मार्गेण गच्छन्तौ। पुनरपि मारः पापीयांस्तयोः पुरतः पर्वतमभिनिर्मिमीते [कठिनमेकघनमभेद्यं] सुषिरं योजनसहस्रमुच्चैस्त्वेन सहस्रं च सिंहानामभिनिर्मिमीते चण्डानां दुष्टानां घोराणाम्। तौ च सत्‍पुरुषौ भगवतस्तेजसाप्यनुभावेन न च ददर्शतुः सिंहम्। न च सिंहनादं शुश्रुवतुः। ऋजुना च मार्गेण येन भगवांस्तेनोपचक्रमतुः। भगवांश्चानेकशतसहस्रया परिषदा परिवृतः [पुरस्कृतो धर्मं] देशयति स्म।

अथ खलु भगवान् भिक्षूनामन्त्रयते स्म। पश्यत यूयं भिक्षवः एतौ द्वौ सत्पुरुषौ गणप्रमुखौ गणपरिवारौ। अनुपश्यामो वयं भगवन्। भगवानाह। अभ्यनुज्ञातौ एतौ द्वौ सत्‍पुरुषौ सपरिवारौ ममान्तिके [प्रव्रजिष्यतः।] प्रव्रजित्वा एको मम सर्वश्रावकाणां प्रज्ञावतामग्रे भविष्यति द्वितीय ऋद्धिमताम्। अथान्यतरो भिक्षुस्तस्यां वेलायामिमा गाथा अभाषत।

एतौ च विज्ञपुरुषौ परिचार[य]न्तौ
यौ व्याकृतो हितकरेण नरोत्तमेन।
समन्वितऋद्धियौ धी-विशारदौ
उपेन्तीह गौरवादत्र एतौ॥१३॥

अथ खलु स भिक्षुरुत्थायासनाद् बहुभिर्भिक्षुभिः साधं बहुभिश्च गृहस्थप्रव्रजितैरभ्युद्‍गम्य तौ सत्‍पुरुषौ पर्युपास्ते स्म। अथ [तौ सत्‍पुरुषौ] येन भगवांस्तेनोपजग्मतुः। उपेत्य भगवतः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य भगवतः पुरतः स्थित्वा भगवन्तमेतदूचतुः। लभेवहि आवां वो भगवतोऽन्तिके प्रव्रज्यामुपसम्पदां भिक्षुभावेन। चरेव आवां भगवतोऽन्तिके ब्रह्मचर्यम्। भगवानाह। किंनामा[नौ] युवां कुलपुत्रौ। उपतिष्य आह। तिष्यस्य ब्राह्मणस्याहं पुत्रः। [मा]ता मे शारिका नाम। ततो मे जन्म। तेन मे शारिपुत्र इति नामधेयं कृतम्। अभ्यनुज्ञातोऽहं पूर्वं मातापितृभ्यां प्रव्रज्यायै। कोलित आह। पिता मे कोलितो नाम। माता मे मुद्‍गला नाम। तेन मे मौद्‍गल्यायन इति सामान्यं नामधेयं कृतम्। कश्चि[त्]मे जनः कोलित इति संजानाति। कश्चिन्मौद्गल्यायन इति। [अभ्यनुज्ञातोऽ]हं पूर्वं मातापितृभ्यां प्रव्रज्यायै। भगवानाह। चरतं शारिपुत्र-मौद्‍गल्यायनौ सपरिवारौ ममान्तिके ब्रह्मचर्यमिति। सैवानयोः प्रव्रज्योपसम्पदा च। अचिरप्रव्रजितौ च शारिपुत्र-मौद्गल्यायनौ सपरिवारौ।

अथ मारः पापीयान् महेश्वररूपेण भगवतः पुरतः स्थित्वैवमाह।
ये शास्त्रार्थ-परिचरियासु निपुणा विद्यासु पारंगताः
ते सर्वे प्रणमन्ति मत्‍सुचरणौ तेषामहं नायकः।
क्षिप्रं मच्छरणं सशिष्यपरिषं गच्छाहि भो गौतम
ईप्सितनिर्वृति[प्रापणाय] विशदं वक्ष्यामि मार्गं तव॥१४॥

भगवानाह।
त्वन्मार्गो जगतोऽस्य दुर्गतिवहो दुःखार्णवप्रापको
मार्गो मे स चराचरस्य जगतो दुःखार्णवोच्छोषकः।
किं भूयो [लपसि] प्रगल्भमुखरो दुष्टशृगालस्वरः
व्याभग्नोऽसि न मारकर्म इह मे शक्तोऽसि कर्तुं पुनः॥१५॥

अथ मारः पापीयान् महेश्वररूपमन्तर्धाय ब्रह्मवेषेन पुनर्भगवन्तं पुरतः स्थित्वैवमाह।

कर्मक्लेशभवाङ्कुरप्रशमनं यत्ते कृतं प्रज्ञया
दुःखान्युत्सहसे इह पुनर्यतः सत्त्वार्थमेवं मुने।
नास्त्यस्मिन् जगति प्रभो क्वचिदपि त्वत्‍पात्रभूतो जनः
कस्मात्त्वं विगतामयो न त्वरितं निर्वास्य कालो हि सः॥१६॥

भगवानाह।
गङ्गावालुकसन्निभानुसदृशान् सत्त्वान् प्रपश्याम्यहं
ये वैनयिकाः स्थिताः करुणया ते संप्रमोच्या मया।
मध्योत्‍कृष्टजघन्यतामुपगता निर्मोक्षनिष्ठा जगत्
निर्वास्यामि ततो निमन्त्रयसि मां शाठ्येन किं दुर्मते॥१७॥

अथ पुनरपि मारः पापीयान् दुःखितो दुर्मना विप्रतिसारी ततश्चान्तर्धाय स्वभुवनं गत्वा शोकागारं प्रविश्य निषण्णः। तत्‍क्षणमेव च सर्वमारभुवननिवासिनश्च सत्त्वाः परस्परं पृच्छन्ति स्म। को हेतुर्यदस्माकं म[हाराजः शोका]गारं प्रविश्य निषण्णो न च कश्चिज्जानीते।

अथ पञ्च मारकन्याशतानि परमप्रीतिकराणि पुष्पमाल्यविलेपनानि गृहीत्वा परममनोज्ञैर्वस्त्राभरणै[र]लंकृत्य परममनोज्ञहर्षकराणि दिव्यानि तूर्याणि प्रवादयन्त्यः परममनोज्ञस्वरेण नृत्यन्त्यो गायन्त्यो वादयन्त्यो महता दिव्येन पञ्चाङ्गिकेन तूर्येण [रतिक्रिडायु]क्तेन मारस्य पापीमतः पुरतः स्थिताः। स च मारः पापीयान् बाहून् प्रगृह्य प्रकोशितुमारब्धः। मा शब्दं कुरुत मा शब्दं कुरुतेति। एवमुक्तास्ताः पुनरपि प्रगायन्त्यस्तूर्याणि पराजघ्नुः। मारश्च पापीयान् पुनरपि बाहुद्वयमुत्‍क्षिप्य प्रक्रोशितुमारब्धो यावत् सप्तकृत्वः। अप्‍सरसस्ता रति[क्रीडायुक्तेन मारस्य पापीमतः पुरतः स्थितास्त]थैव बहुद्वयम् उन्नाम्योत्‍क्रोशं [च]कार। मा शब्दं कुरुध्वं मा शब्दं कुरुध्वमिति। एवमुक्ताश्च ताः अप्‍सरसस्तूष्णीं तस्थुः।

अथ खलु विद्युद्‍वल्गुस्वरा नामाप्‍सरा येन [मारः पापीयां]स्तेनाञ्जलिं प्रणम्यैवमाह।

किं ते विभो च्युतिनिमित्तमिहाद्य दृष्टं
किं वा जगद्धुतवहाकुलमद्य जातम्।
शत्रुस्तवाधिकबलः किमिहास्ति कश्चित्
[किं वा न नन्दसि स]माश्रयसे च शोकम्॥१८॥

मारः प्राह।
शत्रुर्ममास्ति बलवान् निगृहीतचेता
मायासुशिक्षित भुवि नर शाक्यपुत्रः।
तल्लक्षणं यदि न हस्ति च कश्चिदेवं
शून्यं करिष्य [ति] ममैष स कामधातुम्॥१९॥

सा अप्सराः प्रोवाच।
स्वामिन्नुपायबलवीर्यपराक्रमैः कः
कर्तुं क्षयं पर[म]मीश इहाद्य तस्य।
कः शक्नुयात् त्रिभव[बन्ध]न-दीर्घतीरं
तृष्णार्णवं क्षपयितुं बलशक्तियुक्तः॥२०॥

मारः प्राह।
दानव्रताशयदया-प्रणिधान-पाशः
शून्यानिमित्त-परमास्र-गृहीतचापः।
निःशेषतो भवनिवृत्त्युपदेशकर्ता
संसार-निःसृत-पथ-प्रशमानुकूलः॥२१॥

शून्येषु ग्रामनगरेषु वनान्तरेषु
गिरिकन्दरेष्वपि च सन्ति तस्य शिष्याः।
ध्यानाभियुक्तमनसः प्रविविक्तचाराः
दोषक्षयाय सततं विधिवत् प्रयुक्ताः॥२२॥

ऋद्ध्याः बलैः करुणया च सहायवन्तौ
उपतिष्य-कौलित उभौ मुनिना विनीतौ।
त्रैलोक्यसर्वविधिना सुविनीतधर्मा
शून्यं करिष्यति च मे किल कामधातुम्॥२३॥

अथ तैः पञ्चभिर्मारकन्याशतैर्मारस्य पापीमतोऽन्तिकाद् भगवतो गुणवर्णं श्रुत्वा सर्वैराकारविगतविद्युन्नाम बोधिसत्त्वसमाधिः प्रतिलब्धा।

अथ तानि पञ्च मारकन्याशतानि दिव्यानि तूर्याणि तानि च दिव्यापुष्पगन्धमाल्यविलेपनाभरणविभूषणीकराणि येन भगवांस्तेनाक्षि[पन्] भगवतः [समीपे]। तानि च दिव्यानि [पुष्पाणि तानि च दिव्यानि] तूर्याणि ते च यावदलंकारा भगवतोऽनुभावेन वेणुवने ववर्षुः। ताश्च मारकन्याः स्वयमद्राक्षुः सपरिवारम्। दृष्ट्वा च पुनः स्वयमेव प्रसादजाता बभूवुः। येन वेणुवने एवंरूपं पुष्पवर्षं प्रवृष्टमिति ते च भिक्षवः संशयजाता भगवन्तं पप्रच्छुः। यद्‍भगवन्नूनं [शारिपुत्रमौद्‍ग]ल्यायनयोः सपरिवारयोरिदम् एवंरूपं महाश्चर्याद्भुतादृष्टाश्रुतपूर्वं वर्षं प्रवृष्टाम्। को न्वत्र भगवन् हेतुः कः प्रत्ययः। भगवानाह। नायं [कुलपुत्रयोरनुभावः] हन्त पापीमतः पञ्चमात्रैः परिचारिकाशतैस्ततो मारभवनादिदमेवंरूपं महापुष्पवर्षं यावदलङ्कारवर्षमुत्‍सृष्टं मम पूजाकर्मणे। चिर [मेता मे अनुकूलाः। ता म]मान्तिकाद् व्याकरणं प्रतिलप्स्यन्तेऽनुत्तरायां सम्यक्‍संबोधौ।

अथ तानि पञ्चमात्राणि मारकन्याशतानि स्वयमेव भगवतः श्रुतघोषव्याहारमभि[शृण्वन्ति]। एताश्च भगवन्तोऽन्तिके प्रसादजातास्तेन प्रसादप्रामोद्येन बोधिचित्तम् असंप्रमोषं नाम समाधिं प्रतिलेभिरे।

अथ खलु ता मारकन्याः [तत्रैव] [वेणु]वने एकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्याञ्जलिं कृत्वा यस्यां दिशि भगवान् विहरति तां दिशं निरीक्षमाणा एवमूचुः।

तृष्णा नदी निखिलशोषकसर्वलोकम्
आलोक्य नेत्रविकलं जगदेकचक्षुः।
त्वं तारकोऽस्य जगतः सनरामरस्य
बुद्धा वयं कथमिहाशु मुने भवेम॥२४॥

नरदेवपूज्य भगवन् परमार्थवादिन्
स्त्रीत्वं जुगुप्‍सितमपास्य वयं समग्रम्।
ऋद्ध्या तवोत्तमगतिं [त्वरितं लभेम]
गत्वा मुनीन्द्रवचनं शृणुयाम एवम्॥२५॥

[नैरात्म्यवादि] भगवन् परमार्थदर्शिन
बोध्यङ्गरत्न दरनिर्मल-वाक्-प्रदीप।
आकृष्य मारबलमप्रतिम त्वमस्यो-
द्बोधाय शीघ्रमधुना मम व्याकुरुष्व॥२६॥

अथ खलु मारकन्या उत्थायासनादेककण्ठेन मारं पापी मन्तमेतदूचुः।

त्वं नाम दुष्कृतमतिभगवत्‍सकाशे
दुष्टः कथं श्रियमवाप्य चलामसाराम्।
जात्यादिदुःख[स]मुपद्रुत-सर्वमूर्तिं
घोरां दशामुपगतोऽसि मदावलिप्तः॥२७॥

श्रद्धां जिने कुरु तथा व्यपनीय रोषं
संसार-दोष-मदपङ्क-समुद्धृतात्मा।
एषो[ऽस्तु ते विदित] सर्वजगस्वभावः
आगच्छ कारुणिकमाशुगतिं प्रयामः॥२८॥

अथ खलु मारस्य पापीमतः परमदुष्टमनसः एतदभूत्। यत्त्वहं तादृशं मारबलविषयवेगं समनुस्मरेयं यदेतानि पञ्च परिचारिकाशतानि पञ्चपाशबन्धनवद्धमात्मानं संपश्येयुर्यथेहैव निवृत्य वने न पुनर्गन्तुं शक्नुयुः। [मारस्ताश्च बन्धुं न शक्तः।] तत् कुतः। तथाहि तानि पञ्च परिचारिकाशतानि तथागताधिष्ठानानि।

अथ खलु तानि पञ्च परिचारिका [शतानि] मारस्य पापीमतोऽन्तिकात् प्रचक्रमुः। [अथ मारस्य पापीमतः] दुष्टस्यैतदभवत्। यत्त्वहं पुनरपि तादृशं मारबलविषयवेगं समनुस्मरेयं यत् सर्वमिदम् आकशवैरम्भ्यसंघातैर्महाकालमेघैर्महाकालवायु [भिः आवृतं] यथा ता एव परिचारिकाः सर्वा दिग्‍विदिक्षु संभ्रान्ताः श्रमणगौतमं न पश्येयुः। पुनरेव मे भवनमागच्छेयुः। तथापि बुद्धाधिष्ठानबलेन किय[न्तमपि वायुं] न शक्नोत्युत्पादयितुं योऽन्ततो बालाग्रमपि कम्पयेत् प्रागेव बहुतरम्।

अथ मारः पापीमान् भूयस्या मात्रया दुष्टो दुःखितो दुर्मना विप्रतिसारी [उच्चैः]स्वरेण स्वपुत्रगणपारिषद्यान् व्याक्रोशत्। सर्वं मारभवनं शब्देन पूरयामास।

आगच्छत प्रियसुता गणपारिषद्या
भ्रष्टा वयं स्वविषयात् स्वबालाच्च ऋद्धेः।
[जातोऽत्र] एष विषवृक्ष इवान्तरात् स
मायाशठो मधुरवादी स शाक्यपुत्रः॥२९॥

अथ तेन शब्देन सर्वास्ता मारकन्या मारदुहितरश्च सर्वे च मारपुत्रा गणपार्षद्या [दूरतः] ऋतमानरूपाः शीघ्रमुपगम्य पापीमतः पुरतस्तस्थुः। तस्यां च परिषदि जयमतिर्नाम मार पुत्रः स प्राञ्जलिर्भूत्वैवमाह।

किं दुर्मनाः परमकोपविदुष्टचेता
नो कल्पदाह इह न च्युतिरस्ति तेऽस्मात्।
शत्रुर्न चास्ति तव कश्चिदिह प्रवृद्धो
मोहं गतोऽसि किमुतान्यमति[र]कस्मात्॥३०॥

मारः प्राह।
न त्वं पश्यसि शाक्यपुत्र वृषलं यत् सन्निषण्णं द्रुमे
यद्वाक्यं वदसीह नास्ति बलवान् शत्रुस्तवेत्यग्रतः।
सर्वे तेन शठेन चैकबलिना संभ्रामिता नैकशो
......वयम् ससुतपार्षद व[....................]॥३१॥

येऽप्यस्मिन् जगति प्रधानपुरुषा विख्यातकीर्तिश्रियो
विद्वांसो बहुशास्रकाव्यरचनाव्यग्राः समग्रा द्रुतम्।
ये तं शाक्यसुतं गताधि[श]रणं घ[र्माङ्कुशैस्ताडिताः]
स त्वेष प्रियविग्रहः शठमतिः शत्रुर्मया युद्यते॥३२॥

एता वै परिचारिकाः प्रियतमाः प्रोत्‍सृज्य मां निष्कृपाः
[तूर्ण] तं श्रमणं गताद्य शरणं हित्वा [हि मे राज्यकम्]।
[कर्ता] कृत्स्नमिदं भवत्रयमतः शून्यं शठो मायया
भस्मीकुर्म इहाद्य यद्यतिबलेनाशु प्रयत्नाद्वयम्॥३३॥

अथ ते सर्वे मारपुत्राः सपार्षद्याः [प्राञ्जलयः एतदूचुः]। एवमस्तु यदस्माकम् ऋद्धिबलविषानुभावविकुर्वितं सर्वं दर्शयिस्यामः। यदि शक्नुमः एतं शाक्यपुत्रं भस्मीकर्तुमित्येवं कु[शलम्। यदि न शक्नुमः तस्य शरणं गमिष्यामः।] स्वयमेव पितस्त्वं प्रत्यक्षोऽसि। यद् वयं महासैन्यपरिवृताः प्रागेव एकाकिना अद्वितीयेन अनेन शाक्यपुत्रेणाधिकबलेन पराजिताः किं पुनरेतर्ह्यनेकपरिचारिका दृष्टिविव्हलाः। मारः पापीयानेवमाह। गच्छत तावद् भद्रमुखाः। यदि शक्नुत एवनं श्रमणगौतमं घातयितुं पुनरागच्छत। अथ न शक्तास्तथाप्यागच्छत। स्व[भवनं वयं पालयिष्यामः।

अथ मारपर्षद्‍द्वादशबिम्बराणि ततोऽतिक्रम्य इत ऊर्ध्वंयावच्चतुरशीतिं योजनसहस्राणि स्फुरित्वा तादृशं मारबलऋद्धिवेगं दर्शयामासुः। [स]र्वं चतुर्द्वीपिकायामाकाशं महाकालमेघैरापूरयामासुः। महाकालवायुभिश्च उल्कापातैश्च सुमेरुं पर्वतराजानं पाणिभिः पराजघ्नुः। सर्वं चातुर्द्वीपं प्रकम्पयामासुः। परमभैरवांश्च शब्दान् समुत्‍ससर्जुः। यतो नागा महानागा यतो यक्षा महायक्षाः सर्वावन्त्या महापृथिव्या सगिरिशैलपर्वतायाः सुमेरुश्च पर्वतराजः कम्पं विदित्वा सरसां महासरसां नदीकुनदीमहानदीनां महासमुद्राणाञ्च संक्षोभं ज्ञात्वा गगनतले तस्थुः। सा च मारपर्षत् सुमेरुमवनीं स्थित्वा योजनप्रमाणां वृष्टिम् अभिनिर्मीय अङ्गमगधेषु समुत्‍ससर्जुः। महान्तं चास्य मुसल-पाश-तोमर-भिण्डिपाल-नाराच-क्षुरप्र-क्षुरमुख-क्षुर-नाराच-क्षुरप्रक्षुरमुख-क्षुरवासि-क्षुरदन्तमुख-क्षुरदन्त-करालवज्रवासिक्षुरदन्त-मुख-क्षुरदन्त-करालवक्त्र-विकरालवक्त्र-दृढ-खरपरुषरूक्षवर्षं निर्माय उत्‍ससर्जुः।

अथ भगवान् तस्मिन् समये मारमण्डलविध्वंसनं नाम समाधिं समापेदे। [येन सर्वां] शिलाप्रहरणवृष्टिं दिव्योत्पलपद्मकुमुदपुण्डरीक-मान्दारवमहामान्दारव-पुष्पवृष्टिमधितिष्ठत्। तांश्च शब्दान् नानावाद्यानध्यतिष्ठत्। यदुत [धर्मशब्दं बुद्धश]ब्दं संघशब्दं पारमिताशब्दम् अभिज्ञाशब्दं बोधिमण्डोपसंक्रमणशब्दं यावत्‍सोपा[दाननिरुपादानशब्दा] नध्यतिष्ठत्। सर्वा रजोऽन्धकारवायवः प्रशेमुः। ये केचिदिह चातुर्दीपिके तृणगुल्मौषधिवनस्पतिक्षितिशैलपर्वतास्तान् सर्वान् सप्त [महारत्नानध्यतिष्ठत्। अनव लोक]नतः मूर्ध्ना भगवान् यावद् ब्रह्मलोकं कायेन वशं वर्तयामास। एकैकस्माच्च लक्षणाद्भगवतस्तादृशी प्रभा निश्चचार यया प्रभया त्रि[साहस्रमहासाहस्रलोकधातू]दारेणाभासेन स्फुटोऽभूत्। ये चास्यां त्रिसाहस्रमहासाहस्रयां लोकधातौ देवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरगप्रेतपिशाच-कुमाभाण्ड [मनुष्यामनुष्या] नैरयिका वा तैर्यग्‍योनिका वा यामलौकिका वा ते सर्वे भगवन्तमद्राक्षुः बहूनि च देवनागयक्षमनुष्यामनुष्यशतसहस्राणि गगनस्थाः पुष्पैरवाकिरन् [प्र]दक्षिणं चक्रुः स्तुवन्तो नमश्चक्रुः। बहूनि नैरयिका तैर्यग्‍योनिका यामलौकिकाक्षोभ्यकोटीशतसहस्राणि स्मृतिं प्रतिलेभिरे। पूर्वावरोपितकुशलमूलमनुस्मृत्य नमो बुद्धाय इति कृत्वा तेभ्योऽपायेभ्यश्च्यवित्वा देवेषूपपन्नः। ततश्च मारसैन्या द्वाविंशतिमारपुत्रशतसहस्राणि सपार्षद्यानि भगवत एवंरूपं प्रातिहार्यं दृष्ट्वा भगवतोऽन्तिके अतीव प्रसादं प्रतिलब्ध्वा येन भगवांस्तेनोपजग्मतुः। उपेत्य तैः सार्धं पञ्चभिर्मारकन्याशतैर्भगवतः पादौ शिरसाभिवन्द्य अञ्जलीन् प्रगृह्य आभिर्गाथभिरधिभाषन्ते स्म।

विशुद्धमूर्ते परमाभिरूपज्ञानोदधे काञ्चनमेरुतुल्यम्।
वितत्य लोकं यशसा विभासि त्वामेव नाथं शरणं ब्रजामः॥३४॥

प्रनष्टमार्गे विनिमीलिताक्षे
उल्कायसे [त्वं] जगतीव सूर्यः।
अपराजित प्राणिनस्त्वेकबन्धुं
त्वां सार्थवाहं शरणं व्रजामः॥३५॥

असंभृतज्ञानसमृद्धकोश
नभःस्वभावादिविमुक्तचित्त।
करुणाशयस्निग्धमनोज्ञवाक्य
सर्वार्थसिद्धं शरणं व्रजामः॥३६॥

संसारकान्तारविमोक्षकस्त्वं
सामग्रितो हेतु[फल]प्रदर्शकः।
मैत्रविहारी परमविधिज्ञः
करुणाविहारी शरणं व्रजामः॥३७॥

मायामरीचिदकचन्द्रस्न्निभे
भवे प्रसक्तो विषयाश्रयेण।
अज्ञानरुग्‍नाशक [लोकनाथ]
तं बैद्यराजं शरणं व्रजामः॥३८॥

त्वं सेतुभूतश्चतुरौघमध्या-
दुत्तारकः सप्तधनार्थवृत्तैः।
सन्मार्गसन्दर्शक लोकबन्धुः
कृपान्वितं त्वामिह पूजयामः॥३९॥

[क्षमापयास्मांश्च त्व]समग्रबुद्धि-
आसं प्रदुष्टास्त्वयि यद्वयं तु।
तमत्ययं वीर गृहाण नाथ
त्वमेकबन्धुर्जगति प्रधानः॥४०॥

वयं समुत्‍सृज्य हि मारपक्षं
[जनयाम श्रेष्ठमिह बोधिचित्तम्]।
निमन्त्रयामः किल सर्वसत्त्वान्
बोधिं लभेमो वयमुत्तमात्तु॥४१॥

निदर्शयास्माकमुदारचर्यां
यथा वयं परामिताश्चरेम।
अनन्यवादैः कतिभिस्तु [धर्मैः
सत्त्वा युता बोधिमवाप्नुवन्ति]॥४२॥

पुष्पाणि यत्तेऽभिमुखं क्षिपामः
छत्राणि तानि भवन्तु सर्वदिक्षु।
तिष्ठन्तु मुर्ध्नि द्विपदोत्तामानां
क्षेत्रेषु सर्वर्तुसुखाकरेषु॥४३॥

अथ खलु मार[पुत्र मार]कन्याश्च सगणपार्षद्या भगवन्तं मुक्तकुसुमैरभ्यवाकिरन्। तानि च भुक्तकुसुमानि भगवतः ऋद्ध्यनुभावेनानेकानि कोटीनियुतसहस्राणि गङ्गानदीवालुका[समानि] पुष्पच्छत्राणि सन्तिष्ठन्ते स्म। तानि नानापुष्पच्छत्राणि दशसु दिक्षु सर्वबुद्धानां तिष्ठतां यापयतां मूर्धसन्धीनामुपर्यन्तरिक्षे तस्थुः स्वयं च ता मारकन्याः सगणपार्षद्या अद्राक्षुः। दशसु दिक्षु सर्वबुद्धक्षेत्रेष्वसंख्येयेष्वप्रमेयेषु बुद्धानां भगवतां तिष्ठतां यापयतां धर्मं देशयतां परिषदा परिवृतानां भाषतां तपतां विरोचतां सन्निषण्णानां तानि पुष्पच्छत्राणि उपर्यन्तरिक्षे मूर्धसन्धौ संस्थितानि। ते च बुद्धा भगवन्तः समवर्णाः समलिङ्गाः समरूपाः समदर्शनाः। केवलं तेषां बुद्धानां भगवतां सिंहासन-नानात्वं परिषदो-[नानात्वं] बुद्धक्षेत्रगुणव्यूह-नानात्वं ददृशुः। न च तेषां बुद्धानां भगवतां स्वरमण्डलं [शुश्रुवुः। सा] च मारपर्षत् भगवतोऽनुभावेनैवंरूपं प्रातिहार्य दृष्ट्वा परमप्रीतिप्रसादजाता भगवतः पादौ शिरोभिर्वन्दित्वा पुरतो निषण्णा धर्मश्रवणाय।

अथ खलु तानि मारपुत्राणां सगणपार्षद्यानां दशबिम्बराणां प्रतिनिवर्त्य मारभवने एवं वृत्तान्तं माराय पापीमते विस्तरेणारोचयन्ति। एकरोमकूपमपि चायं तस्य श्रमणस्य गौतमस्य न शक्तो विध्वंसयितुमिति। भूयश्च विंशतिसहस्राणि तमेव शरणं जग्मुः तस्यैव चाग्रतो निषण्णा धर्मश्रवणाय।

अथ खलु मारः पापीमान् भूयस्या मात्रया चण्डीभूतो दुःखितो दुर्मनाः विप्रतिसार्य एवमाह।
लक्ष्मीर्गता मम पुनर्न परैति तावद्
याव[न्न मम राज्य शाक्यसुत]स्य नाशः।
तूष्णीं स्थिता वयमनन्यमनःप्रतर्काः
शाक्यात्मजं कथमिममद्य तु घातयेम॥४४॥

अथ मारः पापीमान् दुर्मनस्कः एव शोका [गारं प्राविशत्।]
महायानसूत्राद्रत्नकेतु-मारजिह्मीकरणः
परिवर्तो नाम प्रथमः॥१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project