Digital Sanskrit Buddhist Canon

नारायणपरिपृच्छा आर्यमहामायाविजयवाहिनी नाम धारणी

Technical Details
नारायणपरिपृच्छा आर्यमहामायाविजयवाहिनी नाम धारणी

नमः सर्वबुद्धबोधिसत्त्वेभ्यः



एवं मया श्रुतमेकस्मिन्समये भगवान् स्वर्णशृङ्गे पर्वताग्रे वैश्रवणस्य गृहे विहरति स्म। तत्र देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगविद्याधराप्सरःप्रभृतिभिर्बहुभिः स्तुतं धर्मालोकमुखं नाम धर्मपर्यायं देशयति स्म। अथासुरैर्निगृहीतो विनिर्धूतः पराजितस्तेजोहीनो नारायणो येन भगवांस्तेनोपसङ्क्रामदुपसङ्क्रम्य भगवतः पादौ शिरसाऽभिवन्द्यैकान्ते स्थितः॥१॥



एकान्ते स्थितश्च नारायण एवं प्रार्थयाञ्चके। तदेवं देशयतु भगवान् सर्वज्ञः सर्वदर्शी सर्वसत्त्वानुकम्पकस्तं धर्मपर्यायं यमेते देवनागयक्षराक्षसादयो मनुष्या वा धारयमाणाः संग्रामे महाशूलपातेभ्यो वा सर्वोपद्रवेभ्यो वा सर्ववितर्कविचारेभ्यो वा विजयिनो भविष्यन्नि॥२॥



भगवानाह] असि मायाधरस्त्वं नारायण। मायावांस्त्वं महावलोऽसि। अनेकमायाजालेन सत्त्वान् वञ्चयसि। [किमिह भयात्] संग्रामविजयप्रश्नं परिपृच्छसि॥३॥



नारायण एवमाह। इह भगवन् कामासुरेन्द्रेणासुरमायाजितोऽहम्। मृता देवाः केचित्पलायिताः केचिद्विध्वंसिताः। ततो देशय भगवन् तं धर्मपर्यायं यदेते सत्त्वा संग्रामविजयिनो भविष्यन्ति। असुरा पराजयिस्यन्ते हीयमानदर्पाश्च परा भविष्यन्ति॥४॥



भगवानाह। भूतपूर्वं नारायणातीतेऽध्वनि मगधे रोहितपर्वते रत्नश्रीर्नाम राजा बभूव। तेन कालेन तेन समयेन सर्वेश्वरो नाम तथागतः अर्हन्सम्यक् सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः देवमनुष्याणां शास्ता भगवान् बुद्धः सम्बभूव॥५॥



तस्य भगवतः सर्वेश्वरस्य सकाशाद् मया इमानि महामायाविजयवाहिनी नाम विद्यामन्त्रपदानि सुगृहीतानि धारिताति च पठितानि अवगतानि अनुमोदितानि परस्य च विस्तरेण सम्प्रकाशितानि। अस्या धारण्याः प्रभावेण नारायण न जातु अरिभयं न अकुशलभयं न चोरभयं वा भवेत्। वर्षशतसहस्राणि च राज्यं धर्मेण कृत्वा पश्वात्सौख्येन नगरान्नगरान्तरं प्रमोदवनयात्रामिव धारण्याः प्रभावेण गतः। जन्मान्तरे मान्धाता नाम बोधिसत्त्वश्चक्रवर्ती राजा बभूव। [सप्तरत्नसमन्वागतश्च। भुवनत्रितयान्तेष्वाज्ञां प्रचारितवान। पूर्वं दानपारमितानिष्पन्नतया सर्वसत्त्वेभ्यो हिताय सुखाय च यथाभिलषितं धनं ववर्ष। सर्वसत्त्वसुखकरः सर्वहितकश्च बभूव। तद्यथा नारायणास्या धारण्याः प्रभावेणानेककल्पशतसहस्रदानपारमितया परिपूरिं चकार। ये च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगविद्याधरमनुष्यामनुष्या यथादिशं तिष्ठन्ति न च वैमुख्यं कुर्वन्ति।] स चतुःषष्टिकल्पसहस्राणि पूर्वं यापयित्वा पश्चादेकस्मिन् जन्मनि गरुडभयान्मुक्तः संस्थितो नागेन्द्र इव अनुत्तरः सम्यक् सम्बुद्धो बुद्धो हि लोकानुत्तरोऽर्हन् देवगुरुर्बभूव॥६॥



तेन नारायण गृहाणत्वं महामायाविजयवाहिनीं नाम धारणीमन्त्रपदाणि। तद्यथा नमोऽस्त्वध्वानुगतप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्त्वेभ्यः। सर्वमुद्रामन्त्रपदेभ्यः। ॐ माये महामाये महामायाधारणि इयं सा महामायामन्त्रेण महामायारूपेण। भ्रम भ्रम सत्त्वानाञ्च ये विरूधकं चिन्तयन्ति सर्वदुष्टसत्त्वास्तान् भ्रामय भ्रामय मोहय मोहय मूर्च्छापय मूर्च्छापय मारय मारय विध्वंसय विध्वंसय। मर मर महामाये अलललले महामायाजालसहस्रमुखि सहस्रशिरे सहस्रमुजे ज्वलितनेत्रे सर्वतथागतहृदयगर्भे असिधनुपरशुपाशतोमरकनयशक्तिनृमुण्डिहस्ते मुद्गरचक्रहस्ते एह्येहि भगवति सर्वतथागतसत्येन देवर्षिगणसत्येन महामायाविजयवाहिनी स्मर स्मर सर्वतथागतज्ञानरूपेण गच्छ गच्छ सर्वावरणक्षयङ्करि परसैन्यविद्राविणि मोहय मोहय मम सर्वसत्त्वानाञ्च सर्वदुष्टान्। रक्ष रक्ष मां सर्वसत्त्वांश्च यक्षभयोपद्रवेभ्यः स्वाहा। ॐ महामायाधारणीये स्वाहा। ॐ महामण्डलाधिष्ठिते स्वाहा। ॐ वज्रधरवन्दितपूजितये स्वाहा। ॐ पद्मपाणिप्रियाय स्वाहा। ॐ सर्वदेवनमस्कृते स्वाहा। ॐ मातृगणवन्दितपूजितायै स्वाहा। ॐ जये स्वाहा। [ॐ विजये स्वाहा। ॐ स्वाहा। ॐ अविधिते स्वाहा। ॐ अपराजिते स्वाहा। ॐ मोहनीये स्वाहा। ॐ स्तम्भनाये स्वाहा। ॐ जम्भनीये स्वाहा। ॐ जयन्तिये स्वाहा। ॐ भ्रमणीये स्वाहा। ॐ भ्रमणीये स्वाहा। ॐ सर्वासुरदमनीये स्वाहा। ॐ महाकालवन्दितपूजितायै स्वाहा। ॐ कामरूपिणीये स्वाहा। ॐ मायाराक्षसीये स्वाहा। ॐ रर स्वाहा। ॐ रू रू हूं हूं फट् हे हे जये माया भगवति महामायाविजयवाहिनी गृहाण। शीघ्रमाविलम्बस्व मम सर्वसत्त्वानांच सर्वकार्यं कुरु कुरु हूं हूं फट् फट् स्वाहा॥७॥



नारायण गृहीत्वा त्वमेवं महामायाविजयवाहिनीं नाम गुह्यमन्त्रपदानि पठित्वा च परस्य विस्तरेण उपदिश। नारायण अथ तस्मिन् सम्पराये सेनयोरुभयोर्मध्ये पञ्चसु स्थानेषु एतद्धारणीचक्रं रथप्रतिकृतौ युञ्ज्यात्। नारायण उभयोर्मध्ये परसेनाग्रे तस्मिन् रथमध्ये महामायाविजयवाहिणीं नाम विद्याराज्ञीं अनेकशतसहस्ररूपां अनेकशतसहस्रभुजां त्रिनेत्रां लोहितकृष्णवर्णां दीप्तैश्चतुर्वक्त्रैः परसेनां भक्षयन्तीमिव चिन्तयेत्। स्वयमेव चक्रवर्त्याकारं कृत्वा मध्यान्हे धारणीं कुङ्कुमेन लिखित्वा राजा परस्य च सेनां स्वभावेन मायासदृशेन च्छादयन् विविधेन सारेण विजयी भविष्यति। नारायण अरियोधाः निर्जिताः पराजिताः केचित् मुर्च्छिता भूतले पतन्तीति वदामि। नारायण एवं पतिताश्च दशाकुशलकर्मभिः मार्गोच्छेदाद् ह्रियन्ते। तेषां च जीवितं प्रतिहतफलं न भवति। नारायण ईदृशः प्रभावः प्रशस्ताया धारण्याः। नारायण अपिच कस्यचिदेतानि धारणीमन्त्रपदानि वा शुद्ध्याशुद्ध्या योग्यानि। उपवासेनानुपवासेन वा योग्यानि भवन्ति। प्रतिदिनं त्रिवारमुच्चारयेत्। तेनैव कृतमपि पञ्चानन्तर्यपापराशिं क्षपयित्वा प्राप्तपुण्यराशिर्जातिस्मरो भवति। सर्वसत्त्वेषु सर्वव्यापिधनोपभोगी कुशलधर्मभिरतोऽकुशलविपरीतपातकेषु न भवति।] यश्च पुनर्नारायणा इमां [योग्यां] धारणीं धारयमाणः कुलपुत्रो वा कुलदुहिता वा भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा राजा वा राजपुत्रो वा ब्राह्मणो वा मृतः कालगतः सद्धर्मभाणको वा दग्धो भस्मीभूतो वा पुनश्च पुरुषो वा स्त्री वा काचित् स्पृशेत् स एव नियतो जातिस्मरो भविष्यति। [ततो] बोधिसत्त्वसंवरीयो नारायनः अहो [आश्चर्यमिति] कृत्वा शङ्खचक्रगदापुष्पमाल्ययुक्तः [उत्थायासनात्] भगवन्तं त्रिःप्रदक्षिणीकृत्य प्रणम्य प्रहसितवदनो भूत्वा भगवन्तं गाथया स्तौति स्म।



अहो ह्यसुरदेवानां लोकानां ज्येष्ठं श्रेष्ठो ह्यनुत्तरीकः।

शिवः शान्तोऽथाग्राह्य लोकातीतो नमोऽस्तु ते॥

अभावः सर्वधर्माणां भूतधर्मप्रकाशकः।

धर्माधर्मविमुक्तौस्तौ धर्म सत्य नमोऽस्तु ते॥८॥



अथ नारायणः भगवन्तं प्रणम्य त्वं [मम विभुः] भगवन्निति कृत्वा प्रकान्तोऽभूत्। इदमवोचद् भगवानात्तमनाः ते च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरग[विद्याधरा]प्सरादयः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥९॥



नारायणपरिपृच्छा आर्यमहामायाविजयवाहिनी नाम धारणी समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project