Digital Sanskrit Buddhist Canon

एकादशमुखम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekādaśamukham
एकादशमुखम्



ओं नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥



एवं मया श्रु[तमेक]समये भगवान् श्रावस्त्यां विहरति स्म करीरमण्डले च।

। अथ खल्वार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽनेकविद्याधरकोटीनियुतशतसहस्त्र[स्त्रेण] परिवृतो येन भगवांस्तेनोपसमक्रामत्। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्य [ए]कान्ते न्यसीद भगवन्तमेतदवोचत्। इदं मम भगवन्नेकादशमुखं नाम हृदयमेकादशभिः [कल्पको–] टीभिर्भाषितम्। अहं चेत्तर्हि भाषिष्यामि सर्व[सत्त्वाना]मर्थाय हिताय सुखाय सर्वव्याधिप्रश[म]नाय सर्वपापालक्ष्मिदुःस्वप्नप्रतिनिवारणाय सर्वाकालमृत्युप्रतिनिवारणाय अप्रसादानां प्रसादनाय सर्वविघ्नविनायकानां प्रशमनाय। ना[हं] भगवन् समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायाः प्रजाया यदनेन हृदयेन रक्षे कृते परित्रे परिग्र[हे शा]न्तिस्वस्त्ययने दण्डपरिहरे शस्त्रपरिहरे विष[प्रहा]णे कृते यः कश्चिदतिक्रमे[त्] न प्रशमे[त्] नेदं [स्था]नं विद्यते स्थाप्त्य पौराणां कर्म विपच्यते। तदस्य च कल्पयतोऽभिश्रद्दधतः सर्वेण सर्वं न भविष्यति।



सर्वबुद्धस्तुतः समन्वाहृतोऽयं हृदयं सर्वतथागतानुमोदितोऽयं हृदयम्। स्मराम्यहं भगवन् गङ्गानदीवालुकासमानां कल्पानां परेण शतपद्मनयनचूड–प्रतिहतरङ्गवेल–किरण[राजस्य] नाम तथागतस्य। मया तथागतस्यान्ति[के] श्रुतमयं हृदयम् उद्गृहीतं [च]। सह प्रतिलंभे[न] दशसु दिक्षु सर्वतथागताः सुमुखीभूता अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धाः। एवं बहुकरोऽयं हृदयम् तस्मात्तर्हि श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा सत्कृत्यायं हृदयं साधयितव्यम्। अनन्यमनसा नित्यं साधयितव्यम्। कल्यमुत्थाय अष्टोत्तरवारशतं प्रवर्तयितव्यम्। द्दष्टधर्मिका गुणा दश परिग्रही[तव्याः]। कतमे दश। यदुत निर्व्याधिर्भविष्यति। सर्वतथागतैः परिगृहीतश्च भविष्यति। धनधान्यहिरण्या[भर]णमस्य अक्षयं भविष्यति। सर्वशत्रवो वश्या अवमर्दिता भविष्यन्ति। राजसभायां प्रथममालपितव्यं मंस्यति। न विषं न गरं न ज्वरं न शस्त्रं काये क्रमिष्यति। नोदकेन कालं करिष्यति। नाग्निना कालं करिष्यति। नाकालमृत्युना कालंच करिष्यति। अपरे चत्त्वारो गुणानुशंसा उद्ग्रहीष्यति। मरणकाले तथा[गतद]र्शनं भविष्यति। न चापायेपूपपत्स्यते। न [विषमा]परिहारेण कालं करिष्यति। इत्श्च्युतः सुखावत्यां लोकधातावुपपत्स्यते।



स्मराम्यहं भगवन्निति दशानां गङ्गानदीवालुकासमानां कल्पानां ततः परेण परतरेण मन्दारवगन्धो नाम तथागतोऽभूत्। तत्र मया गृहपरिभूतेनायमुद्गृहीतम्। चत्त्वारिंशत् कल्पसहस्त्राणि संसाराः पश्चान्मुखीकृताः। एष च मया हृदयं प्रवर्तित्वा स[र्वस्मि]न् करुणायनज्ञानगर्भबोधिसत्त्वविमोक्षं प्रति[ल]ब्धम्। ये बन्धनबद्धा ये बध्यप्राप्ता ये उदकाग्निविविधदुःखाभ्याहताः तदनेनाहं सर्वसत्त्वानां लयनं त्राणं शरणं परायणं भवामि। यत् सर्वदुष्टयक्षराक्षसानामनेन हृदयेन कर्षित्वा मैत्रचित्ता[न्] दयाचित्तान् कृत्वानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयामि। एवं महर्धिकोऽयं मम भगवन् [हृदयम्] एकवेलां प्रकाशित्वा चत्त्वारो मूलापत्तयः क्ष[यं] गच्छन्ति पचानन्तर्याणि कर्माणि निरवयवं तन्वीकरिष्यन्ति। कः पुनर्वादो यथाभाषितं प्रतिपत्स्यन्ति। अनेकबुद्धशतसहस्त्रावरोपितकुशलमूलं भविष्यति। ये श्रोष्यन्ति प्रागेव जपसाधनादिभिः। सर्वमनोरथं परिपूरयिष्यामि यश्च चतुर्दशीपंचदशी मामुद्दिश्य उपवसति। चत्त्वारिंशत् कल्पसहस्त्राणि संसारान् पश्चान्मुखीकरिस्यन्ति। तेन ना[मधे]यमपि ग्रहणेन भगवन् सह सोऽयं बुद्धकोटीनियुत्[शतस]हस्रातिरेकसमम्। मम नामधेयग्रहणेन [स]र्वसत्त्वा अवैवर्तिकत्वं प्रसवन्ति। सर्वव्याधिभिः [प]रिमुच्यते। सर्वावरणेभ्यः सर्वभयेभ्यः सर्वकायवाङ्मनोदुश्चरितेभ्यः परिमोक्ष्यन्ते। तेषामेव करतलगता बुद्धबोधिर्भविष्यति। भगवानाह। साधु साधु कुलपुत्र यत् सर्वसत्त्वानामन्तिके एवंरूपा महाकरुणा। शक्ष्यसि त्वं कुलपुत्रः अनेनोपायेन सर्वसत्त्वाना[मनुत्तरा]यां सम्यक्संबोधौ प्रतिष्ठापयितुम्। उद्गृहीतं च [मया] हृदयमनुमोदितम्। भाषध्वं कुलपुत्र। ततः खल्वार्यावलोकितेश्वरो बोधिसत्त्व उत्थायसनादेकांसमुत्तरासङ्ग कृत्वा भगवतश्चरणयोः प्रणिपत्य इदं हृदयमावर्तयति स्म।



नमो रत्नत्रयाय। नमो वैरोचनाय तथागताय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। नमः अतीतानागतप्रत्युत्प[न्नेभ्यः] सर्वतथागतेभ्योऽर्हद् भ्यः सम्यक्संबुद्धेभ्यः।



ॐ [धर धर। धिरि धिरि]। धुरु धुरु। इट्टे विट्टे। चले चले। प्रचले प्रचले। [कुसुमे] कुसुमवरे। इलि मिलि विटि स्वाहा। एवं मूलमन्त्रः॥



नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। तद् यथा हा [हा हा] हा। इमे तिले चिले भिले खिले स्वाहा। स्नानोपस्पर्शनवस्त्राभ्युक्षिपणमन्त्रः सप्तजापेन।



नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वा[यम]हासत्त्वाय। तद्यथा टुरु टुरु हा हा हा हा स्वाहा। धू[पदीपनिवेदनमन्त्रः।



नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाया महासत्त्वाया। तद्यथा थिरि थिरि धिरि धिरि स्वाहा। गन्धपुष्पोपनिवेदनमन्त्रः।



नमो रत्नत्रयाय। नम आर्यावलोकितेश्वरय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा सादे सादे सिदि सिदि सुदु सुदु स्वाहा। बलिनिवेदनमन्त्र एकविंशतिजापेन।



नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय [बोधिसत्त्वाय महासत्त्वाय। महाकारुणिकाय। तद्यथा यसि द्धसि चरि हुरु इचुरुः सुरुः मुरुः स्वाहा। होममन्त्रः। अनेन मन्त्रेण ज्ञातीनाष्टै(?) रग्निं प्रज्वाल्य दधिमधुधृताभ्यक्तानामहोरात्रौषिकेन एकेन त्रिंशता होमः कार्यः। ततः कर्म समारभेत्।



नमो रत्नत्रयाय नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा इलि मिलि तिलि तिलि हिलि स्वाहा। दीपाबद्ध उदकेन [+ +] [र्वा] भस्मना वा सप्तजापेन।



नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा पिटि पिटि तिटि तिटि विटि विटि गच्छ गच्छ भगवानार्यावलोकितेश्वर स्वभवनं स्वभवनं स्वाहा। उदके सप्तवारान् परिजप्य चतुर्दिशं क्षिपेत्। आर्यावलोकितेश्वर गच्छ स्वभवनम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project