Digital Sanskrit Buddhist Canon

दशमः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel Romanized version Daśamaḥ


 



दशमः






CHAPTER 10



MAHA-KALPA-VIDHI-VISTARA



Emanation of deities form samadhi

अथ भगवान् पुनरपि सर्वतथागतवज्रसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां सर्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रसमये हूं॥



अथ वज्रपाणिर्महाबोधिसत्व इमां स्ववज्रससयमुद्रामभाषत् हुं वज्रि मट्॥

अथ वज्रगर्भो बोधिसत्व इमां स्वरत्नसमयमुद्रामभाषत् हुं भृकुटिवज्रे रट्॥

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वधर्मसमयमुद्रामभाषत् हूं पद्मवज्रि त्रिट्॥

अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमां स्वकर्मसमयमुद्रामभाषत् हूं वज्रकर्माग्रि कृट्॥



Delineation of the mandala

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीदं त्रिलोकविजयचतुर्मुद्रामण्डलमभाषत्।

अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं।

वज्रधातुप्रतीकाशं क्रोधवज्रमिति स्मृतं॥१॥

महामण्डलयोगेन सूत्रयेत् सर्वमण्डलम्।

त्रिलोकविजयाद्यांस्तु लिखेद्बुद्धस्य सर्वत॥ इति॥२॥



Mudra

अथात्र चतुर्मुद्रामण्डले महामण्डलयोगेनाकर्षणादिविधिविस्तरंकृत्वा प्रवेश्य चतुर्मुद्रामण्डलं गुह्यमुद्राज्ञानं शिक्षयेत्। 

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां।

उच्चारयं स्त्रिया सार्धं संवसं सिद्धिराप्यते॥१॥

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां।

उच्चारयन् रागेण स्त्रीं निरीक्षं सिद्धिराप्यते॥२॥

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां।

प्रवर्तयं स्त्रियं कान्तां परिचुम्बंस्तु सिध्यति॥३॥

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां।

उच्चारयं समालिङ्गेत्सर्वसिद्धिरवाप्यते॥४॥



तत्रैताः शुद्धधर्मतामुद्रा भवन्ति।

ओं सर्वतथागतविशुद्धधर्मते होः॥

ओं वज्रविशुद्धदृष्टि ज्जः॥

ओं स्वभावविशुद्धमुखे हुं॥

ओं सर्वविशुद्धकायवाङ्मनःकर्मवज्रि हन्॥



ततश्चतुर्मुद्रामण्डलगुह्यरहस्यमुद्रां शिक्षयेत्। 

प्रविश्य मण्डलमिदं पञ्चभिः कामसद्गुणैः।

रमयन् परदाराणि सुतरां सिद्धिमाप्नुते॥



अथास्या हृदयं भवति हो वज्रकाम॥

ततो यथावद् वज्राक्रान्तित्रिशूलमुद्राद्याः चतस्रः समयमुद्राः सविधिविस्तराः शिक्षयित्वा, तेन चतुर्मुद्राप्रयोगेण वज्रवाद्यतूर्यतालान् निर्यात्य, वज्रसत्वसंग्रहहृदयगीतिं गायता मुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिर्नृत्योपहारपूजा कार्यति।



तत्रेयं नृत्योपहारपूजा भवति।

वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गु लिद्वयं।

वज्रहुंकारमुद्रां तु हृद्ये तु निबन्धयेत्॥१॥

तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना।

परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन त॥२॥

ततैव नृत्यन्मुक्त्वा तु समकुड्मलसन्धिते।

अग्र्याञ्जलिं हृदि स्थाप्य नमेदाशयकम्पितैः॥३॥

वज्रक्रोधाङ्गुली सम्यगुत्तारमुखसन्धिते। 

परिवर्त्य तथोष्णीषे तु तर्जनी मुखसुस्थिता॥४॥ इति॥



II.6 Ekamudra-mandala

अ[थ वज्रपा]णिर्महाबोधिसत्वः पुनरपीमं स्ववज्रसमयक्रोधसमयमभाषत् हुं॥



Delineation of the mandala

अथास्य मण्डलं भवति।

अथातः संप्रवक्ष्यामि गुह्यमण्डलमुत्तमं।

वज्रधातुप्रतीकाशं वज्रहुंकरसंज्ञितं॥१॥

महामण्डलयोगेन बाह्यमण्डलमालिखेत्।

तस्य मध्ये लिखेत्सम्यग्वज्रिणं चन्द्रमण्डले॥२॥

सवज्र वज्रहुंकारमहामुद्राकरग्रहं।

प्रत्यालीढसुसंस्थानं यथावद् वर्णरूपिणम्॥ इति॥३॥



Mudra

अथात्र गुह्यमण्डले सर्वसिद्धिविधिविस्तरं कृत्वा, वज्रहुंकारगुह्यमुद्राज्ञानमुदीरयेत्।

प्रविश्य मण्डलमिदं त्रिलोकविजयाङ्गुलीं।

साधये तु भगे बिध्वा सर्वकर्म सुसिध्यति॥



अथास्य साधनहृदयं भवति हुं वज्रसमय कृत॥

ततो वज्रहुंकारहस्यसाधनमुद्राज्ञानं शिक्षयेत्।



प्रविष्ट्वा मण्डलं सम्यग् महामुद्राग्रसंस्थितः।

संवसन् वज्रहुंकारः सर्वकर्मकरो भवेद्॥ इति॥



तत्रास्याः साधनहृदयं भवति हुं वज्रसमय हुं॥



ततो यथावन् मुद्राबन्धचतुष्टयं शिक्षयेत्। तथैव सिद्धयः संभवन्तीति॥ यथा मण्डले एवं पटादिषु लिखितानां सर्वप्रतिमास्वपि सामान्या सिद्धिरिति।



अथ वज्रपाणिः सर्वतथागतानाहूयैवमाह। “अधितिष्ठत भगवन्तः सर्वतथागता ममे[दं कुलं ये च] सर्वसत्वा यथाकामकरणीयतया सर्वसिद्धीः प्राप्नुयुर्” इति॥



अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्यास्य त्रिलोकविजयकल्पस्याधिष्ठानायेदमूचुः।

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते। 

वज्रधर्माय ते साधु साधु ते वज्रकर्मणे॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं।

सर्वतथागतं गुह्यं महायानाभिसंग्रहम्॥ इति॥



सर्वतथागतवज्रसमयान्महाकल्पराजान् महाकल्पविधिविस्तरः समाप्तः॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project