Digital Sanskrit Buddhist Canon

षड्विंशतिमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaḍviṁśatimaḥ
CHAPTER 26

SARVA-KALPANUTTARA-TANTRA

अथ वज्रपाणिर्महाबोधिसत्व इमा[मुदानमुदानयामास।]
दुर्दृष्टीनां विरक्तानामिदं गुह्यन्न युज्यते।
सर्वसत्वहितार्थाय वक्ष्यामि विधयस्तथे-॥ति॥

अथवज्रपाणिर्महाबोधिसत्वः [सर्वतथागत] कुलोपचारविधिविस्तरमभाषत्।
तत्रेदं सर्वतथागतकुलोपचारविधिविस्तरतन्त्रं।

तत्रायं हृदयोपचारविधि[विस्तरतन्त्रो भवति]। महामण्डलं दृष्ट्वा धूपपुष्पदीपगन्धपूजामुद्राभिर् कृत्वा, ततो वज्र[वाचा जापमारभ्यति।]

तत्रायं जापविधिर्भवति। यथा स्थानस्थितश्चतुर्मासं चतुःसन्ध्यं धूपादिभिर्यथावत्पूजां कृत्वा, सर्वतथागतमहायानाभिसमयनामाष्टशतेन सर्वतथागतानभिष्टुत्य, चतुर्मुद्राप्रणामयोगेन प्रणमन्नात्मनिर्यातनपूजा कार्यनेन मन्त्रचतुष्टयेन।

ओं सर्वतथागतपूजोपस्थानायात्मानं निर्यातयामि सर्वतथागतवज्रसत्वाधितिष्ठस्व मां॥
ओं सर्वतथागतपूजाभिषेकायात्मानं निर्यातयामि सर्वतथागतवज्ररत्नाभिषिञ्च मां॥
ओं सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय मां॥
ओं सर्वतथागतपूजाकर्मणे आत्मानं निर्यातयामि सर्वतथागतवज्रकर्म कुरु मां॥

“ततोऽविरक्तः सर्वकामगुणेषु सर्वाहारः सर्वकामोपभोगीहृदयार्थः स्वमात्मानं बुद्धबिम्बं पुरतो वाङ्मात्रेणापि भावयन् यथाकामकरणीयतया, अष्टशतं वज्रवाचा जपन्नाशु प्रसिध्यती-” त्याह भगवान् वज्रसत्वः॥

“अथोत्तमसिद्धिमिच्छेत्ततः पटे भगवन्तं तथागतं मध्ये लेखयेत्। तस्य चतुर्महासत्वमण्डलयोगेन यथाभिरुचितवर्णाभरणा महासत्वाश्चन्द्रमण्डलप्रतिष्ठिता लेख्याः कोणभागेषु कुलदेव्य इति। ततः पटस्योदारां पूजां कृत्वा यथावज्जपयोगेन तावज्जपेत् यावन्मासचतुष्टयं, ततः सकलां रात्रिं जपेत्। ततः प्रभाते सर्वतथागततत्वादीनुत्तमसिद्धीनवाप्नोती-” त्याह भगवान् वज्रधरः।

“अथमुद्रासाधनमिच्छेत्तेन सर्वतथागतसत्ववज्रिमुद्रां बध्वा पटस्याग्रतो वज्रवाचां शतसहस्रं यथाकामकरणीयतया यथावद् बन्धन् मुञ्चंश्च जपेत्। ततोऽन्ते सकलां रात्रिं, अविश्रमतो किञ्चित्कालं मुञ्चन्, यथावच्च बन्धन् जपेत्। ततो मुद्रा ज्वलत्याविशत्युत्तिष्ठति वाचं मुञ्चतीति। ततो मुद्राबन्धनेनोत्पतति कामरूपी भवति अन्तर्धाति सर्वकर्माणि च करोति। सर्वमुद्राश्च बन्धमात्रा यथावत्सर्वकर्माणि कुर्वन्ती-” त्याह भगवान्वज्रधरः॥

“अथ समाधयो इष्येत् तेन सूक्ष्मवज्रादारब्धव्य समाधिमभिरोचेत् तं हृदययोगतोऽभ्यसेत्, तावद्यावच् चतुर्मासं। ततोऽन्ते सकलां [रात्रिं पर्यङ्काविक्षप्तसमापन्नेन तिष्ठेत्। ततः प्रभाते सर्वतथागताद्याः] सर्वसिद्धय आमुखीभवन्ति। ततो यादृशी अभिरुचिस्तादृ[शीमवाप्नोती-” त्याह भगवान् वज्रसत्वः॥]

अथ कर्मसाधनं भवति। तथैव जपन्मासमेकं साधयेत्। ततोऽन्ते सकलां रात्रिं ज[पेत्। ततः सर्वकर्माणि सिध्यन्ती-” त्याह भगवान् वज्रध]रः॥

“अथ कर्माणि भवन्ति। सकृदुच्चारितेनात्मपरग्रामनगररक्ष भवति॥ कवचब[न्धादिनावेशमपि कृत्वा चन्दनगन्धेन ग्रहाग्रह]स्पृष्टवज्राङ्कु शशरहस्तरत्नसूर्यध्वजदन्तपङ्क्तिपद्मखड्गचक्रजिव्हासर्ववज्रकवचदंष्ट्रामुष्टिमुद्रादिनिसर्वभावानाविशयति सकृज्जप्तेन॥ मायाकर्म च मयूरपत्रपिञ्च्छके वज्रं चिध्वा बन्धयेत्। ततस्तं मयूराङ्गपिञ्च्छकं सत्ववज्रि मुद्र[या बध्यात् ता]वज्जपेद्यावत् सर्वतथागतमुद्रा आविशति। ततश्च पिञ्च्छकान् नानाद्यानि रूपाणि पश्यति। ततः प्रभृति तेन पिञ्च्छकेन सर्वरूपाणि विधिवद् दर्शयति। तेनैव पिञ्च्छकेन सकृज्जप्ते भ्रामितेनात्मनः सर्वरूपाणि दर्शयति। तेनैव पिञ्च्छकेन लौकिकानि मायाकर्माणि दर्शयति। बुद्धबोधिसत्वबिम्बान्यपि दर्शयति। दशसु दिक्षु सर्वबुद्धक्षेत्रेषु तथागताः सपर्षन्मण्डलाः समारसेनाधर्षणादिबुद्धर्द्धिविकुर्वितानि कुर्वन्तो दर्शयति। यावत्सर्वाकारवरोपेतं बुद्धरूपमात्मानं भवती-” ति॥

“वशीकरणं कर्तुकामः सर्वतथागतसत्वमुद्रां बध्वा तावज्जपेद् यावत्सा मुद्रां ज्वलति। ततः प्रभृति मुद्राबन्धेन सर्वतथागतानभ्यारागयति वशीकरोति। किं पुनरन्यां सत्वान् ?॥

“अथ लौकिकोत्तमसिद्धयः साधयितुकामेन तेनादित एव तथैव जपता मासमेकमष्टसाहस्रिकेण जप्तव्यः। ततोऽन्ते मुद्रां बध्वा तथैव सकलां रात्रिं जपेत्, यावन्मुद्रा ज्वलति। ततः प्रभृति मुद्राबन्धेन लौकिकसिद्धिविद्याधरसिद्धीनामेकतरो भवती-” त्याह भगवां वज्रधरः॥

तथागतकुलोपचारविधिविस्तरः परिसमाप्तः॥

अथ वज्रकुलोपचारविधिविस्तरो भवति।

“तत्रादित एव पूर्वमेवं कुर्यात्। तथैव यथाकामकरणीयतया, अक्षरलक्षं जपेत्। अस्य सकलां रात्रिं जपेत्। ततः प्रभृति सर्वसत्वनिग्रहानुग्रहक्षमो भवती-” त्याह भगवां वज्रधरः॥

अथ साधयितुमिच्छेत् तेन यथावत्पटं चित्रापयितव्यः। ततस्तथैव पूजां कृत्वा मासमेकं सर्वकामभोजी यथाकामकरणीयतया, अष्टसाहस्रिकेण जापेन चतुःसन्ध्य वज्रवाचा जपेत्, तावद्यावन्मासान्ते पटस्योदारां पूजां कृत्वा वज्र-हुंकारमहामुद्रां बध्वा तावज्जपेद्यावत्तस्मात् मुद्रां बन्धात्, हुंकारशब्दो विनिःसृतः। ततः प्रभाते महेश्वरादयो देवाधिपतयः सगणपरिवाराः पुरःस्थित्वाज्ञां मार्गयन्ति। ततो विद्याधरेणैवं वक्तव्यं “यदाहं ब्रूयामागच्छतेदं कुरुत तदा भवद्भिरागत्य ममाज्ञा कार्ये-”ति। ततः प्रभृति सकलत्रिलोकाधिपतिर्भवति। यथेच्छया च मुहूर्तमात्रेण सकलं त्रिभुवनमाज्ञापयन् भ्रमति। पुनरप्येति च, निग्रहानुग्रहं कुर्वं, दिव्यानि च त्रिलोकभोगानि चोपभुञ्जन् यथाकामकरणीयतया, सर्वसुराधिपतियोषिताद्याः सर्वयोषिता आरागयित्वोपभुञ्जति। न च तस्य कश्चित् किंचिच्छक्नोति कर्तुं, हुंकारेण च सर्वदुष्टदे[वादीन् प्रमर्दित्वा ततस्तावत्कल्पशतसहस्रान् जीवती-” त्याह भगवान् वज्रधरः॥

“अथ मुद्रासाधनमिच्छेद्] यथावज्जपं कृत्वा मासान्ते वज्र-हुं-कारसमयमुद्रां बध्वा सकलां रात्रिं जपेत्। ततः प्रभाते मुद्राः सिद्धा भवन्ति। ततो यथावन् मुद्राबन्धेन हुंकारप्रयुक्तेन आकाशगमनविश्वसंदर्शनान्तर्धानमायासन्दर्शनसर्वावेशनाकर्षणवशीकरणसर्वतुष्टिसंजननसर्वरत्नाभिहरणमहातेजोज्वालासन्दर्शनरत्नवृष्टिसन्दर्शनमहाट्टहासप्रमुञ्चनसर्वसत्वसंशोधनच्छिन्दनभिन्दनऋतुचक्रपरिवर्तनयथावत्तत्वोल्लापनसर्वकर्मप्रवर्तनरक्षजंभनस्तंभनत्रासनमारणसर्वसत्वमुद्रणकामरतिक्रियाप्रवर्तनाभिषेकसर्वभावगायापननृत्यापनाह्वायनप्रवेशनस्फोटनावेशनादीनि सर्वकर्माणि करोती-” त्याह भगवान् वज्रधरः॥

“अथ सूक्ष्मज्ञानसाधनमिच्छेत् तेन वज्र-हुं-कारसमाधिमभ्यसता तथैव जापयोगेन मासं साधयितव्यं। ततोऽन्ते ऽनेनैव समाधिना सकलां रात्रिं जपेत्। तावद् यावत् प्रभाते पञ्चाभिज्ञा भूत्वा सर्वसत्वानुग्रहनिग्रहक्षमो भवती-” त्याह भगवान् वज्रधरः॥

“अथ कर्मसाधनमिच्छेत् तेन तथैव जपता मासमेकं साधयितव्यं। ततोऽन्ते सकलां रात्रिं जपेत्। ततः सर्वकर्माणि सिध्यन्ती” त्याह भगवान् वज्रधरः॥ ततः कर्माणि भवन्ति सकृदुच्चारितेन मनीषितया रक्षादीनि सर्वकर्माणि करोति॥

वज्रकुलोपचारसिद्धिविधिविस्तरः [परिसमा]प्तः॥ ॥

अथ पद्मकुलोपचारविधिविस्तरो भवति।

“तत्रादित एव तावच्छतसहस्रं जपेत्, पूर्वमेवाकृता भ[वति]ततः साधनं भवति। पटे भगवान् सर्वजगद्विनयाद्याः कर्तव्यास्तस्य सर्वपार्श्वेषु चतुर्मण्डलयोगेन महासत्वचतुष्टयः कार्यः अन्ते च देव्यः। ततः स एव जापविधिविस्तरो मासान्ते सकलां रात्रिं जपेत्। ततः सर्वजगद्विनयो भगवानागच्छति, यथाकालं वरेणाभिप्रचारयती-” ति आह भगवान् वज्रधरः॥

“अथ मुद्रासाधनमिच्छेत् तेन तथैव पद्मवज्रिमुद्राबन्धं कृत्वा यथावन् मुच्याष्टसाहस्रिकेण जापेन चतुःसन्ध्यं जपेत्। ततः सकलां रात्रिं मुद्राबन्धेन जपेत्। प्रभाते सिद्धिर्भवति। ततो मुद्राबन्धेन यथावत् सर्वजगद्विनयं करोती-” त्याह भगवानवलोकितेश्वरः॥

“अथ समाधिनयसाधनममिच्छेत् तेन तथैव मासान्ते सकलां रात्रिं यथाभिरुचितेन समाधिना जापो दातव्यः। ततः प्रभाते सर्वसमाधय आमुखीभवन्ती-”त्याह भगवान् वज्रधर्मः॥

अथ कर्मसाधनमिच्छेत् तथैव जपन्मासान्ते सकलां रात्रिं जपेत्। ततः सर्वकर्मक्षयो भवती-” त्याह भगवां वज्रधरः॥

पद्मकुलोपचारविधिविस्तरः परिसमाप्तः॥ ॥

अथ मणिकुलोपचारविधिविस्तरो भवति॥

“तत्रादित एव सर्वतथागतप्रणामचतुष्टयं कृत्वा शतसहस्रं जपेत्। ततस्तथैव पटे भगवां सर्वार्थसिद्धिं चतुर्मुद्रामण्डलयोगेन लिखेत्। ततस्तथैव पूजां कृत्वा तथैव साधयेत्। मासान्ते सकलां रात्रिं जपेत्। ततः प्रभाते भगवां सर्वतथागताभिषेकरत्नः आकाशगर्भो बोधिसत्व आगत्याभिषेकं ददाति। तेनाभिषेकेण त्रिसाहस्रमहासाहस्रे लोकधातौ विद्याधरचक्रवर्ती भवती-” त्याह भगवान् वज्रधरः।

“अथ मुद्रासाधनमिच्छेत् तेन तथैव धर्मवज्रिप्रयोगेण वज्ररत्नमुद्रा यथावत्साध्या सर्वाशाकर्मकरी भवती॥

“अथ मणिज्ञानमिच्छेत् साधयितुं तेन तथैव वज्ररत्नोद्भवसमाधिर्यथानुक्रमतो भावयितव्यः। निःस्वभावादाकाशात्कथं रत्नसंभव इति, रत्नाच्च कथं बोधिसत्वकायसंभव इति। इमं समाधिं चतुःसंध्यं भाव्य जपेद्, यथोपरि ततो मासान्ते तेनैव समाधिना [सकलां रा]त्रिं जपेत्। ततः प्रभाते सर्वतथागतैरागत्य यथाभिरुचितोऽभिषिच्यत” इत्याह भगवनाकाशगर्भः॥

“अथ कामसाधन [मिच्छेत्] तथैव जपता मासान्ते सकलां रात्रिं जपेत्। ततः प्रभाते भगवानाकाशगर्भः सर्वार्थसाधको भवतीति। ततः सर्वकर्माणि कुर्याद्” इत्याह भगवानार्यवज्रधरः॥

मणिकुलोपचारविधिविस्तरः परिसमाप्तः॥

अथ सर्वकुलोपचारसाधारणविधिविस्तरो भवति॥
तत्रादित एव च सर्वहृदयोपचारविस्तरः।

“हृदयमनीषितानि सर्वतथागतानां सिध्यन्ताम्” इत्युच्चार्य हृदयं यथाभिरुचितो जप्य साधनविधिः कर्तव्य इति॥

तत्रायं मुद्रोपचारविधिः। “सर्वमुद्रा मे भोग्या भवन्ती-” त्युक्त्वा समयमुद्रां बध्वा यथाभिरुचितो यथाशक्त्या जपेत्। ततो यथावत्सिद्धिरिति॥

तत्रायं सर्वमन्त्रोपचारविधिः। “निःप्रपञ्चा वाक्सिद्धिर्भवतु, सर्वतथागतसमाधयो मे आजायन्ताम्” इत्युक्त्वा मन्त्रं यथाभिरुचितो जपेत्, एषा सिद्धिरिति॥

तत्रायं विद्योपचारविधिः। “अविद्यान्धा च ते मे सत्वाः सर्वतथागताश्च विद्याधिगमसंवरभूता” इत्युक्त्वा विद्यां यथाभिरुचितो जप्य साधनमावहेद्” इत्याह भगवानार्यवज्रधरः॥

“अथ सर्वहृदयमुद्रामन्त्रविद्यानां यथाकामकरणीयतया वज्रजापविधिविस्तरो भवति। यस्य सत्वस्य हृन्मुद्रां मन्त्रं विद्यां तु साधयेत्। जापार्थतस्तमात्मानं सत्वं वा साध्य सिध्यती-”त्याह भगवान् वज्रसत्वः॥

सर्वकुलसाधारणजापविधिविस्तरः परिसमाप्तः॥ ॥

अथ सर्वकुलसाधारणसिद्धिविधिविस्तरो भवति॥

तत्रादित एव तथागतकुलसिद्धयः। तद्यथार्थनिष्पत्तिसिद्धिः ऋद्धिसिद्धिर्विद्याधरत्वं महासिद्धिश्चेति॥

“तत्रार्थनिष्पत्तिर्भवति। यत्रा निधिशङ्का भवेत् तत्र मुद्रां बध्वा स्वसमाधिना तन्निधिस्थानं वज्रदृष्ट्या निरीक्षयेत्। यदि वज्राकारमुत्तिष्ठत्वं पश्यति तथा ज्ञातव्यं निधिरत्रास्तीति। ततो वज्रस्फोटसमयमुद्रां बध्वोत्खन्य यथाकामकरणीयतया गृण्हीयादचिरात् प्राप्नोती-” त्याह भगवान् वज्रसत्वः॥

“तत्र ऋद्धिसिद्धिनिष्पत्तिर्भवति। यां मुद्रां साधयेद् “वज्रसिद्धिर्।” इत्युक्त्वा ऋद्धिसिद्धिश्चतुर्विधा भव[न्ति तद्यथा] जलस्योपरिचंक्रमणनिषीदतादिकं तथागतादिसर्वरूपसंदर्शनं यावदभिरुचिस्तावद् अद्रेष्यत्वं। आकाशगामी च योजनसहस्रमूर्ध्वमुत्पत्यधस्ताच्च गच्छति। सर्वादिशश्च योजनसहस्राद् यथाभिरुचितवेगः परिभ्रम्यागच्छति। योजनसहस्रादर्शेन सर्वसत्वमनीषितानि ज्ञानाति। सर्वभावानि च चक्षुषा पश्यति श्रोत्रेण शृणोति। सर्वदिक्षु स योजनसहस्रादर्शेन मनोऽभिरुचिताः सर्वस्त्रियोऽङ्गे समुत्क्षिप्यानयति। सर्वहिरण्यसुवर्णमणिमुक्तादयश्च सर्वार्थानपहरति, न चास्य कश्चित् किंचित् छक्नोति कर्तुं। यद् वज्रेणाप्यदृश्यो भवति। किं पुनरन्यैः ?। दशपुरुषसहस्रबली नित्यारोग्यवान् नित्यं सर्वकामोपभोजी सदायौवनो दिव्यरूपी सर्वतथागतान् सवज्रसत्वां पश्यन् पूजयंश्चानुत्तरवज्रसिद्धिश्चत्वारिवर्षसहस्राणि जीवती-” त्याह भगवान् सर्वतथागतवज्रऋद्धिः॥

तत्रायं वज्रविद्याधरसिद्धिनिष्पत्तिर्भवति। मुद्रान् साधयं “वज्रविद्याधर” इति कुर्यात्, सिद्धया वज्रविद्याधरचक्रवर्ती भवति। सर्वकामोपभोगी सहस्रबुद्धक्षेत्रमेकक्षणेन परिभ्रम्यागच्छति। सर्वसुखानि परिभुंक्ते। द्विरष्टवर्षवयुः आकुञ्चितकुण्डलकेशधारी महावज्रविद्याधरः सर्वतथागतान् सवज्रसत्वान् पश्यन् महाकल्पस्थायी भवती-” त्याह भगवान् सर्वतथागतविद्याधरः॥

तत्र महासिद्धिनिष्पत्तिर्भवति। स्वमुद्रां हृदयार्थतः साधयन्। स्वमुद्रा सत्वरूपी भवत्य, एकक्षणेन दशसु दिक्षु सर्वलोकधातुषु विश्वरूपी विश्वक्रियाप्रवर्तकः, सर्वतथागतान् सवज्रसत्वां दृष्ट्वा सर्वाकारवरोपेताभिः सर्वतथागतपूजाभिः संपूज्याशेषानवशेषसत्वार्थं च कृत्वा पुनरप्यायाति। सर्वलोकधातुसर्वकामसर्वसुखसौमनस्यानि सर्वाकारवरोपेतान्युपभुञ्जन्, वज्रसत्वसमो महाबोधिसत्वः अशेषानवशेषमहाकल्पायुर्भवती-” त्याह भगवान् सर्वतथागतसिद्धिः।

तत्रैता वज्रकुलसिद्धयः। तद्यथा त्रिलोकविजयसिद्धिः सर्वाभिषेकसिद्धिः सर्वसुखसौमनस्यसिद्धिः उत्तमसिद्धिरिति॥

“तत्र त्रिलोकविजयसिद्धिर्भवति। त्रिलोकविजयमुद्रां बध्वा महेश्वरं [वामप]देनाक्रम्य साधयेत्। ततः सा प्रतिमा नादं मुञ्चति। ततो हुंकारः प्रयोक्तव्यः। हुंकारे प्रयुक्तेमात्रे महेश्वरादयः सर्वत्रैलोक्याधिपतयः सपरिवारा; साधकस्य पुरत आगत्वा आज्ञावश्यविधेया भवन्ति। ततः प्रभृति सर्वत्रिलोकाधिपतिर्वज्रधरो भवति। आकाशेन गच्छति सकलत्रिलोकचक्रं परिक्रम्यागच्छति, दुष्टदेवादयश्च सर्वसत्वान् हुंकारेण दमयति। सर्वतथागतवज्रहुंकाररूपी सकलत्रिलोकमाज्ञया वर्तयन् सर्वतथागतान् सवज्रसत्वान् पश्यन्नारागयंश्च वर्षहस्रान् जीवती-”त्याह भगवान् वज्रहुंकारः॥

“तत्रायं सर्वाभिषेकसिद्धिमुद्रां साधयन्। सर्वतथागताभिषेकरत्नमुद्रया पूर्वमात्मानमभिषिच्य साधयेत्। ततस्तस्य सिद्धस्य चतुर्विधमभिषेको भवति। वज्राभिषेको रत्नाभिषेको धर्माभिषेकः कर्माभिषेकश्चेति। तत्र वज्राभिषेके लब्धे सर्वतथागतानां वज्रधरो भवति। रत्नाभिषेके सर्वरत्नाधिपतिर्भवति। धर्माभिषेके धर्मराजा भवति। कर्माभिषेके लौकिकरोकोत्तरसर्वकर्मसिद्धिमवाप्नोती-”त्याह भगवां सर्वतथागताभिषेकः॥

“तत्रेयं सर्वसुखसौमनस्यसिद्धिर्, यदुत गुह्यपूजाभिर्नित्यं सर्वतथागतपूजां कुर्वन्, सर्वतथागतसर्वसुखसौमनस्यसिद्धिमवाप्नोती-“त्याह भगवां सर्वतथागतसर्वसुखसौमनस्यः॥

“तत्रेयमुत्तमसिद्धिः, यदुत वज्रधरसमोऽहम्” इत्याह भगवां वज्रधरः॥

तत्रैताः पद्मकुलसिद्धयः। तद्यथानुरागणवशीकरणरक्षपद्मसिद्विश्चेति॥

“तत्रानुरागणसिद्धिर्भवति, यथावत्पद्मरागभावनया सर्वतथागतादिसर्वसत्वानुरागणक्षमो भवति। स्वलोकेश्वरानुस्मृत्या तथैव सर्वसत्ववशीकरणसमर्थो भवति। मैत्र्यस्फरणसमाधिना सर्वजगद्रक्षावरणगुप्तक्षमो भवति। स्वं पद्मसमाधिना पद्मं हस्तेन गृह्य साधयं लोकेश्वररूपी सर्वाकारवरोपेतश्चतुर्वर्षहस्रं जीवती-” त्याह भगवान् सर्वतथागतपद्मः॥

तत्रैता मणिकुलसिद्धयः। तद्यथा सर्वकुलाभिषेकसिद्धिः, महातेजस्त्वं, सर्वाशाप्रपूरणं, रत्नसिद्धिश्चेति॥

“तत्र सर्वतथागताभिषेकसिद्धिः। यदुत स्वाभिषेकनिर्यातना प्रदीपदानं दानपारमितापारिपूरिः, यथाशक्यरत्नसाधनं चत्वाभिः सिद्धिभिः सर्वतथागतां पूजयन्नचिरात् सिध्यती-” त्याह भगवां सर्वतथागतरत्नः॥

सर्वकुलसाधारणसिद्धिविधिविस्तरः [परिसमा]प्तः॥

“अथ सर्वकल्पोपायसिद्धितन्त्रमनुव्याख्यास्यामी-” त्याह भगवाननादिनिधनसत्वः॥

[तत्रादित एव हृदयोपायसिद्धितन्त्रं।]
यथा विनयो लोको हि तादृशी सिद्धिरिष्यते।
उपायस्तत्र मुद्रा हि सर्वसिद्धिप्रदं महत्॥

तत्रायं मुद्रोपायसिद्धितन्त्रं।
विरागविनयो लोको मुद्रासिद्धिस्तु रागजा।
उपायो भावना तत्र सर्वसिद्धिकरी वरा॥

तत्रेदं मन्त्रोपायसिद्धितन्त्रं।
लोकोऽयं सत्यविभ्रष्टो मन्त्रसिद्धिर्न इष्यते।
उपायो निःप्रपञ्चस्तु सर्वसिद्धिकरः परः॥

तत्रेदं विद्योपायसिद्धितन्त्रं।
अविद्याभिनिविष्टोऽयं विद्यासिद्धिर्न इष्यते।
उपायस्तत्र चौदारां सर्वसिद्धिप्रदं वरम्॥ इति॥
सर्वकल्पोपायसिद्धितन्त्रं॥ ॥

“अथ सर्वकल्पपुण्यसिद्धितन्त्रमनुव्याख्यास्यामी-” त्याह भगवां सर्वतथागतः॥

तत्रादित एव स्वहृदयपुण्यसिद्धितन्त्रं।
कृत्वा चतुर्विधां पूजां महापुण्यमवाप्नुते।
बुद्धपूजाग्रपुण्या हि सिध्यते नात्रं संशय॥ इति॥

तत्रेदं मुद्रापुण्यसिद्धितन्त्रं।
रक्षंस्तु समयं गुह्यं महापुण्यमवाप्नुते।
अपुण्योऽपि हि सिध्येय शीघ्रं समयरक्षणाद्॥ इति॥

तत्रेदं मन्त्रपुण्यसिद्धितन्त्रं।
बुद्धानामादिवचनैर्महापुण्यमवाप्नुयात्।
धर्मदानादपुण्योऽपि शीघ्रं सिद्धिमवाप्नुते॥

तत्रेदं विद्यापुण्यसिद्धितन्त्रं।
दानमग्र्यं हि पुण्यानां ददन्पुण्यमवाप्नुते।
दानपारमिता पूर्णः शीघ्रं बुद्धत्वमाप्नुते-॥ति॥
सर्वकल्पपुण्यसिद्धितन्त्रं॥ ॥

“अथ सर्वकल्पप्रज्ञासिद्धितन्त्रमनुव्याख्यास्यामि॥
तत्रादित एव हृदयप्रज्ञासिद्धितन्त्रं।

अ-अक्षरप्रवेशेन सर्वाक्षरविजानना।
स्ववक्त्रपरवक्त्रं तु भावयं सिद्धिमाप्नुयाद्॥
इत्याह भगवान् मञ्जुश्रीर्महाबोधिसत्वः॥
तत्रेदं मुद्राप्रज्ञासिद्धितन्त्रं।
प्रज्ञा नैर्वेधिकी नाम समाधिरिति कीर्तिता।
तया तु मुद्राः सिध्यन्ते भावयं सिध्यति क्षणाद्॥

इत्याह भगवान् प्रज्ञाग्र्यः॥
तत्रेदं मन्त्रप्रज्ञासिद्धितन्त्रं॥
प्रज्ञाघोषानुगा नाम समाधित्वात्प्रपञ्चतः।
तय भावितया शीघ्रं मन्त्रसिद्धिमवाप्नुयाद्॥

इत्याह भगवान् वज्रबुद्धिः॥
तत्रेदं विद्याप्रज्ञासिद्धितन्त्रं।
विद्यामन्त्रविशेषाणां विशेषो नहि विद्यते।
प्रज्ञया भावयन्नेवमाशु सिद्धिर्ध्रुवा भवेद्॥

इत्याह भगवान् सर्वतथागतप्रज्ञाज्ञानः॥
सर्वकल्पप्रज्ञासिद्धिविधिविस्तरतन्त्रं॥ ॥

“अथ कल्पसंभारसिद्धितन्त्रमनुव्याख्यास्यामी-” त्याह भगवान् वज्रपाणिः॥
तत्रादित एव सर्वहृदसंभारसिद्धितन्त्रं।
सर्वपूजां प्रकुर्वाणः सं[भारं हि] विवर्धते।
कुशलानां तु धर्माणां ततः सिध्यति संभृतः॥

तत्रेदं मुद्रासंभारसिद्धितन्त्रं।
बहुचक्रप्रवेशाच्च बहुमण्डल[कल्पनात्]।
[संभार]पूजामुद्राणां महासिद्धिः प्रवर्तते॥

तत्रेदं मन्त्रसंभारसिद्धितन्त्रं।
अनुमोदनादियोगेन सद्धर्मपठनात्तथा।
बहुजापप्रदानाच्च मन्त्रसिद्धिर्ध्रुवा भवेद्॥ इति॥

तत्रेदं विद्यासंभारसिद्धितन्त्रं।
अविद्यासुप्रहीणत्वात् दानपारमितानयात्।
संभारपरिपूर्णस्तु शीघ्रं सिद्धिमवाप्नुते-॥ति॥
सर्वकल्पसंभारसिद्धितन्त्रं॥ ॥

सर्वकल्पविधिविस्तरतन्त्रं परिसमाप्तं॥ ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वकुलचिह्नसंभवज्ञानतन्त्रमुदाजहार॥ तत्र कथं वज्रसंभवः ?।

स एव भगवां सत्वः सर्वचित्तः स्वयं प्रभुः।
कायवाक्चित्तवज्रस्तु दृढः सत्वः स्वयंभुवां॥
सत्वानामुत्तमः सत्वो वज्रभावनया हृदि।
वज्रसत्व इति ख्यातस्तु तस्मिं वज्रो प्रतिष्ठितः॥
स एव ज्ञानयोगेन बुद्धानामसमत्विषां।
निःक्रम्य हृदयाद्विश्वो विश्वरूपो भवत्यपि॥
सर्वधातुरजःसंख्याः स एव तु जिनो भवेत्।
तेभ्यो वै वज्रकायेभ्यो वज्रसत्वस्तु संभवेत्॥
तत एवादिसत्वास्तु सर्वचिह्नसमुद्भवः।
चिह्नेभ्यस्तु महासत्वास्तेभ्यः सर्वमिदं नयम्॥ इति॥
य इदं शृणुयात्कश्चिच्छ्द्दधेद् धारयेद् हृदि।
भावयेच्च सदा तुष्टः शीघ्रं सिद्धिमवाप्नुयाद्॥

इत्याह भगवान् वज्रसत्वः॥
सर्वतथागततत्वसंभवज्ञानविधिविस्तरतन्त्रं॥ ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वकल्पसंभवज्ञानविधिविस्तरतन्त्रमभाषत्॥
तत्रादित एव तावत् सर्वतथागतकल्पसंभवज्ञानन्तन्त्रं भवति।
बुद्धानामविकल्पं तु ज्ञानं भवति शाश्वतं।
अविकल्पात्ततो ज्ञानात्कल्पनात्कल्प उच्यते॥

तत्रेदं तथागतकुलकल्पसंभवज्ञानतन्त्रं।
यत्राविकल्पः कल्पात्मा कल्प्यते कल्पनोद्भवः।
वज्रसत्वो महासत्वः तेन कल्पो निरुच्यते॥

तत्रेदं वज्रकुलकल्पसंभवज्ञानतन्त्रं।
यथा लिख्य हि कल्पयन्ते विधयः कल्पसिद्धिदाः।
तेन कल्प इति प्रोक्तो विकल्परहितात्मभिः॥

तत्रेदं पद्मकुलकल्पसंभवज्ञानतन्त्रं।
रागो विकल्पसंभूतः स च पद्मे प्रतिष्ठितः।
ततस्तु कल्पस्थायिन्यः सिद्धयः संभवन्ति हि॥

तत्रेदं मणिकुलकल्पसंभवज्ञानतन्त्रं।
मणयो ह्यविकल्पास्तु प्रभावैः सुसमुच्छ्रिताः।
एवंस्तु सिद्धयो दिव्याः संभवन्त्यविकल्पिताः॥

इत्याह भगवान् वज्रधरः॥
सर्वकुलकल्पसंभवज्ञानतन्त्रं॥ ॥

अथ सर्वकल्पहृदयसंभवज्ञानतन्त्रं॥
मनीषितविधानैस्तु सिध्यते तु मनीषितं।
समाधिसाधनो हृद्स्थः हृदयस्तु तेन चोच्यते॥

अथ सर्वमुद्रासंभवज्ञानतन्त्रं॥
दुरतिक्रमो यथाभेद्यो राजमुद्राग्रशासनः।
महात्मचिह्नविश्वस्तु तथा मुद्रेति कीर्तिता॥

अथ मन्त्रसंभवज्ञानतन्त्रं॥
अनतिक्रम[णो च] हि दुर्भेद्यो गुह्य एव च।
मन्त्र्यते गुह्यसिद्ध्यत्वं मन्त्रस्तेन निरुच्यते॥

अथ विद्यासंभवज्ञानतन्त्रं॥
अविद्याविप्रणाशाय वाग्विद्यो[त्तम]सिद्धये।
विद्यते वेदनासिद्धिस्तेन विद्या प्रकीर्तिते॥

त्याह भगवान् वज्रधरः॥
सर्वकल्पहृदयादिसंभवज्ञानतन्त्रं। ॥

अथ सर्वकल्पज्ञानोत्पत्तितन्त्रं॥
तत्रादित एव हृदयज्ञानोत्पत्तितन्त्रो भवति॥
हृदयं जप्य विज्ञेयमात्मनो वा परस्य वा।
भव्यं भूतं भविष्यं च यः पश्यति शृणोति च॥

तत्रेदं मुद्राज्ञानोत्पत्तितन्त्रं भवति।
मुद्रामेकतरां बध्वा यथावद्विधिना मनः।
कृत्वा निरीक्षेल्लोकं तु सर्वं ज्ञेयं यथोपरी-॥ति॥

तत्रेदं मन्त्रज्ञानोत्पत्तितन्त्रं।
सकृदुच्चारयन्मन्त्रं ब्रूयाज्जिह्वां स्वकीन्तु यः।
भव्यं भूतं भविष्यं च तत्सर्वं सत्यमावहेद्॥

इत्याह भगवानवलोकितेश्वरः॥
तत्रेदं विद्याज्ञानोत्पत्तितन्त्रं।
सकृदुच्चार्य विद्यां तु वेदयेन्मनसा स तु।
भव्य भूतं भविष्यं [च वज्रवाक्‌शास]नं यथे-॥ति॥
सर्वकल्पज्ञानोत्पत्तिविधिविस्तरतन्त्रं परिसमाप्तं॥ ॥

अथ सर्वकुलसाधारणगुह्यकायवाक्चित्तवज्रमुद्रासाधनतन्त्रं भवति॥
तत्रेदं तथागतकुलगुह्यकायमुद्रासाधनं भवति।
यथा तथा निषण्णस्तु पर्यङ्केन तु साधयेत्।
यथा लेख्यानुसारेण महासत्वः प्रसिध्यती-॥

त्याह भगवान् वज्रसत्वः॥
तत्रेदं वज्रकुलगुह्यकायमुद्रासाधनं भवति।
प्रत्यालीढसुसंस्थानं यथा लेख्यानुसारतः।
साधयेत सुसंक्रुद्धः सिध्यते नात्र संशय॥

इत्याह भगवान् वज्रहुंकारः॥
तत्रेदं पद्मकुलगुह्यकायमुद्रासाधनं भवति।
वज्रपर्यङ्कसंस्थं तु वज्रबन्धं करद्वयं।
समाधिकायो भूत्वा तु साधयेत्पद्मसंभवम्॥

इत्याह भगवान् पद्मसत्वः॥
तत्रेदं मणिकुलगुह्यकायमुद्रासाधनं भवति।
उत्थितो वा निषण्णो वा चङ्क्रमन् वा यथा तथा।
वज्ररत्नाभिषेकेण सिध्यते नत्र संशय॥

इत्याह भगवान् वज्रगर्भः।
तत्रेदं तथागतकुलगुह्यवाङ्मुद्रासाधनतन्त्रः।
नातिस्यन्दितजिह्वाग्रदन्तोष्ठद्वयसंयुता।
साधयेत्सर्वकल्पान्तु वज्रवाक्स्वरवर्जिते-॥

त्याह भगवान् वज्रवाचः।
तत्रेदं वज्रकुलगुह्यवाङ्मुद्रासाधनतन्त्रं।
मेघघूल्लित-हुं-कारक्रोधगंभीरवाक्स्थिरा।
क्रोधस्फुटा महावज्रं वज्रक्रोधवाग्साधनम्॥

इत्याह भगवान् वज्रहुंकारः॥
तत्रेदं पद्मकुलगुह्यवाङ्मुद्रासाधनतन्त्रं।
अनुच्छ्वासं सूक्ष्म[श्वासं सूक्ष्मवाचासुसं] स्फुटं।
सिध्यते सर्वजापानि समाधिज्ञानगर्भये-॥

त्याह सर्वतथागतसमाधिज्ञानगर्भः॥
तत्रेदं मणिकुलगुह्यवाङ्मुद्रा[साधन] तन्त्रं।
सुपरिस्फुटया वाचा प्रणामपरमः सदा।
जपेते विनयैश्चापि सर्वमाशु प्रसिध्यती-॥

त्याह भगवान् सर्वतथागतपूजावि[धिविस्त]रकर्मा॥
तत्रेदं तथागतकुलगुह्यचित्तमुद्रासाधनतन्त्रं।
कामो हि भगवांच्छश्वः सर्वसत्वसुखप्रदः।
वज्रसत्वः स्वयमे[व इ]ति भाव्याशु सिध्यती-॥

त्याह भगवान् कामः।
तत्रेदं वज्रकुलगुह्यचित्तमुद्रासाधनतन्त्रं।
सर्वसत्वहितार्थाय दुष्टानां [विनयार्थाय]।
बुद्धशासनरक्षार्थं क्रोधः सिद्धिकरः पर॥

इत्याह भगवान् सर्वतथागतवज्रहुंकारः।
तत्रेदं पद्मकुलगुह्यचित्तमुद्रासाधनतन्तं।
यथा पद्ममलिष्ठं तु वासदोषैः सुरागवान्।
तथा मे रागदोषैस्तु भवेद्रागः स सिध्यती-॥

त्याह भगवान् पद्मरागः॥
तत्रेदं मणिकुलगुह्यचित्तमुद्रासाधनतन्त्रं।
कदा नु सर्वसत्वानां सर्वकार्यार्थसिद्धये।
रत्नवर्षाणि वर्षेयं सिद्धः सर्वाशु सिध्यती-।

त्याह भगवानार्याकाशगर्भः।
तत्रेदं तथागतकुलगुह्यवज्रमुद्रासाधनतन्त्रं।
उत्थितो वा निषण्णो वा [चङ्क्रमन्वा] यथा तथा।
वाममुद्रागुह्यकरः सर्वं कुर्वं स सिध्यती-॥

त्याह भगवां सर्वतथागतगुह्यवज्रपा[णिः॥
तत्रेदं वज्रकुलगुह्यवज्रमुद्रासाधनतन्त्रं॥]
यथा तथा स्थितश्चैव कुर्वन् चापि यथा तथा।
वक्रज्रोधाङ्गुलिं बध्वा वस्त्रच्छन्नां तु सिध्यती-॥

त्याह भगवा[न् सर्वतथागतक्रोधराजः॥
तत्रेदं पद्मकुलगु]ह्यवज्रमुद्रासाधनतन्त्रं।
पद्ममुष्टिं तु वामेन करेणाच्छादितेन तु।
बध्वा यथा शीघ्रं पद्म[सिद्धिमवाप्नुयाद्॥

इत्याह भगवानवलोकितेश्व]रः॥
तत्रेदं मणिकुलगुह्यवज्रमुद्रासाधनतन्त्रं।
रत्नमुष्टिं तु बध्वा वै वामाच्छादितसत्क[रः।
यथा तथा क्रियते वै रत्नसिद्धिमवाप्नु] याद्॥

इत्याह भगवानाकाशगर्भः।
तत्रेदं सर्वकुलगुह्यसाधारणमुद्रासाधनतन्त्रं।
महामु[द्राप्रयोगेण स्वसत्वसमाधिना हि।]
वज्रवाग्वज्रदृष्टिभ्यामचिरात्सिद्धिरुत्तमे-॥

त्याह भगवान् सर्वतथागतवज्रसत्वः॥
सर्वकुलगुह्य [कायवाक्चित्तवज्रमुद्रासाधनतन्त्रं स]माप्तं॥ ॥

अथ भगवान् वज्रपाणिः सर्वतथागतनाहूयैवमाह। “प्रतिपद्यत भगवन्तस्तथा[गता इदं कल्पमधितिष्ठन्ति प्रतिवेदयन्ति।”

अथ स]र्वतथागताः पुनः समाजमागम्य, पुनरपि साधुकाराण्यददुः।
साधु ते वज्रसत्वाय वज्ररत्ना[य साधु ते।
वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं।
सर्वतथागतगुह्यं महायानाभिसंग्रहम्॥इ[ति॥

सर्वतथागततत्वसंग्र]हात् सर्वकल्पानुत्तरतन्त्रं परिसमाप्तं॥ ॥

EPILOGUE OF THE SARVA-TATHAGATA-TATTVA-SANGRAHA

अथ वज्रपाणिर्महाबोधिसत्वः उत्थायास[नाद् भगवन्तमनेन नामाष्टशतेनाध्येषामा]स।
वज्रधातु महासत्व सर्वार्थ परमार्थक।
शाक्यराज महाज्ञान वज्रात्मक नमोऽस्तु ते॥१॥
[सत्वसंभव तत्वार्थ सत्वहेतु महानय।]
महासत्वार्थ कार्यार्थ सत्वसत्व नमोऽस्तु ते॥२॥
बुद्धधर्म महाधर्म धर्मचक्रप्रवर्तक।
म[हावचन विद्याग्र्य महासत्व नमोऽस्तु ते॥]३॥
महाकर्म महारक्ष सर्वकर्म प्रसाधक।
महात्म सत्वचर्याग्र सत्वहेतो नमोऽस्तु ते॥४॥
[सर्वपारमिताप्राप्त सर्वज्ञज्ञानवेदक।
सर्वस]त्व महोपाय महाप्रज्ञा नमोऽस्तु ते॥५॥
महाकारुणिकाग्र्याग्र्य कारुण्य करुणात्मक।
सर्वदा[न महामैत्री सर्वकार नमोऽस्तु ते॥]६॥
शाक्यसिंह महाशाक्य शाक्यशाक्य महामुने।
विभो महाविनय नेयार्थ विनयाग्र नमोऽस्तु [ते॥७॥
धर्मधातु समप्राप्त धर्मधातु तथाग]त।
वज्रनाथ महानाथ सत्वराशि नमोऽस्तु ते॥८॥
महाप्रभ महालोक महावीर्य महाबल।
म[हावीर सुवीराग्र्य शम्भु वीर नमोऽस्तु ते॥]९॥
ब्रह्मन् स्वयंभू भगवन् शाक्यवीर महामुने।
सर्वात्मक मुने शुद्ध धर्मराज नमोऽस्तु ते॥१०॥
आ[काशकाय कायाग्र्य त्रिकायाकायभा]वक।
सर्वकाय महाकाय वज्रकाय नमोऽस्तु ते॥११॥
अवाच वाच [वाचाग्र्य त्रिवाचावाचदर्शक।
सर्ववाच] सुमहावाच वज्रवाच नमोऽस्तु ते॥१२॥
अचित्त चित्त चित्ताग्र्य त्रिचित्ताचित्तदर्शक।
सर्वचित्त महाचित्त [वज्रचित्त नमोऽस्तु ते॥१३॥
अवज्र वज्र व]ज्राग्र्य त्रिवज्रावज्रशोधक।
सर्ववज्र महावज्र वज्रवज्र नमोऽस्तु ते॥१४॥
सर्वव्यापि भवाग्र्याग्र्य सु[गताधिपति जय।
त्रैधातुकमहाराज] वैरोचन नमोऽस्तु ते॥१५॥
नामाष्टशतकंश्च तद्यः कश्चिच्छृणुया सकृत्।
पठेद्वा भावयेद्वापि [सर्वो बुद्धत्वमाप्नुयात्॥१६॥
अध्येषया]मि त्वान्नाथ सर्वसत्वहितार्थतः।
महाकारुण्यमुत्पाद्य धर्मचक्रं प्रवर्तये-॥१७॥ति॥

[अथ भगवान् वैरोचनः सर्वतथागतधिपतिना]ज्ञावचनमुपश्रुत्य, सर्वतथागतानाहूयैवमाह। “प्रतिपद्यत भगवन्तः तथागताः समा[जमापन्तुम्” इति॥

अथ सर्वतथाग]ताः समाजमापद्य, इमां गाथामभाषन्त।
सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः।
[यथा विनयतो विश्वं धर्मचक्रं प्रवर्त्यताम्॥ इति॥]

अथास्मिन् भाषितमात्रे सर्वबुद्धक्षेत्रेषु सर्वलोकधातुषु सर्वसत्वानां पुरतः स्फर्य यावत्सर्व[परमाणुरजोमण्डलेषु भगवान् शाक्यमुनि]स्तथागतो धर्मचक्रं प्रवर्तयामास॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीमां गाथमभाष[त्।
सर्वसत्वहितार्थाय सर्वलोकेषु] सर्वतः।
यथा विनयतो विश्वं वज्रचक्रं प्रवर्त्यताम्॥ इति॥

अथास्मिन् भाषितमात्रे तथैव सर्वबुद्धक्षे[त्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भ]गवान् वज्रधातुस्तथागतो वज्रधात्वादीन् सर्ववज्रचक्राणि प्रवर्तयामास॥

अथ त्रिलोकविजयो [महाबोधिसत्व इमां] गाथामभाषत्।
सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः।
यथा विनयतो विश्वं क्रोधचक्रं प्रवर्त्यताम्॥[इति॥

अथास्मिन् भाषितमात्रे तथैव] सर्वबुद्धक्षेत्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भगवांस्त्रिलोकविजयी तथागतः सर्वतथागतक्रो[धचक्रं प्रवर्तयामास॥

अथार्याव]लोकितेश्वरो बोधिसत्व इमां गाथामभाषत्।
सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः।
यथा वि[नयतो विश्वं पद्मचक्रं प्रवर्त्यताम्॥ इति॥]

अथास्मिन् भाषितमात्रे तथैव सर्वबुद्धक्षेत्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भगवां धर्मराजा तथागतः पद्मचक्रं प्रवर्तयामास॥

अथार्याकाशगर्भो बोधिसत्व इमां गाथामभाषत्।
सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः।
यथा विनयतो विश्वं मणिचक्रं प्रवर्त्यताम्॥ इति॥

अथास्मिन्[भाषितमात्रे सर्वबुद्धक्षेत्रान्तर्गत]सर्वसत्वाः सूक्ष्मा वा स्थूला वा ते सर्वे सर्वतथागतं सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नशिखरकूटागारे सर्वतथा[गतसिंहासने स्थित्वा वज्रधात्वादीन् सर्व]चक्राणि प्रवर्तयन्तं सर्वतोऽद्राक्षुरिति॥

अथ वज्रपाणिर्महाबोधिसत्वः तस्यां वेलायामिमां गा[थामभाषत्।
सर्वसत्वहितार्थाय प्र]तिपद्यस्व कार्यतः।
मानुष्यमवताराग्र्यं वज्रचक्रं प्रवर्त्यताम्॥ इति॥

अथ पुनरपि भगवान् सर्वत[थागतानाहूयैवमाह। “प्रतिपद्यत भ]गवन्तस्तथागताः पुनः समाजमापन्तुम्” इति॥
अथ भगवन्तः सर्वतथागताः पुनः समाजमा[पद्य, वैरोचनस्य हृदये प्रविष्टा]इति॥
अथ भगवान् वैरोचनस्तथागतः सर्वतथागतकायवाक्चित्तवज्रमात्मानमवबुध्य, व[ज्रपाणिमेवमाह। “प्रविशकुलपु]त्र त्वमपि मम हृदये; सर्वतथागतसर्ववज्रकुलसर्वमण्डलाः सर्वतथागतहृदयेषु समनुप्र[विष्टाः”।

अथ वज्रपाणिर्महाबोधिसत्वः] सर्वतथागतानुज्ञात इमां गाथामभाषत्।
सर्वसत्वहितार्थाय प्रतिपद्यामि सर्वतः।
प्रवेष्टुं सर्वबुद्धानां का[यवाक्चित्तस्य वज्र॥ इति॥

अथास्मिन् भा]षितमात्रे यावन्तस्तथागताः सर्वलोकधातुपरमाणुरजःसमेषु सर्वलोकधातुषु तिष्ठन्ति ते तथा [गता एकैकेन सर्वलोक]धातुपरमाणुरजःसमाः स्फरणकायाः भगवतो वैरोचनस्य हृदये प्रविष्टाः।

अथ वज्रपाणिर्महाबोधिस[त्वः सर्वतथागतेषु] भगवतश्च वैरोचनस्य सर्वकायेषु सर्ववाक्प्रवर्तनस्थानेषु सर्वचित्तसन्ततिप्रवाहेषु सर्ववज्रनयेषु सर्वा[ङ्गप्रत्यङ्गेषु सर्वस्थानेषु] सर्वलक्षणेषु सर्वानुव्यञ्जनेषु सर्वरोमकूपेषु सर्वपरमाणुरजोमण्डलेषु च हृदयेषु प्रविष्ट्वा स्थिता इति॥

[अथ भगवानचिराभि] संबुद्धः सर्वतथागतकायवाक्चित्तवज्रः सर्वतथागतकायमात्मानमवबुध्य, तस्मात् सुमेरुगिरिमूर्धाद्येन [बोधिमण्डं तेनोपजगा]मोपेत्य, भगवतो बोधिवृक्षस्याधस्तात् लोकानुवर्तनतया, पुनस्तृणानि गृह्येदमुदानमुदानयामास।

अ[हो ह्यग्रार्थ आत्मनः स]त्वार्थः सत्वशासिनां।
यद् विनेयवशाद्धीरास्तीर्थदृष्ट्या विहन्ति हि॥
अविनेयस्य लोकस्य दुर्दृष्ट्यान्धस्य सर्वतः।
ज्ञा[नाभया शोधनार्थं बुद्धबो]धिमवाप्नुयाद्॥ इति॥

अथ कामावचरा देवा भगवतस्तत्वमजानन्तो ब्रूवन्। “किं भो श्रमण एवं तीव्राण्येवं रौद्राणि बो[ध्यार्थाय] दुःखान्युत्सहसी-” ति।

अथ भगवांस्तानि तृणान्यास्तर्योपविष्ट्वा तां देवानेवमाह। “प्रतिपद्यत मार्षा मम बोधिं [प्राप्तुम्” इति।

अथ कामाव]चरा देवा भगवतो भाषितस्यार्थमजानन्तो येन शक्रो देवानामिन्द्रः तेनोपजगामोपेत्य, शक्रं देवानामिन्द्रमि[दं वृत्तान्तमारोचया]मास। अथ शक्रो देवानामिन्द्रः सर्वकामावचरदेवसङ्घपरिवारो रूपावचराधिपतिं महाब्रह्माणमिदं [वृत्तान्तमारोचया]मास। अथ महाब्रह्मा सर्वकामावचररूपावचरदेवसहितस्त्रिलोकाधिपतिमीश्वरं तं वृत्तान्तमारोच[यामास॥

अथ महे]श्वरस्त्रिलोकाधिपतिर्नारायणादीन् सर्वदेवाधिपतीनेवमाह। “प्रतिपद्यत मार्षास्तथागतोऽर्हं सम्यक्संबुद्धो [लोकानुवर्तनतया पु]नरनुत्तरां सम्यक्संबोधिं दर्शयिष्यति। मामन्त्र्या एवं विद्येन् न तथागतो मानुषो भवति, देवा एव [तथागता भवन्ति], मनुषे घटयेयुः, न तथागतत्व इति। तत्साधु प्रतिपद्यत तत्र पूजनाय गन्तु” मिति।

अथ महेश्व[रादिदेवाधिपतयः स्थित्वा] बोधिमण्डे, येन च भगवान् बोधिमण्डनिषण्णः तेनोपजगामोपेत्य च भगवतः पादौ शिरसाभिवन्द्य, भगवन्तमेवमाहुः। [“प्रतिपद्य भ]गवन्नस्माकमनुकम्पामुपादाय, अस्मात् तृणसंस्तरादुत्थाय, दिव्येष्वासनेषु निषद्यानुत्तरां समयक्संबोधिमभिसंबोद्धु”॥

अथ [भगवान् दे]वाधिपतीनेवमाह। “प्रतिपद्यत मार्षा ममानुत्तरां समयक्संबोधि दातु” मिति। अथ ते एवमाहुर्। “न वयं भगवं समर्था बोधिं द[आतुं।] यदि वयं समर्था भवेमस्तदात्मनैवाभिसंबोधिमभिसंबुध्येमही-” ति॥

अथ भगवानिदमेवार्थमुद्दीपयं भूयस्या मात्रया इ[मां गाथा]मभाषत्।
न सा रूपि न चारूपि न सत्यं न मृषाशुचि।
बुद्धबोधिरिदं ज्ञानमवबुध्य जिनो भवेद्॥ इति॥

अथ ते देवाधिप[तियो मु]हूर्तं तूष्णीम्भावेन तस्थुः॥ अथ भगवांस्ततस्तृणासनादुत्थाय, तां देवानेवमाह। “प्रतिपद्यत मार्षा ईदृशं ज्ञानमवबोद्धुं।” [त ए]वमाहुर्। “न शक्तमो भगवन्”॥

अथ भगवांस्तस्मिन्नेवासने निषद्येमां गाथामभाषत्।
मनसः प्रतिवेद्येन बोधिचित्तं दृढीकुरु।
वज्रं सत्वे दृढीकृत्वा बुद्धमात्मानुभावय॥

अथ त एवमाहुर्। “एवमस्त्व्” इति कृत्वा सर्वे प्रक्रान्ताः॥

अथ भगवान् रात्रौ प्रभातायां [लोकानु]वर्तनतया मारां जित्वानुत्तरां सम्यक्संबोधिमभिसंबुध्य, अशेषानवशेष[सत्वधातुषु सर्वसत्वहितार्थाय, स्वहृद]यावस्थितमार्यवज्रपाणिनमनेन नामाष्टशतेनाभिस्तौति।
वज्रसत्व महासत्व [महायान महात्मक।
महाप्रभ महाशु]द्ध महानाथ नमोऽस्तु ते॥१॥
वज्रराज महावज्र वज्र सर्वतथागत।
महासत्व महावीर्य महोपाय नमोऽस्तु ते॥२॥
वज्ररा[ग महाशुद्ध स]र्वसौख्य महासुख।
सुखाग्र्यानादिनिधन महाकाम नमोऽस्तु ते॥३॥
वज्रसाधु महातुष्टि साधुकार प्रहर्षक।
महाहर्ष महामो[दन] प्रामोद्य नमोऽस्तु ते॥४॥
वज्ररत्न महाराज स्वभिषेक महामते।
सर्वरत्न महाशोभ विभूषण नमोऽस्तु ते॥५॥
वज्रतेज म[हातेज] वज्रप्रभ महाद्युते।
जिनप्रभ महाज्वाल बुद्धप्रभ नमोऽस्तु ते॥६॥
वज्रकेतु महाकेतु महाध्वज धनप्रद।
आकाशकेतो महा[यष्टि त्या]गध्वज नमोऽस्तु ते॥७॥
वज्रहास महाहास महाप्रीति प्रमोदन।
प्रीतिवेग रतिप्रीते धर्मप्रीते नमोऽस्तु ते॥८॥
वज्रधर्म महा[धर्म सर्व]र्धर्म सुशोधक।
बुद्धधर्म सुधर्माग्र्य रागधर्म नमोऽस्तु ते॥९॥
वज्रतीक्ष्ण महाकोश प्रज्ञाज्ञान महामते।
पापच्छेद म[हाखड्ग बु]द्धशस्त्र नमोऽस्तु ते॥१०॥
वज्रहेतु महाचक्र बुद्धचक्र महानिधि।
सर्वमण्डल धर्माग्र धर्मचक्र नमोऽस्तु ते॥११॥
वज्रभा[ष महाभाष] निःप्रपञ्च महाक्षर।
अनक्षर महाजाप बुद्धवाच नमोऽस्तु ते॥१२॥
वज्रकर्म सुकर्माग्र्य महाकर्म सुकर्मकृत्।
गुह्यपू[ज महापूज बुद्धपूज नमो]स्तु ते॥१३॥
वज्ररक्ष महावर्म कवचाग्र्य महादृढ।
महारक्ष महासार बुद्धवीर्य नमोऽस्तु ते॥१४॥
वज्रयक्ष महाक्रोध सर्वदुष्टभयानक।
सर्वबुद्धमहोपाय अग्रयक्ष नमोऽस्तु ते॥१५॥
महासन्धि महामुद्र महासमयबन्धक।
महामुष्टे समुद्राग्र्य वज्रमुष्टे नमोऽस्तु ते॥१६॥
वन्द्यो मान्यश्च पूज्यश्च सत्कर्तव्यस्तथागतैः।
यस्मादनादिनिधनं बोधिचित्तं त्वमुच्यसे॥१७॥
त्वामासाद्य जिनाः सर्वे बोधिसत्वाश्च शौरिणः।
संभूता संभविष्यन्ति बुद्धबोध्यग्रहेतवः॥१८॥
नमस्ते वज्रसत्त्वाय वज्ररत्नाय च ते नमः।
नमस्ते वज्रधर्माय नमस्ते वज्रकर्मणे॥१९॥
त्वामभिष्टुत्य नामाग्रैः प्रणम्य च सुभावतः।
यत्पुण्यं तेन सर्वो हि बुद्धबोधिमवाप्नुयात्॥२०॥
येदमुच्चारयेत्सम्यग्नामाष्टशतमुत्तमं।
सकृद्वारं सुभक्तिस्थः सर्वबुद्धत्वमाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
अथ वज्रपाणिं महाबोधिसत्वं ते सर्वतथागता [एककष्ठे]न साधुकाराण्यनुप्रादान्॥
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे॥
सुभाषितमि[दं सूत्रं] वज्रयानमनुत्तरं।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम्॥ इति॥

इदम् [अवोचद्भगवानात्तमनाः सतथारतार्यबोधिसत्वश्च सर्वः स्वहृदये प्रविश्य भगवतश्च वज्रसत्वस्य च] भाषितमभ्यनन्दन्निति॥

[सर्वतथागततत्वसंग्रहं नाम महायानसू]त्रं समाप्तम्॥ ॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project