Digital Sanskrit Buddhist Canon

पञ्चविंशतिमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcaviṁśatimaḥ
CHAPTER 25

SARVA-KALPA-GUHYOTTARA-TANTRA-VIDHI-VISTARA

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मोत्तमसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतधर्मोत्तमसिद्धितन्त्रं
बुद्धधर्मसमाधिं तु भावयन् सुसमाहितः।
बुद्धानुस्मृतियोगेन सिद्धिमाप्नोत्युत्तमाम्॥

इत्याह भगवांस्तथागतः।
तत्रेदं तथागतकुलधर्मोत्तमसिद्धितन्त्रं।
सर्वसत्वसमाधिस्थः भावयन् सुसमाहितः।
रागानुस्मृतियोगेन प्राप्नुयात् सिद्धिमुत्तमाम्॥

इत्याह भगवान् सर्वतथागतसमाधिः॥
तत्रेदं वज्रकुलधर्मोत्तमसिद्धितन्त्रं।
त्रिलोकविजयाकारं भावयन् पुरतस्तथा।
वज्रपाणिबलो भूत्वा त्रिलोकविजयी भवेद्॥

इत्याह भगवान् वज्रसत्वः॥
तत्रेदं पद्मकुलधर्मोत्तमसिद्धितन्त्रं।
जगद्विनयधर्मं तु भावयन् पुरतस्त[था।]
सर्वाकारवरोपेतं विनयं प्रकरोति स॥

इत्याह भगवान् वज्रधर्मः॥
तत्रेदं मणिकुलधर्मोत्तमसिद्धितन्त्रं।
सर्वार्थसिद्धिरा[कारं भावयन् पुरतस्तथा।
सर्वाकारवरोपेतमर्थसंपत्स लप्स्यते-॥

त्याह भगवान् वज्रपाणिः॥
सर्वकुलधर्मोत्तमसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मसमयसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतधर्मसमयसिद्धितन्त्रं।
बुद्धा[नुस्मृ]तिमां भूत्वा वज्र वज्र इति ब्रूवन्।
सूक्ष्मवज्रप्रयोगेण बुद्धसिद्धिमवाप्नुते-॥

त्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलधर्मसमयसिद्धितन्त्रं।
वज्रसत्वसमाधिन्तु भावयन् सूक्ष्मवज्रतः।
वज्रसत्वत्वमाप्नोति वज्रसत्वमुदाहरन्न॥

इत्याह भगवान् वज्रसत्वः॥
तत्रेदं वज्रकुलधर्मसमयसिद्धितन्त्रं।
त्रिलोकविजयाकारन् संस्मरन् पुरतस्तथा।
हुं हुं हुं हुमिति प्रोच्य सिद्धिमाप्नोत्यनुत्तराम्॥

इत्याह भगवान् वज्रहुंकारः।
तत्रेदं पद्मकुलधर्मसमयसिद्धितन्त्रं।
जगद्विनयरूपं तु भावयन् सूक्ष्मवज्रतः।
शुध्य शुध्य इति प्रोच्य उत्तमां सिद्धिमाप्नुते-॥

त्याह भगवान् वज्रधर्मः।
तत्रेदं मणिकुलधर्मसमयसिद्धितन्त्रं।
सर्वार्थसिद्धिरूपं तु भावयन् सूक्ष्मवज्रतः।
सिध्य सिध्य इति प्रोच्य अर्थसिद्धिः परा भवेद्॥

इत्याह भगवान् मणिधर्मः॥
सर्वकुलधर्मसमयसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रापाणिर्महाबोधिसत्वः सर्वतथागतसद्धर्मज्ञानसिद्धितन्त्रमुदाजहार। तत्रेदं सर्वतथागतसद्धर्मज्ञानसिद्धितन्त्र।
अनक्षरं तु सद्धर्मं समाधिज्ञानसंभवं।
अकारस्तेन धर्माणामनुत्पाद इति स्मृतः॥१॥
अनेन मुद्राप्रयोगेण भावयन् प्रज्ञया ततः।
सर्वाक्षरमयं ज्ञानं सिध्यते सौगतं क्षणाद्॥२॥

इत्याह भगवान् आर्यमञ्जुश्रीसर्वतथागतः॥
तत्रेदं तथागतकुलसद्धर्मज्ञानसिद्धितन्त्रं।
सर्वतथागतं तत्वमिदं सूत्रं तु श्रद्दधन्।
धारयन् वाचयन् श्राद्धः सिद्धिमाप्नोत्यनुत्तराम्॥

इत्याह भगवान् वज्रसत्वः।
तत्रेदं वज्रकुलसद्धर्मज्ञानसिद्धितन्त्रं।
पापसत्वहितार्थाय बुद्धाज्ञाकरणाय च।
दुष्टानां विनयार्थाय मारणेन तु सिध्यती-॥

त्याह भगवान् वज्रकुलः॥
तत्रेदं पद्मकुलसद्धर्मज्ञानसिद्धितन्त्रं।
स्वभावशुद्धिमागम्य परमार्थमिति स्मृतं।
भावयन्निदमाद्यं तु धर्मेणाशु प्रसिध्यती-॥

त्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलसद्धर्मज्ञानसिद्धितन्त्रं।
सर्वसत्वार्थदानं च सर्वाशापरिपूरये।
इमं मणिकुले धर्म भावयन्नाशु सिध्यती-॥

त्याह भगवान् धर्मरत्नः॥
सर्वकुलसद्धर्मज्ञानसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमाधिकर्मसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतसमाधिकर्मसिद्धितन्त्रं।
समाधिकर्म बुद्धानां बुद्धबोधिप्रसाधकं।
इदं भावयमानस्तु परां सिद्धिमवाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं [तथागत] कुलसमाधिकर्मसिद्धितन्त्रं॥
वज्रसत्वसमाधीनामुत्तमं कर्मभूरि च।
सर्वसत्वकरं विश्वमिति भावेन सिध्यती-॥

त्याह भगवान् वज्रः॥
तत्रेदं वज्रकुलसमाधिकर्मसिद्धितन्त्रं।
पापशुद्धिनिमित्तं हि सर्वपापप्रदामकं।
मारणं सर्वसत्वानां श्रद्दधानात्तु सिध्यती-॥

त्याह भगवान् वज्री॥
तत्रेदं पद्मकुलसमाधिकर्मसिद्धितन्त्रं।
सर्वपापविशुद्धात्मा सर्वशुद्ध्या करोति सः।
सर्वकार्याणि कर्मेयमिति भावेन सिध्यति॥

इत्याह भगवान् पद्मः॥
तत्रेदं मणिकुलसमाधिकर्मसिद्धितन्त्रः।
सर्वाशिनां दरिद्राणां सर्वाशाः परिपूरयन्।
सर्वार्थसिद्धिः सर्वात्मा सिध्यते नात्र संशय॥

इत्याह भगवान् रत्नध्वजः॥
सर्वकुलसमाधिकर्मसिद्धिविधिविस्तरतन्त्रः॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसूक्ष्मज्ञानसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतसूक्ष्मज्ञानसिद्धितन्त्रं भवति।
सूक्ष्मवज्रविधिं शाश्वत् योजयं सर्वभावतः।
सर्वाकारवरोपेतां पञ्चाभिज्ञामवाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं सर्वतथागतकुलसूक्ष्मज्ञानसिद्धितन्त्रं।
नानाचार्यस्य नान्यस्य नाशिष्यस्यासुतस्य वा।
पुरतः प्रकाशयेन्मुद्राः सिद्धिरासां सुगुह्यत॥

इत्याह भगवान् वज्रधरः।
तत्रेदं वज्रकुलसूक्ष्मज्ञानसिद्धितन्त्रं।
सूक्ष्मवज्रप्रयोगेण नासा हुं-कारयोगतः।
वज्रक्रोधसमाधिस्थः सर्वकार्याणि साधयेद्॥

इत्याह भगवान् वज्रः॥
तत्रेदं पद्मकुलसूक्ष्मज्ञानसिद्धितन्त्रं।
वज्रदृष्टिं समाधाय सूक्ष्मवज्रप्रयोगतः।
महापद्मसमाधिस्थः रागसिद्धिमवाप्नुयाद्॥

इत्याह भगवान् पद्मरागः॥
तत्रेदं मणिकुलसूक्ष्मज्ञानसिद्धितन्त्रं।
दीप्तदृष्टिः सुसूक्ष्मा तु वज्ररत्नसमाधिना।
सूक्ष्मवज्रप्रयोगेण सर्वार्थाकर्षो भवेद्॥

इत्याह भगवान् वज्रपाणिः।
सर्वकुलसूक्ष्मज्ञानसिद्धितन्त्रं॥ ॥

अथ वज्रपाणीर्महाबोधिसत्वः सर्वतथागतचक्षुर्ज्ञानसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतचक्षुर्ज्ञानसिद्धितन्त्रं।
यदा मुद्रा समाधिर्वा साधनायोपयुज्यति।
तदा खे धातवः शुभ्रास्तारकाकाराः स पश्यति॥१॥
तदा जानीत मतिमां बुद्धचक्षुरिदं मम।
ततः प्रभृति बुद्धानां सर्वकल्पानि साधयेद्॥२॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलचक्षुर्ज्ञानसिद्धितन्त्रं।
यावन्तो भावा विद्यन्ते स्थावरा जंगमास्तथा।
तेषां प्रतिबिम्बानि पश्यति खे प्रधावतः॥१॥
आगच्छं गच्छतो वै वज्रचक्षुर्विशुद्धितां।
जानन्वै पूजया सिद्धिमाप्नोत्यनुत्तराम्॥२॥

इत्याह भगवान् वज्रसत्वः॥
तत्रेदं वज्रकुलचक्षुर्ज्ञानसिद्धितन्त्रं।
सव्यापसव्यवर्तिभ्यो खे तः पश्यति चक्षुषा।
आकाशधातवः शीघ्रं भ्रमन्तो अंभ्रसन्निभाः॥१॥
तां दृष्ट्वा न हि बिभ्येत मुद्रास्ता वज्रसंभवाः।
तेषां ग्रहणतो मुद्राः सिध्यन्ते मुद्रचक्षुषा॥२॥

इत्याह भगवान् वज्रः॥
तत्रेदं पद्मकुल चक्षुर्ज्ञानसिद्धितन्त्रं।
श्वेतां रक्तां सितां पितां यदा पश्यन्ति मण्डलान्।
तदाभि[प्रायं वै] यान्ति सिध्यन्ते वज्रचक्षुषा॥२॥

इत्याह भगवानवलोकितेश्वरः।
तत्रेदं मणिकुलचक्षुर्ज्ञानसिद्धितन्त्रं।
आकाशे रत्नसंकाशा हिरण्यादिषु सादृशाः।
यदा तु पश्यते खे तु खचक्षुः सिध्यते सदे-।

त्याह भगवान् वज्रगर्भः।
सर्वकुलचक्षुर्ज्ञानसिद्धिविधिविस्तरतन्त्रं॥ ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मोत्तमसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतकर्मोत्तमसिद्धितन्त्रं।
कर्ममण्डलयोगेन पूजयं सर्वनायकान्।
रागसौख्यविपाकार्थं बुद्धसिद्धिमवाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलकर्मोत्तमसिद्धितन्त्रं।
गुह्यपूजां प्रकुर्वाणो रागोऽहमिति भावयन्।
प्राप्नुयादुत्तमां सिद्धिं वज्ररागसमद्युतिम्॥

इत्याह भगवान् कामः॥
तत्रेदं वज्रकुलकर्मोत्तमसिद्धितन्त्रं।
गुह्यपूजां प्रकुर्वाणो क्रोधोऽहमिति भावयन्।
प्राप्नुयादुत्तमां सिद्धिं त्रिलोकविजयोपमाम्॥

इत्याह भगवान् वज्रपाणिः॥
तत्रेदं पद्मकुलकर्मोत्तमसिद्धितन्त्रं।
अन्तर्गतेन मनसा कामशुद्धिं तु भावयन्।
स्वरेऽतो बिन्दुभिर्बुद्धां पूजयं सिद्धिमाप्नुयाद्॥

इत्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलकर्मोत्तमसिद्धितन्त्रं।
वज्रगर्वा समाधाय नमेदाशयकम्पितैः।
प्रणामपरमो नित्यमभिषेकां समाप्नुयाद्॥

इत्याह भगवान् वज्राभिषेकरत्नः॥
सर्वकुलकर्मोत्तमसिद्धिविधिविधिविस्तरतन्त्रः॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसमयगुह्यसिद्धितन्त्रमुदाजहार। तत्रायं तथागतकर्मसमयगुह्यसिद्धितन्त्रः।
कामाद्याः सर्वसौख्या मे सदैव हृदये स्थिताः।
अहो सत्वार्थानामविरागो यत्र देश्यते॥१॥
अयं हि कर्मसमयस्तथागतसमाधिना।
भावयं पूजयेद् बुद्धामुत्तमां सिद्धिमाप्नुयाद्॥२॥

इत्याह भगवान् बुद्धः॥
तत्रायं तथागतकुलकर्मसमयगुह्यसिद्धितन्त्रः।
समन्तभद्रः कामोऽहं सर्वसत्वसुखप्रदः।
वज्रसत्वसमाधिस्थः पूजयं सिद्धिमाप्नुयाद्॥

इत्याह भगवान् कामः॥
तत्रायं वज्रकुलकर्मसमयगुह्यसिद्धितन्त्रः।
समन्तभद्रः क्रोधोऽहं सर्वसत्वहितंकरः।
वज्रहुंकारयोगेन पूजयं सिद्धिमाप्नुयाद्॥

इत्याह भगवान् वज्रपाणिः॥
तत्रायं पद्मकुलकर्मसमयगुह्यसिद्धितन्त्रः।
समन्तभद्रो रागोऽहं सर्वसौख्यप्रदः स्वयं।
जगद्विनयरूपस्थः पूजयं सिद्धिमाप्नुयाद्॥

इत्याह भगवान् पद्मरागः॥
तत्रायं मणिकुलकर्मसमयगुह्यसिद्धितन्त्रः।
समन्तभद्रो राजाहं सर्वसत्व[महार्थदः।
सर्वार्थसिद्धिरूपेण] पूजयं सिद्धिमाप्नुयाद्॥

इत्याह भगवान् सर्वार्थसिद्धिः॥
सर्वकुलकर्मसमयगुह्यसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मधर्मतोत्तमसिद्धितन्त्रमुदाजहार। तत्रायं तथागतकर्मधर्मतोत्तमसिद्धितन्त्रः।

दक्षिणाग्र्याभिमुखतः कवचं स्वसमाधिना।
निबध्योष्णीषसंस्था तु रक्षात्यन्तं भविष्यती-॥

त्याह भगवान् बुद्धः॥
तत्रायं तथागतकुलकर्मधर्मोत्तमसिद्धितन्त्रः।
संलिख्य तु भगाकारं कुड्ये मेढ्रं समुच्छ्रितं।
यां स्त्रियं चिन्तयन् मृदुं कुर्यात्सास्य वशीभवेद्॥

इत्याह भगवानार्यवज्रपाणिः॥
तत्रायं वज्रकुलकर्मधर्मोत्तमसिद्धितन्त्रः।
भूमौ यक्षमुखं लिख्य तस्याग्र्याङ्गु लितो नखं।
निहत्य चक्षुर्देशे तु समाकर्षेत्स्त्रियो वराः॥

इत्याह भगवान् वज्रसत्वः॥
तत्रायं पद्मकुलकर्मधर्मोत्तमसिद्धितन्त्रः।
पद्मं गृह्य कराभ्यां तु निरीक्ष्य रागशुद्धितां।
वज्रदृष्ट्या तु स स्त्रीणां रागयेदभितस्तथे-॥

त्याह भगवान् वज्रधरः॥
तत्रायं मणिकुलकर्मधर्मोत्तमसिद्धितन्त्रः।
वज्ररत्नसमाधिस्थो मणिं गृह्य [द्वि]पाणिना।
रत्नहुंकारयोगेन मारयेत्सर्वयोषितः॥

इत्याह भगवान् वज्रहुंकारः॥
सर्वकुलकर्मधर्मोत्तमसिद्धिविधिविस्तरत्नत्रः॥ ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मकार्यसिद्धितन्त्रमुदाजहार। तत्रायं तथागतकर्मकार्यसिद्धितन्त्रः।
पूजाकर्मविधिं योज्य यद्यत् कार्यं तु चिन्तयेत्।
तत्तद् विज्ञाप्य मुद्रां तु साधयेत विचक्षणः॥

इत्याह भगवान् वज्रधातुः॥
तत्रायं तथागतकुलकर्मकार्यसिद्धितन्त्रः।
गुह्यपूजाविधिं योज्य वज्रसत्वसमाधिना।
यत्कार्यं वदते तत्तु शीघ्रं सिद्धिमवाप्नुयाद्॥

इत्याह भगवान् वज्रधरः॥
तत्रायं वज्रकुलकर्मकार्यसिद्धितन्त्रः।
कुलगुह्यमहापूजां कृत्वा क्रोधसमाधिना।
यत्किञ्चिच्चिन्तयेत्प्राज्ञः स शीघ्रं सिद्धिमेष्यती-॥

त्याह भगवान् वज्रक्रोधः।
तत्राय पद्मकुलकर्मकार्यसिद्धितन्त्रः।
कृत्वा तु मनसीं पूजां लोकेश्वरसमाधिना।
यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं शीघ्रमाप्नुयाद्॥

इत्याह भगवान् पद्मधरः॥
तत्रायं मणिकुलकर्मकार्यसिद्धितन्त्रः।
कृत्वा धूपादिभिः पूजां वज्रगर्भसमाधिना।
यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं सिध्यति क्षणाद्॥

इत्याह भगवान् वज्रगर्भः॥
सर्वकुल[कर्मकार्य]सिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राभावना[धिष्ठानयोग सिद्धितन्त्रमुदाजहार।] तत्रायं तथागताधिष्ठानयोगसिद्धितन्त्रो भवति।
सूक्ष्मवज्रप्रयोगेण बुद्धयोगसमाहितः।
उत्तमासि[द्धिमाप्नुयाद्] बुद्धमुद्राप्रसाधक॥

इत्याह भगवान् वज्रपाणिस्तथागतः॥
तत्रायं तथागतकुलसत्वाधिष्ठानयोगसिद्धितन्त्रः।
सत्वो हि [सर्वात्मभावः कायेऽ]प्यात्मनि संस्थितः।
इत्यधिष्ठाय सत्वोऽहमहंकारेण भावयन्॥

सिध्यतीत्याह भगवान् सर्वतथागतमहायानाभिसमय[वज्रसत्वः॥
तत्रायं व]ज्रकुलवज्राधिष्ठान[योगसिद्धितन्त्रः।]
यथा सत्वस्तथा मुद्रा यथा मुद्रास्तथा ह्यहं।
अनेन भावयोगेन सर्वमुद्राः सु[साधयेद्॥

इत्याह भगवान् वज्रधरः॥
तत्रायं पद्मकुलधर्मा]धिष्ठानयोगसिद्धितन्त्रः।
धर्ममुद्राप्रयोगेण सूक्ष्मवज्रेण भावना।
वाङ्मुद्राणां [तु तत्सर्वं महासत्वस्य समाधि॥

इत्याह भगवानार्यावलोकितेश्वरः॥]
तत्रायं मणिकुलकर्माधिष्ठानयोगसिद्धितन्त्रः।
सर्वबुद्धाभिषेकाणि [पजासमयसिद्धयः।
भगवानिति भावयन् वज्रकर्माणि साधयेद्॥

इत्याह भगवान्] वज्रकर्म॥
सर्वकुलमुद्राभाव [नासिद्धितन्त्रं॥ ॥

अथ] भगवन्[सर्वतथागताः] पुनः समाजमागम्य, भगवते सर्वतथागतचक्रवर्तिने वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददुः।
साधु ते वज्रसत्वाय [वज्ररत्ना]य साधु ते।
[वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं।
सर्वतथागतं गुह्यं महायानाभिसं[ग्रहम्॥ इति॥]

सर्वतथागततत्वसंग्रहात् सर्वकल्पगुह्योत्तरतन्त्रविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project