Digital Sanskrit Buddhist Canon

चतुर्विंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturviṁśatitamaḥ
CHAPTER 24

SARVA-KULA-KALPA-GUHYA-VIDHI-VISTARA-TANTRA

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यसिद्धितन्त्रमुदाजहार। तत्रादित एव सर्वतथागतोत्तमसिद्धिगुह्यतन्त्रं।
बुद्धबोधिसमाधिन्तु भावयन् सुसमाहितः।
सुखेन लभ्यते बोधिरिति चिन्त्यावबुध्यती-॥

त्याह भगवान् सर्वतथागतः॥
तत्रेदं तथागतकुलोत्तमसिद्धिगुह्यतन्त्रं।
सत्ववज्रां हृदि बध्वा भार्या मे त्वमिति प्रिया।
दृढीभव इति प्रोक्ते सर्वमुद्रास्तु साधयेत्॥१॥
अनेन विधियोगेन असिद्धापि स्वकर्मभिः।
गुह्यभार्यामिति प्रोक्त्वा सुतरां सिद्धिमाप्नुयाद्॥

इत्याह भगवान् सत्ववज्रः॥
तत्रेदं वज्रकुलोत्तमसिद्धिगुह्यतन्त्रं।
यथा तथा हि कुपितो वज्र-हुं-कारमुद्रया।
मारयन् सर्वबुद्धांस्तु भयात् सिद्धि[न्ददङ्करेद्॥

इत्याह] भगवान् सर्वतथागतहुङ्कारः॥
तत्रेदं पद्मकुलोत्तमसिद्धिगुह्यतन्त्रं।
समाधिमुद्रां सन्धाय निरीक्षन् वज्रदृष्टिना।
स्वदारं परदारं वा प्रियां सिद्धिमवाप्नुयते-॥

त्याह भगवान् पद्मरागः॥
तत्रेदं मणिकुलोत्तमसिद्धिगुह्यतन्त्रं।
द्वयेन्द्रियसमापत्त्या सुखमग्रमिति ब्रूवन्।
स्वेन्द्रियं सर्वबुद्धानां निर्यात्य लघु सिध्यती-॥

त्याह भगवान् मणिरागः॥
सर्वकुलोत्तमसिद्धिगुह्यतन्त्रः॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयसिद्धिगुह्यतन्त्रमुदाजहार। तत्रेदं तथागतसमयसिद्धिगुह्यतन्त्रं।
समयस्त्वमिति प्रोक्त्वा रागयेत्सर्वयोषितः।
म विरागय सत्वार्थं ध्रुवं बुद्धां स रागयेद्॥

इत्याह भगवान् महावैरोचनः॥
तत्रेदं तथागतकुलसमयसिद्धिगुह्यतन्त्रं।
रागो हि नावमन्तव्यो रागयेत्सर्वयोषितः।
वज्रिणो गुह्यसमयमिदं रक्षंस्तु सिध्यती-॥

त्याह भगवान् वैरोचनः॥
तत्रेदं वज्रकुलसमयसिद्धिगुह्यतन्त्रं।
मारयन्मारयेल्लोकं कायवाक्कर्मसत्क्रियैः।
हूं-कारैस्तु विशुद्ध्यर्थं समयो ह्यर्थसिद्धिद॥

इत्याह भगवान् त्रिलोकविजयः।
तत्रेदं पद्मकुलसमयसिद्धिगुह्यतन्त्रं।
रागः शुद्धात्मनां शुद्धो ह्यशुद्धस्तीर्थ्ययोगिनां।
शुद्धात्मनां तु समयं पालयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलसमयसिद्धिगुह्यतन्त्रं।
बध्वा वज्रमणिं पूर्वं वज्रगर्भसमाधिना।
दुष्टानां तु हरन्नर्थान् समयः सिद्धिदो भवेद्॥

इ]त्याह भगवान् वज्ररत्नः॥
सर्वकुलसमयसिद्धिगुह्यविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मसिद्धिगुह्यतन्त्रमुदाजहार। तत्रेदं तथागतधर्मसिद्धिगुह्यतन्त्रं।
स्वभावशुद्धिं धर्माणां भावयन् सुसमाहितः।
सर्वकार्याणि कुर्वन् वै बोधीं सिद्धिमवाप्नुते-॥

त्याह भगवान् वज्रधातुः॥
तत्रेदं तथागतकुलधर्मसिद्धिगुह्यतन्त्रं।
सर्वसत्वानुरागश्च विषयेष्वविरागिता।
रामारामणशुद्धिस्तु गुह्यधर्मः सुसिद्धिद॥

इत्याह भगवान् वज्रगुह्यः॥
तत्रेदं वज्रकुलधर्मसिद्धिगुह्यतन्त्रं।
नासाहुंकारयोगेन सर्वदुष्टांस्तु मारयन्।
सूक्ष्मवज्रसमाधिस्थः परां सिद्धिमवाप्नुयाद्॥

इत्याह भगवान् धर्महुंकारः॥
तत्रेदं पद्मकुलधर्मसिद्धिगुह्यतन्त्रं।
सूक्ष्मवज्रप्रयोगेण रामयेत्सर्वयोषितः।
धर्मसिद्धिमवाप्नोति वज्रधर्मसमाधिने-॥

त्याह भगवानवलोकितेश्वरः।
तत्रेदं मणिकुलधर्मसिद्धिगुह्यतन्त्रं।
द्वयेन्द्रियसमापत्त्या सर्वाशा परिपूरयन्।
योषितां वा प्रियाणां वा सिद्धिमाप्नोत्यनुत्तराम्।

इत्याह भगवान् वज्ररत्नः॥
सर्वकुलधर्मसिद्धिगुह्यविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसिद्धिगुह्यतन्त्रमुदाजहार। तत्रेदं तथागतकर्मसिद्धिगुह्यतन्त्रं।
वज्रसत्वसमाधिस्थो बुद्धानुस्मृतिभावकः।
स्त्रीकायं प्रविशन्योन्या वशीकुर्यात्तु योषित॥

इत्याह भगवान् वैरोचनः॥
तत्रेदं तथागतकुलकर्मसिद्धिगुह्यतन्त्रं।
वज्रसत्वसमाधिस्थो भगेन प्रविशंस्तथा।
स्त्रिया काये स्फरेत्सम्यग् निश्चेष्टामपि रागयेद्॥

इत्याह भगवान् वज्ररागः॥
तत्रेदं वज्रकुलकर्मसिद्धिगुह्यतन्त्रं।
वज्रहुंकारमुद्रां वै बध्वा तु सुसमाहितः।
प्रविशंस्तु भगे क्रुद्धः मनसा स तु पातयेद्॥

इत्याह भगवान् वज्रसमयः॥
तत्रेदं पद्मकुलकर्मसिद्धिगुह्यतन्त्रं।
धर्मकर्ममयीमुद्रां बध्वा पद्मसमाधिना।
भगेन प्रविशन् रक्षेदपि सर्वास्तु योषित॥

इत्याह भगवान् वज्रपद्मः।
तत्रेदं मणिकुलकर्मसिद्धिगुह्यतन्त्रं।
कर्मवज्रमणिं बध्वा वज्ररत्नसमाधिना।
भगेन प्रविशन् स्त्रीणां क्षणादाविश्य नर्तती-॥

त्याह भगवान् वज्ररत्नः॥
सर्वकुलकर्मसिद्धिगुह्यविधिविस्तरतन्त्रं॥

अथवज्रपाणिर्महाबोधिसत्वः सर्वतथागतमण्डलशुद्धिसिद्धिगुह्यतन्त्रमुदाजहार। तत्रेदं सर्वतथागतचक्रशुद्धिसिद्धिगुह्यतन्त्रं भवति।

धर्मचक्रसमाकारं कुर्याद्वा गुह्यमण्डलं।
मुद्रा भार्या परिवृतं तत्र बुद्धन्निवेशयेत्॥१॥
प्रविष्ट्वैव हि तद्गुह्यं ब्रूयाद्बुद्धस्य तत्क्षणात्।
“भार्या ह्येतास्तव विभो ददस्व मम सर्वद”॥२॥
एवं ब्रूवंस्तु सर्वेषु कुलमुद्रा नयेषु च।
गुह्यसिद्धिमवाप्नोति बुद्धानामसमत्विषाम्॥३॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलसर्वमण्डलसिद्धिगुह्यतन्त्रं।
वज्रधातुप्रतीकाशं मण्डलं तु समालिखेत्।
तथागतकुलानां तु सर्वेषां परमन्नयं॥
[सिद्धिकामस्त्वाशु] ब्रूयात्प्रवि[ष्टैव तन्मण्डलं]।
सुरते समयस्त्वंहोः, वज्रसत्वाद्य सिध्य मां॥२॥
इदं जपंस्तु हृदयं साधयेत् सर्वसिद्धयः।
[तत्वचोदनयोगे]न तुष्टः स त्वाशु सिध्यती-॥

त्याह भगवान् वज्रसत्वः॥
तत्रेदं वज्रकुलसर्वमण्डलसिद्धिगुह्यतन्त्रं।
त्रिलोकविजयाकारं सर्ववज्रकुलस्य हि।
सर्वमण्डलयोगं तु संलिखेत विचक्षणः॥१॥
तं प्रविष्ट्वैव शीघ्रं वै ब्रूयात्सिद्धिं तु याचयन्।
“रागात्त्वमसि संभूत”, एवं सर्वेषु सिध्यती-॥२॥

त्याह भगवान् वज्रहुंकारः॥
तत्रेदं पद्मकुलमण्डलसिद्धिगुह्यतन्त्रं।
जगद्विनययोगेन सर्वपद्मकुलेषु वै।
मण्डलानि लिखेत्प्रज्ञस्तं प्रविष्ट्वैव वाग्वदेत्॥१॥
“रागधर्म महापद्म प्रसिध्य लघु मे विभो”।
एवमुक्त्वा तु सर्वेषु मण्डलेषु स सिध्यती-॥२॥

त्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलमण्डलसिद्धिगुह्यतन्त्रं।
सर्वार्थसिद्धियोगेन मण्डलानि समालिखेत्।
महामणिकुलानां तु तं प्रविष्ट्वैव वाग्वदेत्॥१॥
“सर्वाभिप्रायसिद्धीनां रागाशासिद्धिरुत्तमा।
सिध्य सिध्य महासत्व भगवन् सर्वसिद्धये”॥२॥
एवं ब्रूवंस्तु सर्वेषु मण्डलेषु प्रवेशतः।
महासिद्धिमवाप्नोति पूजागुह्यमनुत्तरं॥३॥
ततः प्रभृति सिद्धात्मा साधयन् सिद्धयः सदा।
यदा न लघु सिद्धिः स्यात् सिध्यन्ते तत्वचोदनैर्॥४॥

इत्याह भ[गवान् वज्रसत्वः॥]
सर्वकुलमण्डलसिद्धिगुह्यविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वमुद्रागुह्यसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतमुद्रागुह्यसिद्धितन्त्रं।
तथागतमहादेव्यः प्रियाः सर्वसुखप्रदाः।
सत्यानुपरिवर्तिन्या वास्सत्यैः सापि ता यन्न सिध्यत॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलमहामुद्रागुह्यसिद्धितन्त्रं।
महामुद्रां तु वै बध्वा यथावदनुपूर्वशः।
इदं तत्वं रहस्यं च वज्रवाचा वदेत्वयं॥१॥
वज्रसत्वः स्वयमहं त्वम्मे भार्या हृदि स्थिता।
सर्वकायं परिष्वज्य वज्रगर्वे समुत्क्षिप॥२॥
वज्रगर्वा महादेवी तत्वचोदानुरागिता।
सर्वकाये दृढीभूत्वा यथावत्सिध्यते लघुर्॥३॥

इत्याह भगवान् वज्रगर्वापतिः॥
तत्रेदं वज्रकुलसमयमुद्रागुह्यसिद्धितन्त्रं।
“सिध्य सिध्याद्य समये समयोऽहं त्वं प्रिया मम”।
इति चोदनया शीघ्रमनुरक्ता प्रसिध्यती-॥

त्याह भगवान् वज्रसत्वः॥
तत्रेदं पद्मकुलधर्ममुद्रागुह्यसिद्धितन्त्रं।
“बुध्य बुध्य महासत्वि भार्या मे त्वमतिप्रिया”।
इति चोदनया शीघ्रमनुरक्ता तु सिध्यती-॥

त्याह भगवान् वज्रधर्मः॥
तत्रेदं मणिकुलकर्ममुद्रागुह्यसिद्धितन्त्रं।
“सर्वकर्मकरी भार्या त्वं मे सिध्याद्य वज्रिणि”।
इति चोदनया शीघ्रमनुरक्ता तु सिध्यती-॥

त्याह भगवानाकाशगर्भः॥
सर्वकुलसर्वमुद्रा[गुह्यसि]द्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयगुह्यसिद्धितन्त्रमुदाजहार। तत्रेदं तथाग[तसमयगु]ह्यसिद्धितन्त्रं।
तीर्थिकानां हितार्थाय बुद्धभार्या प्रगोपिता।
लेख्या मुद्रा प्रयोगेण इति विज्ञेय सिध्यती-॥

त्याह भगवान् सर्वतथागत[समयः॥]
तत्रेदं तथागतकुलसमयगुह्यसिद्धितन्त्रं।

सर्वसत्वमनोव्यापी सर्वसत्वसुखप्रदः।
सर्वसत्वपिता चैव कामोऽग्रः समयाग्रिणाम्॥

इत्याहुर्भगवन्तः सर्वतथागताः॥
इदं तत्सर्वबुद्धानां रहस्यं परमाद्भुतं।
विज्ञेय श्रद्दधच्छ्द्धो दुःसाध्योऽपि हि सिध्यती-॥

त्याह भगवान् वज्रधरः॥
तत्रेदं वज्रकुलसमयगुह्यसिद्धितन्त्रं।
रागशुद्ध्यै विरक्तानां तीर्थ्यदृष्टिकृतात्मनां।
मारणं समयं त्वग्रमिदं विज्ञेयं सिध्यती-॥

त्याह भगवान् वज्रधरः॥
तत्रेदं पद्मकुलसमयगुह्यसिद्धितन्त्रं।
महाभूतोद्भवं सर्वं, कथं त्वशुचिरुच्यते ?।
तीर्थिकानां विनाशाय ध्रुवं सिद्धिमवाप्नुयाद्॥

इत्याह भगवान् वज्रनेत्रः॥
तत्रेदं मणिकुलसमयगुह्यसिद्धितन्त्रं।
स्त्रीप्रसङ्गात्तु रत्नानां संचयः क्रियते यदा।
स्त्रियो ह्यनुत्तरं रत्नमिति चिन्त्यते सिध्यती-॥

त्याह भगवानाज्ञाकरः॥
सर्वकलसमयगुह्यसिद्धिविधिविस्तरतन्त्रः॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजागुह्यसिद्धितन्त्रमुदाजहार। तत्रायं तथागतपूजागुह्यसिद्धितन्त्रः।
स्त्रीभिः परिवृतो भूत्वा परिहासक्रिया सुखं।
निर्यात्य बुद्धपूजायां पूजासिद्धिमवाप्नुयाद्॥

इत्याह भगवान् बुद्धः।
तत्रेदं तथागतकुलपूजागुह्यसिद्धितन्त्रं।
सुरतश्रमखिन्नस्तु तत्सौख्यं सुरतोद्भवं।
चतुःप्रणामे पूजायां निर्यात्य लघु सिध्यती-॥

त्याह भगवान् वज्रधरः॥
तत्रेदं वज्रकुलपूजागुह्यसिद्धितन्त्रं।
हुंकारसमयां बध्वा परिष्वज्य स्त्रियं जनं।
तत्परिष्वङ्गसौख्यं तु निर्यात्य हि स सिध्यती-॥

त्याह भगवान् वज्रहुंकारः॥
तत्रेदं पद्मकुलपूजागुह्यसिद्धितन्त्रं।
लोकेश्वरमहं भाव्य प्रियावक्त्रं निरीक्षन्वै।
तन्निरीक्षणसौरव्यं तु निर्यात्य हि स सिध्यती-।

त्याह भगवान् पद्मनेत्रः॥
तत्रेदं मणिकुलपूजागुह्यसिद्धितन्त्रं।
कर्ममुद्राधरो भूत्वा सर्वाभरणभूषितः।
स्त्रियं परिष्वज्य पूजायां विभूतिं निर्यात्य सिध्यती-॥

त्याह भगवान् वज्ररत्नः॥
सर्वकुलपूजागुह्यसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यपूजासिद्धितन्त्रमुदाजहार। तत्रेदं तथागतगुह्यपूजासिद्धितन्त्रं।
रमयन् परदाराणि यथा[क]श्चिन्न वेदयेत्।
भावयन् बुद्धमात्मानं पूजया सिद्धिमाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागत[कुल]गुह्यपूजासिद्धितन्त्रं।
वज्रलास्यां समाधाय वज्रमालां तु बन्ध[येत्]।
वज्रगीतां ततो बध्वा पूजयेद् वज्रनृत्यया॥
का[मरत्याभिषेका]ग्र्या नृत्यगीतसुखात्सुखं।
नान्यदस्ति हि तेनेयं गुह्यपूजा निरुत्तरा॥

तत्रेदं वज्रकुलगुह्यपूजासिद्धितन्त्रं॥
यथावद् विधियोगेन पूज[येद्] गुह्यपूजया।
त्रिलोकविजयं भाव्य पूजासिद्धिम वाप्नुयाद्॥

इत्याह भगवान् वज्रगुह्यः।
तत्रेदं पद्मकुलगुह्यपूजासिद्धितन्त्रं।
य[थावद् गु]ह्ययोगेन धर्ममुद्रा सुपूजयन्।
जगद्विनयमुद्रास्थः पूजासिद्धिमवाप्नुते-॥

त्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलगुह्यपूजासिद्धितन्त्रं।
यथावद् गुह्ययोगेन कर्ममुद्रा सुसाधयन्।
सर्वार्थसिद्धियोगेन पूजासिद्धिमवाप्नुते-॥

त्याह भगवान् वज्रगर्भः॥
सर्वकुलगुह्यपूजाविधिविस्तरतन्त्रं॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलोद्घाटनगुह्यसिद्धितन्त्रमुदाजहार। तत्रेदं तथागततत्वोत्पत्तिसिद्धिगुह्यतन्त्रं।
समाधिज्ञानसंभूतं बुद्धत्वं हि समासतः।
सत्वरागणयोगेन शीघ्रमाप्नोत्यनुत्तरम्॥

इत्याह भगवांस्तथागतः।
तत्रेदं तथागतकुलमहातत्त्वोद्घाटनसिद्धिगुह्यतन्त्रं।
अनादिनिधनः सत्वः आकाशोत्पत्तिलक्षणः।
समन्तभद्रः सर्वात्मा कामः सर्वजगत्पतिः॥१॥
यच्चित्तं सर्वसत्वानां दृढत्वात् सत्वनुच्यते।
समाधानाद् वज्रसमो निश्चयैर्याति वज्रतां॥२॥
सत्वाधिष्ठानयोगेन वज्रसत्वः पुनर्भवेत्।
स एव भगवान् सत्वो वज्रकायस्तथागतः॥३॥
स्वचित्तप्रतिवेधादिबुद्धबोधिर्यथाविधि।
स एव भगवान् सर्वतथागतकुलं भवेद्॥

इत्याह भगवाननादिनिधनसत्वः॥
तथागतकुलं सैव सैव वज्रकुलं स्मृतं।
सैव पद्मकुलं शुद्धं सैवोक्तं मणिसत्कुलम्॥

इत्याह भगवान् सर्वतथागतचक्रः॥
सर्वकुलोत्पादनगुह्यसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राचिन्हाभिधानसिद्धिगुह्यतन्त्रमुदाजहार। तत्रेदं तथागतचिन्हाभिधानसिद्धिगुह्यतन्त्रं भवति।
स एव भगवान् सत्वो वज्रसत्वो हृदि स्थितः।
समाधानात्समाधिस्तु बुद्धबोधिप्रसाधक॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथाकुलचिन्हाभिधानसिद्धिगुह्यतन्त्रं।
वज्रं सुप्रतिवेधत्वादङ्कुशं ग्रहमोचकः।
सूक्ष्मवेधितया वाणं साधुकारस्तु तुष्टितः॥१॥
रत्नस्तु रचनादुक्तः सूर्यस्तेजो विधानतः।
केतुः समुच्छ्रयः प्रोक्तः स्मितो हासस्तु कीर्तितः॥२॥
रागशुद्धितया पद्मं कोशः क्लेशारिच्छेदनात्।
चक्रो मण्डलयोगात्तु वाग्लापाज्जपनुच्यते॥३॥
सर्ववज्रं तु विश्वत्वाद् वर्मदुर्भेद्ययोगतः।
दंष्ट्रा भीषणयोगात्तु बन्धो मुद्राप्रयोगतः॥४॥
यथा हि भगवान् शाश्वो वज्रसत्वस्तु सर्वगः।
तथा वज्रां तु चिह्नादि भावयन्निति सिध्यती-॥

त्याह भगवान् सर्वतथागतचिन्हः।
सर्वकुलचिह्नाभिधानसिद्धिगुह्यतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रमुदाजहार। तत्रेदं तथागतमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं।
बध्वा वै वज्रपर्यङ्कङ्कराभ्यां वज्रबन्धतः।
वज्रसत्वसमाधिस्थः शीघ्रं बुद्धत्वमाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
[तत्रे]दं तथागतकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं।
यथा राज्ञां स्वमुद्राभिः मुद्र्यते राजशासनं।
महात्मनां स्वमुद्राभिरामुद्र्यन्ते तथा जनाः॥१॥
कायवाक्चित्तवज्राणां प्रतिबिम्बप्रयोगतः।
महात्मनां महामुद्रा इति विज्ञाय सिध्यती-॥२॥

त्याह भगवान् महामुद्रः॥
तत्रेदं वज्रकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं।
यथाहि समयैस्तीव्रैः कश्चिद्बन्धो भवेज्जनः।
अनतिक्रमणीयैस्तु तथा सर्वतथागताः॥१॥
बद्धा हि वज्रबन्धाग्र्यमुद्रासमयबन्धनैः।
नातिक्रमन्त्यामरणादिति विज्ञाय सिध्यती-॥

त्याह भगवान् वज्रसमयः॥
तत्रेदं धर्मकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं।
अनतिक्रमणीया हि वज्रवास्सर्वशो जिनैः।
अयं बन्ध इति ज्ञात्वा धर्ममस्य प्रसिध्यती-॥

त्याह भगवान् वज्रधर्मः॥
तत्रेदं कर्मकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं।
अनतिक्रमणीया हि वज्राज्ञा कर्मभूरि च।
आज्ञावतस्तु तत्कर्म विज्ञाय लघु सिध्यती-॥

त्याह भगवान् वज्रः॥
सर्वकुलमुद्राबन्धोत्पत्तिसिद्धिविधिविस्तरगुह्यतन्त्रं॥

अथ खलु भगवान् वज्रपाणिं महाबोधिसत्वमेवमाह। “इदमपि मया भगवन् परिगृहीतमधिष्ठितं चे-” ति॥
अथ सर्वतथागताः पुनः समाजमागम्य वज्रपाणये सर्वतथागतधिपतये साधुकाराण्यददुः॥

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम्॥ इति॥

सर्वतथागततत्वसंग्रहात्सर्वकुलकल्पगुह्यविधिविस्तरतन्त्रं समाप्तं॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project