Digital Sanskrit Buddhist Canon

त्रयोविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Trayoviṁśatitamaḥ
CHAPTER 23

SARVA-KALPOPAYA-SIDDHI-VIDHI-VISTARA-TANTRA

अथ वज्रपाणिर्महाब्रोधिसत्व इदं सर्वतथागतमहातत्वविधिविस्तरतन्त्रमुदाजहार। तत्र प्रथमं तावत् महामुद्रोत्तमसिद्धितन्त्रं भवति।

तथागतमहामुद्रां बध्वा सर्वखधातुषु।
बुद्धबिम्बानधिष्ठाय स्वहृदिस्तु प्रवेशयेत्॥१॥
इहैव जन्मनि वरं यदीच्छेदुत्तमं शिवं।
बुद्धत्वं तेन कामेदं न चेत् सिद्धिर्यथोपरि॥२॥
महामुद्रां समाधाय महातत्वमुदाहरन्।
पदशः सर्वमेवाहं भावयेत्सत्वयोगतः॥१॥
इहैव जन्मनि पदं यदीच्छेत् सौरित्वं शुभं।
आत्मनस्तेन कामेदं न चेत्सिद्धिर्यथोपरि॥२॥

अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति।
यथा वज्रधरः सिद्धस्तथाहमिति भावयन्।
बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी-॥ति॥

अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति।
स्वभावशुद्ध्या वाचा वै सर्वधर्मा इति ब्रूवन्।
बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी-॥ति॥

अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति।
सर्वस्य सर्वशुद्धित्वात्सर्वकर्माणि शोधयन्।
बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी-॥ति॥
तथागतकुलोत्तमसिद्धयः॥

अथ वज्रपाणिः स्वकुलोत्तमसिद्धितन्त्रमुदाजहार।
बुद्धाज्ञां सर्वसत्वार्थात् सर्वसिद्धिप्रयोगतः।
साधयंस्तु महामुद्रां बुद्धत्वमिह जन्मनी-॥ति॥

अथ समयोत्तमसिद्धितन्त्रं भवति।
यथा वज्रधरः सिद्धिस्तथाहमिति भावयन्।
महामुद्राप्रयोगेण क्षणात्सौरित्वमाप्नुत॥ इति॥

अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति।
अनक्षरेषु धर्मेषु प्रपञ्चो न हि विद्यते।
इमं वदंस्तु धर्माग्रीं भावयन् सौरितां ब्रजेद्॥ इति॥

अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति।
यत्करोति हि कर्म वै शुभं वा यदि वाशुभं।
निर्यातयं जिनेष्वस्तु क्षणात्सौरितां व्रजेद्॥ इति॥

अथ वज्रपाणिर्महाबोधिसत्वः पद्मकुलोत्तमसिद्धितन्त्रमुदाजहार। तत्र प्रथमन्तावन्महामुद्रोत्तमसिद्धितन्त्रं भवति।
रागः शुद्धः स्वभावेन तीर्थिकैरवसन्यते।
तस्याविरागो धर्मोऽस्मिं महायाने तु सिध्यती-॥ति॥

अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति।
अभ्यसंस्तु महामैत्रीन् समाधिदृढयोगतः।
स्फरेद्विधिवद्योगात् क्षणात्सौरित्वमाप्नुयाद्॥ इति॥

अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति।
स्वभावशुद्धः संराग इति ब्रूयादिमं नयं।
रागपारमिताप्राप्ते क्षणात्सौरित्वमाप्नुयाद्॥ इति॥

अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति।
दर्शनस्पर्शनाभ्यां तु श्रवणस्मरणेन वा।
स्यामहं सर्वसत्वानां सर्वदुःखान्तकस्थितिर्॥ इति॥

अथ वज्रपाणिर्महाबोधिसत्वो मणिकुलोत्तमसिद्धितन्त्रमुदाजहार। तत्र महामुद्रोत्तमसिद्धितन्त्रं भवति।
सर्वबुद्धाभिषेकोऽहं भवेयं वज्रगर्भवत्।
भावयं विभावयन् वै क्षणात्सौरित्वमाप्नुत॥ इति॥

अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति।
भवेयं सर्वसत्वानां सर्वाशापरिपूरकः।
आकाशगर्भसदृशः क्षणात्सौरित्वमाप्नुत॥ इति॥

अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति।
आत्मनस्तु समुत्सृज्य धनदानान् सुहर्षितः।
वदन् धर्ममयीं मुद्रामिह सौरित्वमाप्नुत॥ इति॥

अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति।
दारिद्राणां हितार्थाय धनोत्पादने तत्परः।
उद्योगात्सौरितां याति न चेत्सिद्धिर्यथोपरी-॥ति॥
सर्वकुलमुद्राणां बुद्धबोधिसत्वोत्तमसिद्ध्यवाप्तिविधिविस्तरः॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागत[समयसि]द्धितन्त्रमुदाजहार। तत्रायं सर्वतथागतसमयसिद्धितन्त्रं भवति।
यस्य रागसमापत्तिस्तस्य रागेण शोधयेत्।
इति बुद्धन्महामुद्रा ज्ञानस्य समयः स्मृतः॥

अथ तथागतकुलसमयसिद्धितन्त्रं भवति।
कामानामविरागस्तु समयः सुमहानयं।
तथागतकुलशुद्धोऽनातिक्रम्यो जिनैरपि॥

अथ वज्रकुलसमयसिद्धितन्त्रं भवति।
अक्रोधस्यापि सत्वार्थान्महाक्रोधप्रदर्शनं।
महावज्रकुले त्वेष समयो दुरतिक्रमः॥

अथ पद्मकुलसमयसिद्धितन्त्रं भवति।
स्वभावशुद्धिज्ञानेन तस्य कार्यं स करोति।
महापद्मकुले त्वेष समयो दुरतिक्रमः॥

अथ रत्नकुलसमयसिद्धितन्त्रं भवति।
अल्पत्वे वा बहुत्वे वा यथाभिरुचितं पुनः।
अवश्यो दिवसः कार्यो दानेन समयो ह्ययम्॥ इति॥
सर्वकुलसमयविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्ममुद्राज्ञानसिद्धितन्त्रमुदाजहार। तत्रेयं सर्वतथागतधर्मसिद्धितन्त्र भवति।
बुद्धो धर्म इति ख्यात इत्युक्त्वा धर्मताक्षरं।
बुद्धधर्ममहामुद्राज्ञानस्य परमनयं॥

तत्रेदं तथागतकुलधर्मसिद्धितन्त्रं।
रागाच्छ्रद्धतरन्नास्ति धर्मः सर्वसुखप्रदः।
तथागतकुलेप्येष धर्मः सिद्धिकरः परः॥

तत्रेदं वज्रकुलधर्मसिद्धितन्त्रं।
बुद्धाज्ञाच्छोधनार्थाद्वा सत्वत्राणार्थतस्तथा।
अक्रोधोऽपि हि संदुष्टान्मारयंच्छुद्धिमाप्नुते॥

तत्रेदं पद्मकुलधर्मसिद्धितन्त्रं।
अलिप्तं सलिलैः पद्मं तथा रागो न दुष्यति।
इति ब्रूवन्नकार्याणि कुर्वं पापैर्न लिप्यते॥

तत्रेदं मणिकुलसिद्धितन्त्रं।
दानात्समो न धर्मोऽस्ति प्रतिपत्त्या ब्रवीति हि।
महामणिकुले धर्मः न चेत्सिद्धिर्यथोपरी-॥ति॥
सर्वकुलधर्मसिद्धिविधिविस्तरतन्त्रम्॥ ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलकर्मसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतकर्मसिद्धितन्त्रं भवति।
बुद्धत्वं सर्वसत्वानां बोधिसत्वत्वमेव च।
यथावद्विनयं चैव कर्ममुद्राग्रसिद्धिदा॥

तत्रेदं तथागतकुलकर्मसिद्धितन्त्रं भवति।
चतुर्विधाभिः पूजाभिः सदा योगाच्चतुर्विधं।
चतुःकालयोगेन कुर्वन् कर्माणि साधयेत्॥

तत्रेदं वज्रकुलकर्मसिद्धितन्त्रम्।
दुष्टसत्वोपघाताय यद्यत्कार्य करोति सः।
कर्मवज्रकुलेऽप्येष सर्वसिद्धिप्रदायकः॥

तत्रेदं पद्मकुलकर्मसिद्धितन्त्रं।
भयात्मनामभयदो यथावद्विनयस्तथा।
एतत्पद्मकुले कर्म बुद्धसिद्धिप्रदायकं॥

अथ मणिकुलकर्मसिद्धितन्त्रं।
अभिषेकस्तथा दानं सर्वाशापरिपूरयः।
बुद्धानां देहिनां चैव कर्म सर्वार्थसाधकम्॥ इति॥
सर्वकुलकर्मसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलधर्मतामुद्राज्ञानतन्त्रमुदाजहार। तत्रेदं तथागतधर्मताज्ञानसिद्धितन्त्रं भवति।

वज्रसत्वसमाधिस्तु बुद्धानां धर्मता स्मृता।
एतद्बुद्धस्य बुद्धत्वं न बुद्धो भवतेऽन्यतः॥

तत्रेदं तथागतकुलधर्मताज्ञानसिद्धितन्त्रं।
भावयंस्तु महामुद्रां साधयेत्सर्वसिद्धयः।
तथागतकुलेऽप्येष धर्मतोत्तमसिद्धिदा॥

तत्रेदं वज्रकुलधर्मताज्ञानसिद्धितन्त्रं॥
बद्धाभिः समयाग्र्याभिः सर्वकर्माणि साधयेत्।
महामुद्राप्रयोगेण वज्रसिद्धिमवाप्नुयात्॥

तत्रेदं पद्मकुलधर्मताज्ञानसिद्धितन्त्रं।
धर्ममुद्राप्रयोगेण धर्ममुद्राः प्रवर्तयेत्।
अनया साधयं धर्मान् धर्मतावज्रधर्मिणः॥

तत्रेदं मणिकुलधर्मताज्ञानसिद्धितन्त्रं।
कर्ममुद्राप्रयोगेण कर्मवज्रं हृदि स्थितं।
भावयं धर्मतामेतावाप्नोति स्वकर्मताम्॥ इति॥
सर्वकुलधर्मताज्ञानसिद्धितन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलज्ञानसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतज्ञानसिद्धितन्त्रं भवति।
वज्रसत्वसमाधिस्थः चन्द्रवज्रप्रयोगतः।
यथा वर्णौ तु तौ वेत्ति तथा लोकं तु वेत्ति सः॥१॥
शुद्धे शुद्धमिति ज्ञेयं पाण्डरे तु प्रभास्वरं।
रक्ते रक्तंतरे क्रुद्धं यादृग्वर्ण तदात्मकं॥२॥

तत्रेदं तथागतकुलज्ञानसिद्धितन्त्रं।
महामुद्रां समाधाय चन्द्रमण्डलसप्रभां।
स्वयं कायं यथा वेत्ति तथा वेद्यं जगन्मनः॥

तत्रेदं वज्रकुलज्ञानसिद्धितन्त्रं।
आकाशे वान्यदेशे क्रुद्धः सन्मण्डलानि तु।
यादृशानि तु पश्येद्वै विज्ञेयन्तादृशन्मनः॥

तत्रेदं पद्मकुलज्ञानसिद्धितन्त्रं।
सूक्ष्ममक्षरपङिक्तर्वा पश्यन्नाकाशभूमिषु।
यादृग्वर्ण समासेन वेत्ति चित्तं स तादृशं॥

तत्रेदं मणिकुलज्ञानसिद्धितन्त्रं।
सर्वलोकं निरीक्षन् वै प्रतिभासो हि यादृशः।
पश्यते तादृशं चैव जगच्चित्तं तु लक्षयेद्॥ इति॥
एतमेव समापत्त्यो गमनागमनानि तु।
कुर्वन्त्यश्च भ्रमन्त्यो वा यथा पश्येत्तथागमः॥१॥
यस्य यस्य च सत्वस्य समापत्त्या तु चिन्तयेत्।
तस्य तस्य तथा चैव सर्वचित्तानि बुध्यती-॥२॥

त्याह भगवान् वज्रधरः॥
सर्वकुलज्ञानविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलसिद्धिज्ञानतन्त्रमुदाजहार। तत्रेदं तथागतसिद्धिज्ञानतन्त्रं।
सत्वाधिष्ठानयोगेन बुद्धबिम्बात्मभावना।
अनेन ज्ञानयोगेन बुद्धसिद्धिमवाप्नुयात्॥

तत्रेदं तथागतकुलसिद्धिज्ञानतन्त्रं।
आकाशे वाऽन्यदेशे वा श्वेतपीताभमण्डलान्।
स्वमुद्रासत्वमात्मानं साक्षादिव स पश्यति॥

तत्रेदं वज्रकुलसिद्धिज्ञानतन्त्रं।
तादृशेष्वेव बिम्बेषु मध्ये श्यामं निर्यच्छति।
सिद्धिर्वज्रकुलस्याग्रा भवेच्छीघ्रं यदिच्छति॥

तत्रेदं पद्मकुलसिद्धिज्ञानतन्त्रं।
तान्येवाकाशनीलानि पद्माकाराणि पश्यति।
महापद्मकुले विद्यासिद्धय संभवन्ति हि॥

तत्रेदं मणिकुलसिद्धिज्ञानतन्त्रं।
आकाशे वान्यदेशे वा त एवाकाशनिर्मलाः।
स्फुरन्तो रश्मिमण्डानि पश्यत् सि[द्धिमवाप्नुया]द्॥ इति॥
वज्रसत्वादयः सत्वाचश्चन्द्रमण्डलसप्रभाः।
प्राग् दर्शयन्ति चात्मानं सिद्धिकाले स्वरूपतः॥
सर्वकुल[सिद्धिज्ञानवि]धिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलाभिज्ञासिद्धिज्ञानमुद्रातन्त्रमुदाजहार।
तत्रेदं तथागता[भिज्ञासिद्धिज्ञान] तन्त्रं।
वज्रसत्वसमाधिस्थः सर्वकाये तथागतान्।
भावयन् बोधिसत्वांश्च दर्शयेत्कायतस्तथा॥

तत्रेदं तथागतकुलाभिज्ञासिद्धि[तन्त्रं]।
वज्रसत्वमहामुद्रां बध्वा तु सुसमाहितः।
पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः॥

तत्रेदं दिव्यचक्षुज्ञानं भवति।
महामुद्रां समाधाय चक्षुर्विज्ञानमावहेत्।
तेन यच्चिन्तयेत् किंचित् सुदूरापि पश्यती-॥

त्याह भगवान् वज्रसत्वः॥
महामुद्रां समाधाय श्रोत्रविज्ञानमावहेत्।
तेन यच्चिन्तयेत्कार्यं सुदूरस्थं शृणोति ही-॥

त्याह भगवान् वज्रधरः॥
महामुद्रां समाधाय मनोविज्ञानमावहेत्।
तेन य सत्वमुद्वीक्षेत् चित्तं जानाति तस्य सः॥१॥
महामुद्रां समाधाय आत्मनो वा परस्य वा।
मनसा पश्यते रूपं यतो जन्म स आवहेद्॥२॥

इत्याह भगवान् वज्रपाणिः॥
अथ ऋद्धिविधिज्ञानसिद्धिर्भवति।
महामुद्रां समाधाय यां यां ऋद्धिमभीष्यति।
यत्र वा तत्र वा तद्वै संदर्शयेत्समाधिने-॥

त्याह भगवान् महाबोधिचित्तः॥
तत्रेदं वज्रकुलाभिज्ञासिद्धितन्त्रं॥

त्रिलोकविजयाग्रीं वै बध्वा तु सुसमाहितः।
पञ्चाभिज्ञानवाप्नोति विधिनानेन साधकः॥१॥
क्रुद्धः सः सर्वकार्याणि यथावदनुपूर्वशः।
दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भवेत् क्षणाद्॥२॥

इत्याह भगवान् वज्रसत्वः॥
तत्रेदं पद्मकुलाभिज्ञासिद्धितन्त्रं।
जगद्विनयमुद्राग्रीं सन्धाय सुसमाहितः।
पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः॥१॥
रागसक्तस्तु विधिवद्यथानुक्रमतस्तथा।
दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भविष्यति-॥२॥

त्याह भगवान् लोकेश्वरः॥
तत्रेदं मणिकुलाभिज्ञासिद्धितन्त्रं।
सर्वार्थसिद्धिसन्मुद्रां बध्वा तु सुसमाहितः।
पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः॥१॥
बुद्धपूजां प्रकुर्वन्वै यथानुक्रमतस्तथा।
दिव्यचक्ष्वादियोगेन पञ्चाभिज्ञां स पश्यती-॥

त्याह भगवानाकाशगभः॥
सर्वकुलाभिज्ञाज्ञानविधिविस्तरतन्त्रः॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलसत्यसिद्धितन्त्रमुदाजहार। तत्र तथागतसत्यसिद्धितन्त्रं भवति।
सत्यानुपरिवर्तिन्या वाचा तु शपथक्रिया।
पालयंस्तु महासत्यं लघु बुद्धत्वमाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलसत्यसिद्धितन्त्रं।
समये शपथा कार्या तथागतकुलोद्गता।
पालयन् वज्रसत्यं तु सिद्धिमग्र्यामवाप्नुत॥

इत्याह भगवान् वज्रधरः।
तत्रेदं वज्रकुलसत्यसिद्धितन्त्रं।
वज्रधार्यासु शपथां कृत्वा तु दुरतिक्रमान्।
पालयेत्सत्यमेतद्धि यदिच्छेत् सिद्धिमुत्तमाम्॥

इत्याह भगवान् वज्रधरः।
तत्रेदं पद्मकुलसत्यसिद्धितन्त्रं।
सद्धर्मे शपथाङ्कृत्वा महापद्मकुलोत्तमं।
पालयेत्सत्यसमयं यदिच्छेत् सिद्धिमुत्तमाम्॥

इत्याह भगवान् [वज्रध]र्मः॥
तत्रेदं मणिकुलसत्यसिद्धितन्त्रं।
बुद्धपूजासु शपथां कृत्वा तु दुरतिक्रमान्।
पालयेदुत्तमं सत्यमभिषेकं स लप्स्यती॥
[त्याह भगवान्] बुद्धपूजः॥
सर्वकुलशपथसिद्धितन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयतत्वसिद्धितन्त्रमुदाजहार। तत्रेदं सर्वतथागतसमयतत्वसिद्धितन्त्रं भवति।

समयस्त्वमिति प्रोक्ते सर्वमुद्रान् कुलेष्वपि।
स्वयं बध्वा दृढं यान्ति ततः पश्चादसाधिता॥

इत्याह भगवान् महासमयसत्वः॥
तत्रेदं तथागतकुलसमयतत्वसिद्धितन्त्रं।
सुरतस्त्वमिति प्रोक्ते सर्वमुद्रा असाधिताः।
स्वयं बध्वा तु सिध्यन्ते तत्वचोदान् महात्मन॥

इत्याह भगवान् महासमयसत्वः॥
तत्रेदं वज्रकुलसमयतत्वसिद्धितन्त्रं।
एकहुंकारमात्रेण सर्वमुद्राः समासतः।
स्वयं बन्धेद् वन्धयेद्वापि स्वयं वापि परस्य वे-॥ति॥

तत्रेदं पद्मकुलसमयतत्वसिद्धितन्त्रं।
सर्वशुद्ध इति प्रोक्ते स्वतो वापि परस्य वा।
स्त्रीसङ्गाद्यास्तु संयोगा न मोक्षं यान्ति सर्वश॥ इति॥

तत्रेदं मणिकुलसमयतत्वसिद्धितन्त्रं॥
ओंकारेणैव सिध्यन्ते सर्वमुद्राः समासतः॥
सर्वलोकेषु चैवाग्र्याः पूजाश्चैव स्वयंभुवाम्॥ इति॥
सर्वकुलसमयतत्वसिद्धिमुद्राविधिविस्तरतन्त्रं॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसिद्धिमुद्रातन्त्रमुदाजहार। तत्र सर्वतथागतसिद्धितन्त्रं भवति।
बुद्धमुद्रां तु संधाय तथागतमनुस्मरन्।
साधयन् सिध्यते शीघ्रं बुद्धबोधिरपि स्थिरा॥

तत्रेदं तथागतकुलसिद्धितन्त्रं।
वज्रसत्वमहामुद्रां बध्वा तु परिभावयन्।
पुरतो वज्रसत्वं च सिद्धिः शीघ्रतरा भवेत्॥

तत्रेदं वज्रकुलसिद्धितन्त्रं।
बध्वा तु समयाग्रीं वै वज्रसत्वसमाधिना।
भावयन् वज्रसत्वं च सिद्धिस्तु द्विगुणा भवेत्॥

तत्रेदं पद्मकुलसिद्धितन्त्रं।
बध्वा धर्ममयीं मुद्रां लोकेश्वरसमाधिना।
भावयन् लोकनाथं च सिद्धिस्तु द्विगुणा भवेत्॥

तत्रेदं मणिकुलसिद्धितन्त्रं।
कर्ममुद्रां समाधाय वज्रगर्भसमाधिना।
भावयन् वज्रगर्भं च सिद्धिस्तु द्विगुणा भवेत्॥
सर्वकुलसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वसिद्धिसाधनतन्त्रमुदाजहार। तत्रेदं सर्वतथागतसिद्धिसाधनतन्त्रं।
आत्मनो वाथ परतो बुद्धानुस्मृतिसाधकः।
बध्वा वै सर्वमुद्रास्तु ततः सिध्यन्ति तत्क्षणाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलादिसर्वसिद्धिसाधनतन्त्रं।
साधयेत्सर्वमुद्रास्तु कामोऽहमिति भावयन्।
वज्रजापप्रयोगेण सर्वसिद्ध्यग्रसाधनम्॥

इत्याह भगवान् वज्रसत्वः॥
तत्रेदंवज्रकुलसर्वसिद्धिसाधनतन्त्रं।
वज्रबिम्बं स्वमात्मानं भावयन् [सुसमाहितः]।
बध्नीयात्सर्वमुद्रास्तु सिद्धिं यान्ति हि तत्क्षणाद्॥

इत्याह भगवान् सर्वतथागतवज्रः॥
तत्रेदं पद्मकुलसर्वसिद्धिसाधनतन्त्रं।
पद्मबिम्बं स्व[मात्मानं] भावयन् स्वयमात्मना।
सर्वज्ञानमयी सिद्धिर्महापद्मकुले स्मृते-॥

त्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलसर्वसिद्धिसाधनतन्त्रं।
भावयेत्स्वयमात्मानं मणिरत्नंकरो ज्वालं।
सर्वपूजामयी सिद्धिर्महामणिकुले स्मृते-॥

त्याह भगवानाकाशगर्भः॥
सर्वकुलोत्तमसिद्धिविधिविस्तरतन्त्रः॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागताधिष्ठानमुद्रासिद्धितन्त्रमुदाजहार।
तत्रेदन्तथागताधिष्ठानसिद्धितन्त्रं।
वज्रधात्वीश्वरीं मुद्रां बध्वा तु सुसमाहितः।
हृद्यूर्णायां गले मूर्ध्नि स्थाप्य बुद्धैरधिष्ठ्यत्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलाधिष्ठानसिद्धितन्त्रं भवति।

सत्ववज्रीन् दृढीकृत्य वज्रसत्वसमाधिना।
हद्यूर्णायां तथा कण्ठे मूर्ध्नि स्थाप्याधितिष्ठ्यते।

इत्याह भगवान् वज्रसत्वः॥
तत्रेदं वज्रकुलाधिष्ठानसिद्धितन्त्रं।
वज्रहूंकारमुद्रां वै बध्वा तु सुसमाहितः।
हृद्यूर्णाकण्ठमूर्धस्था समाधिष्ठानि तत्क्षणाद्॥

इत्याह भगवान् वज्रनाथः॥
तत्रेदं पद्मकुलाधिष्ठानसिद्धितन्त्रं।
वज्रपद्मां दृढीकृत्य लोकेश्वरसमाधिना।
हृद्यूर्णाकण्ठमूर्धस्था स्वधिष्ठापय कल्पत॥

इत्याह भगवानवलोकितेश्वरः।
तत्रेदं मणिकुलाधिष्ठानसिद्धितन्त्रं।
महावज्रमणिं बध्वा वज्रगर्भसमाधिना।
हृद्यूर्णाकण्ठमूर्धस्था स्वधिष्ठानाय कल्पयेद्॥

इत्याह भगवान् वज्रगर्भः॥
सर्वकुलाधिष्ठानविधिविस्तरतन्त्रः॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागताभिषेकमुद्रासिद्धितन्त्रमुदाजहार। तत्रेदं तथागताभिषेकसिद्धितन्त्रं।
सज्ररत्नां समाधाय ललाटे तु प्रतिष्ठितां।
कृत्वा तु वज्ररत्नेभ्यामभिषिक्तो जिनेर्भवेद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलाभिषेकसिद्धितन्त्रं।
वज्रधात्वीश्वर्याद्याभिर्बुद्धमुद्राभिरग्रतः।
समारभ्य चतुःपार्श्वमालया त्वभिषिच्यती-॥ति॥

तत्रेदं वज्रकुलाभिषेकसिद्धितन्त्रं।
वज्राभिषेकमालां तु सन्धाय च ललाटगान्।
तया मालाभिषेकेण वज्रिणा सोऽभिषिच्यती-॥ति॥

तत्रेदं पद्मकुलाभिषेकसिद्धितन्त्रं।
धर्मवज्रीं समाधाय पुरः शीर्षे प्रतिष्ठितां।
तयाभिषिक्तो बुद्धैस्तु लोकेश्वर्येऽभिषिच्यती-॥

त्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलाभिषेकसिद्धितन्त्रं।
वज्ररत्नाङ्कुरां बध्वा ललाटे तु प्रतिष्ठितां।
तयाभिषिक्तो बुद्धैस्तु पूजैश्वर्येऽभिषिच्यती-॥
त्याह भगवानाकाशगर्भः॥
सर्वकुलाभिषेकसिद्धितन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमाधिसिद्धितन्त्रमुदाजहार। तत्रेदं सर्वतथागतसमाधिसिद्धितन्त्रं।
आहारतः सर्वबुद्धानां मुद्रां बध्वा समाहितः।
जपन् वै मन्त्रविद्यास्तु शीघ्रं सिद्धिमवाप्नुते-॥

त्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलसमाधिसिद्धितन्त्रं।
समाधिर्वज्रधर्मेण सत्वाधिष्ठानयोगतः।
हृन्मुद्रामन्द्रविद्यास्तु शीघ्रं सिध्यन्ति जापत॥

इत्याह भगवान् बुद्धसमाधिः॥
तत्रेदं वज्रकुलसमाधिसिद्धितन्त्रं।
रागात्त्वमसि संभूतः क्रोधोऽहमिति भावयन्।
हृन्मुद्रामन्त्रविद्यानामाशुसिद्धिकरं भवेद्॥

इ[त्याह भगवा]न् वज्रधरः॥
तत्रेदं पद्मकुलसमाधिसिद्धितन्त्रं।
मैत्रीस्फरणतायोगः साधयेद्धृदयादयः।
लोकेश्वरकुले जापः सिद्धिं शीघ्रं[तु ददाति-॥

त्या]ह भगवानार्यावलोकितेश्वरः॥
तत्रेदं मणिकुलसमाधिसिद्धितन्त्रं।
सर्वाकाशसमाधिस्तु भावयन् सुसमाहितः।
हृन्मुद्रामन्त्रविद्यासु साधयन् सर्वगो भवेद्॥

इत्याह भगवानाकाशगर्भः॥
सर्वकुलसमाधिसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजामुद्रासिद्धितन्त्रमुदाजहार। तत्रेदं तथागतपूजासिद्धितन्त्रं।
पूर्वं धूपादिभिः पूजां कृत्वा तु सुसमाहितः।
ततस्तु सिद्धिकामो वै साधयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलपूजासिद्धितन्त्रं।
गुह्यपूजाचतुष्ठेन पूजागुह्यमुदाहरन्।
आत्मनिर्यातनाद्यैवां पूजां कुर्वस्तु सिध्यती-॥

त्याह भगवान् वज्रसत्वः॥
तत्रेदं वज्रकुलपूजासिद्धितन्त्रं।
क्रोधवज्रमहापूजां क्रोधगुह्यमुदाहरन्।
क्रोधमुष्टि प्रकुर्वन् वै शीघ्रं सिध्येत् कुलं ममे-॥

त्याह भगवान् वज्रधरः॥
तत्रेदं पद्मकुलपूजासिद्धितन्त्रं।
गंभीरोदारसूत्रान्तप्रयोगसमुदाहृताः।
निर्यातयन्मनोवाग्भिः शीघ्रं सिद्धिमवाप्नुयाद्॥

इत्याह भगवानार्यावलोकितेश्वर।
तत्रेदं मणिकुलपूजासिद्धितन्त्रं।
च्छत्रध्वजपताकाभिः राजपूजाभिरर्चयन्।
सिध्यते मणिकुलं सर्वददन् दानानि वा सिध्यती-॥

त्याह भगवान् वज्रगर्भः॥
स्वाधिष्ठानादिसंयुक्तो वज्रसत्वसमो भवेत्।
चतुर्भिः प्रातिहार्यस्तु वज्रविश्वं समाधयेत्॥

सर्वसिद्धय इत्याह भगवान् वज्रसत्वः॥
सर्वकुलाधिष्ठानाभिषेकसमाधिपूजासिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागता[भिज्ञाज्ञा]नसिद्धितन्त्रमुदाजहार। तत्रेदं तथागताभिज्ञाज्ञानसिद्धितन्त्रं भवति।
काये बुद्धसमाधिस्तु स्वभिज्ञा सौगती त्वियं।
तस्याः सुप्रति[वेदित्य]बौद्धीं सिद्धिमवाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलाभिज्ञाज्ञानसिद्धितन्त्रं।
दिव्यचक्ष्वादयोऽभिज्ञा भावयन् सुसमाहितः।
पञ्चाभिज्ञः स्वयंभूत्वा वज्रसत्वत्वमाप्नुयाद्॥

इत्याह भगवान् वज्रसत्वः॥
तत्रेदं वज्रकुलाभिज्ञाज्ञानसिद्धितन्त्रं।
क्रोधाभिज्ञां समुत्पाद्य साधयन् सुसमाहितः।
पञ्चाभिज्ञः स्वयंभूत्वा परां सिद्धिमवाप्नुयाद्॥

इत्याह भगवान् वज्रधरः॥
तत्रेदं पद्मकुलाभिज्ञाज्ञानसिद्धितन्त्रं।
रागाभिज्ञां समुत्पाद्य भावयन् सुसमाहितः।
पञ्चाभिज्ञः स्वयंभूत्वा शुद्धां सिद्धिमवाप्नुयाद्॥

इत्याह भगवान् वज्रनेत्रः॥
तत्रेदं मणिकुलाभिज्ञाज्ञानसिद्धितन्त्रं।
पूजाभिज्ञां समुत्पाद्य भावयन् सुसमाहितः।
पञ्चाभिज्ञः स्वयंभूत्वा सर्वसिद्धिर्वरा भवेद्॥

इत्याह भगवान् वज्रधरः॥
सर्वकुलाभिज्ञाज्ञानसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतबोधिज्ञानसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतबोधिज्ञानसिद्धितन्त्रं।
वज्रसत्वसमाधिस्थो बुद्धानुस्मृतिमान् स्वयं।
बुद्धबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलामहाबोधिज्ञानसिद्धितन्त्रं।
वज्रसत्वसमाधिस्थो महामुद्रां तु भावयन्।
महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवान् महाबोधिसत्वः॥
तत्रायं वज्रकुलमहाबोधिज्ञानसिद्धितन्त्रः।
क्रोधराजसमाधिस्थः समयाग्र्या करग्रहः।
महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवान् वज्रधरः॥
तत्रेदं पद्मकुलमहाबोधिज्ञानसिद्धितन्त्रं।
लोकेश्वरसमाधिस्थो धर्ममुद्रां जपंस्तथा।
महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलमहाबोधिज्ञानसिद्धितन्त्रं।
वज्रगर्भसमाधिस्थः कर्ममुद्रा सुकर्मकृत्।
महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवानाकाशगर्भः॥
सर्वकुलमहाबोधिज्ञानसिद्धिविधिविस्तरतन्त्रः॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानुरागणसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतानुरागणसिद्धितन्त्रं।
सत्वार्थं च प्रकुर्वन् वै बुद्धबोध्यर्थिकः स्वयं।
बुद्धानुस्मृतिमां भूत्वा सर्वबुद्धानुरागणम्॥

इत्याह भगवान् वज्ररागः॥
तत्रेदं तथागतकुलानुरागणसिद्धितन्त्रं।
यथा विषयवां भूत्वा वज्रसत्व[स्तु] साधयेत्।
तत्वचोदनया शीघ्रमनुरक्तः स सिध्यती-॥

त्याह भगवान् वज्रसत्वः॥
तत्रेदं वज्रकुलानुरागणसिद्धितन्त्रं।
बुद्धाज्ञाकारितार्थं हि दुष्टानामभिचारुकैः।
क्रोधान् सत्वविशुद्ध्यर्थमिदं वज्रानुरागणम्॥

इत्याह भगवांस्त्रिलोकविजयः॥
तत्रेदं पद्मकुलानुरागणसिद्धितन्त्रं।
रागावलोकनं मैत्रीकारुण्य धर्मवादिता।
सर्वाभयप्रदानं च सर्वबुद्धानुरागणम्‌ं॥

इत्याह भगवान् वज्रनेत्रः॥
तत्रेदं मणिकुलानुरागणसिद्धितन्त्रं।
अभिषेकप्रदानं च प्रदानं धनसंचयं।
तच्च बुद्धार्थतो योज्यमिदं बुद्धानुरागणम्॥

इत्याह भगवानार्याकाशगर्भः।
सर्वकुलानुरागणसिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतवशीकरणसिद्धितन्त्रमुदाजहार। तत्रेदं तथागत वशीकरणसिद्धितन्त्रं॥
रागो वै नावमन्तर्यो विशुद्धः सुखदस्तथा।
सवसत्वार्थतो योग इदं बुद्धवशङ्करम्॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलवशीकरणसिद्धितन्त्रं।
कामं सेव्य सुखात्मा तु सुरतस्त्वमिति कुर्वन्।
साधयेद् वज्रसत्वं तु तत्वचोदवशीकृतम्॥

इत्याह भगवान् समन्तभद्रः॥
तत्रेदं वज्रकुलवशीकरणसिद्धितन्त्रं।
बुद्धाज्ञान् सत्वशुद्ध्यर्थमभयार्थं च देहिनां।
बुद्धशासनरक्षार्थं मारयं वशमानयेद्॥

इत्याह भगवान् वज्रहुंकार॥
तत्रेदं पद्मकुलवशीकरणसिद्धितन्त्रं।
रागशुद्धिं परीक्षत् वै पद्मपत्रविकासतः।
रञ्जेद्वा रागयेच्चैव विनयार्थं वशंकरम्॥

इत्याह आर्यावलोकितेश्वरः॥
तत्रेदं मणिकुलवशीकरणसिद्धितन्त्रं।
सर्वबुद्धाभिषेकार्थं वज्ररत्नं दिनेदिने।
शीर्षे स्थाप्याभिषिच्यतां सर्वबुद्धान् वशं नयेद्॥

इत्याह भगवानाकाशगर्भः॥
सर्वकुलवशीकरणसिद्धितन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमारणसिद्धितन्त्रमुदाजहार। तत्रेदं तथागतमारणसिद्धितन्त्रं।
अपश्यं सर्वसत्वार्थ बुद्धतत्वा न शोधयन्।
मनसा कर्मवाग्भ्यां वा मारणसिद्धिमाप्तयाद्॥

इत्याह भगवांस्तथागतः॥
तत्रेदं तथागतकुलमारणसिद्धितन्त्रं।
अलाभात्सर्वसिद्धीनामनुद्योगात्कुलस्य च।
आस्फोटमहावज्रस्य मारयन् लघु सिध्यत॥

इत्याह भगवान् वज्रपाणिः॥
तत्रेदं वज्रकुलमारणसिद्धितन्त्रं।
अदुष्टदमनात्क्रोधादसत्वविनेयात् तथा।
आत्मनो दुःखदानाच्च हुंकारेण तु मारयेद्॥

इत्याह भगवान् वज्रधरः॥
तत्रेदं पद्मकुलमारणसिद्धितन्त्रं॥
अकारुण्यादमैत्र्यात्तु दुःसत्वानामशोधनात्।
आत्मनश्च विसंवादान मारयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवानवलोकितेश्वरः॥
तत्रेदं मणिकुलमारणसिद्धितन्त्रं।
अत्यागादात्मनोऽनर्थात् अर्थकारादनर्थतः।
दारिद्र्याच्चैव सत्वानां मारयन् सिद्धिमाप्नुयाद्॥

इत्याह भगवान् सर्वाशापरिपूरकः॥
केचिदप्राप्तियोगेन बुद्धानां मारणात्मकाः।
तेषामुद्धरणार्थाय लघु सिद्धिप्रदा वयम्॥

इत्याह भगवानार्यसमन्तभद्रः॥
सर्वकुलमारणसिद्धिविधिविस्तरतन्त्रं॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतरक्षामुद्रासिद्धितन्त्रमुदाजहार। तत्रेदं तथागतरक्षासिद्धितन्त्रं।
सर्वसत्वापरित्यागो बुद्धपूजात्मता सदा।
नित्यं बुद्धमनस्कारो रक्षेयं परमाद्भुत-॥

इत्याह भगवान् बुद्धः॥
तत्रेदं तथागतकुलरक्षासिद्धितन्त्रं।
वज्रसत्वे सकृद्वारां नाममात्रपरिग्रहः।
इयं रक्षा तु महती शाश्वती सिद्धिदा क्षणाद्॥

इत्याह भगवान् वज्रधरः।
तत्रेदं वज्रकुलरक्षासिद्धितन्त्रं।
विद्यातन्त्रेषु संतोषः त्रिलोकविजयात्मता।
भक्तिर्वै वज्रहुंकारे रक्षेयं स्वपरस्य वे-॥

त्याह भगवान् वज्रहुंकारः॥
तत्रेदं पद्मकुलरक्षासिद्धितन्त्रं।
रागशुद्धिर्महामैत्री सत्वेषु अभयदानता।
लोकेशनामजापश्य रक्षेयं परमाद्भुते-॥

त्याह भगवान् वज्रधर्मः।
तत्रेदं मणिकुलरक्षासिद्धितन्त्रं।
अबन्ध्यो दिवसः कार्यो यथा शक्त्या प्रयोगतः।
त्यागेन बुद्धसत्वाभ्यां रक्षेयं परमाद्भूते-॥

त्याह भगवान् वज्ररक्षः॥
सर्वकुलरक्षासिद्धिविधिविस्तरतन्त्रं॥

अथ वज्रपाणिर्महाबोधिसत्वो भगवन्तमेतदवोचत्। “प्रतिगृहाण भगवन्निदं सर्वतथागतकुलतन्त्रं। येन सर्वसत्वाः सर्वकल्पैश्वर्यतयाधिगमं कृत्वा, शीघ्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्त” इति॥

अथ भगवान् वज्रपाणये बोधिसत्वाय महासत्वाय साधुकारमदात्। “साधु साधु वज्रपाणे सुभाषितं, प्रतिगृहीतोऽस्माभिरधिष्ठितश्चे-” ति॥

अथ सर्वतथागताः पुनः समाजमागम्य, वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददन्।

“साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते॥
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम्॥” इति॥

सर्वतथागततत्वसंग्रहात् सर्वकल्पोपायसिद्धिविधिविस्तरतन्त्रः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project