Digital Sanskrit Buddhist Canon

द्वाविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvāviṁśatitamaḥ
CHAPTER 22

KARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागताभिषेककर्म-समयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं सर्वतथागतकर्माभिषेके हूं॥

अथ वज्रापाणिर्महाबोधिसत्व इमां स्वकर्मसंभवां विद्योत्तमामभाषत् ओं वज्रहुंकाराभिषेके॥
अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषात् ओं सर्वाकाशसमताभिषेके हूं॥
अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं सद्धर्माभिषेकरत्ने॥
अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं विश्वाभिषेके॥

Delineation of the mandala
अथाकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलकर्ममण्डलमभाषत्।
अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं।
वज्रधातुप्रतीकाशं रत्नकर्ममिति स्मृतं॥१॥
महामण्डलयोगेन सूत्रयेत्सर्वं मण्डलं।
तस्य मध्ये यथान्यायं बुद्धबिम्बन्निवेशयेत्॥२॥
महासत्वप्रयोगेण रत्नसत्व्यः समालिखेद्॥ इति॥ ॥३॥

तत्रासां मुद्रा भवन्ति।
ओं मणिरत्नपूजाग्र्य॥१॥
ओं सर्वार्थसिद्धिवज्ररत्नाभिषेके हूं॥२॥
ओं वज्रमणिधारिणिसमये हूं॥३॥
ओं मणिरत्नाकर्षे कर्मसमये हूं॥४॥
ओं मणिरत्नरागरति कर्मपूजे प्रवर्त॥५॥
ओं मणिरत्नसाधुकारपूजासमये॥६॥
ओं महामणिरत्नदृष्ट्याकर्षे॥७॥
ओं मणिरत्नमालापूजे॥८॥
ओं मणिरत्नसूर्यालोकपूजे॥९॥
ओं मणिरत्नध्वजपताकापूजे॥१०॥
ओं मणिरत्नाट्टहासपूजे॥११॥
ओं पद्ममणिसमाधिसमये हूं॥१२॥
ओं सर्वत्यागानुस्मृतिसमाधिकर्मकारि हूं॥१३॥
ओं मणिरत्नतीक्ष्णसमये च्छिन्द हूं॥१४॥
ओं मणिरत्नचक्रसमये हूं॥१५॥
ओं मणिरत्नभाषे वद वद हूं॥१६॥
ओं मणिरत्नवृष्टिकर्मसमये हूं॥१७॥
ओं मणिरत्नकर्मणि हूं॥१८॥
ओं मणिरत्नकवचे रक्ष हूं॥१९॥
ओं मणिरत्नदंष्ट्री खाद खाद हूं॥२०॥
ओं मणिरत्नकर्ममुष्टि हूं॥२१॥
ओं मणिरत्नलास्ये पूजय होः॥२२॥
ओं मणिरत्नमालाभिषेके पूजय॥२३॥
ओं मणिरत्नगीते पूजय॥२४॥
ओं मणिरत्ननृत्ये पूजय॥२५॥
ओं मणिरत्नधूपे पूजय॥२६॥
ओं मणिरत्नपुष्पे पूजय॥२७॥
ओं मणिरत्नदीपे पूजय॥२८॥
ओं मणिरत्नगन्धे पूजय॥२९॥
ओं मणिरत्नाङ्कुश्याकर्षे ज्जः॥३०॥
ओं मणिरत्नपाशे हूं॥३१॥
ओं मणिरत्नस्फोटे वं॥३२॥
ओं मणिरत्नावेशे अः॥३३॥

Initiation into the mandala
अथात्र कर्ममण्डले यथावद्विधिविस्तरं कृत्वा प्रवेश्यैवं वदेत्। “न त्वया कस्यचिदयं वक्तव्यः। मा ते कर्मावरणधिष्ठितस्यैव मरणं भवेद्” इति, उक्त्वा, मणिकर्मज्ञानानि शिक्षयेत्।

Mudra
वज्रगर्भमहामुद्रां बध्वा तु समाहितः।
पूजयं सर्वपूजाभिः सर्वबुद्धान् वशन्नयेत्॥१॥
बध्वा चैकतराम्मुद्रां समयग्रीं समाधिना।
पूजयं सर्वबुद्धां हि स्वभिषेकां स लप्स्यति॥२॥
वज्रगर्भसमाधिं तु भावयं सुसमाहितः।
पूजयं सर्वबुद्धांस्तु नाशयेज्जगदुत्तमं॥३॥
बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना।
पूजयं सर्वबुद्धांस्तु सवार्थां लभते क्षणाद्॥ इति॥ ॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं रत्नपूजा वशीकुरु॥
ओं रत्नपूजासमयाभिषिञ्च॥
ओं रत्नपूजाधर्म नाशय पतिं॥
ओं रत्नपूजाकर्म सर्वार्थान् मे दद॥

अथ रहस्यमुद्राकर्मज्ञानं भवति।
द्वयेन्द्रियसमापत्त्या वज्रगर्भसमाधिना।
पूजयं सर्वबुद्धांस्तु सर्वलोकं स रागयेद्॥ इति॥

ततो यथावन्महामुद्राज्ञानेनोत्तमसिद्धय॥ इति॥
अथ समयमुद्राज्ञानं शिक्षयेत्।

वज्ररत्नं समाधायस्थानेषु संस्थयेत्।
वज्रकार्यप्रयोगेण यथावदनुपूर्वशः॥

अथ धर्ममुद्राज्ञानं भवति।
त्वः, जः, गः, ध्रुः, त्नः, जाः, तुः, सः,
मीः, क्ष्णः, नुः, षः, र्मः, क्षः, क्षः, धीः।
वज्ररत्नां द्विधीकृत्य कर्ममुद्राः समाधयेद्॥ इति॥

सर्वतथागतकर्मसमयान् महाकल्पराजात् कर्ममण्डलविधिविस्तरः परिसमाप्तः॥

EPILOGUE OF THE SARVA-TATHAGATA-KARMA-SAMAYA NAMA
MAHA-KALPA-RAJA

Mandala IV. 5
Emanation of deities from samAdhi
अथ भगवान् रत्नमुद्रान् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्ररत्ने त्रां॥
अथ वज्रपाणिर्बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं वज्रमाले हूं॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं मणिरत्ने॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां [स्वमु]द्रामभाषत् ओं धर्मरत्ने॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं विश्वदृष्टि॥

Delineation of the mandala
अथार्याकाश[गर्भो बोधि]सत्व इदं मणिकुलचतुर्मुद्रामण्डलमभाषत्।
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं।
चतुर्मुद्राप्रयोगेण मण्डलं परिकल्पयेत्॥
ततो यथावत् प्रवेश्य शिक्षयेत् “न त्वया कस्यचिद् वक्तव्यम्” इति॥

Jnana
ततो ज्ञानान्युत्पादयेत्।

वज्ररत्नं समाधाय वज्ररत्नसमाधिना।
ललाटे तु प्रतिष्ठाप्य सर्वसिद्धिमवाप्नुयाद्॥ इति॥
अथात्र हृदयं भवति।

ओं वज्ररत्न सर्वाभिषेक सर्वसिद्धयो मे प्रयच्छ रल रल हूं त्रः॥

Mudra
ततो रहस्यमुद्रां दर्शयेत्।
पतिं वापि प्रियां वापि स्त्रियं वा पुरुषोऽपि वा।
ललाटद्वयसन्धानाच्चुम्बं द्वावपि सिध्यतः॥
तत्रास्याः साधनहृदयं भवति ओं वज्ररत्नसखि विद्याधर त्वं प्रयच्छ शीघ्रमभिषिञ्चाहि ह ह ह ह त्रः॥
ततो यथावच्चतुर्मुद्राबन्धं चतुर्विधं शिक्षयेत्। तथैव सिद्धय इति॥
चतुमुद्रामण्डलं॥

IV. 6 Ekamudra-mandala of Sarvarthasiddhi
अथाकाशगर्भो बोधिसत्वो महासत्व इदं सर्वार्थसिद्धिं नाम मण्डलमभाषत् ओं वज्रमणि-धर सर्वार्थ-सिद्धिं मे प्रयच्छ हो भगवन् वज्ररत्न हूं॥

Delineation of the mandala
अथात्र मण्डलं भवति।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं।
यथावत्तु समालेख्यं सर्वसिद्धेस्तु मण्डलम्॥ इति॥

Mudra
अथात्र ज्ञानरहस्यमुद्राज्ञानं शिक्षयेत्।
रूपादीनां तु कामानामविरक्तः सुखानि तु।
निर्यातयंस्तु बुद्धेभ्यः कल्पसिद्धिमवाप्नुत॥ इति॥

ततश्चतुर्विधं मुद्राज्ञानं शिक्षयेत्॥
एवं पटादिषु सत्वं मुद्रां वा मण्डलेषु लिख्य साधयेदिति॥

अथ सर्वतथागताः पुनः समाजमागम्याकाशगर्भं महाबोधिसत्वमनेन साधुकारदानेनाच्छादितवन्तः।
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते।
साधु ते वज्रधर्माय साधु ते वज्रकर्मणे॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम्॥ इति॥

सर्वतथागततत्वसंग्रहात्सर्वतथागतकर्मसमयो नाम महाकल्पराजः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project