Digital Sanskrit Buddhist Canon

विंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Viṁśatitamaḥ
CHAPTER 20

RATNA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

अथ भगवान् पुनरपि सर्वतथागताभिषेकधारणीसमयसंभवरत्नाधिष्ठानं नाम समाधिं समापद्येमां स्वमुद्रामभाषत् ओं वज्ररत्नस्तूपे हूं॥

अथ वज्रपाणिर्महाबोधिसत्व इमां स्वकुलसंभवां मुद्रामभाषत् ओं वज्राभिषेकमाले अभिषिञ्च समये हूं॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं वज्ररत्नाभिषेके हूं॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं वज्रधर्माभिषिञ्च मां॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं सर्वाभिषेकपूजासमये हूं॥

Delineation of the mandala
अथ भगवानार्याकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलसमयमुद्रामण्डलमभाषत्।
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं।
वज्रधातुप्रतीकाशं रत्नगुह्यमिति स्मृतं॥१॥
महामण्डलयोगन सूत्रयेत्सर्वमण्डलं।
तस्य मध्ये यथान्यायं बुद्धमुद्रां समालिखेत्॥२॥
पर्यङ्कस्थं मणिं पूर्व वज्रधातोः पुरो लिखेत्।
मणिमालां मणीं पद्मे मणिं मणिपरीवृत्तं॥

तत्रासां मुद्रा भवन्ति।
ओं त्रः॥
ओं मणिसमये हूं॥
ओं मणिरत्नाभिषेकमाले हूं॥
ओं मणिरत्नपद्मि हूं॥
ओं मणिरत्नवृष्टिसमये हूं॥

वज्रवेगेन निष्क्रम्य सर्वसिद्धेस्तु मण्डले।
वज्ररत्नस्य मध्ये तु महारत्नमणिं लिखेत्॥१॥
तस्य पार्श्वषु सर्वेषु स्वमुद्रामणिसंयुता।
यथावदनुपूर्वेण रत्नाचार्यः समालिखेत्॥२॥

तत्रासां मुद्रा भवन्ति।
ओं सर्वार्थसिद्धिप्रदे महावज्ररत्नसमय मणि सर्वार्थान् मे साधय धारणी हू॥
ओं मणिरत्नाकर्षे हूं॥
ओं मणिरत्नसमयाङ्कुश्याकर्षय मणिकुलं जः॥
ओं मणिरागसमये हूं॥
ओं मणिसार्थि हूं॥

वज्रवेगेन चाक्रम्य द्वितीयं मण्डलं तथा।
तत्र मध्ये मणिं लेख्यं नेत्रद्विकसमन्धितन्॥१॥
तस्यास्तु सर्वपार्श्वेषु यथावदनपूर्वशः।
मणिचिन्हसमोपेताः स्वमुद्रास्तु समालिखेत्॥२॥

तत्रासां मुद्रा भवन्ति॥
ओं वज्रमणिरत्ननेत्रानय वशीकुरु सर्वार्थसंपदः शीघ्रं दृष्ट्याङ्कुशी हूं॥
ओं वज्रमणिरत्नमालेऽभिषिञ्च हूं॥
ओं मणिरत्नसूर्ये ज्वालय सर्व महातेजिनि हूं॥
ओं मणिचन्द्रध्वजाग्रि हूं॥
ओं मणिहासे हस हूं॥

वज्रवेगेन चाक्रम्य मणिपद्मं समालिखेत्।
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः॥१॥

तत्रासां मुद्रां भवन्ति।
ओं मणिसमाधिपद्मिनि हूं॥
ओं मणिरत्नत्यागसमये हूं॥
ओं मणिसमयकोशे हूं॥
ओं मणिसमयचक्रे हूं॥
ओं मणिभाषाग्रि हूं॥

वज्रवेगेन चाक्रम्य चतुर्थं मण्डलोत्तमं।
तत्रस्थं रत्नवृष्ट्या तु वज्रं रत्नसमन्धितं॥१॥
संलिखेत यथावत्तु कर्ममुद्रापरिवृतं।
मणिचिन्हप्रयोगैस्तु यथावदनुपूर्वशः॥२॥

अथासां मुद्रा भवन्ति।
ओं रत्नवृष्टि साधय महामणि हूं॥
ओं महापूजासमये नृत्य अः॥
ओं मणिरत्नसमयरक्षे हं॥
ओं वज्रमणिरत्न द्रंष्ट्राकराले हर हर हूं॥
ओं मणिसमयमुष्टि हूं॥

Initiation into the mandala
अथात्र मणिगुह्यमण्डले यथावत्कर्म कृत्वा, शिष्यां प्रवेय, ब्रूयात्। “न त्वया कस्यचिदयं नयो वक्तव्यः। मा ते महादारि द्यमकालक्रिया नरकपतनं स्याद्”, इत्युक्त्वा स्वमणिसमयज्ञानान्युत्पादयेत्।

Mudra
वज्ररत्नं नभे लिख्य वज्ररत्नसमाधिना।
आत्मनस्तु ललाटे वै स्थाप्य राजा भवेद्ध्रुवं॥१॥
वज्ररत्नं समालिख्य समयाग्रीन्तु बन्धयेत्।
स्थाप्याभिषेकस्थानेषु राज्यत्वं भवते ध्रुवं॥२॥
वज्ररत्नं समालिख्य वज्ररत्नसमाधिना।
तज्ज्ञानरत्नं संस्थाप्य भवेद्राजा स्वयंकृतः॥३॥
वज्ररत्नं नभे लिख्य कर्ममुद्रां तु बन्धयेत्।
स्वस्थाने तत्प्रतिष्ठाप्य भवेद्राजा स्वयं कृत॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
महावज्ररत्नाभिषिञ्च मां॥
समयरत्नाभिषिञ्च मां॥
धर्मरत्नाभिषिञ्च मां॥
कर्मरत्नाभिषिञ्च माम्॥

वज्ररत्नं तु हृदये महामुद्रां तु भावयेत्।
भावयन्नभिषेकं तु प्राप्नोति परमाद्भुतं॥१॥
वज्ररत्नं ललाटे तु भावयं सुसमाहितः।
बध्वा वै रत्नवज्रान्तु भवेद्राजा तु सर्वतः॥२॥
वज्ररत्नं तु जिव्हायां वज्ररत्नसमाधिना।
भावयन्नभिषेकं प्राप्नुयाद्धर्मराज्यतां॥३॥
वज्ररत्नं स्वमुष्णीषे भावयं सुसमाहितः।
बध्वा वै कर्ममुद्रां तु भवेद्राजा सुकर्मकृद्॥ इति॥४॥

अथासां हृदयानि भवन्ति।
ओं वज्ररत्नहृदयाभिषिञ्च होः॥
ओं वज्ररत्नाभिषेक त्रः॥
ओं वज्ररत्नज्ञानाभिषिञ्च वं॥
ओं वज्ररत्नोष्णीषाधीतिष्ठस्व मां॥

पटादिषु समालिख्य वज्ररत्नं स्वमात्मना।
भावयंस्तु महामुद्रां महाराजा भवेत्स तु॥१॥
पटादिषु समालिख्य [वज्ररत्न] मनुत्तरं।
भावयेत्सत्ववज्रां तु समयानां भवेत्पतिः॥१२॥
पटादिषु समालिख्य वज्ररत्नं स्वमात्मना।
भावयं ध्यानमुद्रां तु भवे[द्धर्मपतिर्ध्रुवं]॥१३॥
पटादिषु समालिख्य वज्ररत्नमनुत्तरं।
भावयेत्कर्ममुद्रां तु भवेत्कर्माधिपः स्वयम्॥ इति॥ ॥४॥

तत्रैषां हृदयानि भवन्ति।
वज्ररत्न [बिम्बाधितिष्ठ]॥
वज्ररत्नबिम्ब प्रतिष्ठ॥
वज्ररत्नबिम्बाविश॥
वज्ररत्नबिम्ब कुरु॥

सौवर्ण वाथ रौप्यं वज्ररत्नं तु भावयेत्।
अन्यरत्नमयं वापि हृदि भाव्याभिषिच्यते॥१॥
सौवर्णमन्यरत्नं वा वज्ररत्नं त्वनुत्तरं।
स्थाप्य भूयो ललाटे तु भवेद्राजा महाधनः॥२॥
सौवर्णमन्यरत्नं वा वज्ररत्नन्तु भावयेत्।
स्वमुखे चैव प्रक्षिप्य भवेद्वाचां पतिस्तु सः॥३॥
सौवर्णमन्यरत्नं वा वज्ररत्नन्तु भावयेत्।
उष्णीषे भावयं भूयो सर्वकर्मपतिर्भवेद्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं वज्ररत्नहृदयाभरण हूं॥
ओं वज्ररत्नाभिषेक महार्थप्रद॥
ओं वज्ररत्नवाचस्पते॥
ओं वज्ररत्नमहाकर्मपते॥

ततो मणिकुलसमयमुद्रारहस्यज्ञानं शिक्षयेत्।
महावज्रमणिं बध्वा तन्मणिं स्त्रीभगे तथा।
प्रवेश्य तु महामुद्रां भावयन् सिद्धिमाप्नुते॥१॥
समयाग्र्या मणिं बध्वा स्त्रीभगे समयग्र्यया।
बन्धया तु भवेत्सिद्धिरभिषेकेषु सर्वतः॥२॥
महावज्रमणिं बध्वा धर्ममुद्रां तु भावयन्।
तन्मणिं स्त्रीभगे विध्वा भवेत्सिद्धिरनुत्तरा॥३॥
कर्ममुद्रामणिं विध्वा स्त्रीभगे कर्ममुद्रया।
बन्धया तु भवेत्सिद्धिः सर्वकर्मस्वनुत्तरम्॥ इति॥४॥

तत्रासां हृदयानि भवन्ति।
ओं महासिद्धिः॥
ओं समयाभिषेकसिद्धिः॥
ओं धर्मसिद्धिः॥
ओं कर्मसिद्धिः॥

अथात्र मण्डले महामुद्राबन्धो भवति।
रत्नवज्राङ्कुरां बध्वा मध्यानामान्तिमाङ्गुली।
प्रसारितास्तु संधाय मूर्ध्नि स्थाप्याग्रसिद्धिदा॥१॥
वज्रबन्धं समाधाय ग्रन्थिताग्र्या युयोर्णगा।
द्वयङ्गुष्ठानामिका वज्रा परिवर्त्याभिषेकदा॥२॥
वज्ररत्नप्रयोगेण सा एव परिवर्तिता।
तर्जन्यग्रमुखा सङ्गादभिषेकन्ददाति सा॥३॥
सा एवाङ्गुष्ठज्येष्ठाभ्यां धर्मवज्रप्रयोगतः।
बध्वा ललाटगा चैव महाधर्माभिषेकदा॥४॥
कर्मवज्रां समाधाय ललाटे परिवर्त्य वै।
सर्वाभिषेकमालां तु स्थापयन्नभिषिञ्चति॥५॥
रत्नसंभवमुद्रां तु समयां वज्रधातुजां।
बध्वा रत्नप्रतिष्ठां तु ललाटे त्वभिषिच्यते॥६॥
अङ्गुष्ठा बन्धपर्यङ्का तर्जनीद्वयसन्धिता।
मणिमुखाग्र्ययोः कुर्यान्महावज्रमणिं लभेत्॥७॥
वज्रबन्धं समाधाय मणिमुष्टिं प्रसारयेत्।
मणिस्तु मध्यमाभ्यां तु मणिमालाभिषेकदा॥८॥
वज्रबन्धं समाधाय मध्यमा मणियोजिता।
द्व्यग्रानामविकासा तु पद्मङ्कृत्वा तुं सिध्यति॥९॥
मध्यमाभ्यां मणिं बध्वा सर्वाङ्गुल्यः समुच्छिताः।
भावयंस्तु मणीनेव भवेत् सुपरिवारवान्॥१०॥
वज्ररत्नं समाधाय [मध्यमाङ्]गुष्ठयोगतः।
समानामकनिष्ठा तु जिव्हा मुखे मणिप्रदा॥११॥
सा एव तर्जनी वज्रा तत्स्था एव तथाङ्कु शी।
तर्जन्या तर्जनी कर्षा [ताभ्यन्तुष्टिप्रदायि]का॥१२॥
मध्यमाभ्यां मणिं बध्वा द्र्यग्रसंकोचसंस्थिता।
बध्वानामाङ्गुलिमुखानङ्गुष्ठद्वयच्छादिता॥१३॥
सा एव सूर्यावर्ता तु मूर्ध्नि बाहुप्रसारिता।
मणिं ध्वजाग्रकेयूरा हासयोगेन योजिता॥१४॥
वज्रबन्धं समाधाय ज्येष्ठानाममुखोच्छिता।
ताभिः पद्मं तु संभाव्य मध्यमाम्यां मणीकृता॥१५॥
सा एवान्त्यप्रदाना तु वज्रकोशप्रयोजिता।
वज्रचक्रप्रयोगा तु सा एव मुखतोद्धृता॥१६॥
वज्ररत्नाङ्कु रां बध्वा सर्वाङ्गुल्यः प्रसारयेत्।
तां तु मूर्ध्नि प्रतिष्ठाप्य रत्नवृष्टिस्तु वर्षयेत्॥१७॥
सा एव चक्रयोगा तु हृदि रत्नद्विधीकृता।
मणिग्रहाग्रदंष्ट्रा तु मुष्टिर्मध्यमसन्धिते॥ति॥१८॥

ततः समयमुद्राज्ञानं शिक्षयेत्।
एता एव महामुद्राः संपुटीकृत्य बन्धयेत्।
गुह्यगुह्याः समासेन सिद्धिन्दद्युश्चतुर्गुणम्॥ इति॥
यथावद् वज्रगुह्ये तु सर्वकालं न बन्धयेत्।
अतः परं प्रवक्ष्यामि धर्भमुद्राः समासत॥ इति॥

त्रैः ग्रैः हैः सैः ग्र्यः ख द्व्यैः हैः
ध्रैः ध्यैः क्रैः वैः क्रयैः रै य्यः मैः।

गुह्यगुह्याग्रमुष्टिस्तु द्विधीकृत्य सर्वकर्मिका॥ इति॥

सर्वतथागतकर्मसमयात् महाकल्पराजाद् रत्नगुह्यमुद्रामण्डलविधिविस्तरः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project