Digital Sanskrit Buddhist Canon

एकान्नविंशतिमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekānnaviṁśatimaḥ
CHAPTER 19

SARVARTHASIDDHI-MAHAMANDALA-VIDHI-VISTARA

Hymn of 108 names of the mahabodhisattva Akasagarbha
अथ खलु सर्वतथागताः पुनः समाजमागम्य, सर्वतथागताभिषेकरत्नं तमेव वज्रधरमार्याकाशगर्भ महाबोधिसत्वमनेन नामष्टशतेनाध्येषितवन्तः।

आकाशगर्भं सत्वार्थ महासत्व महाद्युते।
महारत्न सुरत्नाग्र्य वज्ररत्न नमोऽस्तु ते॥१॥
अभिषेक महारत्न महाशुद्ध महाशुभ।
बुद्धरत्न विशुद्धाङ्ग रत्नरत्न नमोऽस्तु ते॥२॥
आकाशाकाशसंभूत सर्वाकाश महानभ।
आकाशधातु सर्वाश सर्वाशाग्र्य नमोऽस्तु ते॥३॥
रत्नसंभव रत्नोर्ण बुद्धोर्ण सुतथागत।
सर्वरत्न सुसर्वाग्र्य रत्नकार्य नमोऽस्तु ते॥४॥
रत्न रत्नाग्र्य रत्नोग्र रत्नसर्वतथागत।
रत्नोत्तम महाकाश समाकाश नमोऽस्तु ते॥५॥
अलङ्कार महाशोभ शोभाकर सुशोभक।
शुद्ध सर्वार्थ शुद्धार्थ दानचर्य नमोऽस्तु ते॥६॥
धर्मरत्न विशुद्धाग्र्य सङ्घरत्न तथागत।
महाभिषेक लोकार्थ प्रमोदार्थ नमोऽस्तु ते॥७॥
दान प्रदन दानाग्र्य त्याग त्यागाग्र्य दायक।
सर्वसत्वार्थ तत्वार्थ महार्थार्थ नमोऽस्तु ते॥८॥
चिन्ताराज महातेज दानपारमितानय।
तथागत महासत्व सर्वबुद्ध नमोऽस्तु ते॥९॥
तथागत महारत्न तथागत महाप्रभ।
तथागत महाकेतो महाहास नमोऽस्तु ते॥१०॥
तथागताभिषेकाग्र्य महाभिषेक महाविभो।
लोकनाथत्व लोकाग्र्य लोकसूर्य नमोऽस्तु ते॥११॥
रत्नाधिकाधिकतर रत्नभूषण रत्नधृक्।
रत्नालोक महालोक रत्नकीर्ते नमोऽस्तु ते॥१२॥
रत्नोत्कर सुरत्नोत्थ मणे वज्रमणे गुण।
रत्नाकर सुदीप्ताङ्ग सर्वरत्न नमोऽस्तु ते॥१३॥
महात्म यष्टि रत्नेश सर्वाशापरिपूरक।
सर्वाभिप्रायसंप्राप्ति रत्नराशि नमोऽस्तु ते॥१४॥
अ[भ्व]ग्र्य व्यापि सर्वात्म वरप्रद महावर।
विभूते सर्वसंपत्ते वज्रगर्भ नमोऽस्तु ते॥१५॥
यः कश्चिद् धारयेन् नाम्नामिदन्तेऽष्टशतं शिवं।
सर्वबुद्धाभिषेकं तु स प्राप्नोत्यनघः क्षणात्॥१६॥
अध्येषयामस्त्वां रत्न भाष स्वधनसंचयं।
सर्वबुद्धाभिषेकाग्र्यमुत्पाद नियमकुलम्॥१७॥ इति॥

अथाकाशगर्भो बोधिसत्वः इदं सर्वतथागतवचनमुपश्रुत्य, सर्वतथागताभिषेकसमयं नाम स्वहृदयमभाषत् ओं वज्ररत्नं हूं॥

अथ भगवान् वैरोचनस्तथागत इदं सर्वतथागतमणिसमयं नाम विद्योत्तममभाषत् ओं सर्व-तथागताशा-परिपूरणमहारत्न हूं॥

अथ वज्रपाणिर्महाबोधिसत्व इमं स्वकुलसंभवं विद्योत्तममभाषत् ओं वज्र हूं त्रः॥
अथ वज्रगर्भो बोधिसत्व इमं स्वविद्योत्तममभाषत् ओं मणि हूं॥
अथ वज्रनेत्रो बोधिसत्व इमं स्वकुलसंभवं विद्योत्तममभाषत् ओं पद्म ह्रीः॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं विश्वरत्न हूं॥

अथार्याकाशगर्भो बोधिस[त्वो महासत्वः] सर्वतथागताभिषेकरत्नंनाम समाधिं समापन्नः; समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यो वज्रमणिरत्नरश्मयो निश्चरिताः। ते सर्वलोकधातवोऽवभास्य सर्वसत्वान् सर्वतथागताभिषेकैरभिषिच्य, पुनरप्येकध्यीभूत्वा, भगवत आकाशगर्भस्य महाबोधिसत्वस्य हृदयेऽनुप्रविष्टा इति।

अथ तत् आकाशगर्भहृदयात्स एव भगवान् वज्रपाणिः समन्तरश्मिज्वालागर्भा विचित्रवज्रमणिरत्नाभिषेकाद्याभरणालङ्कारालङ्कृतकाया महवज्रमणिरत्नचिन्हमुद्राव्यग्रकरा महाबोधिसत्वकाया भूत्वा विनिःसृत्य, सर्वलोकधातुषु महारत्नवर्षादिभिः रत्नोत्पत्तिभिः सन्तोष्य, पुनरागत्य, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः।

अहो हि सर्वबुद्धानां सर्वरत्नसमुच्चयं।
वज्ररत्नकुलं त्वेदं संभूतं जगदर्थत॥ इति॥

Delineation of the mandala
अथाकाशगर्भो बोधिसत्वो महासत्व इति स्वकुलमुत्पाद्य, सर्वतथागतेभ्यः सर्वाशापरिपूर्ये निर्यात्येदं सर्वार्थसिद्धिन्नाम महामण्डलमभाषत्।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं।
वज्रधातुप्रतीकाशं सर्वसिद्धिरिति स्मृतं॥१॥
चतुरश्रं चतुर्द्वारं चतुष्तोरणशोभितं।
चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितं॥२॥
सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं॥३॥
तस्याभ्यन्तरतः कार्यं वज्ररत्नसमं पुरं।
अष्टस्तंभाग्रयोगेन सूत्रणं तत्र कारयेत्॥४॥
पञ्चमण्डलशोभं तु नानारत्नाकरोज्ज्वलं।
स्वमुद्रापरिवारं तु तत्र बुद्धन्निवेशयेत्॥५॥

तत्रैषां हृदयानि भवन्ति।
ओं बुद्धरत्न हूं॥
ओं वज्रमणि हूं॥
ओं वज्ररत्नाङ्कुर हूं॥
ओं वज्ररत्नपद्म हूं॥
ओं रत्नपद्मवर्ष हूं॥

वज्रवेगेन चाक्रम्य सर्वाशासिद्धिमण्डलं।
तत्रस्थं वज्रगर्भ तु लिखेद्रत्नवरप्रदं॥१॥
तस्य पार्श्वेषु सर्वेषु रत्नमुद्रा समन्धिताः।
महासत्वाः समालेख्या यथावदनुपूर्वशः॥२॥

अथैषां हृदयानि भवन्ति।
ओं सर्वार्थसिद्धिप्रद हूं॥
ओं वज्रमणिचिन्हाकाशगर्भ भगवन् सिध्य सिध्य हूं॥
ओं रत्नाङ्कुशाकर्षय सर्वार्थानानय शीघ्रं सर्वतथागतसत्यमनुस्मर हूं॥
ओं मणिराग वशीकुरु सर्वार्थनानयाकाशगर्भ हूं॥
ओं रत्नतुष्टि हूं॥

वज्रवेगेन चाक्रम्य रत्नामालस्य मण्डलं।
तत्र मध्ये लिखेत् सम्यग्रत्नमालाधरं परं॥१॥
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः।
महासत्वाः समालेख्या मणिचिन्हाग्रपाणयः॥२॥

तत्रैषां हृदयानि भवन्ति।
ओं रत्नदृष्टि त्रः॥
ओं सर्वतथागताभिषेकरत्नमाल हूं॥
ओं मणिसूर्य हूं॥
ओं चिन्तामणिध्वज सर्वाशाप्रपूरकाकाशगर्भ हूं॥
ओं रत्नाट्टहास हस ह ह हूं॥

वज्रवेगेन चाक्रम्य रत्नपद्मस्य मण्डलं।
तत्रस्थं तु समालेख्यं रत्नपद्मधरं विभुं॥१॥
तस्य पार्श्वेषु सर्वेषु महासत्वान् समालिखेत्।
मणिचिन्हान् समासेन यथावदनुपूर्वशः॥२॥

तत्रैषां हृदयानि भवन्ति॥
ओं रत्नपद्म हूं॥
ओं [त्यागसमाधिज्ञान] गर्भ हूं॥
ओं रत्नकोशाग्र्य हूं॥
ओं मणिचक्र प्रवर्तय हूं॥
ओं रत्नभाष हूं॥

वज्रवेगेन चाक्रम्य रत्नवृष्टेस्तु मण्डलं।
तत्र लेख्यं महासत्वं र[त्नवृष्टिं प्रवर्ष]यन्॥१॥
तस्य पार्श्वेषु सर्वेषु महासत्वान् यथाविधि।
रत्नचिन्हसमोपेतान् मुद्राहस्तान् समासतः॥२॥

तत्रैषां हृदयानि भवन्ति।
ओं रत्नवृष्टि वर्षय सर्वार्थसंपदो भगवन् मणिहस्त हूं॥
ओं मणिपूजा समय हूं॥
ओं मणिबन्ध कवच हूं॥
ओं मणिदंष्ट्राकराल महायक्ष हर हर सर्वार्थान् भीषापय हूं॥
ओं मणिरत्न बन्ध समय हूं॥

वज्रवेगेन चाक्रम्य कोणभागेषु सर्वतः।
रत्नलास्यादयो लेख्या यथावदनुपूर्वशः॥

तत्रासां मुद्रा भवन्ति।
ओं रत्नरति हूं॥
ओं रत्नमाले हूं॥
ओं रत्नगीते हूं॥
ओं रत्ननृत्ये हूं॥

वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमं।
बाह्यमण्डलकोणेषु धूपपूजादयो लिखेत्॥

तत्रासां मुद्रा भवन्ति।
ओं धूपरत्ने॥
ओं पुष्पमणि॥
ओं रत्नालोके॥
ओं मणिगन्धे॥

द्वारपालास्तु कर्तव्या द्वारमध्यचतुष्टये।
अतः परं प्रवक्ष्यामि मण्डले विधिविस्तरं॥

अथात्र हृदयानि भवन्ति।
ओं सर्वरत्नाकर्ष आर्यारुण महासत्व भगवन्तं आकाशगर्भ चोदयाकर्षय शीघ्रं होः जः॥
ओं सर्वरत्नप्रवेशसमय प्रवेशय समयान् महामणिराजकुलं रत्नपाश हूं॥
ओं मणिबन्ध हूं वं॥
ओं मणिरत्नावेश अः॥

Initiation into the mandala
अथात्र महामण्डले स्वयं मणिरत्नाचार्यो यथावत् प्रविश्य, विधिविस्तरमात्मनः कृत्वा, ततो रत्नाधिष्ठितकलशोदकेन मणिशिष्यानभिषिच्य, वज्रमणिसमयमुद्रां बन्धयेदनेन हृदयेन ओं वज्रमणि समय वं॥

ततो यथावर्णप्राप्तितया वस्त्रमुत्तरासङ्गं कृत्वा, तादृशेनैवाक्षिणी बध्वा, प्रवेशयेदनेन हृदयेन ओं हूं मणिराजकुलं॥

ततः प्रवेश्य वक्तव्यं “न त्वयेदं कस्यचिद् वक्तव्यं; माते सर्वजन्मसु दारिद्र्यदुःखान्मोक्षे न भवेन्, नरकवासश्च दृढो भवेद्” इत्युक्त्वा, समयं स्फोटयेत्; महायानाभिसमयं चोच्चारयेत्।

ततः समाविष्टस्य वज्रवाचा परिपृच्छेत्। ”कुत्र महानिधिरस्ति ?। कथं वा प्राप्यते।”

ततो भगवानाकाशगर्भो बोधिसत्वः सर्वं जल्पापयतीत्य; उक्तमात्रे मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत्, सर्वतथागताभिषेकसमयं चोदाहरेत्, यावद् भगवांस्तथागतस्तु गत इति। ततो यथाविभवतः पूजान् कृत्वा, सर्वकार्याणि साधयेदिति।

Mudra
अथात्र ज्ञानमुद्रा भवन्ति।
वज्रगर्भमहामुद्रां बध्वा तु सुसमाहितः।
निधानं खनते यत्र निधानं तत्र पश्यति॥१॥
बध्वा तु समयाग्रीम् वै निधानं यत्र विद्यते।
पीडयेत् तत्र तां मुद्रां स्वयमुत्तिष्ठते तदा॥२॥
वज्रगर्भसमाधिन्तु भावयन् सुसमाहितः।
मनसा चैव जानाति निधानं यत्र तिष्ठति॥३॥
बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना।
तां मुद्रमाविशेद्यत्र निधानं तत्र लक्षयेत्॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं महामणिरत्नाविश हूं॥
ओं मणिपीड दर्शय॥
ओं रत्नसमाधि ब्रूहि॥
ओं रत्नावेश दर्शय॥

महामुद्रां समाधाय यत्र कायं तु वेष्टयेत्।
तत्र रत्ननिधानं तु ज्ञातव्यं समयात्मभिः॥१॥
बध्वा तु समयाग्रीम् वै यत्राविश्य परिस्फुटेत्।
निधानन्तत्र विज्ञेयं महारत्नमयं भवेत्॥२॥
समाधिमुद्रां बध्वा वै यद्याविश्य स्वयं पुनः।
ब्रूयाद्यत्र निधानं तु महारत्नमयं भवेत्॥३॥
कर्ममुद्रां तु बध्वा वै यदाविश्य परम्परं।
हस्तौ बन्धे तु समयान्निधिन्तत्र विनिर्देशेद्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति॥
ओं महारत्नकाय दर्शय रत्नं॥
ओं आकाशगर्भ मणिरत्न स्फुट स्फुट यत्र निधिः॥
ओं मणिरत्नज्ञान स्वयं ब्रूहि॥
ओं पुनः समय बन्ध दर्शयस्व॥

बध्वा तु वै महामुद्रां यत्राशङ्का भवेत्तथा।
तत्र ज्ञानेन विज्ञेयं निधानं रत्नसंभवं॥१॥
यत्र शङ्का भवेत्तत्र समयाग्रीन्तु बन्धयेत्।
यदा मोक्षं स्वयं यायान्निधिन्तत्र विनिर्दिशेत्॥२॥
समाधिमुद्रां बध्वा वै शङ्का यत्र भवेद्ध्रुवा।
ज्ञानमुत्पाद्य विज्ञेयं निधिस्तत्रास्ति शाश्वतः॥३॥
यत्र भूयो भवेच्छङ्का कर्ममुद्रां तु तत्र वै।
बध्नीयाद् विधिवत्तां तु स्फुटेज्ज्ञेयो निधिः पुनः॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं निधिज्ञानाविश॥
ओं रत्नसमय मुञ्च निधि बन्धान्॥
ओं धर्मरत्न ब्रूहि निधानं॥
ओं सर्वकर्माणि स्फोटय दर्शय निधि बन्धोत्क्षिप॥

महामुद्रां तु सन्धाय निधानं परिमार्गयेत्।
यत्रस्थस्य समावेशो भवेत्तत्र विनिर्दिशेत्॥१॥
बध्वा समयाग्रीन् वै निधिं तु परिमार्गयेत्।
यत्रस्थो दृढतां यायान्निधिन्तत्र विनिर्दिशेत्॥२॥
समाधिमुद्रां सन्धाय निधानं परिमार्गयेत्।
यत्रस्थो ज्ञानवान् भूयान्निधिन्तत्र विनिर्दिशेत्॥३॥
बध्वा कर्ममयीं मुद्रां निधिं तु परिमार्गयेत्।
यत्रस्थः कर्ममुद्रां तु भ्रामयेत् तत्र निर्दिशेत्॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं महारत्न परीक्षाविश॥
ओं रत्नसमय दृढ दर्शय॥
ओं रत्नपरीक्षा ज्ञानाविश॥
ओं मणिकर्म भ्रामय॥

ततो मणिरहस्यमुद्राज्ञानं शिक्षयेत्॥
द्वयेन्द्रियसमापत्त्या निधानं परिमार्गयेत्।
भावयंस्तु महामुद्रां समावेशान्निधिं लभेत्॥१॥
बध्वा तु समयाग्रीन् वै रामयंस्तु स्त्रियन्तथा।
यत्र मुद्रा दृढीभूयान्निधिन्तत्र विनिर्दिशेत्॥२॥
द्वयेन्द्रियसमापत्त्या निधानं परिमार्गयेत्।
भावयन् ज्ञानमुद्रां तु निधिज्ञानं प्रवर्तते॥३॥
बध्वा तु कर्ममुद्रां वै द्वयेन्द्रियसमाधितः।
स्फुटेद्यत्र तु सा मुद्रा निधिन्तत्र विनिर्दिशेद्॥ इति॥४॥

तत्रैषां हृदयादि भवन्ति।
ओं महामणि संयोगविश॥
ओं समय संयोगदृढो मे भव॥
ओं निधिज्ञानाविशाविश संयोग॥
ओं सर्वकर्म स्फोट संयोग॥

ततो महामणिकुलसर्वमुद्राज्ञानं शिक्षयेत्।
अथ महामुद्रा भवन्ति।

यथालेख्यानुसारतौ भावयंस्तु महामुद्राः।
सर्वार्थोत्तमं सि[ध्यति चन्द्रमण्डलमध्यस्थाः॥

ततो] महामुद्राणां [क्रिया भवन्ति।]
बुद्धमुद्रा तु बुद्धत्वं सुसिद्धिर्वज्रगर्भयोः।
रत्नाङ्क[श्या समाकर्षेत् मणिरामयानुरमेत्॥१॥
मण्युदग्र्या संतोषका] मणिदृष्ट्यार्थहारिका।
मणिमालाभिषेका तु मणिसूर्या सुतेजदा॥२॥
चिन्तामणिर्यथेच्छदा रत्नहासार्थहारिका।
धर्मरत्ना[प्राप्तं धर्मं त्या] गाग्री लाभमुत्तमं॥३॥
रत्नकोशा महाकोशं मणिचक्राधिपत्यतां।
भाषामार्गेण सिद्धिस्तु रत्नवृष्टिर्महाधनं॥४॥
मणिपूजा सुपूज्यत्वं रत्नवर्मा दृढंकरी।
रत्नदंष्ट्रा हरेदर्थं मणिमुष्ट्या तु सिध्यति॥५॥

अथात्र महामण्डले समयमुद्राज्ञानं भवति।
वज्ररत्नमयी मुद्रा सर्वबुद्धाभिषेकदा।
महावज्रमणिं बध्वा वज्ररत्नं तु सिध्यति॥१॥
वज्रद्विकं मणीकृत्वा धनं वज्रधराल्लभेत्।
सा एवाङ्गु ष्ठवज्रेण मणिं दद्याद् हृदि स्थितं॥२॥
कुड्मलाग्र्या मणिं बध्वा लोकेशो धनदो भवेत्।
वज्रकर्ममणिन्दद्यान् महाविश्वमणिध्वजं॥३॥
वज्रधात्वग्रमणिना बुद्धरत्नत्वमाप्नुयात्।
समाग्रग्रा पृष्ठसंकोचा वज्रमङ्गुष्ठबन्धतः॥४॥
इयं वज्रमणिः प्रोक्ता वज्रगर्भस्य पाणितः।
अनया बुद्धमात्रया महावज्रमणिं लभेत्॥५॥
रत्नवज्रां समाधाय सममध्योत्थिताङ्करां।
अनया बद्धमात्रया स्वभिषेकाप्यवाप्नुयात्॥६॥
सा एव मध्यमानामकनिष्ठा कुड्मलीकृत्वा।
अनया तु धनं दद्यादवलोकितनामधृक्॥७॥
वज्ररत्नप्रयोगेण तर्जन्यङ्गुष्ठकन्यसा।
मध्यमाभ्यां नखसन्धानान् समानामाङ्कु रोत्थिता॥८॥
वज्रबन्धं दृढीकृत्य तर्जनीभ्यां मणीकृता।
प्रसारिताङ्गुष्ठमुखा हृदि सर्वार्थसिद्धिदा॥९॥
वज्रबन्धं समाधाय मध्यमा मणियोजिता।
मुद्रेयं मणिचिन्हस्य मणिरत्नप्रदायिका॥१०॥
स एवाङ्कुशयोगेन तर्जनीभ्यां समन्धिता।
सर्वार्थकर्षणी मुद्रा मणिरत्नाङ्कुशी स्मृता॥११॥
सा एव वलि[तां कृत्वा] तर्जन्या तर्जनी ग्रहा।
वाणाकर्षणायोगेन कर्षयन् रागयेज्जगत्॥१२॥
सा एव साधुकारा तु तर्जन्यङ्गुष्ठयोजिता।
सा एवाङ्गुष्ठसन्धानसंच्छन्नाग्र्याङ्गुली तथा॥१३॥
अङ्गुष्ठान्तरयोश्चैव पुनरग्र्या मुखे क्षणात्।
मणिदृष्टिस्तु सा ख्याता दृष्ट्यर्थानां प्रहारिका॥१४॥
सर्वार्थसिद्धिमाला तु स्वभिषेकप्रदायिका।
सा एव हृदयेऽङ्गुष्ठमुखसन्धानयोजिता॥१५॥
हृदये मणिसूर्या तु महातेजःप्रदायिका।
मूर्ध्निस्था च समानाम पताकाग्रविदारिता॥१६॥
महावज्रमणि पूर्वं सर्वाशापरिपूरिका।
सा एव हाससंस्था तु लीलया परिवर्तिता॥१७॥
रत्नाट्टहासनाम्ना वै हासात् सर्वार्थकारिका।
सर्वाग्रमणिपद्मा तु धनहारी समाधिना॥१८॥
सा एवान्त्यादिदाना तु महादानप्रदायिका।
अधर्गतसमाङ्गुष्ठतर्जनी मणिसंस्थिता॥१९॥
भणिकोशा हरेदर्थान् जगतां विक्रमेण तु।
वज्रबन्धाग्रचक्रा तु समाङ्गुस्थप्रवेशिता॥२०॥
तर्जनीमणिसंस्थानाच्चक्रवर्तित्वदायिका।
सा एवाञ्जली मुखबन्धे समुद्धृता॥२१॥
स तु सन्धाय वाचा वै स्वाज्ञया हरते धनं।
महावज्रमणिं बध्वा रत्नवर्ष [प्रवर्षिता]॥२२॥
सर्वाङ्गुल्युपस्तोभा तु चतुःशो वर्षते धनं।
महावज्रमणिं बध्वा नृत्यन्नुष्णीषमध्यतः॥२३॥
संपूज्य विधिवत्सर्वै सर्वरत्नैः संपूज्यते।
[सर्वार्थसिद्धि] मुद्रां तु कण्ठदेशे परिष्वजेत्॥२४॥
मणिबन्धेति विख्याता रक्षा कवचिनी स्मृता।
सा एव सर्वसिद्धयर्था यक्षयोगा मुखस्थिता॥२५॥
मणिदंष्ट्रेति [विख्या]ता भयात्सर्वार्थहारिणी।
वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रिता॥२६॥
संगृह्याङ्गुष्ठयोः सम्यग् मणिमुष्टिस्तु सिद्धिदा।
पूजाग्रसमयानां तु वज्रधातुप्रयोगतः॥२७॥
यथावन्मणियोगेन समयाग्र्योऽत्र कल्पिताः।
मध्यमा मणियोगेन ता एव तु विकल्पिताः॥२८॥

एकाङ्कुश्यादियोगेन सर्वकर्मप्रसाधिका॥ इति॥
अथ महामणिकुलधर्ममुद्राज्ञानं भवन्ति, त्रः, ग्रः, त्रिः, ह्रीः, श्रीः, इः, रः हः, ध्रीः धीः, कृ, वा, रो, ढः, य, अः।
रत्नमुष्टिं द्विधीकृत्य कर्ममुद्रास्तु साधयेद्॥ इति॥

सर्वतथागतकर्मसमयान् महाकल्पराजात् सर्वार्थसिद्धिमहामण्डलविधिविस्तरः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project