Digital Sanskrit Buddhist Canon

अष्टादशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Aṣṭādaśamaḥ
CHAPTER 18a

KARMA-MANDALA-VIDHI-VISTARA

अथ भगवान् पुनरपि सर्वतथागतधर्मकर्मसमयसंभवाधिष्ठानपद्मं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतकर्माग्र हूं॥

अथ वज्रपाणिरिमां स्वकुलकर्मसंभवां स्वविद्योत्तमामभाषत् ओं हूं धीः॥
अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं रत्नकर्मसमये हूं॥
अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं पद्मकर्मि हूं॥
अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं विश्वकर्मि हूं॥
अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं स्वकर्ममण्डलमभाषत्।

अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं।
वज्रधातुप्रतीकाशं पद्मकर्ममिति [स्मृतं॥]१॥
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं।
बुद्धस्य सर्वतः सर्वाः पद्मचिन्हधरा लिखेद्॥ इति॥२॥

तत्रासां विद्याहृदयानि भवन्ति।
ओं पद्मभूरिणी हुं॥१॥
ओं विश्वकर्मेश्वरि हूं॥२॥
ओं तथागतेश्वर्याभिषेककर्मविद्ये हूं॥३॥
ओं धर्मकर्मेश्वरि ज्ञानपूजासमये हूं॥४॥
ओं अमोघ[कर्मेश्वरि हूं]॥५॥
ओं पद्मकर्मबुद्धे हूं॥६॥
ओं पद्मकर्मवज्रिणि हूं॥७॥
ओं पद्मकामिनि मारणपूजाकर्मसमये हूं॥८॥
ओं पद्मकर्मतुष्टि हूं॥९॥
ओं पद्म[कर्म भृ]कुटि हूं त्रः॥१०॥
ओं पद्मकर्मसूर्ये हूं॥११॥
ओं पद्मकर्मध्वजे हूं॥१२॥
ओं पद्मकर्महासे हः॥१३॥
ओं पद्मकर्मतारे हूं॥१४॥
ओं पद्मकर्मकुमारि हूं॥१५॥
ओं पद्मकर्मनारायणि हूं॥१६॥
ओं पद्मकर्मब्राह्मि हूं॥१७॥
ओं पद्मकर्मनृत्येश्वरि हूं॥१८॥
ओं पद्मरक्षकर्मसमये हूं॥१९॥
ओं महा-प्रचण्डि घातनि पद्मदंष्ट्राकर्मकरि हूं॥२०॥
ओं पद्मकर्ममुष्टि घातय हूं॥२१॥
ओं रतिपूजे हूं जः॥२२॥
ओं अभिषेकपूजे हूं होः॥२३॥
ओं गीतपूजे हूं धः॥२४॥
ओं नृत्यपूजे हूं वः॥२५॥
ओं धूपपूजे अः॥२६॥
ओं पुष्पपूजे हूं त्रः॥२७॥
ओं आलोकपूजे हूं धीः॥२८॥
ओं गन्धपूजे हूं वं॥२९॥
ओं हयग्रीवे आनय हूं जः॥३०॥
ओं अमोघपाशक्रोधे पीडय हूं फट्॥३१॥
ओं पद्मशङ्कलबन्धे हूं फट्॥३२॥
ओं पद्मघण्टावेशय हूं फट्॥३३॥

अथात्र कर्ममण्डले आकर्षणादिविधिविस्तरं कृत्वा, यथावत्प्रवेश्यैवं वदेत्। “न त्वया कुलपुत्र कस्यचिदयं वक्तव्यः मा ते नरकपतनं भवेद्” इति।

Jnana
ततो ज्ञानान्युत्पादयेदिति। ततः पापदेशनाज्ञानं शिक्षयेदिति।
लोकेश्वरमहामुद्रां भावयन् सुसमाहितः।
पापानि देशयेच्छीघ्रं सर्वपापान् समाधयेत्॥१॥
समयाग्रीन् समाधाय लोकेश्वरसमाधिना।
देशयन् सर्वपापान्यानन्तर्याणि शोधयेत्॥२॥
लोकेश्वरसमाधिन्तु भावयन् सुसमाहितः।
देशयेत् सर्वपापानि सर्वपापप्रणाशनं॥३॥
बध्वा चैकतमां सम्यक् कर्ममुद्रां समासतः।
देशयेत्सर्वपापानि सर्वकर्मविशोधनम्॥ इति॥४॥

अथैषां हृदयानि भवन्ति।
ओ सर्वपापसंशोधन महापद्म॥
ओ सवानन्तर्यशोधन समयपद्म॥
ओ सर्वपापप्रणाशन धर्मपद्म॥
ओ सर्वकर्मावरणविशोधक कर्मपद्म॥

ततः सर्वावरणपरिक्षयज्ञानं शिक्षयेत्।
लोकेश्वरमहामुद्रां भावयेत् सुसमाहितः।
शुध्य शुध्य इति प्रोच्य सर्वकर्माणि शोधयेत्॥१॥
बध्वा वै कर्मसमयां लोकेश्वरसमाधिना।
बुध्य बुध्य प्रवर्तस्तु सर्वकर्माणि शोधयेत्॥२॥
लोकेश्वरसमापत्त्या धर्ममुद्रां तु भावयेत्।
धी धी धी धी-ति प्रोच्यन् वै सर्वकर्माणि शोधयेत्॥३॥
बध्वा वै कर्ममुद्रां तु लोकेश्वरसमाधिना।
ही ही ही ही-ति सन्धाय सर्वकर्माणि शोधयेद्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं पाप क्षपय पद्म॥
ओं आवरण क्षपय पद्म॥
ओं नीवरण क्षपय पद्म॥
ओं कर्म क्षपय पद्म॥

ततः सर्वतथागतपूजाज्ञानं शिक्षयेत्।
लोकेश्वरमहामुद्रां बध्वा तु सुसमाहितः।
ओं ओं ओं ओमिति ब्रुयात्सर्वपूजाप्रवर्तनन्॥१॥
बध्वा वै समयाग्रन्तु लोकेश्वरसमाधिना।
भूर्भूर्भूर्भूरिति प्रोक्तो सर्वबुद्धान् स पूजयेत्॥२॥
लोकेश्वरसमापत्त्या धर्मपद्मं तु भावयेत्।
हे हे हे हे-ति सन्धाय सर्वबुद्धान् स पूजयेत्॥३॥
पद्मकर्ममयीम्मुद्रां बध्वा गाढं समाहितः।
धे धे धे धे-ति प्रोच्यन् सर्वबुद्धान् स पूजयेद्॥ इति॥४॥

तत्रासां हृदयानि भवन्ति।
ओं ओंकार महापद्म॥
ओं भूक्कार समयपद्म॥
ओं हेक्कार धर्मपद्म॥
ओं धेक्कार कर्मपद्म॥

ततः सिद्धिज्ञानं शिक्षयेत्।
लोकेश्वरमहामुद्रां बध्वा तु सुसमा[हितः।
ह्री ह्री ह्री ह्री-]ति वर्तेत सिद्धिन् लोकेश्वरी भवेत्॥१॥
बध्वा वै समयाग्रीन्तु लोकेश्वरसमाधिना।
श्री श्री श्री श्री-ति सन्धाय प्राप्नुयात्सिद्धिमुत्तमां॥२॥
लोकेश्वरसमापत्तिं भावयन् सुसमाहितः।
धिक् धिक् धिक् धिगिति प्रोक्ते पद्मक्रोधस्तु सिध्यति॥३॥
कर्ममुद्रां समाधाय महापद्ममयीं [शुभां।
सिः] सिः सिः सी-ति सन्धाय पद्मसिद्धिमवाप्नुते-॥ति॥

अथासां हृदयानि भवन्ति।
ओं ह्रिः सिध्य॥
ओं श्रीः सिध्य॥
ओं धिक् सिध्य॥
ओं [सिः सिध्य॥]

Mudra
ततः कर्मरहस्यमुद्राज्ञानं भवति।
लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः।
अहो सुख इति प्रोक्ते सर्वबुद्धान् स पूजयेत्॥१॥
लोकेश्वरसमापत्त्या रमयन्सर्वयोषितः।
प्रिये प्रिये-ति वै प्रोके बुद्धानां भवति प्रियः॥२॥
लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः।
[अहो रति-ति वै प्रोक्ते नित्यं रतिं स प्राप्नुते॥३॥
लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः।
सुख सुख इति प्रोक्ते तस्य सुखं न नश्यत॥ इति॥४॥

अथासां] हृदयानि भवन्ति।
ओं सर्वबुद्धपूजाप्रवर्तन पद्म॥
ओं प्रीतिकर पद्म होः॥
ओं रतिप्रवर्तन पद्म॥
ओं महासुख पद्म दृढ हन्॥

[ततः कर्ममहामुद्रां] यथावच्छिक्षयेत्। ततः सुकुड्मलाञ्जलिं समयमुद्रां वज्रकार्यं मण्डलयोगेन सर्वस्थानेषु स्थापयेत्।

ततः पद्मकुल[कर्ममुद्रा त्र इति] वक्तव्याः।
कर्मसमयां द्विधीकृत्य कर्ममुद्राः स साधयेदिति॥

सर्वतथागतधर्मसमयान् महाकल्पराजात् कर्ममण्डल[विधिविस्तरः समाप्तः]॥

EPILOGUE OF THE SARVA-TATHAGATA-DHARMA-SAMAYA NAMA
MAHA-KALPA-RAJA

अथ भगवान् पुनरपि वज्रधर्मसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां स्वमुद्राहृदय[मभाषत् ओं वज्र]धर्मपद्म हूं॥

अथवज्रपाणिरियं स्वमुद्राहृदयमभाषत् अथ वज्र जीः॥
अथ वज्रगर्भो बोधिसत्व इमां स्व[मुद्रामभाषत् ओं वज्ररत्न]मुकुटे हूं॥
अथ वज्रनेत्रो बोधिसत्व इमां स्वमुद्रामभाषत् ओं धर्मपद्मि धीः॥
अथ वज्रविश्वो बोधि[सत्व इमां स्वमुद्रामभाषत् ओं सर्व]मुखि हूं॥

Delineation of the mandala
अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं चतुर्मुद्रामण्डलमभाषत्।
[अथातः संप्रवक्ष्यामि] चतुर्मुद्राग्रमण्डलं।
वज्रधातुप्रतीकाशं महामण्डलसन्निभं॥१॥
मुद्रामण्डलमध्ये तु बुद्धबिम्बं निवेशयेत्।
तस्य पार्श्वेषु सर्वेषु [वज्रपद्मादिं वै लिखे]त्॥२॥

Initiation into the mandala
अथात्र महामण्डले आकर्षणादिविधिविस्तरङ्कृत्वा, यथावत् प्रवेश्यैवं ब्रूयात् “न त्वयेदं कस्यचिद् वक्तव्यं; मा ते महादुःखं [भवेद्, अकाल]मरणं विषमक्रियये” ति।

jnana
ततो ज्ञानान्युत्पादयेत्।
पद्मं हस्तेन वै गृह्य समाजिघ्रन् प्रयत्नतः।
तेन गन्धेन संयोज्य बुद्धानां तु प्रसिध्य[ति]॥१॥
बुद्धबिम्बं जटामध्ये प्रतिष्ठाप्य समाहितः।
सर्वलोकं वशंकुर्याद् दर्शयन् गर्वया व्रजन्॥२॥
पद्मपद्ममहाबिम्बं कारयित्वा समाधिना।
उपविश्य यथापायं मनसा स तु मारयेत्॥३॥
चतुर्मुखं तु वै पद्मं कारयित्वा करेण तु।
संगृह्यावेशनादिनि भ्रामयन् प्रकरोति सः॥४॥

अथैषां हृदयानि भवन्ति।
ओं गन्धपूजाग्र्य साधय ह्रीः॥
ओं पद्ममुकुट तथागत वशीकुरु सर्वान् लोकेश्वराभिषेक समय होः॥
ओं पद्मपद्म मारय सर्वप्रत्यर्थिकान् समाधिज्ञान धिक्॥
ओं विश्वपद्म सर्वकर्मकरो भव ललि लुलि लेलि हूं फट्॥

Mudra
ततो मुद्रारहस्यज्ञानं शिक्षयेत्।
रक्तः सं सर्वकार्याणि साधयेत्समयो ह्ययं।
दुःसाध्यापि हि मुद्रा वै क्षणात् सिध्यति योगत॥ इति॥

तत्रास्य समयो भवति ओं साधय पद्मराग समय अः॥
ततो महामुद्रादिसर्वमुद्राबन्धं शिक्षयेत्॥

चतुर्मुद्रामण्डलविधिविस्तरः समाप्तः॥

III.6 Ekamudra-mandala
अथार्यावलोकितेश्वरो महाबोधिसत्व इदं सर्वजगद्विनयंनाम हृदयमभाषत्। ओं सर्वजगद्विनय महासत्वागच्छ शीघ्रं वैश्वरूप्यं दर्शय मम च सर्वसिद्धयः प्रयच्छ ह्रीः॥

Delineation of the mandala
अथार्यावलोकितेश्वरो महाबोधिसत्व इदं सर्वजगद्विनयं नाम मण्डलमभाषत्।
अथातः संप्रवक्ष्यामि जगद्विनयमण्डलं।
महामण्डलयोगेन संलिखेद् बाह्यमण्डलं॥१॥
तस्याभ्यन्तरतः पद्मं तथैव च समालिखेत्।
तत्र सरोजा विस्फारि विश्वरूपं समालिखेद्॥ इति॥२॥

Initiation into the mandala
अथात्र महामण्डले यथावद् विधिविस्तरेण प्रवेश्य, तथैवोक्त्वा, सर्वजगद्विनयज्ञानं शिक्षयेत्।

Mudra
मण्डलं तु समालिख्य जगद्विनयसंज्ञितं।
भावयंस्तु महामुद्रां भवेद् विश्वधरोपम॥ इति॥

ततो जगद्विनयरहस्यमुद्राज्ञानं शिक्षयेत्।
विश्वरूपसमाधिन्तु भावयन् सुसमाहितः।
द्वयेन्द्रियसमापत्त्या मण्डले तु स सिध्यति॥

ततो महामुद्रादिमुद्राबन्धं शिक्षयेत्। तथैव सिद्धयः, एवं पटादिष्विति॥
मुद्रायामप्येकमुद्रामण्डलयोगेन तथैव सिद्धय इति॥

अथ सर्वतथागताः पुनः समाजमागम्यावलोकितेश्वराय महाबोधिसत्वाय साधुकाराण्यददन्।
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते।
वज्रधर्माय ते साधु साधु ते वज्र[कर्मणे॥]१॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं।
सर्वतथागतं गुह्यं महायानभिसंग्रहम्॥ इति॥

सर्वतथागत-तत्त्वसंग्रहात् सर्वतथागत-धर्मसमयो नाम महाकल्पराजा परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project