Digital Sanskrit Buddhist Canon

सप्तदशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saptadaśamaḥ
CHAPTER 17

JNANA-MANDALA-VIDHI-VISTARA

अथ भगवान् पुनरपि सर्वतथागतधर्मसमयज्ञानसमयसंभवाधिष्ठानन् पद्मन्नाम समाधिं समापद्ममां स्वविद्योत्तमामभाषत् ओं धर्मसमाधिज्ञानतथागत हूं॥

अथ वज्रपाणिर्महाबोधिसत्व इमं स्वकुलधर्मसंभवं स्वविद्योत्तममभाषत् ओं वज्रधर्म हूं॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं रत्नधर्म हूं।
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं धर्मधर्म हूं॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं कर्मधर्म हूं॥

Delineation of the mandala
अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं स्वधर्ममण्डलमभाषत्।
अथातः संप्रवक्ष्यामि ज्ञानमण्डलमुत्तमं।
वज्रधातुप्रतीकाशं धर्मज्ञानमिति स्मृतं॥१॥
महामण्डलयोगेन सुत्रयेत् सर्वमण्डलं।
तस्य मध्ये समालेख्यं ज्ञानवज्रतथागतं॥२॥
तस्य पार्श्वेषु सर्वेषु महासत्वा यथाविधि।
विश्वेश्वरादयो लेख्याः समापन्नाः समाहिता॥३॥ इति॥

तत्रैषां हृदयानि भवन्ति।
ओं ज्ञानबुद्ध हूं॥१॥
ओं ज्ञानविश्वेश्वर हूं॥२॥
ओं ज्ञानबुद्धमुकुट हूं॥३॥
ओं ज्ञानधर्मेश्वर हूं॥४॥
ओं ज्ञानामोघेश्वर हूं॥५॥
ओं ज्ञानपद्मबुद्ध हूं॥६॥
ओं ज्ञानपद्मराजधर हूं॥७॥
ओं ज्ञानपद्ममार हूं॥८॥
ओं ज्ञानपद्मतुष्टि हूं॥९॥
ओं ज्ञानपद्मभृकुटि हूं॥१०॥
ओं ज्ञानपद्मसूर्य हूं॥११॥
ओं ज्ञानपद्मचन्द्र हूं॥१२॥
ओं ज्ञानपद्महास हूं॥१३॥
ओं ज्ञानपद्मतार हूं॥१४॥
ओं ज्ञानपद्मकुमार हूं॥१५॥
ओं ज्ञानपद्मनारायण हूं॥१६॥
ओं ज्ञानपद्मभाष हूं॥१७॥
ओं ज्ञानपद्मनृत्येश्वर हूं॥१८॥
ओं ज्ञानपद्मरक्ष हूं॥१९॥
ओं ज्ञानपद्मयक्ष हूं॥२०॥
ओं ज्ञानपद्ममुष्टि हूं॥२१॥
ओं ज्ञानपद्मलास्ये हूं॥२२॥
ओं ज्ञानपद्ममाले हूं॥२३॥
ओं ज्ञानपद्मगीते हूं॥२४॥
ओं ज्ञानपद्मनृत्ये हूं॥२५॥
ओं पद्मज्ञानधूपे हूं॥२६॥
ओं पद्मज्ञानपुष्पे हूं॥२७॥
ओं पद्मज्ञानदीपे हूं॥२८॥
ओं पद्मज्ञानगन्धे हूं॥२९॥
ओं पद्मज्ञानाङ्कुश हूं॥३०॥
ओं पद्मज्ञानामोघपाश हूं॥३१॥
ओं पद्मज्ञानस्फोट हूं॥३२॥
ओं पद्मज्ञानावेश हूं॥३३॥

Initiation into the mandala
अथात्र पद्मधर्ममण्डले आकर्षणादिविधिविस्तरंकृत्वा, यथावत् प्रवेश्यैवं वदेत् “न त्वयान्यस्य वक्तव्यं; मा ते नरकं पतनं भवेत्, दुःखानि वे-” ति।

jnana
ततोऽस्य ज्ञानान्युत्पादयेत्।
लोकेश्वरसमापत्त्या हृदि पद्मं तु भावयेत्।
प्राप्तपद्मसमाधिस्तु शीघ्रमुत्पतति क्षणात्॥१॥
लोकेश्वरसमापत्त्या ललाटे पद्मभावनात्।
अभ्यसन् सुदृढीभूतः खेगामी भवते क्षणात्॥२॥
जिव्हायां भावयन् पद्मं लोकेश्वरसमाधिना।
संसिद्धो भवते शीघ्रमाकाशेन स गच्छति॥३॥
भावयेत्पद्ममुष्णीषे लोकेश्वरसमाधिना।
संसिद्धो भवते शीघ्रमूर्ध्वमुत्पतति क्षणात्॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं पद्मज्ञानहृदयाविश॥
ओं पद्मज्ञानाभिषेकाविश॥
ओं पद्मज्ञानविद्योत्तमाविश॥
ओं पद्मज्ञानोष्णीषाविश॥

आकाशे वान्यदेशे व पद्मबिम्बं तु भावयेत्।
अनेन विधिना सिद्धो अदृश्यो भवति क्षणात्॥१॥
आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत्।
तत्रारूढः स्वमात्मानं भावयन्नदृश्यो भवेत्॥२॥
आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत्।
यदा पश्येत्तदा गृह्णाच्छीघ्रम् [अदृश्यो भवति॥]३॥
आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत्।
दृष्ट्वा तु भुक्ष्वा तत्पद्ममदृश्यो भवति क्षणाद्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं पद्माकाश॥
ओं पद्मरथ॥
ओं पद्मज्ञान गृह्ण॥
ओं पद्मरसायन॥

विचित्रवर्णसंस्थानं पद्मबिम्बं तु पाणिना।
गृह्य बध्वा महामुद्रां सर्वरूपधरो भवेत्॥१॥
विचित्रवर्णसंस्थानं पद्मबिम्बं तु लेखयेत्।
तत्र भावयमानस्तु बहुरूपधरो भवेत्॥२॥
विचित्रवर्णसंस्थानं पद्मबिम्बं [तु भा]वयेत्।
आकाशे वान्यदेशे वा च्छब्दरूपी भविष्यति॥३॥
विचित्रवर्णसंस्थानं पद्मबिम्बं घटापयेत्।
तत्रारूढस्तु खेगामी कामरूपी भवेद्ध्रुवम्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं पद्मधर विश्वरूपप्रवर्तकाविश॥
ओं विश्वपद्म प्रवर्तय मां॥
ओं समाधिविश्वपद्माविश॥
ओं विश्वपद्मासनोत्क्षिपाकाशं विश्वरूपमधितिष्ठ मां॥

बध्वा चैकवरां सम्यक् महामुद्रां समाधितः।
पद्मं गुह्य प्रदातव्यं वशी[करोऽवश्यं भवेत्]॥१॥
बध्वा चैकवरां सम्यग्[मुद्रां] समयसंज्ञितां॥
तया गृह्य तु वै पद्मं दद्याद् वश्यकरो भवेत्॥२॥
बध्वा चकतमां मुद्रां समाधिविहितां शुभां।
ज्ञानपद्मं ददेद्यस्य सोऽस्य शीघं वशीभवेत्॥३॥
बध्वा चैकतमां मुद्रां कर्माख्यां समयान्वितः।
यस्य दद्यात् [स सुवशीः] पद्मदानात्क्षणाद् भवेद्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति॥
ओं महापद्म होः॥
ओं समयपद्म होः॥
ओं ज्ञानपद्म होः॥
ओं कर्मपद्म होः॥

Mudra
ततो ज्ञानमण्डलमहामुद्राज्ञानं शिक्षयेत्।
धर्ममण्डलयोगेन महामुद्रास्तु साधयेत्।
अतः परं संप्रवक्ष्यामि समयाग्र्यः प्रसाधयेत्॥
धर्ममण्डलयोगेन पद्मपद्मं तु संस्थपेत्।
धर्ममुष्टि द्विधीकृत्य कर्ममुद्रा द्विधीकृता॥ इति॥

सर्वतथागतधर्मसमयान्महाकल्पराजाज्ज्ञानमण्डलविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project